०१

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १ ॥

शशिधरं महादेवं सर्वलोकैकनायकम् ।
महेन्द्र मध्यगं शान्तं पार्वती सहितं परम् ॥ २ ॥

देवदानवसिद्धाद्यैः सेवितं सुरपूजितम् ।
प्रणम्य चरणौ देव सङ्घैस्सह तु काश्यपः ॥ ३ ॥

शुचे परमसद्भाव प्रशान्तं सृष्टिकारणम् ।
जगतामभिवृद्ध्यर्थं योगिनामुपकारकम् ॥ ४ ॥

देवानां च हितार्थाय शिवज्ञानसमुद्भवम् ।
महार्थमल्पग्रन्थं च कर्षणादिज्ञानसीमकम् ॥ ५ ॥

अंशुमानिति तन्त्रं च त्वयोक्तं हि पुरातनम् ।
तन्त्रं तव च देवानां यन्त्राणामधिकारिणाम् ॥ ६ ॥

अल्पायुष्यादि धर्माणां नराणां चाधिकारिणाम् ।
अनुग्रहान्तं तत्तेषां सङ्क्षेपाद्वद मे प्रभो ॥ ७ ॥

साधु साधु महाविप्र ! यत्त्वया परिचोदितम् ।
दुर्लभं तदहं वक्ष्ये शृणुष्वैकाग्रमानसः ॥ ८ ॥

पुष्यमासादि षण्मासा माघमासेतराः शुभाः ।
दक्षिणे चाश्वयुङ्मासं श्रावणी कृत्तिका तथा ॥ ९ ॥

पूजिता दक्षिणादीनां शेषा मासा विवर्जिताः ।
पौष्णादित्यमघास्वाती सावित्री त्वष्ट्ट मैत्रकः ॥ १० ॥

श्रवणार्द्रा प्रजेशस्तिष्याश्वयुक् च त्रयोत्तराः ।
दिनेषु पूजितास्त्वेताः प्रतिपत्षष्ठि सप्तमी ॥ ११ ॥

तृतीया पञ्चमी चैव द्वितीया च त्रयोदशी ।
दशमी तिथयः शस्ताः शुक्लपक्षे विशेषतः ॥ १२ ॥

प्रतिपत्पौर्णमासी च द्वितीया पञ्चमी तथा ।
तृतीया मध्यमा ख्याता कृष्णपक्षे द्विजोत्तम ! ॥ १३ ॥

षष्ठी च दशमी कृष्णे कनिष्ठा चैव गर्हिताः ।
सितसौम्यशशी जीववाराः श्रेष्ठतमाः शुभाः ॥ १४ ॥

तेषामंशोदयं होराद्रेक्काणाश्चैव दर्शिताः ।
शुभमेवेति विज्ञेयाः तत्र शश्युदयं विना ॥ १५ ॥

कटकं तौल्यमकरं मेषं च धनुषं विना ।
मेषराश्युदयं शस्तं सर्वसम्पत्समृद्धिदम् ॥ १६ ॥

उच्चस्थानगतश्चन्द्रः सौख्यो मित्रगतस्तथा ।
शत्रुक्षेत्रगतश्चन्द्रो नीचस्थोऽपि धनक्षयम् ॥ १७ ॥

भौमादित्येन्दु राहुश्च सौरी वा लग्नसंस्थिते ।
आयुष्यं धनधान्यं च कर्तृनाशं न संशयः ॥ १८ ॥

धनस्थान गताः क्रूरा धनधान्यविनाशनाः ।
तथैव चन्द्रसंयुक्तं धनधान्यविवर्धनम् ॥ १९ ॥

भ्रातृस्थानगतास्सर्वे सर्वसम्पत् समृद्धिदाः ।
बन्धुस्थानगताः पापाः सर्वदुःख भयावहाः ॥ २० ॥

पुत्रस्थानगताः क्रूराः मृत्युपीडा भविष्यति ।
शत्रुस्थान गताः सर्वे सर्वदुःख भयावहाः ॥ २१ ॥

भार्यास्थानगता जीवचन्द्र भार्गाश्च वै तथा ।
आयुष्यं धनधान्यं च सर्वसिद्धिप्रदाः सदा ॥ २२ ॥

निधनं सङ्गतास्सर्वे कर्तुर्निधनमादिशेत् ।
शुभग्रहो नवस्थाने सर्वसौख्यधनावहः ॥ २३ ॥

कर्मस्थान गताः क्रूराः सर्वेवित्तायुषक्षयाः ।
शुभग्रहाश्च कर्मस्थाः सर्ववित्तायुष प्रदाः ॥ २४ ॥

अशुभाश्च शुभाश्चैव वलस्थानगताः शुभाः ।
द्वादशस्थो बुधो जीवो वित्तवृद्धिं समावहेत् ॥ २५ ॥

नक्षत्रान्ते च मासान्ते पक्षान्ते वेधितर्क्षके ।
व्यतीपाते परिघशूले वै घृते कालकण्ठके ॥ २६ ॥

कण्टके च तथा स्थूलं परिवेषे च दुर्दिने ।
उल्कापाते च भृगुजे वृद्ध्या च विषनाडिके ॥ २७ ॥

षडशीतिमुखे चैव मासशून्ये तथैव च ।
कर्षणादि प्रतिष्ठान्तं सर्वकर्म विवर्जयेत् ॥ २८ ॥

मर्त्यानामायुषच्छेदं कृष्णपक्षे तु चन्द्रवत् ।
तस्माद्युक्तेन शीघ्रं च कर्तव्यो धर्मसङ्ग्रहः ॥ २९ ॥

अल्पदोषगुणाधिक्यं दिनं वृद्धिं च सङ्ग्रहेत् ।
अनेककोटि दोषाढ्यं दिनं लग्नं च मेव च ॥ ३० ॥

दोषहीनतमं याति जीवदृष्ट्या द्विजोत्तम ।
अनेककोटिदोषस्तु जीवैकेन विनाशनम् ॥ ३१ ॥

तमसा परिवृतौ रात्रौ ख्येकेन विनश्यति ।
तथैव जीवदृष्ट्या तु सर्वदोषसमुद्गमाः ॥ ३२ ॥

एवं परीक्ष्य बहुधा कर्षणादि समाचरेत् ।
पत्रैव सदनं कुर्यात् तद्देशं कर्षणं कुरु ॥ ३३ ॥

अष्टदिक्षु च कर्तव्यं ग्रामादिषु शिवालयम् ।
पैशाचिक पदे कुर्यात् आलयं तु पराङ्मुखम् ॥ ३४ ॥

परिखास्तु त्रिदण्डादि यावत्त्रिंशत्तदान्तकम् ।
तावदेवेष्टदिग्भागे कर्तव्यं शिवमन्दिरम् ॥ ३५ ॥

परिखाभ्यन्तरे वापि पैशाचिक पदे कुरु ।
मानुषे तु पदे वाथ कर्तव्यं शिवमन्दिरम् ॥ ३६ ॥

विप्रक्षत्रियविट्छूद्राः अनुलोमास्तथैव च ।
समनिर्माणकर्तारः सर्वप्राणि हिताय वै ॥ ३७ ॥

हस्तमात्रं तु तद्घातं कृत्वातद्भूमि मध्यमे ।
पूरिते तन्मृदं धीमान् अधिके चोत्तमान्मही ॥ ३८ ॥

समता मध्यमाख्याता हीना सा कन्यसा स्मृता ।
गृहीता चोत्तमा मध्या गृहीता कन्यसा मही ॥ ३९ ॥

श्वेता रक्ता तथा पीता कृष्णा विप्रादयः क्रमात् ।
चतुर्विधा महीख्याता तत्तज्जात्यार्हता शुभा ॥ ४० ॥

परेषामपराः शस्ताः स्वपरेषां परं विना ।
तत्तद्योग्यमहीग्राह्या मर्त्यानामालयं कुरु ॥ ४१ ॥

सर्वा महीप्रशस्ता च देवानां तु विशेषतः ।
भूतप्रेतपिशाचेभ्यो दद्याद्दध्योदनं बलिम् ॥ ४२ ॥

अस्त्रेणोच्चाटयेदेतान् पश्चात्कर्षणमाचरेत् ।
श्वेतौ रक्तौ च कपिलौ कृष्णौ जात्यर्हकौ क्रमात् ॥ ४३ ॥

यौवने कर्षणे पूर्वौ नागहीनौ बलान्वितौ ।
हेमशृङ्गखुरोपेतौ वर्णान्तर न संस्पृशौ ॥ ४४ ॥

सम्पूज्य वृषगायत्र्या गन्धपुष्पादिभिर्बुधः ।
पूर्वं निवेदनं कृत्वा प्राङ्मुखौ संस्थितौ वृषौ ॥ ४५ ॥

याज्ञिकैस्सारवृक्षैर्वा लक्षणेन युगं हलम् ।
सीरायामं त्रिहस्तं स्यात् नाहं सप्ताङ्गुलं भवेत् ॥ ४६ ॥

वृत्ताकारमशेषं तु मूलं वेदांशमश्रकम् ।
मेखलोच्चं त्रितालं स्यात् त्रिमात्रं तद्घनं भवेत् ॥ ४७ ॥

मूलं षण्मात्र विस्तारं घनं वेदाङ्गुलं भवेत् ।
मूलादग्रं क्रमात्क्षीणं किञ्चित्क्षीणं तु मध्यमम् ॥ ४८ ॥

मेखलायास्तु मूले तु विर्यवेशं नवाङ्गुलम् ।
वेशांशे द्व्यङ्गुलं व्यासं घनमर्धार्ध मात्रकम् ॥ ४९ ॥

चतुर्विंशाङ्गुलायामं घ्राणदीर्घं तु काश्यप ।
सीरोर्ध्वे घ्राण तुङ्गं तु पञ्चाङ्गुलमुदाहृतम् ॥ ५० ॥

घ्राणकुक्ष्युन्मुखं कुर्यात् मनुमात्रं तदायतम् ।
शेषं चित्रमिति ख्यातं सीरमेखलसन्धितौ ॥ ५१ ॥

षण्मात्रं घ्राणविस्तारं घनं वेदाङ्गुलं भवेत् ।
अग्रं सूचिनिभाकारम् अनुपूर्वात्कृशं भवेत् ॥ ५२ ॥

त्रिपञ्च मात्रमित्युक्तं सीरघ्राणाग्रकान्तकम् ।
अयसा हलजिह्वा तु घ्राणाग्रे योजयेद्बुधः ॥ ५३ ॥

सीरायामसमं नाहं युगं चिद्रं युगाश्रकम् ।
कनिष्ठाङ्गुली परीणाहं गोचर्मद्विकरायतम् ॥ ५४ ॥

हृदयं मन्त्रमुच्चार्य बध्वा युगाश्रयौ वृषौ ।
युगमध्ये हलं बध्वा किञ्चिद्दक्षिणमाश्रितम् ॥ ५५ ॥

कर्षयेन्मतिमान्विप्रः तृणादीनि व्यपोह्य च ।
तिलसर्षपमुद्गानि नेत्रमन्त्रेण वापयेत् ॥ ५६ ॥

आचार्यं पूजयेत्तस्मै दद्याद्युगहलौ वृषौ ।
त्रिरात्रां कुरिते श्रेष्ठं वेदयत्रौ तु मध्यमम् ॥ ५७ ॥

अधमं भूतरात्रं स्यात् अधमं परिवर्जयेत् ।
आपुष्पात्फलगं रक्ष्य गोगणानां निवेदयेत् ॥ ५८ ॥

एकरात्रं द्विरात्रं वा गावस्तत्रैव वासयेत् ।
गोवक्त्रगतकेनैश्च गोमयेः प्रस्तवैरपि ॥ ५९ ॥

स्थपतिं पूजयेत्पश्चात् वस्त्राद्यैश्च यथा मति ।
प्रशस्तं भूतलं पश्चात् मध्ये समतलं गुरुः ॥ ६० ॥

गोमयालेपनं कृत्वा दिक्परिच्छेदनं कुरु ।
शङ्कुं कलाङ्गुलायामं नाहं तत्सममुच्यते ॥ ६१ ॥

मूलताराष्टभागैकं हीनमग्रविशालकम् ।
मूलाग्रं मुकुलाकारं मूलाग्रं क्रमशात्कृशम् ॥ ६२ ॥

सुवृत्तमार्जवं कुर्यात् सारवृक्षं तु शोषितम् ।
शङ्कु द्विगुणमानेन तन्मध्ये मण्डलं लिखेत् ॥ ६३ ॥

तन्मध्ये स्थापयेच्छङ्कुं चतुर्दिक्षु समं तथा ।
पूर्वापराह्नयोः छायादिति तन्मण्डलान्तगौ ॥ ६४ ॥

छायाग्रमध्ये संलक्ष्य तथैव तु पराह्नके ।
तद्बिन्दुद्वयगं सूत्रं पूर्वापरदिगिष्यते ॥ ६५ ॥

तयो मध्यन्तरं भ्राम्यश्च पराननं पृश्चिवत् ।
दक्षिणोत्तरगं सूत्रं तन्मध्ये तु प्रसारयेत् ॥ ६६ ॥

ये मर्त्या मध्यमार्धी तु अवच्छायाङ्गुलं व्रजेत् ।
मण्डलं कुब्जतालेन कन्यसं तु विभाजिते ॥ ६७ ॥

भानुर्वानेष्टविंशांशं सप्तं विंशांशयोत्तरे ।
गतेत्वार्जवमित्युक्तं कन्यायाश्च तथैव हि ॥ ६८ ॥

मीनेऽष्टविंशदंशादिभाग मध्यस्थ मात्रकम् ।
वर्धयेन्मिथुने सप्तविंशदंशावसानकम् ॥ ६९ ॥

ततोर्धमात्रं क्षीणं स्यात् भागं प्रति विशेषतः ।
कन्यायां चाष्टविंशांशात् अर्धमात्र विवर्धनात् ॥ ७० ॥

चापेऽष्टविंशदंशान्तं तथा ह्रस्वं तथैव हि ।
छायावृद्धिक्षयं ह्येवं कीर्तिता शङ्कुमध्यमात् ॥ ७१ ॥

छायामानं व्रजेन्मध्ये ब्रह्मसूत्रं प्रसारयेत् ।
पूर्वापराह्वयोर्मध्ये छायामानं च वर्जयेत् ॥ ७२ ॥

प्रागादि परितस्सूत्रम् इष्टमानेन विन्यसेत् ।
पुण्याहं वाचयेपश्चात्खात्वा प्रासादमानकः ॥ ७३ ॥

यावत्प्रासादविस्तारम् एकाशीतिपदं गुरुः ।
तत्पदे वास्तु देवांश्च पूजयित्वा तु नामतः ॥ ७४ ॥

दध्याज्यगुलसम्मिश्रम् ओदनं च बलिं ददेत् ।
प्रणवादीन्नाममध्ये स्वाहान्तं बलिमाचरेत् ॥ ७५ ॥

वास्तुहोमं ततः कृत्वा मध्ये वा चोत्तरेऽपि वा ।
वास्तुहोमं विनायत्र कृतं वास्तु विनश्यति ॥ ७६ ॥

पर्यग्निकरणं कृत्वा प्रोक्षयेत्पञ्चगव्यकैः ।
स्थपतिः कृत्ययोग्यः स्यात् स्थापको मन्त्रयोग्यकः ॥ ७७ ॥

कर्षणं ह्येवमाख्यातं शृणु प्रासादवास्तुकम् ।

इत्यंशुमत्काश्यपे कर्षणविधिपटलः (प्रथमः) ॥ १ ॥