प्। २)
हरिः ॐ
कालोद्धरः पदत्वाज्यलक्षणम्
कटादूर्ध्वे वेषकादे यागमुपकण्ठवर्तिनः ।
द्वारोपद्वाररचितः मण्डलं विघ्नसूदनः ॥ १ ॥
आरक्तः कमलमूर्ध्वे बाह्यपद्मानि तद्बहिः ।
सितानुविथी * * * * * * * * * * * ॥ २ ॥
प्रत्येकं कवचेत्पुरा नाम्नः प्रयोगे प्रथनयिषु-
विमध्यमं ततः । अस्माद्युम्मिस्रवस्थापटमातु- ॥ ३ ।
मरतौ निरूपयेत् । पश्चात्वम प्रादिपादिकमत्रिकं स्फुटमटविशेत् ।
वर्तमानादि कार्येषु प्रयोगं- ॥ ४ ॥
चात्र निर्द्दिशेत् । आत्मनेपदनिर्द्देशः पर-
स्मादुभयात्मकः । विभक्तयस्तथा सप्त- ॥ ५ ॥
प्रत्येकं च तिधामता । मृगद्विबहुसङ्ख्येन-
प्रयोक्तव्या क्रमेण तु । लिङ्गार्थमात्रे प्रथमा- ॥ ६ ॥
तथा चा मन्त्रशोधिता । शेषाः कर्माणि करणे
समप्रदाने प्रकल्पयेत् । अपादानेन समबन्धे- ॥ ७ ॥
तथा निर्धारणे हिता । विषये सपतमी योज्या-
ज्ञात्वा चार्त्विज्य सङ्गतिः । अपेतः कारणा- ॥ ८ ॥
नाम प्रयोगो दृश्यते तदा । स्योद्धार देश-
स्तु कर्तव्यो विभक्तीनां गुरुत्तमैः । षष्ट्यर्थे- ॥ ९ ॥
सप्तमी योज्या सप्तम्यर्थे तु सा पुनः ।
अनेन क्रमयोगेन व्यभिचारः समाचरेत् ॥ १० ॥
अर्थानुसारतो योज्या कारकाः सप्तकर्मभिः ।
एतेनानुमते नैव तथाप्याहारतः सदा ॥ ११ ॥
व्याख्या कार्या प्रयत्नेन पदे वाक्ये पुरा हिता-
नामां समा कर्तव्यो युक्तात्व नरान्यथा ॥ १२ ॥
उपसर्गे हधीर्नास्ति सर्वं वाक्यमेव वा ।
तुल्याधिकरणे कार्या पदाभ्यां क्रतु धारणः ॥ १३ ॥
सङ्ख्या पूर्वोद्विगुज्ञेयः तथा तत्पुरुगौरवात् ।
ध्रुवं तावत्प्रकर्तव्यः पदेवालिख्य यत्नतः ॥ १४ ॥
यावच्छिष्ये नलिनिखिल्य सम्यगर्धोपधारितः ।
न त्वमेवं विचारोक्त्या यथोक्तं शासने मया ॥ १५ ॥
प्। ३)
तथैव कार्षी संस्पर्शन् गच्छेद्वेलोपादेये नामनी ।
विरुद्धवाक्यं सन्दिग्धे मद्रुक्तं विषमं समः ॥ १६ ॥
शास्त्रयुक्त्या प्रकर्तव्यं न स्वाभिप्रयतो दिशेत् ।
शिष्याणां गुरुकविरोधोक्त्या विवृणोति यदा गुरुः ॥ १७ ॥
तथा प्रस्थान दोषोऽस्ति सूत्रे क्लिष्टे तु ते गुरो ।
स्वसिद्धान्त समाम्नायाद्गुरोरर्थ निदर्शनात् ॥ १८ ॥
विरुद्धमन्यथा नीय संयोषण्मुख तत्वतः ।
प्राकृताद्वस्त्व नश्चान्यद्वस्तु यत्र विचार्यते ॥ १९ ॥
असम का तदूर्ध्वे वेदिका देया यागोपकण्ठवर्तितः ।
द्वारोपद्वाररचितः मण्डलं विघ्नसूदनः ॥ २० ॥
आरक्तः कमलं मध्ये बाह्यपद्मानि तद्वहिः ।
सितानु वीथिका कार्या द्वारकाणि यथेच्छया ॥ २१ ॥
कर्णकार्पित पर्णा तु केसराणि तथा पुनः ।
गणेशस्य प्रियं नित्यमण्डलं विघ्नमर्द्दनः ॥ २२ ॥
मध्ये गणपतिः पूज्यो नाद्यङ्गवरान्तिकः ।
अतः शकः समाकान्तमौषधेन शिरोहतः ॥ २३ ॥
मन्त्रमेतं महादीप्तं द्रुवाद्युन्नतिना युतः ।
विघ्नेश्वराद्याः परतः पूजनीयाः समासतः ॥ २४ ॥
विघ्नेश्वरं गणेशं च गजाख्यं गजवाहनः ।
गजाक्षं गजशीर्षं तु गाङ्गेयं गणनायकम् ॥ २५ ॥
त्रिधातुं गगनं गौणं गोपतिं पूर्ववर्तिकाः ।
विघ्नत्रासं महाकायं लम्बोष्टं लम्बकर्णकम् ॥ २६ ॥
लम्बोधरं महाभीमं विकृतं पार्वति प्रियम् ।
ॐ गणपतये नमः । उग्रं भयावहं- ॥ २७ ॥
भद्रं भयघ्नं भयसूदनम् । द्वादशेते-
पूजितव्या दक्षिणे पत्नि संस्थिताः । देव- ॥ २८ ॥
त्रासं महानादं भासुरश्चोत्कटस्वनम् ।
चण्डं सौण्डं महाभीमं डमथं मधुसूदनः ॥ २९ ॥
सुन्दरं रालसन्ध्युष्टं पश्चिमस्थान् प्रपूजयेत् ।
ब्रह्मबेरो ब्रह्मनाभि निवृत्ति प्रलयोलयः ॥ ३० ॥
प्। ४)
नृत्त प्रियस्तथा लौल्यो विकर्ता कर्मवत्सलः ।
कृतान्तः कालदण्डश्च कीनाशश्चोत्तरादिशि ॥ ३१ ॥
इत्येते पूजितव्यास्तु पुष्पगन्धार्ध्य विष्टरैः ।
पूर्ववत्स्थापयेत्कुम्भं सम्पूज्य विधिविस्तरैः ॥ ३२ ॥
अयुतं तु जपेन्मन्त्रं होमयेच्च दशांशतः ।
शेषानां तु दशांशेन जपं होमं तु कारयेत् ॥ ३३ ॥
पूर्णां दत्वाभिषेकं तु कर्तव्यः सिद्धिमिच्छता ।
सर्वत्रा प्रतिचा शक्तिः दुर्धर्षं त्रिदशैरपि ॥ ३४ ॥
अभिषेकस्तदा कार्यो गुरुस्सम्पूज्य भक्तितः ।
गजाश्व वाहनाद्यैश्च भूमिर्हेममयै स्मृता ॥ ३५ ॥
एवं कृते नराणां तु सिद्धयः सम्भवन्ति हि ।
सर्वत्र वारिकाधीस्स्यान्नासौ पीड्येत दुर्ग्रहैः ॥ ३६ ॥
कर्मारम्भेषु सर्वेषु महासिद्धिषु षण्मुखः ।
इति षट्सहस्रिकालोत्तरे महातन्त्रे- ३७
गणपतिपूजापटलः
ईश्वरः -
मण्डलं सम्प्रवक्ष्यामि वाग्सिद्धिर्येन जायते ॥ ३८ ॥
ईश्वरं कालदाहं च मनुश्चन्द्र समायुतः ।
निशायाम् ईश्वरं कार्यं मनुना चन्द्रसूर्यवत् ॥ ३९ ॥
त्र्यक्षरः परमं मन्त्रं न देयं यस्य कस्यचित् ।
षडुज्जापनमन्त्रेण प्रणवेन समादिशेत् ॥ ४० ॥
ध्यात्वा कुन्देन्दुसङ्काशं त्रिणेत्रं चारुहासनीः ।
स्वरूपाः सौम्यवदनाः पद्मस्थां मकुटोज्वलाम् ॥ ४१ ॥
पञ्चाशद्वर्णमालाढ्यां मुक्तासृक्दाम भूषिताम् ।
एवं विधां भगवतीं वागीशीं वाग्प्रसिद्धि माम् ॥ ४२ ॥
शुचिनालक्षजापस्तु कर्तव्योमानसस्तदा ।
मस्तकात्कन्दपर्यन्तं प्रविशन्तीं विचिन्तयेत् ॥ ४३ ॥
अकारादि क्षकारान्तं वर्णमालां विभावयेत् ।
मुकुटमणि चयप्रख्यां प्राणवल्लीं सदास्मरेत् ॥ ४४ ॥
करन्यासं पुराकर्यं स तु मन्त्रेण मन्त्रिणा ।
मूर्ध्नि गुह्य हृद्देषु क्रमाद्वर्णत्रयं न्यसेत् ॥ ४५ ॥
प्। ५)
सकृदुच्चरणै नैव मूर्तिन्यासं समाचरेत् ।
मन्त्रग्रहण काले तु मण्डलं तत्र कारयेत् ॥ ४६ ॥
तुर्याश्रमिन्दु भागं तु भक्ताभ्यां कमलं हितम् ।
वीथिका पट्टिका कार्यापत्रवल्ली विभूषिता ॥ ४७ ॥
चतुष्पदानि पद्मानि ततोऽष्टौ तत्र वर्तयेत् ।
वीथिका पथिकाबाह्ये द्वाराणि द्विपदानि तु ॥ ४८ ॥
पद्ममानानि तान्येव कपोल सहितानि तु ।
उपद्वाराणि तद्वच्च कोणबन्धद्विपट्टिकः ॥ ४९ ॥
सितानि नवपद्मानि कर्णिका कनक प्रदा ।
केसराणि विचित्राणि * * * * * * * * ॥ ५० ॥
पगे ६ मिस्सिन्ग्
कोणबन्धं विचित्रं तु द्विपदं तत्र वर्तयेत् ।
शुक्लवर्णं तु कमलं कर्णिका काञ्चनप्रदा ॥ ५२ ॥
केसराणि चतुष्पष्टिः पीतरक्तसितानि च ।
मूलमध्याग्र देशेषु स्थिरत्वं च प्रवर्तयेत् ॥ ५३ ॥
अरुणा वाथिका शस्ता पत्रवल्लि विचित्रिता ।
लोकपालानुरूपेण द्वाराणि परिपूरयेत् ॥ ५४ ॥
व्योमरेखान्तराले कार्यं वै सूर्यसन्निभम् ।
अरिणं कोणबन्धं तु पीतं वाथ सितं हितम् ॥ ५५ ॥
इति भद्रं समाख्यातं शिवस्याधारमुत्तमः ।
नित्ये नैमित्तिके काम्ये भद्रं भद्रप्रसिद्धये ॥ ५६ ॥
अथ पद्मविधानं तु लेशतः कथ्यते मया ।
असंसक्तं तु संसक्तं कमलं द्विप्रकारकम् ॥ ५७ ॥
भुक्तिमुक्तिप्रदं पुंसाम् असंसक्तं सदा हितम् ।
मुमुक्षूणां वितन्नित्यं संसक्तं पावती सुत ॥ ५८ ॥
तच्चेकैकं द्विधाज्ञेयं गुरुणा कर्मवेदिना ।
बालं युवाऽथ वृद्धश्च नामतः फलसिद्धये ॥ ५९ ॥
प्। ६)
इति मत्वा ततः पद्मः वर्तयेदनुपूर्वशः ।
पद्मक्षेत्रे तु सूत्राणि दिशि दिक्षु विनिक्षिपेत् ॥ ६० ॥
तथा षोडशधूम्राणि द्वात्रिंशत्तानि सङ्ख्यया ।
वृत्तानि पञ्चकल्प्यानि पद्मक्षेत्रे समानि तु ॥ ६१ ॥
प्रथमे कर्णिकां तत्र पुष्करे नवभिर्युतः ।
केसराणि द्वितीये तु चतुविंशति सङ्ख्यया ॥ ६२ ॥
दलासन्धिस्तृतीये तु गजकुम्भाकृतिस्सदा ।
चतुर्थे तु दलाग्राणि व्योमकूटं च पञ्चमे ॥ ६३ ॥
व्योमरेखा तदन्ते तु न स्थूला न कृशाहिता ।
संसक्तं कमलं प्रोक्तं संसक्तमथोच्यते ॥ ६४ ॥
असंसक्तो दलाकान्त दिग्भागै विस्तराद्भजेत् ।
भागद्वयं परित्यागाद्वस्वंशे वर्धयेद्धलम् ॥ ६५ ॥
सन्धिं विस्तरसूत्रेण तमालांश्चार्चयेद्दलम् ।
सव्यासव्यक्रमेणैव वृद्धपद्मं भवेत्तदा ॥ ६६ ॥
अथवा सन्धिमध्ये तु भ्रामयेदर्धचन्द्रवत् ।
सन्धिद्वयाग्रं सूत्रं बालपद्मं तदा भवेत् ॥ ६७ ॥
सन्धिसूत्रास्तु मानेन पृष्ठतः परिवर्तयेत् ।
तीक्ष्णाग्रं तु युवा तेन कमलं भुक्तिमुक्तिदम् ॥ ६८ ॥
मुक्तये वृद्धपद्मं तु बालं स्यादष्ट सिद्धिषु ।
युवा दलं प्रयुक्तेन सर्वकर्मसु शिष्यते ॥ ६९ ॥
चतुर्भ्रमं वा कर्तव्यं संसक्तं व्योमवर्जितम् ।
व्योमरेखं तु किन्त्वत्र दुलाग्रान्ते विवर्जयेत् ॥ ७० ॥
इति लेशेन कमलम् अष्टपत्रं प्रदर्शितम् ।
सर्वसाधारणं ज्ञेयं विनाविघ्नेशमण्डलम् ॥ ७१ ॥
मण्डलं नवनाभाख्यं कथ्यमानं शृणुष्व मत् ।
अष्टहस्तं पुराक्षेत्रं दशहस्तमथापि वा ॥ ७२ ॥
वेद सिद्धार्थिकैर्भागैः समन्ताद्वर्तयेत् पुनः ।
समन्तादष्टभागं तु मध्ये तु कमलं भवेत् ॥ ७३ ॥
प्। ७)
पथिका वीथिका कार्या द्वारं पद्मार्घमानतः ।
कण्ठोपकण्ठयुक्तं तत् कण्ठवर्ज्यादि पट्टिकम् ॥ ७४ ॥
इत्येकं मध्यकमलं वीथिद्वारसमन्वितम् ।
कथितं ते समासेन तद्बाह्ये वीथिका मता ॥ ७५ ॥
पञ्चभागमिता सा तु समन्ताद्दश भागिका ।
दश दिक्षु ततः कार्यं पूर्ववत्कृत्तिका सुतः ॥ ७६ ॥
पद्माष्टकविधानेन वीथिद्वार समन्वितम् ।
तद्बाह्ये पञ्चपदिका वीथिका पत्रभूषिता ॥ ७७ ॥
पद्मवद्वारकर्णन्तु पदिकं दन्तु कर्णकम् ।
कपोलं पदिकः कार्यं दिक्षुद्वारत्रयं स्फुटम् ॥ ७८ ॥
कोणबन्धत्रिपदिकं द्विपदं वज्रवद्भवेत् ।
तद्धेतु कमलं शुक्लम् आपीतं पूर्वपङ्कजम् ॥ ७९ ॥
आग्नेय्यां रक्तवर्णं तु नीलाब्जं दक्षिणे स्थितः ।
नैर्-ऋत्यां पीतवर्णं तु शुक्लं वरुणदिक् स्थितम् ॥ ८० ॥
आधूम्रं वायुकोणे तु रक्तपीतं तथोत्तरे ।
ईशाने मौक्तिक प्रख्यं शुक्लं वा नवपङ्कजम् ॥ ८१ ॥
पद्मगौरमथो वापि रक्तगौरमथापि वा ।
व्योमव्यापि शिवस्येव नवध्वारविधौ हितम् ॥ ८२ ॥
नवनामं समाख्यातं प्रासादाख्यं शिवस्य तु ।
मध्ये पद्मे शिवं पूज्यो लोकेशश्चापरेषु च ॥ ८३ ॥
अस्त्राणि बाह्यवीथौ तु भक्त्या सम्पूज्य यत्नतः ।
अश्वमेधसहस्राणि वाजपेयशतानि च ॥ ८४ ॥
एतन्मण्डलपूजायां कला नार्हन्ति षोडश ।
नासौ लिप्यति पापेन पद्मपत्रमिवाम्भसा ॥ ८५ ॥
नैमित्तिके तु काम्ये च कर्तव्यं भुक्तिमुक्तये ।
महामण्डल सञ्ज्ञं तु वक्ष्येऽहं सर्वसिद्धिदम् ॥ ८६ ॥
अष्टहस्तं पुराक्षेत्रं भागैर्विंशतिभिर्भवेत् ।
द्विपदं कमलं मध्ये वीथिका पथिका हिता ॥ ८७ ॥
प्। ८)
दिशि दिक्षु तथेऽष्टौ च नीलाब्जानि विवर्तयेत् ।
मध्यपद्मप्रमाणेन विंशत्यत्र गतानि तु ॥ ८८ ॥
दलसन्धिविहीनानि नीलेष्ट पतिकानि च ।
तत्पृष्टे पथिका वीथी स्वस्तिका च तदूर्ध्वतः ॥ ८९ ॥
द्विपदश्च तथाचाष्टौ तु तद्भागं तु कृतास्तदा ।
वर्तयेत्स्वस्तिकांस्तत्र गुरोराज्ञा विधानतः ॥ ९० ॥
वीथिका पूर्ववद्बाह्ये द्वाराणि कमलं यथा ।
उपवर्णयुतानेव कोणबन्ध सपट्टिकम् ॥ ९१ ॥
मध्येब्जं हिमकुन्दाभं कर्णिकापीतकेसरम् ।
असंसक्तदलं शस्तं व्योमवद्व्योमकल्पनम् ॥ ९२ ॥
कोणाश्च शोणवर्णास्तु वीथिका काञ्चन प्रभा ।
श्यामरूपाण्युत्पलानि कर्णिकाकारकर्णिकाः ॥ ९३ ॥
नानावर्णास्वस्तिकास्स्युः वीथिका पत्रवर्त्तिका ।
नानाविधानि वर्णानि रजसापरिपूर्य च ॥ ९४ ॥
महामण्डल सञ्ज्ञं तु शिवस्य हृदय प्रियम् ।
पवित्रारोहणे शस्तं दीक्षायां च विशेषतः ॥ ९५ ॥
सर्वान् कामानवाप्नोति महामण्डलपूजनात् ।
पञ्चाब्जं सम्प्रवक्ष्यामि व्रतानां च समर्पणे ॥ ९६ ॥
लिङ्गोद्धारे च कर्तव्यमणिमादिषु सिद्धये ।
पञ्चहस्ते समक्षेत्रे समन्तादिन्द्रभाजिते ॥ ९७ ॥
द्विपदं कमलं मध्ये वीथिका पथिकां ततः ।
दिक्षु पद्मचतुष्कं च मध्यवत्परिकल्पयेत् ॥ ९८ ॥
तद्बहिः पथिका वीथिद्वाराणि द्विपदानि तु ।
कर्णोपकर्णयुक्तानि विचित्रं कोण सङ्गमे ॥ ९९ ॥
मध्याब्जं संसितं नित्यं पतत्कर्णिककेसरम् ।
आपीतं पूर्णपद्मं तु वैडूर्याभं तु दक्षिणम् ॥ १०० ॥
उत्तरं दरदाभञ्च कुन्दाभं वारुणाम्भुजम् ।
रक्ताभा काञ्चनप्रख्या वीथिका प्रथमा परा ॥ १०१ ॥
प्। ९)
लोकेश प्रतिरूपाणि द्वाराणि शिखिवाहनः ।
पञ्चाब्दमण्डलं सर्वं सर्वकाम प्रसिद्धिदम् ॥ १०२ ॥
सर्वकामप्रदं वक्ष्ये मण्डलं सर्वकामदम् ।
विकार भद्रे तुर्याग्रे समन्ताद्दशभिः कजम् ॥ १०३ ॥
पथिका पथिका बाह्ये द्वाराणि द्विपदानि तु ।
मुखानि पद्ममानेन सकर्णानि विवर्तयेत् ॥ १०४ ॥
असंसक्तं कोणबन्धं तु आरक्तं पूरयेत् ततः ।
वीथिका काञ्चन प्रख्या पत्रवल्लि विभूषिता ॥ १०५ ॥
सितवर्णं तु कमलं नानाशोभा समन्वितम् ।
सर्वकामप्रदं शस्तं प्रासादस्य महामनः ॥ १०६ ॥
सर्वान् कामानवाप्नोति प्रासादस्य तु पूजनात् ।
सर्वकामप्रदं पुंसां सर्वकर्मसुपूजितम् ॥ १०७ ॥
मण्डलं त्विदमेवात्र विघ्नद्वंसेन शस्यते ।
किन्तु वीथौ स्वस्तिकासु अरिष्टध्वावनात्मने ॥ १०८ ॥
अरिष्टध्वंसये यस्मादरिष्टध्वंसने तदा ।
कथितं देवदेवेन शिवेन परमात्मना ॥ १०९ ॥
चतुर्हस्तं पुरं कृत्वा वृत्तं चैव करद्वयम् ।
वीथिका हस्तमात्रं च द्वारबन्धं करात्मकम् ॥ ११० ॥
प्राक् वृत्तस्य तु वृत्तं तु मध्येस्स्यात् षोडशाङ्गुलम् ।
भवेयुर्द्दिक्षुवृत्तानि कमलैस्सहितानि च ॥ १११ ॥
पद्मानि पञ्चशुक्लानि श्यामं वृत्तान्तरं हितम् ।
कोणानि पावकाभानि वीथिका काञ्चनप्रभा ॥ १२ ॥
द्वाराणि लोकपालानि * * * * * * * * ।
मिस्सिन्ग् - ११, १२, १३ अन्द् १४ पगेस्
पद्मकुन्देन्दु वर्णाभं दण्डं कृष्णाजिनप्रभम् ।
मूलं पावकसङ्काशं रुद्रास्र्त्रं कथितं मया ॥ ११४ ॥
ब्रह्मास्त्रं कमलं ज्ञेयं लक्षण
मिस्सिन्ग् पगेस् : १६, १७, १८, १९, २०, २१, २२, २३ अन्द् २४ ॥ ११५ ॥
प्। १०)
नमः । सकृत्कराय्यां विन्यस्य करन्यासस्तदाभवेत् ।
आपादमूर्ध्नि पर्यन्तं सकृन्यस्त्वा शुचिर्भवेत् ॥ ११६ ॥
मस्तकान् पादपर्यन्तं स तु देहे तु विन्यसेत् ।
देह न्यासे तु ते पश्चात् अन्तर्यागं समारभेत् ॥ ११७ ॥
पूजा जपाग्नि भवनं कर्तव्यं बाह्यमेव च ।
बाधकाशयरूपेण तस्य ध्यानं नवान्यथा ।
शान्तिके पौष्टिके शुक्लं रक्तं वश्ये प्रशस्यते ॥ ११९ ॥
स्तम्भके पीतवर्णन्तु कर्षणे कपिलं हितम् ।
मोहने तद्वदेव स्यात् ज्ञात्वा कर्म विचिन्तयेत् ॥ १२० ॥
बुध्या प्रणवमुद्धास्य सकृत्पुष्पेण चासनम् ।
आशक्तेश्शक्तिपर्यन्तं व्याप्त्या तत्र प्रकल्पयेत् ॥ १२१ ॥
तदूर्ध्वे परमा मूर्तिः द्वात्रिंशार्णेन कल्पयेत् ।
ईश्वराच्छक्तिपर्यन्तं कलाकलितविग्रहम् ॥ १२२ ॥
विस्तितारं मन्त्रराजेन परमावहयेत्ततः ।
आवाह्य पूर्वविधिना यथा वै वक्ष्यमाणवत् ॥ १२३ ॥
ब्रह्माङ्गैस्सकलीकृत्य तथा सम्पूज्य भक्तितः ।
पूमन्त्रस्य पूर्वसेवा तु कर्तव्या सेकं पूतिका ॥ १२४ ॥
अघोराक्ष स तुल्यं तु जप्तव्यं साधकेन तु ।
दक्षिणामूर्तिमाश्रित्य होमं कुर्याद्दशांशतः ॥ १२५ ॥
गुग्गुलेन घृते नैव कापिलेन षडानन ।
मन्त्रसिद्धिस्तदा सिद्धाकरोति पदमीप्सितः ॥ १२६ ॥
उत्तमाधमयध्यास्तु साधयेन्नादृतं वचः ।
सिद्धिचाघोररूपेण साधयेतमनीप्सिताः ॥ १२७ ॥
धान्यान् कामयते कामान् तान् स्तान् कामानवाप्नुवात् ।
उत्तमा लक्षजापेन सिद्धये साधयेद्ध्रुवम् ॥ १२८ ॥
तस्माद्गुग्गुलुहोमेन तदर्द्धान्मध्यमात्सुत ।
लक्षवादात्कन्यसास्तु सिद्धये जपहोमतः ॥ १२९ ॥
प्। ११)
साधयेन्नात्र सन्देहः त्रिविधः सिद्धयस्सदा ।
त्रिविधोत्पातशमनमेवमेव प्रकल्पयेत् ॥ १३० ॥
सर्वोत्पात प्रशमनमेवमेव प्रकल्पयेत् ।
सद्योत्पात प्रशमनमेवमेव प्रकल्पयेत् ॥ १३१ ॥
सर्वोत्पात प्रशमने नान्यस्त्रातास्ति भूतले ।
सिद्धान्तेषु तथान्येषु नान्यस्त्रातास्ति शाङ्करे ॥ १३२ ॥
अघोरान्नापरोमन्त्रो कलिमासाद्य सिद्धिद ।
अघोरं सिद्धिदं मन्त्रं नवात्राशेक कल्पना ॥ १३३ ॥
तस्मात्सर्वप्रयत्नेन अघोरं सर्वदाभ्यसेत् ।
तिष्टन् जाग्रन् स्वपन् गच्छन् भुञ्जानो मैथुनेरतः ॥ १३४ ॥
अघोरार्पित चेतस्सो मुक्तिभाग्सवनान्यथा ।
अब्रह्मचारी ब्रह्मचार्यस्नातकः स्नातको भवेत् ॥ १३५ ॥
स तु स्मरण मात्रेण सर्वपापक्षयो भवेत् ।
आवृत्य पञ्चवारं तु सर्वतीर्थफलं भवेत् ॥ १३६ ॥
सर्वयज्ञफलं याति सप्तवारानुवर्तनात् ।
त्रिस्सप्तवारं चावर्त्य पूजान्तं नियमेन तु ॥ १३७ ॥
पूजाफलं समाप्नोति प्राप्नुयाच्छास्त्र भाषितः ।
सर्ववादान् परित्यज्यमन्त्रवादं समभ्यसेत् ॥ १३८ ॥
मन्त्रमूलानि वादानि तस्मान्मन्त्रः परो भवेत् ।
तत्राप्यघोरजापस्तु कर्तव्यो मन्त्रचिन्तकैः ॥ १३९ ॥
दिव्यान्तरिक्ष भौमानां विघ्नानां विनिवारणम् ।
अघोरास्त्रेषु कर्तव्यं सद्योत्पातेषु वारणम् ॥ १४० ॥
द्वाविमौ मन्त्रराजानौ सूर्यस्योपरिसंस्थितौ ।
द्वात्रिंशाक्षरकं घोरम् अघोरास्त्रं विशेषतः ॥ १४१ ॥
तस्मात् सर्वप्रयत्नेन मन्त्रविद्वयमभ्यसेत् ।
पूर्वसेवा प्रकर्तव्या यत्रान्मन्त्रद्वयस्य तु ॥ १४२ ॥
तदा दहेत् तु विघ्नांश्च यथा कालं स्वयंशिवः ।
उपांशुर्मानसोभाष्यो जपयज्ञस्त्रिधा स्थितिः ॥ १४३ ॥
प्। १२)
मानसं चोत्तमं ज्ञेयं सात्विकं तु जपं परम् ।
उपांशुर्मध्यमं विद्धि राजतं पार्वती सुत ॥ १४४ ॥
अधमं तु मतं भाव्यं तामसं तेन कीर्तितः ।
उत्तमाधम मध्यानां विधीनाम् एव साधने ॥ १४५ ॥
कर्तव्यं तु प्रयत्नेन अघोरास्त्रपुरस्सरम् ।
भवितः यौ प्रयत्नेन यत्नान्मन्त्रपरोपुरा ॥ १४६ ॥
पूर्वसेवां तु निर्वत्य सिद्धयस्साधयेत्तदा ।
सिध्यन्ति तस्य कर्माणि नान्यथा क्रौञ्चसूदन ॥ १४७ ॥
विद्यानत्वे तु यो भोग उत्तमासिद्धिरिष्यते ।
मध्यमा खेचरत्वं तु अधमां जनपादके ॥ १४८ ॥
अधमाधमसिद्धींश्च पश्याकर्षणमोहनम् ।
साधयेन्नात्रसन्देहो मन्त्रराज प्रभावतः ॥ १४९ ॥
मन्त्रराजमविज्ञाय सिद्धये यस्तु साधयेत् ।
हनने मुक्तिना क क्षुधार्तिमखण्डये तुष्टान् ॥ १५० ॥
तस्मात् सर्वप्रयत्नेन अघोरं साधयेत्सदा ।
ये केचिन्मन्त्रसिद्धास्तु देवगन्धर्वदानवाः ॥ १५१ ॥
सर्वे ते वशगा स्युः तु घोरसिद्धस्य संस्थिताः ।
मन्त्रसिद्धाः कदाचिच्च कालतो निधनं गताः ॥ १५२ ॥
अघोरमन्त्र सिद्धाये अक्षयामित तेजसः ।
अतिरस्कृत वप्यास्ते सर्वे चामोघशक्तयः ॥ १५३ ॥
मन्त्रास्व तस्य सिध्यन्ति यस्तु पूजारतस्सदा ।
सिद्धयः तेषु सिध्यन्ति नित्यं ये मन्त्रजापिनः ॥ १५४ ॥
मन्त्रा फलप्रदा तेषां भवने कृतबुद्धयः ।
पूजाहोमो जपश्चैव तस्मात्रितयमभ्यसेत् ॥ १५५ ॥
ज्ञात्वा तु परमं रूपम् अघोरस्य महारतः ।
ज्ञानं प्रपद्यते योगं ज्ञेयांश परिवर्जितः ॥ १५६ ॥
सदात्मचिन्मयं ब्रह्म निर्विकल्पमरूपकम् ।
सर्वप्रमाणरहितं स्वसंवेद्यमवाचकम् ॥ १५७ ॥
श्रद्धया तपसा भक्त्या जपहोमार्चनादिभिः ।
महापुरुष सम्पर्कात् ज्ञानतीर्थानुवेदनात् ॥ १५८ ॥
प्। १३)
उपदेशात्तथाभ्यासा नियमैस्सद्वृतैस्तथा ।
पूज्यन्ते परमं रूपं सदस्पति व * * तः ॥ १५४ ॥
नान्यथैतन्न तथाद्वेत न द्रव्यं न गुणस्तथा ।
न तद्ब्रह्मादयो देवाः पर्युपासन्ति नित्यशः ॥ १६० ॥
तदर्धं ज्ञापयज्ञैस्तु तर्पयन्ति अहर्निशम् ।
सीदन्ति च महामोहाज्जयन्ति च म्रियन्ति च ॥ १६१ ॥
तस्मात् सर्वप्रयत्नेन निष्कलं पर्युपासयेत् ।
येन संस्मृतमात्रेण न त्रयो जन्मचाप्नुयात् ॥ १६२ ॥
अघोरं पूजयेद्देवम् अघोरं मुक्तिभाग्भवेत् ।
सर्वदा हृदयेऽघोरं सर्वावस्थासु यः स्मरेत् ॥ १६३ ॥
प्राप्नोति परमं स्थानं पुनर्नावृत्तिलक्षणः ।
इति श्रीमत्षट्सहस्रिकालोत्तरे महातन्त्रे ॥ १६४ ॥
अघोरकल्पं समाप्तम् -
ईश्वर उवाच-
रुद्रशान्तिं महाशान्तिं यज्ञेन क्रियथेऽथवा ॥ १६५ ॥
अस्त्रयागो महासेन समासात्कथ्यते मया ।
अरिष्टध्वंसनं कार्यं मण्डलं यत्पुरोदितम् ॥ १६६ ॥
पञ्चहस्तं चतुर्हस्तं वसुहस्तमथापि वा ।
रुद्रपूजा विलोमेन कर्तव्या कृत्तिका सुत ॥ १६७ ॥
वस्वग्नि सङ्ख्या रुद्रास्ते रुद्रशान्तिं प्रकल्पयेत् ।
रुद्रञ्च वृषभं चैव त्वविमुक्तमसम्भवम् ॥ १६८ ॥
पुरुषं चेति पञ्चैता ईशान्याः प्रकृतौ न्यसेत् ।
उत्तरे तु दले पञ्च रुद्रांस्तान् क्रमशोर्चयेत् ॥ १६९ ॥
विश्वाख्यं तु महाविश्वं करालं विकृतं तथा ।
त्वं ते च विकृताख्यं तु पञ्चैते पुरुषे स्थिताः ॥ १७० ॥
चत्वारः पिङ्गलाख्यास्तु नियता वायुपत्रगाः ।
एकश्वेतस्तथा कृष्णचतुर्थो मधुसञ्ज्ञकः ॥ १७१ ॥
अनन्तश्च तथा पञ्च शुष्कश्चैव पयोगणः ।
कालतत्वे तु वारिण्यां स्थिता रुद्रा महाबलाः ॥ १७२ ॥
प्। १४)
कराल विकराले च मायायां नैर्-ऋते दले ।
चतुस्सहस्र विद्यायां याम्यपात्रे व्यवस्थितम् ॥ १७३ ॥
शीर्षाख्यं वस्त्रसञ्ज्ञं च कराख्यं च रणासितम् ।
लङ्कामेतं चतुर्थन्तु न्यस्तव्यं तत्ववेदना ॥ १७४ ॥
एकद्वित्रि जगान्ताश्य रुद्रापतिश्यते स्थिताः ।
स्वाहा स्वधावषट्कारास्तत्र रुद्रत्रयः पुनः ॥ १७५ ॥
षट्कालान्ताश्च पूर्वस्यां रुद्रास्युः सकलेध्वरि ।
भूतं तत्र महाभूतं पशुतन्त्रमुपायतिः ॥ १७६ ॥
सर्वभूतं तथाकालं सम्पूज्याः शिखिवाहन ।
उमा महेश्वरे मध्ये पूज्यस्तत्वे शिवात्मके ॥ १७७ ॥
सितपुष्पैस्सुगन्धैश्च चन्दनाद्यैर्विलेपनैः ।
सम्पूज्य विधिवन्मुद्रान् पायसेन घृतेन च ॥ १७८ ॥
तत्वेश्वरान् शिख * * * लोमेनार्चयेत् ततः ।
अनन्तान् तान् शिष्यध्ये नवतत्वमतः शृणु ॥ १७९ ॥
प्रणवा ध्रुवपर्यन्तं शिवपीठ दहनाभुवमध्ये-
शाश्वतास्तत्पुरुषान्तं पीठं सदाशिवं च- ॥ १८० ॥
प्राक् संस्पर्शम् ईश्वरपीठमघोरा ज्योति-
रूपावशरन् दिक् संस्पर्शम् ॥ ३ ॥ पमशार्चारू- ॥ १८१ ॥
पं विद्यापीठं स्थिताश्च तद्वाह्ये या या मन-
ग्नि स्वल्प पदान्त निशाचरावस्थम् ॥ ५ ॥ अनि- ॥ १८२ ॥
धना समभवान्तं पीठं पुरुषस्थितं तथा पाक्षं-
शब्दात्प्रणवपादान्तं पीठप्रकृति स्थितं दि- ॥ १८३ ॥
शीशान्याः ॥ १ ॥ इति पदमहाध्वरोऽयं सम्पू-
ज्यो न्यासमात्रेण एवं पदविभागादमृत- ॥ १८४ ॥
पुरान्त स्थिताश्शिवास्सर्वेश्शकार परिधि
मण्डले परिगणिताः । प्रणव सदीप्ताः ॥ १८५ ॥
सर्वे वसाननतयः सरूढाः पूर्वपीठे देव-
पूर्वस्थित विनिविष्टाः पूज्याश्चार्चित- ॥ १८६ ॥
प्। १५)
पदेन ब्रह्मणा स्तोतव्या सर्वे रुद्राः कर्मो-
दिताः पूर्वम् आज्यक्षीरं दधिमधु फलादयो- ॥ १८७ ॥
व्रीहयो यवाश्यामाः खण्डकृतो भक्षणः-
पायसं पूर्वोऽन्नवर्गश्च । वस्स पुरोडाशः- ॥ १८८ ॥
पीठ पीठे यथोदितो योज्यः । होम्यो नवपदा-
वस्तुनग खुर तुङ्गपरिशोभः । दूर्वाकृष्ण- ॥ १८९ ॥
तिलाज्यामृताख्या चूतपत्राणि-होतव्या-
सिद्धा ज्वालाजावज्री सुगन्ध पुष्पाणि- ॥ १९० ॥
क्षीरतरोः पत्रावसमिधो तण्डुल यवादीनि-
एकैकस्य रुद्रस्याहुतीनां सहस्रकम् । आज्येन- ॥ १९१ ॥
यत्नतो देयं तदभावाद्यवोदितैः । एकैकस्य
पदस्यैव सहस्रं परिवर्तनम् । सिद्धान्तस्सम्प्र- ॥ १९२ ॥
पन्नैस्तु वामाचारैर्विवर्जयेत् । वामाचारं प्रप-
न्ना ये शास्त्रे सिद्धे विगर्हिताः । गुप्ताचारा- ॥ १९३ ॥
स्तु ये केचित् वर्जनीयास्तु ते सदा । सिद्धान्तं-
सम्प्रपन्नाये शुद्धाचारा दृढव्रताः । निग्रहा- ॥ १९४ ॥
नुग्रहे शक्ता देवानां देवि दुर्धराः । गुरुशु-
द्धः पुरा ज्ञात्वा पश्चाच्छीतिं समारभेत् ॥ १९५ ॥
अहन्यहनि कर्तव्या उत्पन्नो वा * * क् भूते ।
प्रोक्ता वै त्रिंशदष्टौ च देवास्तैरियमिष्यते ॥ १९६ ॥
विलोमेनानुलोमेन रुद्रे व्योमशिवेन च ।
राकानिति पदेनैव पीठं नवपदात्मकम् ॥ १९७ ॥
अनुलोमेन तत्पूज्यं रुद्रा चैव विलोमतः ।
सप्तपञ्चति सङ्ख्या वा एकैकामाहुतीन्ददेत् ॥ १९८ ॥
इति नित्यो विधि प्रोक्तो विशेषे पूर्ववज्जुहे ।
दिव्यानां तु निमित्तानाम् एकैकस्य सहस्रकम् ॥ १९९ ॥
अन्तरिक्षनिमित्तानां तत्तदध्याहुतिर्भवेत् ।
भौमानां शान्तिहोमो रुद्राणां पदेषु च ॥ २०० ॥
उत्पातेषु च सर्वेषु महोत्पाते शताहुतः ।
सर्वरोगविहीनां ग्रहैर्वा विमृतात्मनाम् ॥ २०१ ॥
प्। १६)
उपसर्गग्रहीतानां विघ्नेशैर्दलितात्मनाम् ।
अभिचाराभितसानां शान्ति होमं प्रयोजयेत् ॥ २०२ ॥
अभिषेकश्च कर्तव्यं सम्पाताहुति मन्त्रितैः ।
नवभिः कलशैर्नित्यं शतं विंशोत्तराधिकम् ॥ २०३ ॥
एक न्यूनं तु मन्त्राणां न्यस्तव्यं चाभिषेचनम् ।
अहन्यहनि कर्तव्यं * * * वा जपेद्धुनेत् ॥ २०४ ॥
अभिषेकाय दातव्यः स चरू परिकल्पितः ।
तेन प्राशन ताम्रेण सर्वैर्विघ्नै न बाध्यते ॥ २०५ ॥
खण्मे दृशान्तिश्च कथिता परमेषुना ।
रुद्राणां च पदानां च प्रविभागः प्रदर्शितः ॥ २०६ ॥
सङ्ख्या स्वाणुविभागश्च द्रव्यमाहुतिलक्षणः ।
तवाद्यखण्डे कथितः द्वितीये स्तुतिरुच्यते ॥ २०७ ॥
सूयते सा भगवती मन्त्रखण्डं तृतीयकम् ।
खण्डत्रयं तु पाद्येन * त्रं गद्येन कथ्यते ॥ २०८ ॥
विभागखण्डादपरं स्तुति खण्डन्निगद्यते ।
रुद्रशान्तिं प्रवक्ष्यामि शिवं सर्वार्थसाधिनीम् ॥ २०९ ॥
मनुष्याणां हितार्थाय स्वयं रुद्रेण भाषिताः ।
सर्वे विघ्नाः प्रणश्यन्ति श्रुत्वैमाः पापनीशिनीः ॥ २१० ॥
दुस्वप्नाः व्याधयश्चैव ग्रहाश्चैव दिशो दश ।
बहुरूपाय सर्वाय विश्वरूपपराय च ॥ २११ ॥
प्रणम्य देव देवाय सर्वपापहराय च ।
पार्वत्या सहितायैव स हि नन्दीश्वराय च ॥ २१२ ॥
रुद्रशान्तिं प्रवक्ष्यामि वेतालानां विनाशिनीः ।
नराणामुपसृष्टानां देवायतनवेश्मसु ॥ २१३ ॥
येषां न गर्भसम्भूतिः कुलहानिश्च जायते ।
यत्र जाता विनश्यन्ति भवन्ति च न सङ्कटाः ॥ २१४ ॥
काम चोत्पद्यते यत्र स ततश्च गृहे गृहाः ।
गर्भः पतत्यकाले च कुण्डं वा यत्र जायते ॥ २१५ ॥
प्। १७)
दुर्भिक्षेण च पीड्यन्ते राष्ट्रोत्पाते च दारुणैः ।
गणा यत्र विरुध्यन्ते भ्रातरश्चाप्यनेकशः ॥ २१५ ॥
पिता मातास्नुषा चैव कदलोपगते गृहे ।
पश्यन्ति च कविं स्वप्ने बीजं क्षेत्रे न रोहति ॥ २१६ ॥
गावेरथ पशवश्चैव दासाः कर्मकरास्तथा ।
गृहे स्थिता विरुध्यन्ते तत्र शान्तिः प्रयोजयेत् ॥ २१७ ॥
रूपोपगर्जिते पृष्टवंशश्च भिद्यते ।
गरवो नाहताश्चैव स्रवन्ति रुधिरं बहु ॥ २१८ ॥
देवाश्चैव वृक्षाश्च नृत्यन्ति च हसन्ति च ।
अकाले पुष्पिता वृक्षाफलिताश्याप्यनेकशः ॥ २१९ ॥
उल्का पाताश्च जायन्ते भूमिकम्पाश्च दारुणाः ।
निमित्तैरशुभैरेभिः अन्यैश्चापि विदारुणैः ॥ २२० ॥
एकाग्रप्रयतो भूत्वा तत्र शान्तिं प्रयोजयेत् ।
रुद्रशान्तिसमुत्पत्तौ कथं वक्ष्यामि तत्वतः ॥ २२१ ॥
यक्षराषस कूश्माण्डैः वृतं भूतैरनेकशः ।
ततो देवगणास्सर्वे ऋषयश्च तपोधनाः ॥ २२२ ॥
विज्ञापयन्ति देवेशं ब्रह्मणा सहितं हरम् ।
विदितं तु देवेश माना विदुःखिता प्रजाः ॥ २२३ ॥
ग्रहैर्दुर्धरवीर्यैश्च न सङ्ख्यैर्न गुणैः प्रभो ।
तस्य शान्न्तिं प्रयच्छध्वं सर्वग्रहमोचनीम् ॥ २२४ ॥
देवानां वचनं शृत्वा हरस्त्रिभुवनेश्वरः ।
समादिशद्गुणान् सर्वान् क्षिप्रमानयुतान् ग्रहान् ॥ २२५ ॥
अनिर्वार्यश्च भगवान् लोकपाला विशेषतः ।
सर्वे वै जनपालाश्च राष्ट्रपालाश्च दुर्जयाः ॥ २२६ ॥
देव भूतगणा यक्षा गन्धर्वाश्च स राक्षसाः ।
कूश्माण्डा दारुणाघीरा यक्षपाला यनुग्रहाः ॥ २२७ ॥
देवायतनपालाश्च भूतग्रामनिशाचराः ।
कालकर्णी महाकाली ये चान्ये हिंसका गृहाः ॥ २२८ ॥
प्। १८)
अपस्मारस्तथोन्मादा नेत्ररोगग्रहास्तथा ।
हृद्रोगा मुखरोगाश्च कुक्षिरोगा जराक्षयः ॥ २२९ ॥
शिरो रोगा गात्र रोगा नायकाश्च सुदारुणाः ।
एते चान्ये च बहवो व्याधयः परिकीर्तिताः ॥ २३० ॥
ते ग्रहास्तु गणैस्सार्धम् उपनीत्ताक शान्तिकम् ।
विज्ञापयन्ति देवेशं प्रणिपत्य मुहुर्मुहुः ॥ २३१ ॥
तेजः सोढुमशक्तासु किं पुनस्त्वां समीक्षितुम् ॥
आज्ञापय महादेव किं कर्तव्यं तवाज्ञया ॥ २३२ ॥
तानुवाच महादेवः क्रोधसंरक्तलोचनः ।
मानुषा दुःखिताः केन कस्य दोषेन वा पुनः ॥ २३३ ॥
तेषामेकतमः प्राह वाक्यं लोकेश्वराग्रतः ।
एषा वृत्तिरिहास्माकं ब्रह्मदत्तोह्ययं वरः ॥ २३४ ॥
ये ग्रस्तास्तमसा लोके मानुषाः पापकर्मिणः ।
अत्यक्षं रीतिकामाश्च हन्तुकामाश्चये ग्रहाः ॥ २३५ ॥
हर्षितां दुःखितांश्चैव नष्ट दुष्टांश्च मानवान् ।
नानाचित्यादि कृत्यांस्तु रुद्रमीक्ष्य विशन्ति ते ॥ २३६ ॥
एतत्ते कथितं देव प्रसीद भगवन्मतम् ।
आज्ञापय सुरश्रेष्ट कर्तव्यं किमतः परम् ॥ २३७ ॥
एवमुक्तस्तु भगवान् त्र्यम्बकः परमेश्वरः ।
रुद्रशान्तिमिमां प्राह वरदो भूतवाहनः ॥ २३८ ॥
यस्तु विद्यामुमां शृत्वा गुह्यके * * * * * ।
३२ तो ३९ मिस्सिन्ग् ॥ २३९ ॥
ब्रह्मचर्यरवश्शुद्धो न ब्रवीत् साधको मतः ॥ २४० ॥
तेनाप्येवं विधो वस्तु वर्जनीयः पुरोदितः ।
सोऽप्युक्तो देशिकस्तन्त्रो यदिनो सिद्धसाधकः ॥ २४१ ॥
नैष्ठिकस्य व्रतं कष्टं निषिद्धं तु भौतिके ।
गुरुस्त्रीगमनं चौर्यं पुण्यकाले रति क्रिया ॥ २४२ ॥
क्षुरक्रिया घृताभ्याचं गृहिणो वर्जनं मतम् ।
पुष्पाकारसुगन्धाढ्यं शुभावासस्तथा बला ॥ २४३ ॥
भोगां गत्वान्नदुष्यन्ति भोजनं शक्तिकारणम् ।
हस्तमात्रं तु वेदाग्रं चतुरेखा तु मण्डलम् ॥ २४४ ॥
आचार्यस्य तु कर्तव्यं भोजनार्थे तु नित्यशः ।
एकैक रेखया हीनं साधकादिषु कीर्तितम् ॥ २४५ ॥
प्। १९)
केशानां धारणं शस्तं मुण्डनं वा यथेच्छया ।
जटाधरास्तु यतयो यस्माङ्कित शरीरिणः ॥ २४६ ॥
जटानां वेष्टनं कुर्याच्छिरोमुण्डन्न वेष्टयेत् ।
ताश्चकार्या हि भोगाभा वृत्ता वा वेणिकाथवा ॥ २४७ ॥
कनकाद्यास्तु वृत्तास्तु जटाकार्या विजानता ।
विषमा नागभोगाभा न विषाकैकषोडश ॥ २४८ ॥
इतरास्तु यथेच्छतो यथा शास्त्र स्थितिस्तथा ।
तत्ववर्ण कलाज्ञान पदस्थान विकल्पनाः ॥ २४९ ॥
क्षेत्रं सुवर्तितं कृत्वा कॢप्तिस्तत्पूर्वजेन तु ।
भस्माश्रयं प्रकर्तव्यो दृढश्चो काणकोऽपि वा ॥ २५० ॥
वितस्त्यायामकः शक्तिः तत्रचाष्टाङ्गुलोच्छ्रिताः ।
उत्तरीयोच्छ्रयः कार्यं द्वादशाङ्गुल सम्मितम् ॥ २५१ ॥
चतुरङ्गुलविस्तीर्णं तस्य मध्ये तु सङ्गतम् ।
अथवा लाबुकं कार्यं षोडशाङ्गुलसम्मितम् ॥ २५२ ॥
भस्माधारं प्रयत्नेन वर्जयेत्काष्टसन्निभम् ।
दण्डमात्म समं कार्यं मूलमङ्गुष्टवत्समम् ॥ २५३ ॥
अथवा हस्तमात्रं वा वंशखादिर शैरावीम् ।
द्वा * * * * * * * * * * न निवर्तते ॥ २५४ ॥
सप्तवारान् स्फुटे मूर्धा रुद्रदण्डेन हन्यते ।
सप्तजन्म सहस्राणि रौरवे पच्यते ग्रहः ॥ २५५ ॥
पुनश्च स महाघोरे यो मां विद्वान् व्यति क्रमेत् ।
एवमुक्त्वा तु भगवान् ग्रहाणामग्रतः स्थितः ॥ २५६ ॥
समेधे स्थापयित्वा तु प्राहविद्यामिमां प्रभुः ।
इदं कृत्वा महादेवी भवानी ब्रह्मणो पुरः ॥ २५७ ॥
अमेधाया प्रधृष्याय नमः स्वस्ति परायणी ।
ॐ कारोऽथ वषट्कारो ब्रह्मा स्वाहा स्वथा तथा ॥ २५८ ॥
सावित्री भूत सावित्री रुद्रसावित्रिरेव च ।
रुद्राणि ब्रह्मसावित्री देवी चैव सरस्वती ॥ २५९ ॥
उमा कृष्णा शिवाश्चैवधानित्या हुदि संस्थिता ।
सुरासुरमनुष्येषु स्थावरेषु चरेषु च ॥ २६० ॥
स्तुत्वैवं पुरतो देव जग्मुस्वभुवनानि च ।
कला स्तोत्रे तु कथितामण्डखण्डन्निगद्यते ॥ २६१ ॥
प्। २०)
पूजने तु नमस्कारं स्वाहान्तं हवने हितम् ।
आप्यायने वषट्कार- ष्टौ वौषण्णियोजयेत् ॥ २६२ ॥
कोर द्वितय * स्थाने जाति योगं तु कारयेत् ।
इति कर्म प्रोक्तं स्थानमाम्नायतो हितः ॥ २६३ ॥
ॐ रुद्राय नमः । ०० ॐ अविमुक्ताय नमः ।
००१ ॐ महाविकृतरूपाय नमः । ००१ ॐ पुरु- ॥ २६४ ॥
षाय नमः । ००१ इतीशान पात्रे । कृतो रुद्र * * ।
ॐ विश्वरूपाय नमः । ॐ महाविश्वरूपाय- ॥ २६५ ॥
नमः । ००१ ॐ करालरूपाय नमः । ००१ ॐ विकृत-
रूपाय नमः । ००१ ॐ महाविकृतरूपाय नमः ॥ २६६ ॥
००१ उत्तरे पात्रे । पौरुषे तत्वे । पञ्चरूपान्ता-
रुद्राः । ॐ एकपिङ्गलाय नमः । ॐ श्वेत- ॥ २६७ ॥
पिङ्गलाय नमः । ००१ ॐ कृष्णपिङ्गलाय नमः ।
००१ ॐ मधुपिङ्गलाय नमः । ००१ ॐ नियतो- ॥ २६८ ॥
वावयवपात्रे रुद्राश्चत्वारः । ॐ अनन्ताय-
नमः । ००१ ॐ रुद्राय नमः । ००१ ॐ शुष्काय- ॥ २६९ ॥
नमः । ००१ ॐ पयोगणाय नमः । ००१ ॐ काल-
तत्वे वारुणं चत्वारः । ॐ करालाय नमः ००१ ॥ २७० ॥
ॐ विकरालाय नमः । इति द्वे मायातत्वे-
नैर्-ऋतवक्त्रे । ॐ सहस्रशीर्षाय नमः । ११० ॥ २७१ ॥
ॐ सहस्रवक्त्राय नमः । ००१ ॐ सहस्रकिर-
णाय नमः । ००१ ॐ सहस्रलिङ्गाय नमः ॥ २७२ ॥
इति चतुस्सहस्रसंविद्या तत्वे दषिणपत्रे ।
ॐ एकटाय नमः । ॐ बीजाय नमः । ००१ ॐ ॥ २७३ ॥
स्वाहाकाराय नमः । ००१ ॐ स्वधाकाराय नमः ।
००१ ॐ वषट्काराय नमः । इति वह्निपत्रे ॥ २७४ ॥
ईश्वरपत्रे स्थिताष्पट् रुद्राः । ॐ रुद्रपतये-
नमः । ००१ ॐ कालाधिपतये नमः । ००१ इति ॥ २७५ ॥
सदाशिव तत्वे षट् पूर्वदले । ओमुमेकरूप-
धारिणे नमः । ००१ ॐ चतुर्-ऋ?तुण्डिणि रुद्रोऽसि- ॥ २७६ ॥
देवानां देवदेव विशाख हन हन मथ मथ-
कुरु कुरु पुरि पुरि सुरि सुरि रुद्रशान्ति- ॥ २७७ ॥
प्। २१)
मनुस्मरन् कृष्णपिङ्गल अकालपिशाचाधि-
पतये विघ्नेश्वराय नमः । ००१ इत्युमाम- ॥ २७८ ॥
हेश्वरौ कर्णिकायां शिवतत्वे- ॐ व्योम-
व्यापिने । व्योमरूपाय सर्वव्यापिने शिवाय- ॥ २७९ ॥
अनन्ताय अनाथाय अनाश्रिताय- धूपाय-
इति मध्ये शिवतत्वेन पदाय कर्णिकायां- ॥ २८० ॥
अतिशाश्वताय योगपीठसंस्थात् नित्य-
योगिने धुनाहाराय ॐ नमश्शिवाय सर्व- ॥ २८१ ॥
प्रभवे शिवाय ईशानमूर्धाय तत्पुरुष-
वक्त्राय- इति पूर्वदले सादाख्येत्यघोर- ॥ २८२ ॥
हृदयाय वामदेव गुह्याय सद्योजातमूर्तये-
ॐ नमो नमः । गुह्याति गुह्याय । गोघ्ने? अनि- ॥ २८३ ॥
धनाय । सर्वसिद्धाधिपाय । ज्योतिरूपाय-
ईश्वर तत्वेऽग्निदुले । परमेश्वरपराय । अचे- ॥ २८४ ॥
तनाचेतन व्योमिन् । व्योमिन् । व्यापिन्-व्यापिन्-
अरूपिन् अरूपिन् प्रथम प्रथम तेजस्तेजः ॥ २८५ ॥
ज्योति ज्योतिः । अरूप इति । विद्यातत्वे याम्य-
दले । अनन्त अभस्म अभस्म । अनादि नाना- ॥ २८६ ॥
धू धू धू ॐ भूः ॐ भुवः ॐ सुवः । ॐ महः ।
माया तत्वे नैर्-ऋतदले । अनिधन निधन- निधनो- ॥ २८७ ॥
द्भव शिव सर्वपरत्मन् । महेश्वरः । महादेव ।
सद्भावेश्वर इति- कालतत्वे वारुणे पात्रे ॥ २८८ ॥
महातेजः योगाधिपतये मुञ्च मुञ्च । प्रथम प्रथम-
शर्व शर्व । भव भव भवोद्भव सर्वभूत सुखप्रद- ॥ २८९ ॥
सर्वसान्निध्यकर । इति वायव्यदले नियतितत्वे-
ब्रह्मविष्णुरुद्रपरि अनर्चितानर्चित । असंस्तु- ॥ २९० ॥
तासंस्तुत पूर्वस्थित पूर्वस्थित साक्षिन् साक्षिन् ।
कुरु कुरु पतङ्ग पतङ्ग पिङ्ग पिङ्ग ज्ञान ज्ञान इति- ॥ २९१ ॥
प्। २२)
पुरुषतत्वे । उत्तरदले ॥ १ ॥ शब्द शब्द सूक्ष्मसूक्ष्म
शिव शिव सर्वद सर्वद ॐ नमो नमः । ॐ शिवाय- ॥ २९२ ॥
नमो नमः । ओमिति प्राकृत तत्वे । ईशानदले- ।
रुद्रशान्तिं जपेन्नित्यं सर्वपापैः प्रमुच्यते ॥ २९३ ॥
उपद्रवेषु सर्वेषु सर्वोत्पातेषु षण्मुख ।
स्थापनार्चन दीक्षादि क्रमोपक्रमयोर्नरः ।
पश्चान्न कुरुते शान्तिम् इष्टापूर्तैवियुज्यते ॥ २९५ ॥
रोगात्ययनिमित्ताप्तौ देशशान्त्यादि कर्मसु ।
श्मशानेषु च नित्येषु मानवा यत्र वर्तते ॥ २९६ ॥
शता अष्टौ तथाकर्षे वश्योच्चाटनमारणे ।
नापेक्षणीया कालस्य भौतिकस्यापि नित्यशः ॥ २९७ ॥
इति श्रीमत्षट्सहस्रिकालोत्तरे महातन्त्रे-
रुद्रशान्ति पटलः
शिवाचारम् -
ईश्वर उवाच-
दीक्षितानां क्रमेणैव शिवाचारो निगद्यते ॥ २९९ ॥
किं वर्ज्यं किं च कर्तव्यं शिवमार्गस्थितेष्वथ ।
अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोस्तथा ॥ ३०० ॥
व्यतीपातेषु सर्वेषु दिनवृद्धौ दिनक्षये ।
सङ्क्रान्त्यामयने द्वन्न्तु षडशीति मुखेषु च ॥ ३०१ ॥
द्विगुणं पूजनं होमो जपो नक्तेन वर्तनम् ।
भूतेषु रक्षणं कार्यं वात्सल्यं च तपस्विषु ॥ ३०२ ॥
कारुण्यं सर्वभूतेषु क्षमासत्यमचापलम् ।
अनृतं गुरुदेवार्थं न दोषाय प्रकल्प्यते ॥ ३०३ ॥
अदण्डश्चासहायश्च गमनं शयनं नहि ।
रुद्राक्ष कटकन्नित्यं विषमं वासमन्द्रजम् ॥ ३०४ ॥
एकत्रिपञ्चवदनं यथा लाभं तु धारयेत् ।
द्विचतुष्षण्मुखं शस्तम् अव्रणं कन्दतीक्षकम् ॥ ३०५ ॥
प्। २३)
सव्रणः क्रमिजुष्टं तु कन्दकैरहितं तथा ।
वकधारानिकृष्टं च रुद्राक्षं नैव धारयेत् ॥ ३०६ ॥
दक्षबाहुशिखायां वा धार्यं चतुराननम् ।
अब्रह्मचारी ब्रह्मचार्यो वास्तातः स्नातको भवेत् ॥ ३०७ ॥
रुद्राक्षधारणे नैव रुद्रलोके महीयते ।
वाङ्मनः कायिकं पापं दहत्यग्निरिवेन्धनम् ॥ ३०८ ॥
तस्मात्सर्वप्रयत्नेन रुद्राक्षं धारयेत्सदा ।
अधारणे महान् दोषः सिद्धयः तस्य दूरतः ॥ ३०९ ॥
रुद्राक्षधारणीयस्तु दीक्षितैश्चाप्य दीक्षितैः ।
नित्यं हैममयीं धार्यं मुद्रिका दक्षिणे करे ॥ ३१० ॥
पद्मरागान्विता कार्या नीलेन रचिताथवा ।
धार्यो हि चित्र रुग्माद्यैः कुण्डलेन चितान्विते ॥ ३११ ॥
नवशब्ददशाद्यं स्यात् त्रिसरं देशिकाद्दितः ।
त्रिसूत्रेण वृतत्वे तद्धृत्तं घृष्टं सुवर्तितम् ॥ ३१२ ॥
द्विगुणं कटिबन्धेन नयेदामस्तनान्तिकम् ।
तस्मात्तद्विगुणं कुर्याद्ग्रन्थिस्तस्या त्रिवेष्टनात् ॥ ३१३ ॥
उपवीतन्नृपादीनां तद्वित्रेकसरं क्रमात् ।
पूजामात्रं च सन्धार्यं नोर्ध्वं तेषां हि धारणम् ॥ ३१४ ॥
शिवसञ्ज्ञाद्विजस्यैव देवाख्या चन्द्रपस्य तु ।
वैश्यानां देवसञ्ज्ञा च शूद्राणां तु गणान्विता ॥ ३१५ ॥
पुष्पपादानुसारेण सञ्ज्ञा तन्नायतो हिता ।
अनाथं दुर्बलं भीतं दुर्गन्धं न परित्यजेत् ॥ ३१६ ॥
गवामुत्थापनं कार्यं मग्नानां कर्दमादिषु ।
चतुर्णामपि वर्णानाम् आचार्यत्वमिहोदितः ॥ ३१७ ॥
सर्वेषां चैव वर्णानां द्विजोनुग्राहकर्मतः ।
त्रयाणां क्षत्रिये द्वाभ्यां वैश्यश्शूद्रः स्वयोनिजे ॥ ३१८ ॥
संस्पर्शात्कारुकादीनां हौत्रीं तु परिवर्जयेत् ।
एवं चानुग्रहः कार्यः चतुर्भिरपि देशिकैः ॥ ३१९ ॥
प्। २४)
द्विजस्याश्रम धर्मित्वं चतुर्था परिकीर्तितः ।
ब्रह्मचारी ग्रहस्थश्च वानप्रस्थो यतिः क्रमात् ॥ ३२० ॥
ग्रहस्थाश्रम धर्मित्वं त्रयाणां च न चापरम् ।
तावदस्य पुनस्तेषां ब्रह्मचर्यं विधीयते ॥ ३२१ ॥
आश्रमाणां तु भेदोऽस्ति निष्टा भेदो न विद्यते ।
एकं द्वयं फलं भुङ्क्ते मोक्षस्साधारणस्तयोः ॥ ३२२ ॥
ब्रह्मचारी द्विधा प्रोक्तो भौतिको नैष्टिकोऽपरः ।
भौतिकस्त्रिविधो ज्ञेयः सङ्क्षेपेणोच्यते मया ॥ ३२३ ॥
विप्रास्नातक एवाद्यो व्रतस्नातक एव च ।
विद्याव्रतस्नातकश्च भौतिकस्त्रिविधोऽपि हि ॥ ३२४ ॥
विद्याव्रत समाप्तौ तु गृहीत्वं तस्य कीर्तितम् ।
द्वितीयो नैष्टिकः प्रोक्तो देहान्तं तस्य वर्तनम् ॥ ३२५ ॥
स मेखली जटी दण्डी मुण्डी वा भिक्षुकश्शुचिः ।
नित्यं गुरुकुले वासः संयमी सत्यभाषितम् ॥ ३२६ ॥
स्त्रिकाल स्नायीताक्रोधः क्षान्तिर्या ब्रह्मचारिणी ।
निवर्तनं नैष्टिकस्य अघोरायुतवर्तनात् ॥ ३२७ ॥
कृत्वा वृतेश्वरं याते वृतमोक्षस्तदा भवेत् ।
स्नानं दैवार्चनं होमं दानं च पितृतर्पणम् ॥ ३२८ ॥
स्वदारमरणं कार्यं प्रीतिर्वा शाश्वती तथा ।
चतुर्विधो गृहस्थस्तु बोद्धव्यः पार्वतीसुत ॥ ३२९ ॥
वने वासोऽग्निवसनं कन्दमूलफलाशनम् ।
भूशय्याजिनधारित्वं प्रतिग्रहविवर्जितम् ॥ ३३० ॥
त्रिकालं प्लवनं होमं पूजाध्यानमहर्निशम् ।
सर्वेन्द्रियनिरोधश्च वृत्तिरेषा वनस्थिते ॥ ३३१ ॥
सर्वक्रिया परित्यागो विवासावाथवल्कली ।
सर्वत्र समदर्शित्वं सुखदुःखाविकारिता ॥ ३३२ ॥
सबाह्याम्भ्यन्तरं शौचम् अरण्येध्याननिष्टता ।
प्रियाप्रिय परित्योगो यतो वृत्तिरुदाहृता ॥ ३३३ ॥
प्। २५)
चतुष्कमेतत्कथितम् एकैकं च चतुर्विधम् ।
इति श्रीमत् षट्सहस्त्रिकालोत्तर महा- ॥ ३३४ ॥
तन्त्रे आश्रमपटलः
ईश्वर उवाच-
पुनरेव प्रवक्ष्यामि चतुर्धाशिवगोचरम् ॥ ३३५ ॥
शिवश्शिखा तथा ज्योतिः सावित्री चेति गोचराः ।
गोचरन्तु कुलं ज्ञेयं तेन ज्ञेयास्तु वीक्षिताः ॥ ३३६ ॥
चिह्नेन वसिताश्शैवाः शेषाः पाषण्डिनो मताः ।
चतुर्धा शिवदेहन्तु गोचरे तु प्रकल्पयेत् ॥ ३३७ ॥
मन्त्र वाच्यं शिवकुले नादवाच्यं शिखाकुलम् ।
बिन्ध्वर्ध चन्द्रज्योत्स्नाख्या सादाक्ष्यमीरितम् ॥ ३३८ ॥
आशिवादीश्वरान्तं तु ज्ञेयं गोचरता स्थितिः ।
शिवादि पूर्व विज्ञानं न चिन्मात्रं यदा तदा ॥ ३३९ ॥
नाडीचक्रात्म विज्ञानं बीजयुक्त शिवागमे ।
नित्यानन्दात्मकं ज्ञेयं तत्कुलं शिवसञ्ज्ञकम् ॥ ३४० ॥
नादशक्ति स्तुतोजाता परमं ब्रह्मणः पदम् ।
आतो हि द्वादशान्तं तु नादसूच्या विभेदितः ॥ ३४१ ॥
मन्त्रमुक्त्वा कलायां तु शिखया प्रोक्तमान्तरम् ।
शिखाकुलं तथा ज्ञेयं नादतत्वावलम्बनात् ॥ ३४२ ॥
संस्थानं बिन्दुतत्वे तु पदे चैव सदाशिवे ।
पशुपाशबलाद्वस्तु विचारो ज्योतिसञ्ज्ञके ॥ ३४३ ॥
व्यामिश्रितं तु सर्वैर्यत् कुलं सावित्र सञ्ज्ञके ।
शिवश्शक्तिश्च सकलं तदधश्चेश्वरात्मकम् ॥ ३४४ ॥
तत्र तत्र हि भोक्तृत्वात्तस्य तस्य हि तत्कुलम् ।
शिवश्शिखा तथा ज्योतिः ज्ञेयं सावित्रकं कुलम् ॥ ३४५ ॥
एकैकस्य चतुर्धान्यो वृत्तिभेदो निगद्यते ।
प्राजापत्यो महीपालाकपोतो ग्रन्थिकस्तथा ॥ ३४६ ॥
एते भेदास्समाख्याता गोचरे शिवसञ्ज्ञके ।
कुटिकाश्चैव वेतालाः पद्माहंसाश्शिखाकुले ॥ ३४७ ॥
धृतराष्ट्रा बकाः कङ्काः गोपालाः ज्योति सञ्ज्ञके ।
तुटिका माठराश्चैव गुलिका दण्डिनो परे ॥ ३४८ ॥
प्। २६)
सावित्र गोचरे प्रोक्ता वृत्तिमेषामतः शृणु ।
अहिंसा गुरुशुश्रूषा स्वाध्यायश्शौच संयमः ॥ ३४९ ॥
सत्यमस्थेयमेवद्धि प्राजापत्यं व्रतं हि हत् ।
क्षयपुत्रार्थ विद्वेष कर्मभिश्शान्तिकादिभिः ॥ ३५० ॥
पालयन्तीमहिं यस्मा महीपालास्तु सायकाम् ।
पदि नान्येकणान् भूमौ संहरन्ति कपोतवत् ॥ ३५१ ॥
तद्वृत्या जीवितं येषां कपोतास्ते तु सायकाः ।
बृहत्कृत्वा तु सद्ग्रन्थिं सहसैवत्यजन्ति ये ॥ ३५२ ॥
हुतभुक् देवतार्थन्तु ग्रन्थिकास्साधका मताः ।
सरित्सागर कूलान्ते कुटीं त्यक्त्वा स्थितास्तु ये ॥ ३५३ ॥
कुटिकास्साधका ज्ञेयाः शिवाराधन तत्पराः ।
तीर्था सक्तुस्सपत्नीका यथा लब्धोपजीवनम् ॥ ३५४ ॥
महोत्साहस संयुक्ता वेतालास्ते तु साधकाः ।
संयताश्च मलासक्ताः राज्यकामार्थसाधकाः ॥ ३५५ ॥
पद्मास्ते साधकाख्याताः भिक्षाचर्यरतास्सदा ।
ज्ञानयोग समायुक्ता वेदाचारे स्थिताश्चये ॥ ३५६ ॥
यो हंसास्साधकाख्याताः स्वयमुत्पन्नसंविदः ।
ब्रह्मचर्येण सत्येन यथा लब्धतयापि च ॥ ३५७ ॥
जितं जगत्समस्तं ये धृतराष्ट्रा मतास्तुते ।
गूढाश्चरन्ति ये ज्ञानं व्रतधर्ममथापि वा ॥ ३५८ ॥
स्वात्मैकगतिनिष्टास्तु बकास्ते साधकामताः ।
जलाश्रयं समाश्रित्य स्थिताश्चोत्कृष्टसिद्धये ॥ ३५९ ॥
बीजशृङ्गाटकाहारा ते कैङ्कास्तु साधकाः ।
गोभिस्सार्धं व्रजन्त्यत्र गोष्टे च निवसन्तिये ॥ ३६० ॥
पञ्चगव्याशना ये तु गोपालास्ते तु साधकाः ।
कृच्छ्र चान्द्रायणाद्यैस्तु क्षपयन्ति स्वकं वपुः ॥ ३६१ ॥
तुटिमात्राशिनस्ते तु तृटिकास्साधकामताः ।
जग्ध्वा तु शमरीं पत्नीं मेदिनीं गृहमेधिनीम् ॥ ३६२ ॥
प्। २७)
भिक्षावृत्तिरता शुद्धा मातरास्ते तु साधकाः ।
ग्रासमात्रं समानाभिः त्रुटिकाभिरथाष्टभिः ॥ ३६३ ॥
कन्दमूलफलोत्थाभिः गुटिकास्ते तु साधकाः ।
स्वदेह दण्डने युक्ताः रात्रौ वीरासने स्थिताः ॥ ३६४ ॥
दण्डिनः साधकाख्याताः सर्वमेतत्तवोदितम् ।
सामान्यतो विशेषस्था भूतितो गृहिणोऽपि वा ॥ ३६५ ॥
इति श्रीमत्षट्सहस्रिकालोत्तरे महातन्त्रे गोचर पटलः चतुर्दशः ॥ ३६६ ॥
ईश्वर उवाच -
भिक्षाभोजनम्-
ब्रह्मचारी गृहस्थश्च देशिकस्तु द्विधायतः ॥ ३६१ ॥
तयोर्वर्ज्यमवर्ज्यम् च कथयामि तवाखिलम् ।
मासं मदृग्वरं शस्त्रं हरिद्रायान वर्जनम् ॥ ३६८ ।
तथा स्त्रीराग संस्कार गीतवादित्र नर्तनम् ।
शिव सम्बन्धिनं मुक्त्वा वर्ज्यमत्यत्र यत्नतः ॥ ३६९ ॥
द्विकालं भोजनं दानं प्रीतिनासर्जनं हितम् ।
मालालङ्कार गन्धांश्च वर्जयेद्यागवर्जनम् ॥ ३७० ॥
मध्वापत्सु न दृश्येत यानशस्त्रादि वल्गुषम् ।
मिस्सिन्ग् पगे नो। ३९ ॥ ३७१ ॥
दशाङ्गुलं समुत्सेधम् उच्छ्रयादङ्गुलाष्टकम् ।
भिक्षापात्रं प्रकर्तव्यं ताम्रं वा पत्रकल्पितम् ॥ ३७२ ॥
पलाशं मधुपत्रैश्च कदम्बाम्रैश्च चम्पकैः ।
वर्जयेत् तु वराश्वत्थं विशावाताक्षि केसरम् ॥ ३७३ ॥
चातुर्वर्णं चरेद्भैक्षम् अभिशस्तं विसर्जयेत् ।
तथा पतितसम्भूतं भिक्षाचर्या यथा विधिः ॥ ३७४ ॥
दण्डेऽस्त्रं हृदयं पात्रे न्यस्त्वायायाच्छिवं स्मरन् ।
पात्रे तु पतितं भैक्षं गृह्णीयात् भूगतं त्यजेत् ॥ ३७५ ॥
स्थातव्यं न चिरं कालं निवृत्तेन निवर्तनम् ।
मौनं प्रयत्नतः कार्यं पात्रपूरणतोऽथवा ॥ ३७६ ॥
प्। २८)
कणभिक्षाथवा कार्या बहुदैव सिकान वा ।
भिक्षा मानीयतामेव स्थाप्य स्थाने शुभे समे ॥ ३७७ ॥
हस्तपादादिकं काख्य पूर्ववद्वाचमेद्बुधः ।
हृदा सम्प्रोक्षितं दद्यात् शिवाय गुरवे पुनः ॥ ३७८ ॥
भोजनं परतः कार्यं त्र्यक्षरेणाभि मन्त्रितः ।
तथा भूतं भवत्याशु तद्भुत्वा मृत्युजिद्भवेत् ॥ ३७९ ॥
मौनमास्थाय भोक्तव्यं न चात्यन्तं विरोधकृत् ।
एवं भिक्षाटनं प्रोक्तं सर्वसामान्य लक्षणम् ॥ ३८० ॥
नास्ति भिक्षा समं पुण्यं नास्ति भिक्षा समं तपः ।
सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ॥ ३८१ ॥
सर्वदानेषु यत्पुण्यं यथा चान्द्रायणादिषु ।
तत्फलं कोटिगुणितं भिक्षाशी प्राप्नुयान्नरः ॥ ३८२ ॥
पाके निर्वर्तिते यत्र अथिथि यीति पराङ्मुखः ।
देवाश्च पितरस्सर्वे यान्ति तस्मात्पराङ्मुखाः ॥ ३८३ ॥
प्राप्ते काले तु दातव्यम् अविचारेण यत्नतः ।
कुलानुद्धरते सोहि दशपूर्वान् दशपरात् ॥ ३८४ ॥
सर्वेषां चैव पात्राणां पात्रं चैवातिथिं परम् ।
हीनाङ्गमथ पूर्णाङ्गणवृत्तं जातिरेव वा ॥ ३८५ ॥
अविचारेण पूज्यस्तु सोऽश्वमेधफलं लभेत् ।
सम्प्राप्तकाले यो भैक्षं दूरतः परिवर्जयेत् ॥ ३८६ ॥
तस्य पुण्यफलं सर्वं गृहीत्वा याति सोऽतिथिः ।
अनिष्पन्ने यथा काले योजयेदविचारतः ॥ ३८७ ॥
ब्रह्महा कथ्यते सोऽहि बहुरूपाच्छताच्छुचिः ।
एवं ज्ञात्वा प्रयत्नेन कार्यं भिक्षाटनं सदा ॥ ३८८ ॥
सिद्धयः तस्य सिध्यन्ति भिक्षाशी योजितेन्द्रियः ।
सर्वे प्रतिग्रहाः प्रोक्ताः विना भिक्षां शिखिध्वज ॥ ३८९ ॥
इति श्रीकालोत्तरे महातन्त्रे षट्सहस्रे-
आश्रमप्रयुक्ताचार्य समयाचारपटलः ॥ ३९० ॥
कार्तिकेय उवाच-
गुरुद्वयं च यः प्रोक्ते भौतिकं नैष्टिकं क्रमात् ॥ ३९१ ॥
प्। २९)
अनुग्राह्य विभागं तु न ज्ञातं तत्वतो मया ॥ ३९२ ॥
ईश्वर उवाच-
शृणु षण्मुख तत्वेन मोक्षं भोगं यथा स्थितम् ।
ब्रह्मचारी गृहस्थश्च द्विविधी देशिकोत्तमः ॥ ३९३ ॥
दीक्षा प्रतिष्टयोरेता प्रभावव्यधिकारणौ ।
किन्तु मोक्षैक युक्तानां विभूतिर्विमुखात्मनाम् ॥ ३९४ ॥
ब्रह्मचारी गुरुर्ज्ञेयो गृहस्थस्स्याद्वयाथिनाम् ।
पूर्ववर्णाश्रमाणां हि स्वे स्वे कर्मणि तिष्टताम् ॥ ३९५ ॥
उत्पन्न तत्वज्ञानानां मोक्षसाधारणं स्मृतम् ।
यतीनां तु यतित्वं तु गृहस्थै रथमातृके ॥ ३९६ ॥
गृहस्थ एव तैरेव यज्ञार्थिभिरुपास्यते ।
गृहस्थादितरेषां तु नास्ति भोगाधिकारिता ॥ ३९७ ॥
तस्माद्गृही गुरुकार्यो भोगमोक्षोभयार्थिभिः ।
लिङ्गिनां तु नमस्कारात् गोसहस्र फलं लभेत् ॥ ३९८ ॥
गो सहस्र फलं याति स्वगुरोः पादवन्दनात् ।
तेनास्तौ प्राप्नुयात्सर्वं यद्दत्तं शिवलिङ्गिने ॥ ३९९ ॥
तेन तृप्तेन तृप्यं तु जगत्सर्वं चराचरम् ।
तेन तुष्टेन तुष्टस्तु देव देवस्सदाशिवः ॥ ४०० ॥
तस्मात्सर्व प्रयत्नेन पूजयेच्छिवलिङ्गिनम् ।
बौद्धवैष्णव पञ्चार्थ सौरकालाकल्लादिषु ॥ ४०१ ॥
शैवस्सर्वाधिकारीः स्यात् न शैवोऽमी कथञ्चन ।
वासना तत्वभेदेन बोद्धव्याः पशवस्त्विह ॥ ४०२ ॥
दीक्षितानां प्रवक्ष्यामि विभागं रीढसम्भवम् ।
गृहस्थो ब्रह्मचारी च दीक्षिता द्विविधौ मतः ॥ ४०३ ॥
पुत्राः पितुरभावात्तु दायादास्स्यु शिखिध्वज ।
औ रसाः समभागेन तद्वन्या विशेषतः ॥ ४०४ ॥
कथं श्रेष्टहनीष्टेस्तथान्य समवर्तिनः ।
पिता हरेदपुत्रस्य माता च तदभावतः ॥ ४०५ ॥
पितृव्यास्तदभावे तु तथान्ये पिण्डदायिनः ।
पितृपक्षोद्भवाः केचित् स्वगोत्र प्रभवा यदा ॥ ४०६ ॥
प्। ३०)
अभावात् पितृपक्षस्य त्वितरो मातृपक्षजाः ।
तदभावाद्धरेद्राजा वित्तं पक्षद्वयं विना ॥ ४०७ ॥
एवं मातामहादीनि पित्राद्यारित्थिनो स्मृताः ।
विवाहिता प्रजानारी भर्तृपक्ष कुलखिना ॥ ४०८ ॥
पितृपक्षोद्भवं रिक्थं प्रार्थितव्यं प्रयत्नतः ।
प्रभुणा दाससम्भूतं वित्तं ग्राह्यं समासतः ॥ ४०९ ॥
एवं ग्राम्य जनानां तु तथा सत्तानुरात्मनाम् ।
सत्स्वपत्येषु तेषां वै ग्राह्यं षड्भागमात्रतः ॥ ४१० ॥
निर्याण समये द्रव्ये राजा भागी न चेतरः ।
महार्घं दन्तिनो पाजीन् नृपतेस्तु समर्पयेत् ॥ ४११ ॥
ग्राह्यं द्रविण विप्राच्चतुर्णबहिष्कृतम् ।
कैवर्तकादिकं ग्राह्यम् उपस्पर्शसमुद्भवः ॥ ४१२ ॥
तन्तुप्लाव्युद्भवार्थं च वेणुप्लावीं विना हरेत् ।
इत्यष्टादशधारित्वं शास्त्रबुध्या विभाजपेत् ॥ ४१३ ॥
प्रकल्प्यमन्तरं गन्धं बहिरङ्गत्वमेव च ।
पिण्डदात्रनुसारेण दायादास्यान्न चान्यदा ॥ ४१४ ॥
गृहस्थरित्थं कथितं प्रोच्यते ब्रह्मचारिजम् ।
ब्रह्मचार्युद्भवे रिक्थ रिक्थिनस्तु स्वसन्तते । ४१५ ॥
स्वसन्ततेरभावाच्च दायादाचान्य सन्तते ।
एवं तु रिक्थिनः प्रोक्ता वर्जयेत् तदलिङ्गिनः ॥ ४१६ ॥
स्वसन्तते भवाद्द्रव्य न भोगेनापि नीयते ।
यच्च भोगविहीनं तु त्रिंशद्वर्षं विना हितम् ॥ ४१७ ॥
श्रावितं लेख्यविधिना नृपा * वित्तधृत्पुनः ।
निरीक्ष्य साक्षिणोयस्मादुभयानुमते सति ॥ ४१८ ॥
वाङ्दण्डस्ते ययुध्येषु न परीक्ष्यास्तु साक्षिणः ।
व्यवहार प्रतिज्ञास्तु सारभूता विचारयेत् ॥ ४१९ ॥
पुनरेव प्रवक्ष्यामि विचारं तव षण्मुख ।
उपकुर्वाणकानां तु शिवाज्ञा तु विधायिनाम् ॥ ४२० ॥
ब्रह्मचारी भवेद्धित्वा कृत्वा चैव प्रतिग्रहम् ।
वित्त भूम्यादिकं * * * गाश्रममथाभ्यगात् ॥ ४२१ ॥
प्। ३१)
तेषां रिक्थ विभागं तु कल्पनीयं गृहस्थवत् ।
मातृपुत्रादि भ्रातृणां प्रतिभागं प्रकल्पयेत् ॥ ४२२ ॥
त्रिविधेन प्रमाणेन साक्षिपूर्वं समन्ततः ।
अष्टादश पदञ्चात्र व्यवहारं परीक्षयेत् ॥ ४२३ ॥
सत्येव प्रविचारास्तु सङ्क्षेपात्तु प्रदर्शिताः ।
श्रुतेन वयसा जात्या समायुक्तोऽथ कन्यसः ॥ ४२४ ॥
तेनाभिवाद्यो यत्नेन गुरुवत्पूर्व दीक्षितः ।
प्रदक्षिणीयो ज्येष्टेन गुरुवद्वाभिनन्दयेत् ॥ ४२५ ॥
स पूज्यः परयाभक्त्या स्वगुरोस्तु दिने दिने ।
तद भावास्तु भार्या वा पूजनीया प्रयत्नतः ॥ ४२६ ॥
न गुरुस्त्रीत्वचित् कार्यानस्याग्राहयेदणून् ।
न देयास्त्रिषु समया न कार्या लिङ्गिनी क्वचित् ॥ ४२७ ॥
न तान्नमेत्कदाचिच्च न नग्नामवलोकयेत् ।
ज्येष्ठो भ्राता सदा पूज्यः शास्त्रमन्वेष्टयेत् ततः ॥ ४२८ ॥
अथवान्यतमाच्छास्त्रं श्रोतव्यं कर्मसिद्धये ।
गुरुवत्पूजयेन्नित्यं नानात्वं परिवर्जयेत् ॥ ४२९ ॥
चोदको बोधकश्चैव मोक्षदस्तु तृतीयकः ।
शिववत्पूजयेत्सर्वान् यतस्ते मोक्षदा नृणाम् ॥ ४३० ॥
या प्रेरयति जन्तूनां शिवे परमकारणे ।
प्रेरणाच्चोदकं प्राहुः गुरु धौरेय उत्तमः ॥ ४३१ ॥
दीक्षा गुरोर्मोक्षदस्तु बोधकश्शास्त्र दर्शकः ।
बोधकस्तु प्रयत्नेन पूजितव्यः सदैव हि ॥ ४३२ ॥
इत्येतत्कथितं लेशान्नियोगात् गुरुसंस्थितम् ।
इति कालोत्तरे महातन्त्रे षट्सहस्रे गुरु- ॥ ४३३ ॥
विचारो षोडशः पटलः-
त्रिचत्वारिंशदश्लोकः
ईश्वर उवाच ॥ ४३४ ॥
अंशकं सम्प्रवक्ष्यमि साधकानां फलप्रदम् ।
विचारश्चात्र कर्तव्यो मन्त्राणाम् अंशको ननु ॥ ४३५ ॥
अंशकानि विना बीजाः फलवर्जिताः ।
यथा बीजमकाले तु फलदं नैव दृश्यते ॥ ४३६ ॥
प्। ३२)
ऊषरे व्यप्य निक्षिप्य बीजं फलविवजितम् ।
तद्वन्दशकहीनं तु मन्त्रं नादापयेत् क्वचित् ॥ ४३७ ॥
अतोंशकं त्रिधावक्ष्ये ज्ञात्वा सिद्धगतो भवेत् ।
भूमौ तु मातृकां लिख्य कूट * * विवर्जिताः ॥ ४३८ ॥
मन्त्राक्षराणि विश्लेक्ष्य अनुस्वारान्नयेत् पृथक् ।
साधकस्य तु या सञ्ज्ञा तस्य विश्लेषणं तथा ॥ ४३९ ॥
मन्त्रस्यादौ तथा चान्ते साधकानां नियोजयेत् ।
सिद्धः साध्यः सुसिद्धारिः सञ्ज्ञां गणयेत्क्रमात् ॥ ४४० ॥
मन्त्रस्यादौ तथान्ते च सिद्धिदस्य शुभांशकः ।
सिद्धादिश्चान्त सिद्धिश्च तत्क्षणादेव सिध्यति ॥ ४४१ ॥
सुसिद्धादि सुसिद्धान्तं सिद्धवत्परिकल्पयेत् ।
अरिमादौ तथान्ते च दूरतः परिवर्जयेत् ॥ ४४२ ॥
सिद्धस्सुसिद्धः चैकार्थे अरिस्साध्यस्तथैव च ।
आदौ सिद्धिस्थितो मन्त्रे तदन्ते तद्वदेव हि ॥ ४४३ ॥
सिद्धस्सिध्यन्त सन्देह उदासीनो द्वितीयकः ।
स्वसिद्धः फलदः क्षिप्रम् अरिन्नाशकरोध्रुवम् ॥ ४४४ ॥
अत्यन्तारि सम्राक्रान्त मृत्युदन्तेन वर्जयेत् ।
अर्ध्यन्तश्च सुसिद्धादि सिद्धान्तारि पुनशुभः ॥ ४४५ ॥
इत्येकदंशकं ज्ञात्वा मन्त्रं शिष्यायचार्पयेत् ।
प्रासादप्रणवाद्यं तु माया वर्णस्य षण्मुख ॥ ४४६ ॥
नवात्म देवरोभ्यान्नांशकं परिकल्पयेत् ।
विद्यानुग्राहकाह्येते मन्त्रराजेश्वरा मताः ॥ ४४७ ॥
समर्थास्सर्वकार्येषु नांशकं तेषु कल्पयेत् ।
अथवान्य प्रकारेण अंशकं कल्पयेत्सुधीः ॥ ४४८ ॥
ब्रह्मा विष्णुश्च शक्रश्च यक्षगन्धर्वराक्षसाः ।
दैत्यविद्याधरा रुद्राः ज्ञेयाश्शुद्धास्तदंशकाः ॥ ४४९ ॥
प्रातस्नायी द्विजासक्त शौचकृत्संयतो घृणी ।
ब्रह्मविद्यात्म संसक्तो ज्ञेयो ब्रह्मांशकस्स च ॥ ४५० ॥
प्। ३३)
मायी सत्वयुतो धीरः स्त्रीप्रियो मत्सरी दृढी ।
कार्योपायशताभिज्ञो ज्ञेयो वै वैष्णवांशकः ॥ ४५१ ॥
रुद्र भक्तोद्यमी वीरः पिशाचनिलयात्रयः ।
महाव्रत प्रियो प्राज्ञो ज्ञेयो रुद्रांशकः नरः ॥ ४५२ ॥
गीतनृत्ताद्यभिज्ञश्च दन्तिद * न तत्परः ।
तदैश्वर्यः कथासक्तो ज्ञेयः पौनन्दशान्तकः ॥ ४५३ ॥
क्षीराशी चानिलोत्या न गलखण्डोदन प्रियः ।
स्तब्दाक्षो नागकन्यार्थी ज्ञेयो नागांशकोनरः ॥ ४५४ ॥
काकाङ्गदहारैश्च भूषा भूषण भूषितः ।
सत्वयुक्तोङ्गसम्पन्नो ज्ञेयो यक्षेश्वरांशकः ॥ ४५५ ॥
गीतनृत्त प्रियोमाल्य वस्त्रसृक्गन्ध सुन्दरः ।
तदैश्वर्याभिलाषी च गन्धर्वांशो नरोत्तमः ॥ ४५६ ॥
क्रव्यात्सृक्गन्ध शर्वरी भ्रमणप्रियः ।
भ्रुकुटी भङ्गभीमाक्षो ज्ञेयोऽसौ राक्षसांशतः ॥ ४५७ ॥
गम्भीराक्षि पदक्षोभः पररन्ध्रनिबन्धधीः ।
महाभव कथालापी ज्ञेयो दैन्यांशको नरः ॥ ४५८ ॥
रोधनाञ्जननि स्त्रिंशद्विप्रासिद्धिसमीहकः ।
तदूढचेताश्चोत् * क्षु ज्ञेयो विद्याधरांशतः ॥ ४५९ ॥
धीरो भीमोऽमलाकान्तः पूतिगन्धामिषप्रियः ।
सत्क्षुद्रो तीवरोषार्तः पिशाचांशः स उच्यते ॥ ४६० ॥
शुद्धांशका समाख्याता मिश्रांशः कथ्यते पुनः ।
सुरननखरः श्लक्ष्णः प्रभामण्डलमण्डितः ॥ ४६१ ॥
गूढ गुलाङ्गुली उर्व कूर्मपृष्टपदं पुनः ।
सुवृत्तजङ्घा जान्वग्ररम्भास्तम्भ समोरुकः ॥ ४६२ ॥
नितम्ब तटविस्तीर्ण स्त्रिवलीभङ्गभङ्गुरः ।
आक्षौम मध्यदेशान्त विस्तीर्ण कमलालयः ॥ ४६३ ॥
कम्बुकण्ठश्च बिम्बोष्टः ललम्बभुजपङ्कजः ।
प्रोत्तुङ्ग समनासाग्र विलोल चपलेक्षणः ॥ ४६४ ॥
स्वन्तरश्मि शुद्धास्य कार्मुक भ्रूयुगाङ्कितः ।
ललाट तटविस्तार शिरच्छत्र सुशोभितः ॥ ४६५ ॥
प्। ३४)
महामायूरपिञ्चाग्र नीलवक्रशिरोरुहः ।
सत्वबुद्धिबलाकाश्च क्षान्ति प्रीति समन्वितम् ॥ ४६६ ॥
उत्साहहर्षसम्पन्नो रुद्र भक्तो निवर्तकः ।
मिश्रांशक युतोधान्य सचाहस्सर्वसिद्धिषु ॥ ४६७ ॥
प्रतिपत्पूर्णिमां तत्व सकलाद्वाद्विवास्थिताः ।
कर्णोष्ट्यं तु स तु मध्ये पक्षयोर्मातृभिस्सह ॥ ४६८ ॥
एवं ज्ञात्वांशकं दद्यात् मन्त्रं तस्य यथा हितम् ।
एकाक्षरं समारभ्य षडन्तं मन्त्ररुच्यते ॥ ४६९ ॥
सप्ताक्षराद्भवेद्विद्या यावत्पञ्चशतावधि ।
सप्ताक्षराद्भवेद्बाला यावद्विङ्क्षरावधि । ४७० ॥
तदूर्ध्वं तु कुमारी स्याद्वर्णाद्वात्रिंशदन्तकाः ।
तदूर्ध्वं युवतीज्ञेया यावद्वर्णशतत्रयम् ॥ ४७२ ॥
शतत्रयात्स्थ विरास्यात् पञ्चकावधि ।
ततस्सहस्र वर्णान्तं दृढविद्या प्रकीर्तिताः ॥ ४७२ ॥
सहस्रात्परतो विद्या दण्डकेति प्रकीर्तिता ।
द्विसहस्रं स्तवंविद्धि सकृज्जप्ते च सिध्यति ॥ ४७३ ॥
पूर्वसन्ध्या तु बालानां जपहोमार्चने हिता ।
सूर्योदये कुमारीणां प्रहरे यौवन स्थिता ॥ ४७४ ॥
मध्याह्ने स्थविराणां तु वृद्धानामपराह्नकम् ।
दण्डकानां तु सन्ध्यानां नक्तशेषेषु पूजनम् ॥ ४७५ ॥
मन्त्राणां चैव पूजान्ते जपहोमादिकं हितम् ।
अन्यथा कुरुते यस्तु विघ्नेशैश्चापि भूयते ॥ ४७६ ॥
न सिध्यति मनाक्तस्य यत्साधयितु मीहते ।
नैवेद्यं चैव सर्वेषां पायसं सघृतं दधि ॥ ४७७ ॥
मोदकानि विचित्राणि खण्डकाद्यान्यनेकशः ।
कालं ज्ञात्वा प्रयत्नेन सिद्धिदाना नृतं वचः ॥ ४७८ ॥
ककारादि हकारान्तं क्रमात्पक्षौ सितासितौ ।
आदि पक्षस्तु * त्रणैर्हीनोवत्सन्निगद्यते ॥ ४७९ ॥
अनुस्वारविसर्गेण विना मात्राक्रिया न्यसेत् ॥ ४८० ॥
प्। ३५)
ह्रस्वा शुक्लास्समा दीर्घाः कृष्णा वै * * * * * ।
बाला कुमारी युवती वृद्धा चिन्ताकरी * ।
तिथयः पञ्चविज्ञेयाः प्रतिपक्षं त्रिधा स्थिताः ॥ ४८२ ॥
जन्मलाभविनाशं च क्रमादेकैकपञ्चकम् ।
उदितो * * * सन्ध्याग्रामितो स्तिमितस्तथा ॥ ४८३ ॥
उदिते शान्तिकादीनि कर्माणि भसिते तथा ।
विश्वाकर्षण स्तम्भ * * * काले प्रकल्पयेत् ॥ ४८४ ॥
विद्वेषोच्चाटने शस्तं ग्रामितं पार्वतीसुत ।
अस्तमस्तमनं शस्तं ज्ञात्वा कालं च सिध्यति ॥ ४८५ ॥
एकैकस्य तु कालस्य ज्ञेयः षड्घटिकोदयः ।
तत्राव्यवहन्तरः कालो विज्ञेयश्च त्रिधास्थितः ॥ ४८६ ॥
शान्तिदादीनि कर्माणि इडाचारेण सिद्धिदा ।
विश्वाकर्षणमोहादीन् पिङ्गलेन प्रसिध्यति ॥ ४८७ ॥
मारणोच्चाटनादीनि विषुवत्स्थेन भावयेत् ।
एकैकं पञ्चधा ज्ञेया नाडीचारं प्रयत्नतः ॥ ४८८ ॥
पृथिव्या * * * तेजोवायुराकाश एव च ।
अधस्पृक् प्रवहेद्यस्मात् पृथिवी नामनामतः ॥ ४८९ ॥
ऊर्ध्व तेजः प्रवहन्ति ताभ्यां मध्या * * मतः ।
रन्ध्रे पार्श्वे भवेद्वायुः सर्वं व्याप्य तथामवरम् ॥ ४९० ॥
स्तम्भिकथ्?पार्थिवोमार्गे शान्तिकं वारुणेहितम् ।
वश्याकर्षण * हादीन् तैजसेन न संशयः ॥ ४९१ ॥
भ्रमणं वायुमार्गेण समरं शून्यभेन तु ।
इत्येतल्लेशतः ख्यातं कालस्य तु * * * या ॥ ४९२ ॥
अनेन तु विना वत्स न किञ्चिदपि सिध्यति ।
तस्मात् सर्वप्रयत्नेन कालज्ञानं समभ्यसेत् ॥ ४९३ ॥
इति कालोत्तरे महातन्त्रे * * अंशकता-
लक्षणः सप्तदशमः पटलः ॥ ४९४ ॥
षष्ठश्लोकः -
प्। ३६)
अथातः सम्प्रवक्ष्यामि * * सद्भावमुत्तमम् ।
सर्वे सौभाग्यमतुलं श्रीमेयाकान्ति पुत्रदम् ।
भूतिकामैस्सदा सेव्यमायुः पुष्टिविवर्धनम् ॥ ४९६ ॥
मन्त्रध्यानं मण्डलं च मुद्रासन्धानमेव च ।
पञ्चप्रकारं सङ्क्षेपात् कल्पन्ते कथयाम्यहम् ॥ ४९७ ॥
चित्रभानुं शिवं कालं महाशक्ति समन्वितम् ।
आद्यन्तं परतोद्ध्र्ट्य तदेव सविकारिणम् ॥ ४९८ ॥
द्वितयः तारकं कान्तं गौरी तत्रिपदान्वितम् ।
चतुर्थ्यन्तं प्रकर्तव्यं गौर्यासम्पूर्णावाचकम् ॥ ४९९ ॥
तत्राद्यं त्रितये नैव षोडाविन्यन्तमुच्चरेत् ।
ईश्वराच्छक्ति पर्यन्तं मूर्त स्वहृदयेन तु ॥ ५०० ॥
गौरीमन्त्रं समाख्यातं शिवमन्त्रमथोच्यते ।
ऊहकं च तथा कालं शिवबीजं समुद्धरेत् ॥ ५०१ ॥
प्राणदीर्घस्वराक्रान्तं षडङ्गं जातिसंयुतम् ।
आसनं प्रणवेनात्र षडुत्थं तु स तु न्यसेत् ॥ ५०२ ॥
मूर्तिन्यासं हृदा चात्र धूपदीपादिकं तथा ।
यामलं कथितं वत्स एकवीरमतः शृणु ॥ ५०३ ॥
व्यापकं सृष्टिसंयुक्तं वह्निमाया तु शोगगः ।
शिवशक्तिमयं बीजं हृदयादि विवर्जितः ॥ ५०४ ॥
यस्सर्वकामप्रदं वत्सबीजबीजवरं विदुः ।
ध्यानमन्त्रं प्रवक्ष्यामि यथा वदनुपूर्वशः ॥ ५०५ ॥
द्व्यङ्गुला तु समारभ्य यावद्रज्राङ्गुलावधि ।
गृहे तु तत्वतः कार्यं बहिः प्रासादमानतः ॥ ५०६ ॥
हेमद्रव्यमयीशस्ता पित्तलामधताम्रजा ।
श्वेतचन्दनजावायी देवदारुमयी शुभा ॥ ५०७ ॥
अव्यक्ता यत्नतः कार्यो पञ्चपिण्डाशिवान्विताः ।
कोणेषु च वृत्तानि तदूर्ध्वे पञ्चमं भवेत् ॥ ५०८ ॥
प्। ३७)
लालिता सुभगा गौरी क्षोभणी शक्तिरेव च ।
अग्नीश रक्षो वा धूर्ध्वे दिक्षु वृत्तेऽन्यथा भवेत् ॥ ५०९ ॥
वाक्भवेच्छा क्रियाज्ञानी दिक्षु पूर्वादितो न्यसेत् ।
सपीठरचनायुक्तो वामभाग शिवस्थिता ॥ ५१० ॥
अव्यक्तं तु शिवं कुर्युः लक्ष्मरेखा विवर्जितम् ।
एतदव्यक्त रूपं तु शिवयोः परिकीर्तितम् ॥ ५११ ॥
भुक्तिमुक्तिप्रदं ज्ञेयं स्त्रीणां चैव विशेषतः ।
व्यक्तरूपामतो वक्ष्ये सर्वसाधारणा तथा ॥ ५१२ ॥
द्विनेत्रा वा त्रिनेत्रा वा शुद्धा वा शङ्कान्विता ।
समाङ्घ्रि विषमाङ्घ्रिर्वा संस्थिता द्विचतुर्भुजा ॥ ५१३ ॥
पीठपद्मद्वयस्था वा सि * कर्मस्थितापि वा ।
गौरी यथा तथा स्थाप्य तत्राद्या द्विभुजा सती ॥ ५१४ ॥
सृगक्षिसूत्र कलिका शलाकोल्पल घण्टिका ।
शरं परं वा सव्येन पाणिनान्यभयं भवेत् ॥ ५१५ ॥
वामेन पुस्त ताम्बूलं दण्डाभयकमण्डलुम् ।
गणेश कल्पणे वासान् दद्यादेकैकशः क्रमात् ॥ ५१६ ॥
अष्टानां सर्व हस्तानाम् एकैकस्येतरस्थितैः ।
मूर्तीनामष्टभिर्भेद स्याच्चतुष्षष्टिवद्विभोः ॥ ५१७ ॥
यथोक्त * रिष्टकयोः प्रतिपार्श्वं द्वयं द्वयम् ।
बिभ्रतीति चतुर्हस्ता वेदाष्टगिरिभेदतः ॥ ५१८ ॥
प्रत्यष्टकं हि युग्मानि स्युरष्टयाम्बुधि सङ्ख्यया ।
तेषामन्योन्य सम्मूर्धा मुक्तासङ्ख्या प्रवर्तते ॥ ५१९ ॥
मुख्य दृश्यामदृश्यां वा व्यक्तां वाथ प्रकल्पयेत् ।
लिङ्गवत्सा तु बोद्धव्या व्यक्ताव्यक्तोभयात्मिका ॥ ५२० ॥
अव्यक्तरूपा गौरी या अव्यक्तं कारयेच्छिवम् ।
अव्यक्तं वा शिवं कुर्यात् व्यक्ता वा परमेश्वरी ॥ ५२१ ॥
व्यक्तरूप द्वयं वाथ कर्तव्यं लक्षणान्वितम् ।
अष्टतालोच्छ्रिता गौरी नवतालशिवो भवेत् ॥ ५२२ ॥
न ह्रस्वा न तु शाकार्या विकृता वा शिवप्रदा ।
अर्धनारीश्वरं वाथ कर्तव्यं पुर्ध प्रमाणतः ॥ ५२३ ॥
प्। ३८)
इति ध्यानं समाख्यातं मुद्रां वै कथयामिते ।
आसने पद्म मुद्रां तु प्रागुक्तां परिकल्पयेत् ॥ ५२४ ॥
लिङ्गमुद्रा शिवस्योक्ता मुद्राचावाहती द्वयोः ।
गौर्या शक्तिमुद्रा तु योनिमुद्रा तु वा स्मृता ॥ ५२५ ॥
अन्योन्यङ्गुलि संवेष्टयावङ्गुष्टौ मध्यगौ न्यसेत् ।
तर्जनी चोच्छ्रिते चोभे शक्तिमुद्रा शिवप्रदा ॥ ५२६ ॥
क्षोभणी सर्वसन्धानां मन्त्रपूर्वा षडानन ।
मण्डलं सम्प्रवक्ष्यामि यथावदनुपूर्वशः ॥ ५२७ ॥
चतुरश्रं चतुर्हस्तं समन्ताद्दिशि भाजितम् ।
मध्ये कोष्टे * * * तु त्रिकोणा परिकल्पयेत् ॥ ५२८ ॥
तिस्रोर्ध्वे चार्धचन्द्रं तु द्विगुणं द्विगुणभ्रमात् ।
द्विपदद्वारखण्डं तु द्विगुणं पदखण्डतः ॥ ५२९ ॥
एवं * * चतुष्कं तु वर्तितव्यं प्रयत्नतः ।
द्वाराभ्यां कोणदेशं तु द्विपदं वज्रवन्मतः ॥ ५३० ॥
प्रायश्चित्त द्वारद्वयस्यात्र कर्णं स्वविना ।
त्रिकोणमध्ये कमलं साष्टपत्रं सकर्णिकम् ॥ ५३१ ॥
शुक्लकुन्देन्दु वर्णाभं त्रिकोणं रक्तवर्चसम् ।
अर्धचन्द्र * * ध्वन पीतं काञ्चन सप्रभम् ॥ ५३२ ॥
द्वाराणि पीतकृष्णानि कोणवज्राञ्जनप्रभम् ।
एवं निर्वत्य विधिव मण्डलं * * वर्धनम् ॥ ५३३ ॥
अथवा सर्वतो भद्रं मण्डलं परिकल्पयेत् ।
मण्डलं पूर्ववत्कुर्यां प्रतिष्टायां षडानन ॥ ५३४ ॥
प्रतिष्ठापञ्चमं कार्यं ध्वजान्तं शिवधामवत् ।
जीर्णोद्धारे कृतेवत्स लभते मौलिकं फलम् ॥ ५३५ ॥
प्रतिष्ठाप्य ततो देवीं भक्तियुक्तैस्सुभाषितम् ।
पूजयेत्तत्र विधिवत् स्थण्डिले वाथ शोभने ॥ ५३६ ॥
आश्वानं कारयेत् तत्र शक्ति तत्वा परापरम् ।
इत्येषा भावनाकार्या प्रतिमादिषु साधकैः ॥ ५३७ ॥
ध्यातव्या साधकेन्द्रेण क्रियायां भाग्यसिद्धये ।
पञ्चामृतादिनास्नाप्य विलिप्य कुङ्कुमादिभिः ॥ ५३८ ॥
प्। ३९)
रक्तवस्त्राणि देयानि कुसुमानि विशेषतः ।
सुगन्धानि च शुक्लानि गन्धयुक्ता पराणि च ॥ ५३९ ॥
धूपः कृष्णागरुर्देय सिंहकं वा शशीयुतम् ।
खण्डकाद्यानि देयानि पवित्राणि बहूनि च ॥ ५४० ॥
कृ * * खण्डसम्मिश्रं क्षीरपानं प्रदापयेत् ।
कन्दमूल फलादीनि यद्यन्मनसिरोचते ॥ ५४१ ॥
ताम्बूलं * द्र सहितं नानाभोगं समर्पयेत् ।
उत्तराभिमुखो भूत्वा पूजयेत्परमेश्वरीम् ॥ ५४२ ॥
सम्पूज्य पर * * * जपः कार्यं प्रयत्नतः ।
अष्टोत्कृष्टं सहस्रं वा शतं वा प्रत्यहं सुत ॥ ५४३ ॥
होमस्तद्वत् प्रकर्तव्यो ह्यङ्ग * *दशांशतः ।
स्वशक्त्या तु शिवे जापः तथा होमश्च शाङ्करे ॥ ५४४ ॥
पद्माभे वनं शस्तं कुर्याग्रे तदभावतः ।
हस्तमात्रे शुभे कुण्डे मेखला त्रितयान्विते ॥ ५४५ ॥
अर्घ्यपात्रोदके नैव सकृत्कुण्डं तु प्रोक्षयेत् ।
स्रुक् स्रुवौ होमद्रव्याणि सिद्धिदानि न चान्यथा ॥ ५४६ ॥
ज्ञानाग्निं कल्पयेत्तत्र हृदयाम्बुजमास्थितम् ।
सुषुम्न वर्त्मनान्यस्य सम्पूज्य च विधानतः ॥ ५४७ ॥
तथा च गुअरी रूपेण ध्यात्वा पूर्णां प्रदापयेत् ।
शक्त्यग्निर्भवति ह्येव नित्य नैमित्तिकादिषु ॥ ५४८ ॥
सर्वान् कामानवाप्नोति ज्ञानाग्नेर्हवनान् सुत ।
अहन्यहनि होमं तु जाति पुष्पै कल्पयेत् ॥ ५४९ ॥
चम्पकैर्वा पलाशैर्वा करवीरैर्घृतप्लुतैः ।
कमलैनीलपत्रैर्वा श्रीफलैर्मन्दनैरथ ॥ ५५० ॥
पूगैर्जातिफलैर्होमं कुङ्कुमैः केसरेण वा ।
कर्पूरेण प्रकर्तव्यं चन्दनेन विशेषतः ॥ ५५१ ॥
कपिलाघृतहोमस्तु तथा गुग्गुलुसंयुतः ।
दूर्वाहोमे तथा शस्तो लाजाहोमो विशेषतः ॥ ५५२ ॥
प्। ४०)
कन्दपुष्पैर्हितो होमो जातिपुष्पैर्विशेषतः ।
सुमनापुष्पहोमस्तु उन्मत्तैर्वर्जयेत्सदा ॥ ५५३ ॥
दूर्वामृताज्य होमस्तु समधुश्शस्यते पुनः ।
तथा सिद्धार्थके होमो ब्रह्मवृक्षस्यकुड्मलैः ॥ ५५४ ॥
तद्भवैः कोमलैः पत्रैः शाखाभिः कोमलैस्ततः ।
आकर्षणे तथा ह्येते होमज्ञो होममाचरेत् ।
नागकेसरवृन्तेन स्तम्भने होमे इष्यते ॥ ५५६ ॥
आप्यायते शुक्ल वा रक्तापश्ये प्रशस्यते ।
मष्टनोर्पितवर्णा तु कृष्णा वै कृष्णकर्मणि ॥ ५५७ ॥
पूर्णापश्चात्प्रदातव्या त्रिपुण्ड्रं कारयेत्ततः ।
होमं समर्पयेद्देव्या नमस्कृत्य पुनः पुनः ॥ ५५८ ॥
अस्तामूलं यावद्विलोमाघं प्रकल्पयेत् ।
प्रतिमायां प्रकर्तव्या नैव तत्र विसर्जनम् ॥ ५५९ ॥
स्थण्डिले मण्डलेऽग्नौ तु कलशे तत्प्रकल्पयेत् ।
पश्चाद्भूतबलिर्देयः क्षेत्रोद्वास्यते बहिः ॥ ५६० ॥
समाचम्य तु तन्यासं संस्मरेच्छक्तिमव्ययम् ।
सप्तवारं प्रयत्नेन आचार्यादींश्च तर्पयेत् ॥ ५६१ ॥
कुमारीं पूजयेद्यत्नात् पञ्चसप्ताष्टकं सदा ।
स्त्रियः प्रयत्नतः पूज्या भर्तृयुक्ताः शिखिध्वज ॥ ५६२ ॥
देव्यै दत्तं तु यत्किञ्चित् कुमारीभ्यः प्रदापयेत् ।
शिवभक्तेषु वद्दद्यान्नाश्नीयात्तत्स्वयं क्वचित् ॥ ५६३ ॥
इत्येतत् सरहस्यं तु सुभगा काममीरितम् ।
जयार्थी जयमाप्नोति पुत्रार्थी लभते सुतान् ॥ ५६४ ॥
कन्यार्थी लभते कन्यां धनार्थीलभते धनम् ।
दुर्भगा सुभगत्वं च प्राप्नुयाच्चाप्यखण्डितम् ॥ ५६५ ॥
अखण्डित प्रतापं च जयमाप्नोति भूपतिः ।
विलसेदवनीं सर्वान् नवखण्डां ससागराम् ॥ ५६६ ॥
प्। ४१)
सप्तलक्षं तु जापे वाञ्छा सिद्धि प्रजायते ।
वशं नयतांशकादीन् दानवादिषु का कथा ॥ ५६७ ॥
इत्येषा पूर्वसेवा तु कर्तव्या साधकेन तु ।
स्त्रीणां वा पुरुषाणां वा दीक्षां कृत्वा प्रदापयेत् ॥ ५६८ ॥
अस्मिन् मन्त्रचरे वत्स नाशङ्का परिकल्पयेत् ।
कलाभिः कारयेत् दीक्षांशताहुत्या यथाक्रमम् ॥ ५६९ ॥
एवं पञ्चकला होम्या शक्तौ पूर्णा नियोजयेत् ।
समधी पुत्रकाभ्यां च साधकाचार्यकां स्तथा ॥ ५७० ॥
सर्वेषां योजना कार्या शक्तितत्त्वे तु पूर्वकम् ।
ईश्वरे साधको भोगमाचार्य सकले स्थितिः ॥ ५७१ ॥
एवं ज्ञात्वा प्रयत्नेन लय भोगौ प्रकल्पयेत् ।
अज्ञात्वालय भोगौ तु ये दीक्षा कुरुते गुरुः ॥ ५७२ ॥
आचार्यः सह शिष्यैस्तु नरके रौरवे पचेत् ।
देशिकस्तु प्रयत्नात्तु ज्ञात्वा दीक्षां समाचरेत् ॥ ५७३ ॥
दीक्षान्ते समयाश्राव्या साधकाचार्ययोषिताम् ।
कन्यास्त्र वेदविप्राणां गुरुणां च विशेषतः ॥ ५७४ ॥
शास्त्रादि साधकादीनां निन्दां यत्नेन वर्जयेत् ।
परिहासेन कर्तव्यो नावमानं कदाचन ॥ ५७५ ॥
द्रव्यापहरणं चैव मनसा परिवर्जयेत् ।
चापल्यं च तथा लौल्यं गुर्वाज्ञा लङ्घनं तथा ॥ ५७६ ॥
सिद्धमन्त्रं प्रयत्नेन सर्वतो ग्राहयेत्सदा ॥ ५७७ ॥
न चात्रकाल नियमो नाशङ्का तत्र कल्पयेत् ।
रक्तवस्त्राणि धार्याणि कज्जलं यावकं तथा ॥ ५७८ ॥
कज्जलाक्तौ सदा नेत्रौ पादौ लक्तकरञ्जितौ ।
सुगन्धपुष्पं शिरसि धारितव्यं प्रयत्नतः ॥ ५७९ ॥
मुखताम्बूलसंयुक्तं ग्रीवा ग्रैवैयकान्विता ।
हस्ताभ्यां कङ्कणौ धार्यौ कुण्डलौ चाङ्गुलीयकम् ॥ ५८० ॥
प्। ४२)
सुगन्धरक्तवस्त्राणि धारितव्यानि सर्वदा ।
रमणं तु दिवा वन्द्यं तथा पर्वसु पर्वसु ॥ ५८१ ॥
रजस्वलायाः कर्तव्यम् अन्तर्यागः प्रयत्नतः ।
परोच्छिष्टं न भुञ्जीयात् भर्तृदन्तेन दोषभाक् ॥ ५८२ ॥
शर्यासनादिकं दानं पाद्मके परिवर्जयेत् ।
गुरुं दृष्ट्वा प्रयत्नेन पादौ दूरात्तु वन्दयेत् ॥ ५८३ ॥
त्रिकालं पूजनं कार्यम् एककालमथापि वा ।
यावन्न पूजिता गौरी न तावद्भक्षणं हितम् ॥ ५८४ ॥
ताम्बूलवस्त्र गन्धादि पूजयित्वा तु धारयेत् ।
प्रभातसमये भक्त्या भवानीं पूजयेत्सदा ॥ ५८५ ॥
नाना * नैव कर्तव्यं मूर्तौ मन्त्री कदाचन ।
खण्डनीं पेषणीं चुल्लीं मार्जनीं देहलीं तथा ॥ ५८६ ॥
कन्या स्त्री बाल * श्च शस्त्रमग्नि द्विजं गुरुः ।
स्थविरं कर्तरिं रक्तं वस्त्र पादैर्न संस्पृशेत् ॥ ५८७ ॥
वामहस्तेन पूजा तु वर्जनीया शिखिध्वज ।
तैलमांसादिकं वत्स वर्ज्य पर्वणि पर्वणि ॥ ५८९ ॥
अष्टम्यां च चतुर्दश्यां पौर्णमास्यां विशेषतः ।
सङ्क्रान्ते ग्रहणे चैव षडशीति मुखेषु च ॥ ५८९ ॥
विशेष पूजा कर्तव्या आचार्यं पूजयेत्सदा ।
तृतीया जागरं कार्यं चतुर्थं पूजनं तथा ॥ ५९० ॥
देव्या दत्तं तु नैवेद्यं कुमारीषु प्रदापयेत् ।
अदीक्षितानां पुरतः पूजनं परिवर्जयेत् ॥ ५९१ ॥
परिचार्य कुमार्यस्तु तदभावात्तु योषितः ।
सुगन्धा सुभगा कार्याचतुर्थं पूजनं तथा ॥ ५९२ ॥
देव्या दत्तं तु * * * * * * * * * * * ।
५३ तो ८७ मिस्सिन्ग् ॥ ५९३ ॥
प्। ४३)
अष्टभागेद्वेग भागो द्विवृध्याद्विगुणमारुतः ॥ ५९४ ॥
ए * * * भूमित्तिश्च पूर्ववत्परिकल्पयेत् ।
एवं विंशति भागान्तं विडतान्तं परिकल्पयेत् ॥ ५९५ ॥
अन्तद्विगुणमात्रान्तं मायां परिकल्पयेत् ।
द्वितलं त्रितलालिन्द्रान् भित्तिश्च बहिसङ्ख्यया ॥ ५९६ ॥
पादेन वार्धभागेन त्रिपादेन स पादतः ।
धात्रेन सत्रिपादेन द्विपादेनाधिकल्पयेत् ॥ ५९७ ॥
दत्वालिन्द्रं बहिर्भागा घनं वा सर्वरिष्यते ।
अधिष्टानाधि षड्वर्गं पूर्ववत्परिकल्पयेत् ॥ ५९८ ॥
शालाकार भाकार प्रासादाकार एव वा ।
मस्तकस्त्र विसञ्ज्ञेयं कनिष्टं मध्यमोत्तमम् ॥ ५९९ ॥
अष्टमा विभक्तेक्त उत्तमादित्रयमत्रयम् ।
द्विरोत्सेधमसम्मानमुत्तमं शृणु मुच्यते ॥ ६०० ॥
रन्ध्रभागेकहीनं तु मध्यमं समुदाहृतम् ।
भक्षांशं भीमथ मरम् अविसत्त तु मुत्तमम् ॥ ६०१ ॥
त्रिरत्निमध्यमं ज्ञेयं द्विरत्निश्चोत्तमं भवेत् ।
लब्वि त्रिंशच्चलं शानि? दीशादीशादि शादिता ॥ ६०२ ॥
भागमेक समं रोप्य यावत्तस्य शुभोदयम् ॥ ६०३ ॥
यौगिकं लौकिकं चेति द्विविधं तालमुच्यते ।
त्रितालं तु चतुस्थालं पञ्चतालमथापि वा ॥ ६०४ ॥
उत्सेधं तु समं प्रोक्तं पीठमानमुदीरितम् ।
पीठोपरिष्टात्पद्मं तु पञ्चाशं तु विभाजिते ॥ ६०५ ॥
त्र्यंशं पद्मतुङ्गं तु तत्तुङ्गन्तु त्रिधा भवेत् ।
एकांशं तु दलोत्सेधम् ऊर्ध्वंशन्तु कर्णिका ॥ ६०६ ॥
एवं कृत्वा वितानेन पीठानमुदीरितम् ।
देव्यामानत्रिधा प्रोक्तं शिवलिङ्गानुरूपतः ॥ ६०७ ॥
पूजांश सदृशांशं वाथ द्विगुणं त्रिगुणं तु वा ।
चतुष्पञ्च गुणं वापि पूजांशोच्च त्रिपादकम् ॥ ६०८ ॥
प्। ४४)
अर्थान्त दधरेषांशे नवमारम्भा भवेत् ।
पूजा चोच्च चतुर्वंश शतं वाथ विभज्य च ॥ ६०९ ॥
द्रभुद्रव्याणस्य कर्णान्तं बाहुकक्षस्तरान्तकम् ।
अङ्गहीने क्षयं कुष्टं शङ्ख चक्रादिलाञ्चनम् ॥ ६१० ॥
ब्राह्मणान् श्रुतिसूत्रान् पतिनां न संशयः ।
अङ्गेषु नाङ्गयेद्विप्र देवतायुधलाञ्चनम् ॥ ६११ ॥
अङ्गेषु यदि वान् * * पतितो नात्र संशयः ।
शूलमक्षरचक्रं च ब्राह्मणो दासवत्कुरु ।
जपहोमाय दानं च सर्वकर्माणि वर्जयेत् ॥ ६१३ ॥
शूलस्पर्शनमेवं देशिकं वर्जयेत्ततः ।
चक्रं तु दासवत्प्रोक्तम् आचार्यं तु सुसंस्पृशेत् ॥ ६१४ ॥
जपहोमार्चनं दानं निष्फलं तु विधीयते ।
लिङ्गमानवशाद्देवी माननिष्कल सञ्ज्ञिते ॥ ६१५ ॥
प्रतिमानां च सर्वेषां * * * * * * * * ।
प्। ४५)
हरिः ॐ
शुक्लाम्बर धरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ ६०९ ॥
अगजानन पद्मार्कं गजाननमहार्निशम् ।
अनेकदन्तं भक्तानाम् एकदन्तमुपास्महे ॥ ६१० ॥
शुभमस्तु गणेशलक्षणम् ।
गणेशं पुरुषाकारं गजकर्णं गजाननम् ॥ ६११ ॥
महोदरं बृहत्कायम् एकदंष्ट्रं त्रिलोचनम् ।
रौद्रनेत्रं तु लम्बोष्टं नागयज्ञोपवीतिनम् ॥ ६१२ ॥
करण्डमकुटोपेतं सर्वाभरणभूषितम् ।
चतुर्दोर्द्दण्डसंयुक्तं दक्षिणेङ्कुशदन्तधृक् ॥ ६१३ ॥
पादन्तु लड्डुकं चैव वामभागे तु धारिणीम् ।
करस्तं लड्डुकेनैव गजहस्ताग्रसंयुतम् ॥ ६१४ ॥
एतद्गणेशरूपं तु ध्यात्वा मन्त्रं तु विन्यसेत् ।
कुङ्कुमवर्णं चतुर्भुजयुक्तं नागमुखं मकुटम्- ॥ ६१५ ॥
सकरण्डम् । अङ्कुशलड्डुक दन्तसुपाशं- ।
वह्निर्दृशं गणनाथ स्वरूपम् ॥ ६१६ ॥
गजाननं त्रिणेत्रं तु कुङ्कुमाभश्चतुर्भुजम्
पाशदन्तौ तु सर्वौ तु वामेत्वं कुशलड्डुकम् ॥ ६१७ ॥
नागयज्ञोपवीतं तु लम्बोष्टं तु गणाधिपम् ।
गणानां तु रूपमधुना विस्तारेण वदाम्यहम् ॥ ६१८ ॥
द्विनेत्राद्विभुजाश्चैव ह्रस्वग्रीवा महोदरा ।
ह्रस्वपादाक्षवृत्ताक्षि कुञ्चित भ्रू सविभ्रमा ॥ ६१९ ॥
केचिद्वृत्तनिभास्तत्र केचिच्छ्यामनिभास्तथा ।
केचित्कृष्णनिभास्तत्र केचित् श्वेत निभास्तथा ॥ ६२० ॥
केचित् श्वेतनिभा केचित् धूम्रवर्णसमाकुला ।
मिश्रवर्णास्तु संयुक्ता विद्रुमानृत्तसंयुता ॥ ६२१ ॥
रत्नकुन्दं तु संयुक्ता व्याघ्रचर्माम्बरान्वितम् ।
केचिद्विकटदेहं तु केचिदासीन तत्परा ॥ ६२१ ॥
खड्गखेटक हस्ताश्च केचिद्दण्डधरास्तथा ।
केचिन्नागधराश्चेके केचिच्छापधरास्तथा ॥ ६२२ ॥
प्। ४६)
केचिच्चित्रधराश्चैव पिण्डिपाशधरास्तथा ।
भूतानां रूपमाख्यातं पञ्चतालस्सुमध्यमम् ॥ ६२३ ॥
द्विभुजा च द्विनेत्रा च ह्रस्वग्रीवा सुयौवना ।
शिखिनो बद्धकेशाश्च शुद्धदन्तायुधाशुभा ॥ ६२४ ॥
शुक्ल यज्ञोपवीतं च शुक्लवस्त्र समन्वितम् ।
पवित्रपाणिनास्तत्र सव्ये चित्र समायुतम् ॥ ६२५ ॥
तुङ्गघ्राण समायुक्तं मलं कर्ण समन्वितम् ।
मुञ्जिमेखल संयुक्तं कृष्णाजिनधरापरा ॥ ६२६ ॥
वामनाकृतयः प्रोक्ता पञ्चताल समं भवेत् ।
पञ्चतालत्रयं प्रोक्तं गणरूपमिदं परम् ॥ ६२७ ॥
श्लोगजे -
चतुर्भुजं त्रिनयनो भूतरूपं गजाननम् ।
शोणदं नीलवक्त्रं च नागयज्ञोपवीतिनम् ॥ ६२८ ॥
कटिसूत्र * कुटकं हारकेयूर भूषितम् ।
ललाटपट्टसंयुक्तम् उदरं बन्धसंयुतम् ॥ ६२९ ॥
करण्डमकुटोपेतम् अन्ध्रिजालाङ्गुलीयकम् ।
अन्ये नैव वन्ध्यकर्युक्ष्म शोभनैः प्रियदर्शनैः ॥ ६३० ॥
स्वस्यैव नैव शृङ्गार्धं दक्षिणे तु करोद्धृतम् ।
दक्षिणे स्यापरकरे परं परशुकं न्यसेत् ॥ ६३१ ॥
फलपक्वं वामकरे अपरे पाशधृक्तदा ।
अर्धर्जुमुख संयुक्तं त्रिभुजादि समायुतम् ॥ ६३२ ॥
प्रजापतिरुवाच-
एकरूपे द्विरूपं तु गणेशे दृष्ट मन्त्र * ॥ ६३३ ॥
वराह वक्त्रसंयुक्तं सुस्तनं च सुयौवनम् ।
अभयहस्ताहलकरा दक्षिणे तु करद्वयोः ।
वरदं वामपूर्वे तु दण्डं स्याद्वामके करे ॥ ६३५ ॥
वाराह्याकृतिराख्यातम् इन्द्राण्याकृतिरुच्यते ।
द्विनेत्रश्चतुर्भुजा शान्ता पीनोन्नतपयोधरा ॥ ६३६ ॥
सरत्नमकुटोपेता उभयं कटकान्विता ।
वज्रशक्ति समायुक्ता दक्षिणे दक्षिणेऽपि च ॥ ६३७ ॥
प्। ४७)
हेमवर्णसमायुक्ता सुस्तना चारुहासिनी ।
सर्वालङ्कारसम्पन्ना पादजालसमन्विता ॥ ६३८ ॥
इन्द्राण्याकृतिराख्याता चामुण्डयाकृतिं शृणु ।
चतुर्भुजा महारौद्रा कालमेघसमप्रभा ॥ ६३९ ॥
एकवक्त्रं त्रिणेत्रा च सुदंष्ट्राभयकरान्विता ।
कटका शुलहस्ता च कपाल हस्तधरा शुभा ॥ ६४० ॥
व्याघ्र चर्माम्बरोपेता किङ्किणीमालयान्विता ।
सर्वेषां चैव शक्तीनां पूर्वयोर्वामहस्तके ॥ ६४१ ॥
विशेषं किञ्चिदंसिह्म प्रासार्यकटकं तु वा ।
कट्टूर्ध्वे स्पर्शकं कर्म प्रलम्बकटकं तु वा ॥ ६४२ ॥
यथेप्सितं चतुर्वक्त्र कारयेत् तु विशेषतः ।
शक्तीनामेवमाख्यातं धरण्याकृतिरुच्यते ॥ ६४३ ॥
दक्षिणामूर्तिमन्त्रस्य उद्धारं पुत्रगद्यते ।
वाग्सिद्धिस्तोत्रमन्त्रेण भूयो वाग्देव शस्यते ॥ ६४४ ॥
फलान्यन्यानि सर्वाणि तत्प्रसादात्प्रसिध्यति
ॐ नमो भगवन् शब्दं सम्बुध्याणि नियोजयेत् ॥ ६४५ ॥
दक्षिणामूर्तिशब्दञ्च तत्रैव विनियोजयेत् ।
मेधप्रदश्च स्वाहेति मूलमन्त्रमुदाहृतम् ॥ ६४६ ॥
स्वदेषु हृदयादीनि शुद्धार परिकीर्तिताः ।
नमस्वाहा वषट्वौषट् हुम्फट्काराः क्रमेण तु ॥ ६४७ ॥
शुद्धस्फटिकसङ्काशं प्रसन्नवदनान्वितम् ।
गङ्गाचन्द्रसमोपेतं कुन्दली घृतमूर्ध्वजम् ॥ ६४८ ॥
व्याघ्रचर्म परीधानं चतुर्बाहुसमन्वितम् ।
शुद्धस्फटिकमालां च ज्ञानमुद्रां च दक्षिणे ॥ ६४९ ॥
वामे वह्निश्चम्पकं वा वरदं वाभयं तु वा ।
पुस्तकेन युतावाथ अयनान्नयनत्रयम् ॥ ६५० ॥
महावृषभसंयुक्तम् ऋषिसङ्घैस्समायुतम् ।
ध्यात्वैवं देव देवेशं सर्वकार्येषु पूजितः ॥ ६५१ ॥
(ध्यानं)
भस्म व्यापाण्डुराङ्ग शकलशशिधरो ज्ञान- ।
मुद्राक्षमाला सव्येपोस्तैर्विराजन् करकमल ॥ ६५२ ॥
प्। ४८)
योगपट्टाभिराम । व्याख्यापीठे निषण्णो मुनि-
वरनिखरैस्सेवितस्सुप्रसन्नः । सव्यालं- ॥ ६५३ ॥
कृत्तिवासा सततमवतुवो दक्षिणामूर्तिरीशः ।
कौशिकः काश्यपः श्यामः स्थितकौपीनवर्णकौ ॥ ६५४ ॥
रक्त * र्णौ भारद्वाजो धूम्रभागस्त्रिगो मतौ ।
एषामेकद्वयं वा पश्वयोर्न्यसेत् षान्तान्तं- ॥ ६५५ ॥
वह्न्यसंयुक्तं द्वितीयं स्वरसंयुतम् । बिन्दुनाद-
समायुक्तं प्रथमं प्रणवमुच्यते । भानुध्यानम् ॥ ६५६ ॥
मान्तद्वयसमायुक्तं * * * * य संयुतम् ।
वह्निबीजसमायुक्तं पञ्चमं बीजमुच्यते ॥ ६५७ ॥
भान्तान्तं षष्टमं बीजं षडक्षरमिहोच्यते ।
आदौ प्रणवसंयुक्तं नमस्कारान्तसंयुतम् ॥ ६५८ ॥
ब्रह्महत्यादिपापानि जप्यमात्रेण नश्यति ।
नादाद्येन समायुक्तं ब्रह्माङ्गानि प्रकल्प्यते ॥ ६५९ ॥
मूलमन्त्रमिदं प्रोक्तम् उषाबीजमथ शृणु ।
अवगात्पञ्चमं ग्राह्यं बिन्दुनाद समन्वितम् ॥ ६६० ॥
धवलाम्बो रूढारूढं दाडिमी कुसुमप्रभम् ।
स्फुरद्रत्नमहातेजोवृत्तमण्डलमध्यगम् ॥ ६६१ ॥
अंसाव्याप्त स्फुरश्वेत सनालाब्जकरद्वयम् ।
एकास्यं चिन्तयेद्भानुं द्विभुजं रक्तवाससम् ॥ ६६२ ॥
विनायकव्रतम्-
अथ वक्ष्ये विशेषेण विनायकव्रतं शृणु ।
वृश्चिके रवि सति प्राप्ते अग्निनक्षत्रमारभेत् ॥ ६६३ ॥
रक्षाबन्धं तथा बध्वा पुंसानां दक्षहस्तके ।
वामहस्ते तु जायायाः बध्वासूत्रं विशेषतः ॥ ६६४ ॥
सप्तमं पञ्चमं सूत्रं च त्रयमेवं तु बन्धयेत् ।
सप्तमं सप्तवर्णैश्च पञ्चमं पञ्चवर्णकम् ॥ ६६५ ॥
त्रिस्त्रियावर्णसंयुक्तं लाभे एकवर्णधृक् ।
दुकूलपट्टसूत्रैर्वा कार्पाससूत्रकैर्युतम् ॥ ६६६ ॥
प्। ४९)
दन्त धावन पूर्वञ्च जिह्वाशुद्धं ततः परम् ।
स्नानं चैव तथा प्रोक्तं तथा स्थानं चरेद्बुधः ॥ ६६७ ॥
शुक्लवस्त्रेण संवेष्ट्य शुद्धवस्त्रोत्तरीयकः ।
चित्रवस्त्रेण आच्छाद्य सोष्णीषं शुक्लमेव च ॥ ६६८ ॥
आचार्यं पूजयेच्चैव पश्चाद्गणेशमर्चयेत् ।
नैवेद्यादि अपूपं च नानाफलैर्निवेदयेत् ॥ ६६९ ॥
नालिकेरं निवेद्याथ ताम्बूलं तु निवेदयेत् ।
मन्त्रपुष्पं देदेत्पश्चात् रक्षासूत्रं तु बन्धयेत् ॥ ६७० ॥
एकविंशति सूत्राणां बन्धयेत् तु विशेषतः ।
गणेशः प्रार्थनं कृत्वा क्रियाविच्छिन्ननो भवेत् ॥ ६७१ ॥
एवं प्रतिदिनं कुर्यात् एकविंशदिनं तथा ।
द्वाविंशद्दिनमेवं तु गणेशं जन्म ऋक्षके ॥ ६७२ ॥
कृत्तिकामासमेवं वा मार्गशीर्षमेव वा ।
शतर्क्षदिन संयुक्त षष्ट्यायामुत्तमं भवेत् ॥ ६७३ ॥
उदये चैव मध्याह्ने प्रदोषे तु भवेद्युतम् ।
उद्यमं मध्यमं चैव अधमं न्यधुनाविधिः ॥ ६७४ ॥
अन्यैर्योग समप्रोक्ते निष्फलं तदवाप्नुयात् ।
तयोर्योगमलाभे तु दिनमेत्प्रचोदितम् ॥ ६७५ ॥
उदये तु प्रयाणं तु शतर्क्षदिनमुच्यते ।
गणेशजन्म-ऋक्षे तु उदये तु विशेषतः ॥ ६७६ ॥
षण्णाडी च चतसृञ्च तिसॄञ्चैवोदये द्युतम् ।
अयौ समक्षयेन्नाडी जन्मर्क्षे मुख्यमुच्यते ॥ ६७७ ॥
गणेश्वरं तु जन्मर्क्षे शतर्क्षमसंयुतम् ।
विसन्ध्यै षष्टिसंयुक्तम् अपरे पक्षवर्जयेत् ॥ ६७८ ॥
उदये ऋक्षसंयुक्ते तद्दिने तु व्रतं चरेत् ।
ईश्वरोत्सव सम्प्राप्ते तद्दिनाद्यं चरेद्वजम् ॥ ६७९ ॥
देवानां तु मनुष्याणां व्रतं चैव समाचरेत् ।
उपवास समायुक्तं गणेशं पूजयेत्ततः ॥ ६८० ॥
गणेशमूलमन्त्रं च सहस्राष्टं जपोदये ।
मध्याह्ने तु प्रदक्षिण्यान्नमस्कारं शताष्टकम् ॥ ६८१ ॥
प्। ५०)
यकारताडनैर्युक्तम् अष्टोत्तरशतानि च ।
सायङ्काले विशेषेण पूजयेत्तु विशेषतः ॥ ६८२ ॥
तैलाभिषेकं कर्तव्यं पिष्टामलकमेव च ।
रजनीं सर्वगन्धाद्यैः अभिषेकं चरेद्बुधः ॥ ६८३ ॥
पञ्चगव्यैश्च पयसै पञ्चामृताभिषेचयेत् ।
गन्धोदक फलोदैश्च पुष्पोदकैर्विशेषतः ॥ ६८४ ॥
स्नपनं नव संयुक्तम् अभिषेकं शनैः शनैः ।
चन्दनागरु कर्पूरं कुङ्कुमैः कृष्णगन्धकैः ॥ ६८५ ॥
एवमालिख्य सर्वाङ्गैः नानापुष्पैश्च शोभितम् ।
नानादामैरलङ्कृत्य नानावस्त्रैश्च वेदितैः ॥ ६८६ ॥
शुद्धान्नं पायसान्नं च अपूपादि विशेषतः ।
कुडवार्धं तु यत्कृत्वा एकविंशति सङ्ख्यया ॥ ६८७ ॥
ब्रुही च प्रहरं कृत्वा अक्षतैर्पिष्टमेव च ।
एकविंशति सङ्ख्यैश्च उपमुद्गं निवेदयेत् ॥ ६८८ ॥
गुलखण्डसमायुक्तम् आज्ययुक्तं दधिप्लुतम् ।
मधुशर्कर संयुक्तं नाना * * निवेदयेत् ॥ ६८९ ॥
नानामूलैर्निवेद्याथ इक्षुखण्डैर्निवेदयेत् ।
तैलमिश्रेण क्रमुकद्विधा भिन्नरसैर्युतम् ॥ ६९० ॥
गौरपत्र * श्वेतं वा प्रकृतिं वा समाचरेत् ।
कर्पूरैश्च समायुक्तं रश्मिचूर्णसमाकुलम् ॥ ६९१ ॥
एतद्गणेश्वरं देवं निवेद्यान्ते विशेषतः ।
मन्त्र पुष्पं ददेत्पश्चात् अष्टपुष्पं सदार्चयेत् ॥ ६९२ ॥
इष्टकाम्यफलार्थं च प्रार्थनार्थं विशेषतः ।
राज्यार्थी राज्यमाप्नोति क्षेत्रार्थी क्षेत्र माप्नुयात् ॥ ६९३ ॥
धनार्थी धनमाप्नोति * * * * * * * * ।
पुत्रार्थी पुत्रमाप्नोति भोगार्थं भोग सम्भवेत् ॥ ६९४ ॥
सर्वरोगनिवारार्थीनां सर्वरोगविनाशनम् ।
सर्वशत्रुक्षयार्थी च सर्वशत्रुक्षयं भवेत् ॥ ६९५ ॥
महापातकनाशार्थी महापातकनाशनम् ।
पञ्चपातकनाशार्थं पञ्चपातकनाशनम् ॥ ६९६ ॥
प्। ५१)
गरुरीव्रतं चरेत् कृत्वा कुमारं तु समुद्भवम् ।
विष्णुव्रतं चरेत्कृत्वा गौरीशापविमोचनम् ॥ ६९७ ॥
ब्रह्मव्रतं चरेत् कृत्वा पुलस्त्यगत्समुद्भवम् ।
इन्द्राय व्रतमाप्नोति इन्द्रजित्तु समुद्भवम् ॥ ६९८ ॥
एवमादिषु सर्वेषां फलमाप्नोतियत्तथा ।
मानवानां व्रतं चेत्तु इष्टं काम्यं तथाप्नुयात् ॥ ६९० ॥
इति भीमकारणे प्रतिष्ठा तन्त्रे विनायक-व्रतविधिपटलः - ॥ ६९१ ॥
नग्नकौपीन वसनं कटिसूत्र निबन्धनम् ।
आर्द्रवासं च पुच्छं च पञ्चनाना प्रकीर्तिताः ॥ ६९२ ॥
शूद्रान्नं शूद्रसम्पर्कं मासमेकं निरन्तरम् ।
इहजन्मनि शूद्रत्वं पुनः श्वानो भविष्यति ॥ ६९३ ॥
आषाढस्योत्तराषाढे सायङ्काले प्रशस्यते ।
रक्ताङ्गो पूर्वमागच्छेत् उत्तमं पुष्टिरुच्यते ॥ ६९४ ॥
श्वेताङ्गो पूर्वमागच्छेन्मध्यमं पुष्टिरुच्यते ।
कृष्णाङ्गं पूर्वमागच्छेदधमं पुष्टिरुच्यते ॥ ६९५ ॥
श्यामवर्णं तथा शक्तिं धारयन्ति दिगम्बरम् ।
उत्सङ्गे नैव तारक्तां सर्वाभरणभूषिताम् ॥ ६९६ ॥
दिगम्बरादि वदनं भुजद्वयसमन्विताम् ।
विघ्नेश्वरादि विख्यातां सर्वावयव सुन्दरीम् ॥ ६९७ ॥
पद्महस्तं तथा गुह्यं दक्षिणेन करेण तु ।
ऋषभम् - रूपम्
एकवक्त्रो चतुष्पादो युदरेण खुराग्रनम् ॥ ६९९ ॥
ऋषभं श्वेतवर्णं तु तीक्ष्णशृङ्गो महाबलम् ।
चतुष्पादं वेदरूपं तु अग्निरूपं तु शृङ्गकम् ॥ ७०० ॥
आदित्याश्चैव गोमूत्रं मुखं रुद्रस्तथैव च ।
हुताशनरूपम् ॥ ७०१ ॥
वृद्धरूपं त्र्यक्षं चतुर्भुजम् अक्षपिङ्गल गोवृष-
वाहनम् । सिग्धरूपशिवोक्त तुरीयामम्बरं शिवा- ॥ ७०२ ॥
प्। ५२)
त्तरीयाम्बरं शक्तिपाणि शिवाग्नि स्वरूपकम् ।
बालाच वृद्धास्तत यौवनं च * * ग्निरूपम् ॥ ७०३ ॥
कथितं प्रशस्तं बालाग्निरूपं कथितं प्रतथाष्ट-
नित्याग्नि वृद्धा तरुणोत्सवेषु ॥ गारुगा- ॥ ७०४ ॥
हवनीयकदक्षिणान् बालयौवन वृद्ध स्वरूपकान् ।
स्थापनोत्सव नित्यविधौ सदापूजयेत् तु शिवाग्निस्वरूपकम् ॥ ७०५ ॥
अथ पूर्वोक्तसङ्ख्यानां पावकानां विशेषतः ।
नानारूपं च वै तेषां प्रयोगस्थानमेव च ॥ ७०६ ॥
क्रमाद्वक्ष्ये समासेन शृणु निस्संशयं पुनः ।
पावकेषु च तेष्वत्र शिवाग्नि प्रथमं तथा ॥ ७०७ ॥
द्वितीयं गार्हपत्यं हि दक्षिणाग्निस्तृतीयकम् ।
पश्चादाहवनीयानि दिक्पतिस्तु तदन्तकः ॥ ७०८ ॥
नामपञ्चकवक्त्रोक्तं तेषु वै दिक्पतेः पुनः ।
त्रिभेदेषु द्वयो नाम केवलं च महाननम् ॥ ७०९ ॥
नाममेवं समाख्यातं शृणुरूपमवाप्नुयात् ।
वृद्धाङ्गं च त्रिणेत्रं च चतुर्दोर्भिः समन्वितम् ॥ ७१० ॥
पिङ्गलाभाषि संयुक्तं ज्वलन्मकुटसंयुतम् ।
विद्वद्वक्त्रसमायुक्तस्वमयं वरदान्वितम् ॥ ७११ ॥
परशुं च मृगं वाथ शक्तिवाचाक्षमालिकाम् ।
सव्यासव्ये वहन् तत्र वरदो हस्तद्वयो च यो ॥ ७१२ ॥
साक्षाच्छिवमयं विप्र शिवाग्नी रूपमिति स्मृतम् ।
शिवाग्निरूपमाख्यातं गार्हपत्यं तथोच्यते ॥ ७१३ ॥
शिवाग्निश्च सहस्रांशान् उद्धृतं वापि पावकम् ।
रक्तवर्णो द्विवक्त्रं च षड्वक्त्रैरुचिरं तनु ॥ ७१४ ॥
शुक्लवस्त्रसमायुक्तं सर्वाभरणभूषितम् ।
त्रिपादयुक्तं चैष्वेकं कुञ्चितोर्ध्वे व्यवस्थितम् ॥ ७१५ ॥
दक्षाभयकरं वामे वरदेन समन्वितम् ।
स्रुक्स्रुवौ धरितौ हस्तौ वामे वामे प्रजापते ॥ ७१६ ॥
मेषारूढोग्ररूपं स्यात् स शक्ति सहितस्तथा ।
एवं गार्हपत्याग्निः दक्षिणाग्निरथोच्यते ॥ ७१७ ॥
प्। ५३)
पूर्वोक्तस्य सहस्रांशा दक्षिणाग्नि समुद्भवा ।
द्विवक्त्रं षड्भुजं तत्र सिताहसितवस्त्रकम् ॥ ७१८ ॥
जटामकुटसंयुक्तं षण्णेत्रं पिङ्गलप्रभम् ।
रौद्रदंष्ट्रा महत्काय किञ्चित्प्रहसिताननम् ॥ ७१९ ॥
सव्ये भयं स्रुवं खड्गं धारितं च भयङ्करम् ।
वरदं कूर्चकपालं वा मोशे धा पुनः पुनः ॥ ७२० ॥
उषारूढस्त्रिपात्रं तु स्वाहा सहित रूपकम् ।
दक्षिणाग्नेस्तु रूपं तु विस्पष्टं गद्यते मया ॥ ७२१ ॥
वक्ष्ये चाहवनीयाग्नि रूपमुद्भवपूर्वकम् ।
दक्षिणाग्ने सहस्रांशे उद्भूतं स्याच्चतुर्मुखम् ॥ ७२२ ॥
मुखद्वयं त्रिपादं च नासिकाद्वय संयुतम् ।
त्रिमेखला समायुक्तं षण्णेत्रं पिङ्गलं पुनः ॥ ७२३ ॥
चतुः शृङ्गं वृषारूढं बालादित्य समप्रभम् ।
सप्तजिह्वा समायुक्तं तेषु स्रीणि च वामके ॥ ७२४ ॥
सव्ये वक्त्रे च जिह्वा च तेषां स्थानं ब्रवीमिते ।
हिरण्या कनका रक्ता कृष्णा चैव तु सुप्रभा ॥ ७२५ ॥
अतिरक्ता बहुरूपा सप्तजिह्वा प्रकीर्तिताः ।
नामान्येतानि कथ्यन्ते स्थानं वक्ष्येऽधुना शृणु ॥ ७२६ ॥
पाशे मध्ये च सौम्ये च याम्ये रूक्ष्मा च का भवेत् ।
पूर्वाह्ने रुद्रदिग्भागे पुरस्यादीन्नियोजयेत् ॥ ७२४ ॥
पूर्ववद्रूपसंयुक्तं स्वाहा देवी च भावयेत् ।
एवमाहवनीयं स्यात् पूर्ववद्दिग्पतिर्भवेत् ॥ ७२८ ॥
दिग्पतेश्च सहस्रांशे केवलाग्निसमुद्भवम् ।
द्विनेत्राद्विभुजाश्चण्डो वरदाभयसंयुतम् ॥ ७२९ ॥
शुक्लवस्त्रपरीधान श्वेतवस्त्रसुरद्विति ।
केवलाग्निरिति ख्यातो महासेनमथोच्यते ॥ ७३० ॥
केवलाग्नेर्दशांशेनमुद्भवस्य महासने ।
एकवक्त्रो द्विबाहुश्च मेषारूढो वृषं तु वा ॥ ७३१ ॥
रक्ताम्बर समायुक्तो त्रिशिखा च समन्वितम् ।
चतुःशृङ्गं त्रिणेत्रं च स्रुवस्यां दक्षिणे करे ॥ ७३२ ॥
प्। ५४)
महासनमिति ख्यातो वह्निरूपं पितामहम् ॥ ७३३ ॥
इन्द्राकृतिः पुरा प्रोक्तो वह्न्यादीनथ शृणु ।
दक्षिणाग्नि स्वरूपम् * * * * * * * * * ॥ ७३४ ॥
तेषु वह्न्याकृतिं विप्र * * * प्रोच्यतेऽधुना ।
द्विभुजाश्च द्विनेत्रा च रत्नकुञ्चितमूर्धजा ॥ ७३५ ॥
रक्तवर्णास्त परीधान रक्तमाल्यानुलेपनम् ।
शुक्लयज्ञोपवीतं च शुक्लवस्त्रोत्तरीयकम् ॥ ७३६ ॥
स्रुवन् वस्ये वहन् वामे स्रुवन् सन्ध्याय वै तथा ।
आहवनीयाग्निरूपं -
एवं वह्यारीति ख्याता यमरूपमथोच्यते ॥ ७३८ ॥
पूर्वतां वसतो वह्निः पूर्वतस्तु द्विजस्थितः ।
अग्निमन्त्रशतं जप्त्वाभिक प्रत्य भवेत् ॥ ७३९ ॥
अग्ने कर्णे हुतं कुर्याद्व्याधिभिः परिभूयते ।
नासिकायां हुतं दुःखं नेत्रे होतुर्विनाशनम् ॥ ७४० ॥
शिखास्थाने हुतं कुर्याराजा राष्ट्रं विनश्यति ।
तस्मात्सर्वप्रयत्नेन सायं होमं समाचरेत् ॥ ७४१ ॥
यत्र काष्टं ततो श्रोत्रं यत्र धूम्रं तु नासिका ।
मत्र प्रज्वलनं नेत्रं यत्र भस्म तु तच्छिरः ॥ ७४२ ॥
यत्रेव ज्वलितो जिह्वा तत्रैवं होममाचरेत् ।
रक्तनिभ षण्णयन युग्ममुख जिह्वा- ॥ ७४३ ॥
कर शक्तिश्रुवभ्रू अनयनमाला । तोमरव्र- ॥ ७४४ ॥
जनमाज्य स्रुवमन्ये ॥
पञ्चवक्त्रयुतं रक्तं सप्तजिह्वा विराजितम् ॥ ७४५ ॥
दशहस्तं त्रिणेत्रं च सर्वाभरणभूषितम् ।
रक्तवस्त्रपरीधानं पङ्कजोपरि संस्थितम् ॥ ७४६ ॥
बद्धपद्मासनासीनं दशायुधसमन्वितम् ।
कनका बहुरूपा च अतिरक्ता ततः परम् ॥ ७४७ ॥
प्। ५५)
सुप्रभाचैव कृष्णा च रत्नावान्या हिरण्मयम् ।
ऊर्ध्ववक्त्रे स्थितास्तिस्रो शेषा प्रदिशं तथा ॥ ७४८ ॥
शैवागमस्थानमुद्दिष्टं त्रिधा शान्ति प्रकीर्तितम् ।
अजवाहनरूढायां सृष्टि संहारकारणम् ॥ ७४९ ॥
प्रतिष्ठा उत्सवे काले सतिस्रस्तथैव च ।
वृद्धरूपं प्रतिष्ठाग्नि उत्सवाग्नि सुयौवनम् ॥ ७५० ॥
दक्षिणाग्निं बलिरूपाणाम् अग्निरूपं प्रकीर्तितम् ।
-यागमण्डपम्-
अनलशत सहस्रं रूपभूतं च वक्त्रं स्रुव- ॥ ७५१ ॥
मभयपरशुखड्गं वज्रहस्ताव सेहे- ।
अनलवरदाङ्कुशं सर्वखेटाङ्ग हस्ते दयति ॥ ७५२ ॥
जनितरूपं सव्यबाहुः शिवाग्निः- ।
सर्वत्राहवनीयाग्नि आवाह्याभ्यर्च्य भूयते ॥ ७५३ ॥
यदि भेदेन किं कुर्यां ब्रूहि तत्र नवाग्निन ।
ईश्वर उवाच - ॥ ७५४ ॥
आवाह्य सस्य एवं स्यात् दिग्भेदं स्यात् पृथक् फलम् ।
तानि वक्ष्ये क्रमेणैव शृणु सव्यं न * * * ॥ ७५५ ॥
शत्रुक्षयं स्यान्याम्ये तु नैर्-ऋत्यां रोगनाशनम् ॥ ७५६ ॥
पश्चिमे सस्य वृद्धिः स्यात् दार्यावायुपदं भवेत् ।
उत्तरे धनवृद्धिः स्यात् ईशाने भुक्तिमुक्तिदम् ॥ ७५७ ॥
इन्द्रमीशानयोर्मध्ये सर्वसिद्धिप्रदं भवेत् ।
द्वार वसुधा तु रसभूत करगेहे - पादरवि- ॥ ७५८ ॥
षोडशनवो नव पदं स्यात् । मूल (मध्य) नववेदि-
सह त्रीणि पदमध्ये कुण्डनव पञ्च शिवमण्डप- ॥ ७५९ ॥
विधानम् ॥ कृत्वैकाशादि भागान् निशित विपुल-
धी मण्डपाभ्यन्तरान्तान् । मध्ये वेदी सह- ॥ ७६० ॥
त्रीणि नवांशाद्भवति हि परितः त्रीणि भागानि-
मध्ये । अग्रं * गुणभुजमपरं वै सुवृत्तं- ॥ ७६१ ॥
षडग्रं पद्मं वस्वग्रकुण्डं सुरपति भवनादि-
क्रमेणैव कुर्यात् । हस्र विसृत निघातवश्य- ॥ ७६२ ॥
प्। ५६)
तुर कोटिकं दिशि दिशि सूत्रकम् ।
सत्रिमेखलमथ द्विकं तु वा धातुभूतगुण- ॥ ७६३ ॥
मातृ * व्यास मध्येप्यनल पक्ष मातृकैर्योनि-
रूर्ध्वतपोष्टवत्कुरु ॥ तारदैर्यसमुद्भवं च- ॥ ७६४ ॥
तुषन् मनाङ्गुलिभिरग्नि सम्मुखम् ।
नवनवके नवके सुवेदी नवमध्यपदेक- ॥ ७६५ ॥
पदेकम् । नवनव * कयाम्या नवनवदैव-
तु होमविधिस्स्यात् ॥ ७६६ ॥
अजिते । वह्नौ तु दक्षिणे पूर्वेचोत्तराभिमुख
स्तथा । अन्येषु प्राङ्मुखो भूत्वा होमं कुर्याद्वि ॥ ७६७ ॥
चक्षणः । प्राक् सूत्रं प्रथमं विधाय-
विधिवन्मध्ये गीतं बिन्दुना गत्वा मत्स्ययुगं तु- ॥ ७६८ ॥
शाममलिधी कृशाभित्तीशयोः । तस्मिन् सूत्र-
मभिप्रसार्य चतुरः कोणास्तु तेलाञ्चि यत्- ॥ ७६९ ॥
क्षेत्रं स्यात् । क्रूरमातृजननी अन्याग्नि कुण्डानि वै ।
अग्नि उद्भूतम् । आदम्बमेकमिदं यतीनाम् इष्टम् ॥ ७७० ॥
हि विष्टरविकासनवह्निकार्यम् । पित्रामराज-
यजनं गुरुपूजनं च दान्विकेतोय शशिनामक- ॥ ७७१ ॥
सूत्रयुक्तं पैशाच भूत विविधग्रह रक्षकास्ते
पूज्याहि पूजकवने च चतुरंशयुक्त्या ॥ ७७२ ॥
क्षेत्र पञ्चमांश पुरोनिर्गमनात् कोणवेदांश-
भ्रमणार्च्चयो त्रियस्यैत्रियश्रम् ॥ वृत्तम् ॥ ७७३ ॥
कुण्डाधष्टिकां शत्यागाद्वृत्तम् ॥ षषडश्रम् ।
पार्श्वयोर्षडंश वृत्या षण्डस्य षडंशम् ॥ ७७४ ॥
पक्षकुण्डम् । वृत्तकुण्डस्य मेखलामाने
चतुष्कते सार्धांशकर्णिकायां - एका - ॥ ७७५ ॥
न्या पतनं चैव यस्त्वाकुण्ड सदाशिवम् ।
सदाशिवस्य हृदयं शक्तिशक्ती हृदीं शिवम् ॥ ७७६ ॥
उभयोरन्तरन्नास्ति वायुरम्बरमेवगात् ।
प्। ५७)
तस्मात्सर्व प्रयत्नेन अग्निहृद्भवमुच्यते ।
अन्यालये स्थितं बिम्बम् अन्यानामालये नयेत् ॥ ७७८ ॥
तत्रोत्सवादिकं कुर्यान्नृपवान् पथ इत्यथे ।
सूक्ष्मतन्त्रे - मेखलामानम् ॥ ७७९ ॥
कर्तुर्दक्षिण विस्रो * * * * गुलि मध्यमे ।
पर्वस्याग्र विशालेन मुष्टि भानुद्वयाङ्गुलम् ॥ ७८० ॥
पर्वमध्ये विशालेन रत्निगायत्रियाङ्गुलम् ।
पूर्वमूले विशालेन हस्तं भानु द्वयाङ्गुलम् ॥ ७८१ ॥
तत्पूर्वस्यायतेनैव तत्सङ्ख्या वैकहस्तकम् ।
ते सूचितेन मानेन * * * * * खातकम् ॥ ७८२ ॥
सममेवमिति ख्यातं वासार्धं वातखातकम् ।
कुण्डान्तं वा निखातं तु निखात रहितं तु वा ॥ ७८३ ॥
काश्यपे ।
अथवान्यत्प्रकारेण मेखलामानमुच्यते ।
चतुर्विंशति भावे तु विभजेत्कुण्डमानकम् ॥ ७८४ ॥
तदेकभागमात्रं स्यात्तनु द्वित्रि चतुर्गुणे ।
विस्तारोत्सेधमानं स्याद्भवन्ति भवमेखला ॥ ७८५ ॥
षडङ्गुलविशालोच्य मेखले का भवेद्यदि ।
कामिके विस्तरं यामोद्याम मेखला ॥ ७८६ ॥
सहितं खातमानेन समं सर्वत्र कुण्डकम् ।
विष्टरं चैवमाख्यातं निम्नो निर्ममथ शृणु ॥ ७८७ ॥
व्यासमानं खनेत्तत्र मेघच्छन्न समं युतम् ।
योन्या योनिं न कर्तव्यं पद्मेनाभार्णकारयेत् ॥ ७८८ ॥
न्यूनाधिकं न कर्तव्यं न तच्चेत्कर्तृनाशनम् ।
विद्येषे - कुण्डलक्षणे ॥ ७८९ ॥
याम्ये मयानि पूर्वे च उत्तराभिमुखो यजेत् ।
प्राङ्मुखोदङ्मुखोवापि वारुण्या दिशि होमयेत् ॥ ७९० ॥
अन्येषु प्राङ्मुखी कृत्य हुत्वा होमं समाचरेत् ।
विद्येषम् - मेखला प्रमाणम् ॥ ७९१ ॥
अग्निकार्ये । प्रधान वायु सोमीशकुण्डेकाम्यके अग्निकार्ये -
वषडत्वेवमाख्यातं वक्ष्येऽहं मेखलादिकान् ॥ ७९२ ॥
मेखलाकार्येऽत्र कुण्डाकारानुरूपतः ।
ऊर्ध्वादि मेखलाङ्गुल्यं विस्तारं स्याद्युगत्रयम् ॥ ७९३ ॥
मुष्टिरत्नैश्च हस्तस्य कारयेद्देवमेवतः ।
यथा क्रमेण कुण्डानां मेखलानां पृथक् पृथक् ॥ ७९४ ॥
एकैकमात्र संयुक्तं यावद्यष्टकरान्तकम् ।
मेखलालक्षणं ख्याता योनिलक्षणमेव च ॥ ७९५ ॥
दीर्घं पञ्चाङ्गुलं चैव विस्तारं तु त्रिरङ्गुलम् ।
एकाङ्गुलं तदुत्सेधं योनिरन्वर्थ पत्रवत् ॥ ७९६ ॥
कारयेद् एकहस्तं तत् अन्येषां योनिरुच्यते ।
नाभिलक्षणम् - ॥ ७९७ ॥
दीर्घं तु द्व्यङ्गुलाधिक्यं व्योमाङ्गुलं तु तारके ।
तस्यार्धम् उच्छ्रयेत्कुर्याद्योनिरेवं प्रकीर्तितम् ॥ ७९८ ॥
एवं स्योद्यष्टहस्तान्तं नाभिलक्षणमुच्यते ।
पञ्चाङ्गुलं तु विस्तारं तस्यार्धमुच्छ्रयं भवेत् ॥ ७९९ ॥
विस्तारं पञ्चधा भज्यं मध्यांशं कर्णिका भवेत् ।
कर्णिका पार्श्वयोस्तत्र पक्षांशं तु दलं भवेत् ॥ ८०० ॥
एवं स्यादेकहस्तां तम् अन्येषां तु यथाक्रमम् ।
विस्तारेद्यङ्गुलं दद्यात् उत्सेधेकाङ्गुलं भवेत् ॥ ८०१ ॥
यावद्यष्टकरान्तं तु एवमेवं प्रयोजयेत् ।
नाभिलक्षणमेवं स्यात् जुष्टकं वक्ष्यतेऽधुना ॥ ८०२ ॥
मेखलाभ्यन्तरे कुण्डे बाह्ये तु परिधिस्तथा ।
विष्टरन्त्वेकहस्तां तम् एकाङ्गुलेन कारयेत् ॥ ८०३ ॥
कारयेद्यष्टहस्तं तत् हस्ताङ्गुलं विविद्धि तत् ।
विष्टरत्वेवमाख्यातं तन्निम्ने निम्नमथ शृणु ॥ ८०४ ॥
स्थापयित्वा विशेषेण आचार्य प्रीतिमानसम् ।
पञ्चाङ्गभूषणं दद्यात् देशिकस्य शिवाज्ञया ॥ ८०५ ॥
प्। ५९)
नववस्त्रोत्तरीयौ च उष्णीषं च प्रदापयेत् ।
होत्रं च पूजयेत्तत्र वस्त्र हेमाङ्गुलीयकैः ॥ ८०६ ॥
होतॄणामप्यलाभे तु हुनेत्सर्वेषु देशिकः ।
अग्न्यन्याधानादिकं सर्वम् अग्निकार्योक्तमाचरेत् ॥ ८०७ ॥
दध्यभावे पयोग्राह्यं मध्वभावे तु सर्पिषम् ।
आज्याभावे मधुग्राह्यं दुग्धा भावे गृहेद्वधि ॥ ८०८ ॥
गन्धेष्वभावे सर्वेषु चन्दनं ग्राहयेत् पुनः ।
यज्ञवृक्षः -
पुष्पाणामप्यलाभे तु शर्कराकरवीरकम् ॥ ८०९ ॥
पत्राणामप्यलाभे तु बिल्व पत्राणि सङ्गृहेत् ।
फलानामप्यलाभे तु गृहेत्तु कदली फलम् ॥ ८१० ॥
सहस्र स्नपने -
याज्ञिके वृक्षमादायास्य सारं गृहेत्पुनः ।
प्रजापतिरुवाच - ॥ ८७१ ॥
भगवान् लोकनाथेश यज्ञवृक्षस्तु के वद ।
ईश्वर उवाच-
अश्वत्थोदुम्बरप्लक्ष वटं चैव शमी तथा ॥ ८१२ ॥
खदिरं च पलाशं च वै कङ्कतस्तथैव च ।
बिल्वो मधूरकं चैव यज्ञवृक्षा दश स्मृताः ॥ ८१३ ॥
त्वं पार्श्वं भिन्नपार्श्वं च छेदयेत्तु मनोरमम् ।
स्रुक् स्रुवलक्षणम् ॥ ८१४ ॥
अथातः सम्प्रवक्ष्यामि शृणुस्रुक्स्रुवलक्षणम् ।
वैकङ्कतं च खदिरम् अश्वत्थं बिल्वमेव वा ॥ ८१५ ॥
उदुम्बरं वा न्यग्रोधं पालाशं वा शमी तथा ।
तिन्दुकं मधुकं वापि पाटली वकुलं तथा ॥ ८१६ ॥
यथा लाभं तं गृह्य भेदयेत्तु च लक्षणम् ।
वेदाष्टमात्रियायां वा त्र्यंशङ्गुल सुविस्तृतम् ॥ ८१७ ॥
तद्घनं चतुरं गुल्यं मध्यं सूत्रं प्रसारयेत् ।
मुखमध्यङ्गुलं विद्धि आयामं त्विति पठ्यते ॥ ८१८ ॥
तस्यैव तु गुणांशैकमभ्रमित्यभिधीयते ।
द्वयवद्वय प्रमाणेन पट्टिकापार्श्वयोस्तथा ॥ ८१९ ॥
प्। ६०)
मुखमेवं प्रकर्तव्यं शृवं पक्षाङ्गुलं भवेत् ।
तत्समं विस्तृतं विद्यात् वेदिस्स्यात्सप्तमातृकम् ॥ ८२० ॥
चतुरश्रं समं कृत्वा तन्मध्ये द्व्यङ्गुलं तथा ।
बिल्वं सुवृत्तमाख्यातं तद्वत्ख्यात्वात्प्रयत्नतः ॥ ८२१ ॥
बलादग्रान्तकं यावत् खात्वा चार्धाङ्गुलेन तु ।
बिल्वस्य परितः कृत्वा पट्टिकाद्वयमानतः ॥ ८२२ ॥
तद्वन्निम्नं समाख्यातं साष्टपत्रं लिखेद्बुधः ।
परितो वेदिकायां तु यवत्रा येन पट्टिका ॥ ८२३ ॥
बिलादूर्ध्वमुखात्खात्वा ताम्रनालं तु योजयेत् ।
अथवा खातमात्रं वा युक्त्या कुर्यान्मनोरमम् ॥ ८२४ ॥
अश्विन्यङ्गुलमानेन गण्डिका कारयेत्पुनः ।
कलशाकृतिवत्कृत्वा रव्यङ्गुलं तु नाहकम् ॥ ८२५ ॥
मूलेऽपि गण्डिकां कुर्यात्कलशाकृतिवत्पुनः ।
पट्टिकाद्वयं दशाहीनं नाहं कुर्यात्प्रयत्नतः ॥ ८२६ ॥
अधोभागे तु पद्मस्स्यात् गजोष्टसदृशाकृतिः ।
एवं स्रुलक्षणं प्रोक्तं स्रुवं लक्षणमुच्यते ॥ ८२७ ॥
द्वाविंशदङ्गुलं दीर्घं मूलानाहं रसाङ्गुलम् ।
मूलग्रीवान्तकं यावत् क्रमेण कृतता कुरु ॥ ८२८ ॥
घण्डनाहं गुणाङ्गुल्यं ग्रीवमित्यभिधीयते ।
अग्रं पक्षाङ्गुलं दीर्घं नाहस्यां तु रसाङ्गुलम् ॥ ८२९ ॥
नासिका कृतिवत् कुर्यात्दग्रथोद्वयवोन्तकम् ।
गण्डिकाकारयेद्वृत्तं स्रुवलक्षणमुच्यते ॥ ८३० ॥
स्रुक् स्रुवौ तौ पुराणौ चेत् क्षालयेच्छुद्धवारिणा ।
प्रोक्षयेदस्त्र मन्त्रेण क्रियार्थं सङ्ग्रहेद्बुधः ॥ ८३१ ॥
वेदभागयुगं नागं तुङ्गकं मन्यमे ऋषिः ।
पुरातने गण्डगण्ड उपवेदिका तथोवेदिकाः ॥ ८३२ ॥
गलगतमुख क्रमात् । तस्य गण्डपरिणाह- ।
षं पुनर्गर्त गण्डिपरिमितं स्रुवम् ॥ ८३३ ॥
प्। ६१)
त्रिहस्तं तु समारभ्य यावदुद्धृतकान्तकम् ।
तद्विस्तारं द्विधाभज्य एक भागप्रमाणतः ॥ ८३४ ॥
मध्यं शूलं प्रकर्तव्यं पादाग्रेऽपि तथैव च ।
तद्विस्तारद्वयाङ्गुल्यं घनमेकोङ्गुलं भवेत् ॥ ८३५ ॥
रसाङ्गुलं समारभ्य यावन्मन्वङ्गुलान्तकम् ।
तोरणाङ्घ्रिपरिणाहं नवया कारयेद्बुधः ॥ ८३६ ॥
याज्ञिकैः सम्भवैः वृक्षैः कारयेत्तोरणं बुधः ।
तोरणं चैव माख्यातं मष्टं मङ्गलमुच्यते ॥ ८३७ ॥
उत्सेधं षोडशाङ्गुल्यं विस्तारं स्यात्तदर्धकम् ।
तद्विकांशं घनं प्रोक्तं ग्राहयेत्फलकाष्टकम् ॥ ८३८ ॥
एतदन्यत्प्रकारेण विस्तारोत्सेधमुच्यते ।
यस्योच्चस्य चतुर्थांशे एकं तत्तारमुच्यते ॥ ८३९ ॥
उत्तमोत्तममाख्यातं कन्यसस्यार्धमन्तकम् ।
उत्सेधन्त्वेवमाख्यातं विस्तारे तद्वयं क्षयेत् ॥ ८४० ॥
नवधामानमित्युक्तं फलकालानां प्रजापते ।
अथवान्यप्रकारेण विस्तारमधुनोच्यते ॥ ८४१ ॥
पञ्चभागेकभागं वा युक्तिना कल्पयेद्पुनः ।
उसेधं युगधा भज्य पकृ कुर्यात्तदेकतः ॥ ८४२ ॥
द्वंशेन कल्पयेन्दृप्ति छत्रमेकांशकं भवेत् ।
श्रीवत्सं मत्स्य युग्मं च स्वस्तिकं दक्षिणं तथा ॥ ८४३ ॥
मातङ्गं पूर्णकुम्भं च कुङ्ककूश्मादुपदण्डकम् ।
अष्टमङ्गुलरूपाणि यथायुक्त्या क्रमात्क्रिया ॥ ८४४ ॥
छत्रहीनं कृतं चेत्तु न दोषाय प्रकल्पयेत् ।
ध्वजं च वृषभं चैवं दीपं पुल्लिङ्गमुच्यते ॥ ८४५ ॥
श्रीवत्सं स्वस्तिकौ द्वौ तु स्त्रीलिङ्गावधि कथ्यते ।
मत्स्यं च दर्पणं कुम्भं नपुंसकमिति स्मृतम् ॥ ८४६ ॥
अष्टमङ्गलमाख्यातं कूर्चलक्षणमुच्यते ।
द्वादशाङ्गुलमायामं विस्तारं कौशिकाङ्गुलम् ॥ ८४७ ॥
अग्न्यङ्गुलं घनं प्रोक्तम् एवं कुर्यादष्टमङ्गलम् ।
नवसप्त पञ्चका शान्तिः स्त्रिभिरेकेन ते कुरु ॥ ८४८ ॥
प्। ६२)
दक्षिणावर्तरूपेण ग्रन्थिरेकाङ्गुलं भवेत् ।
अग्रं शुभाङ्गुलं ज्ञेयं नालं भान्वाङ्गुलं भवेत् ॥ ८४९ ॥
कूर्चलक्षणमेवं स्यादेकश्चेद् ग्रन्थिकं न्यसेत् ।
पवित्रं प्रोच्यते ब्रह्मा लक्षणेन समन्वितम् ॥ ८५० ॥
युग्मकाशं तु सङ्ग्राह्य चाग्रत्वेकस्य मूलकम् ।
संयोज्य दक्षिणावर्तं तर्जन्या परिमुच्यते ॥ ८५१ ॥
देवकार्ये द्विकांशं स्यात् पितृकार्ये त्वयुग्मकम् ।
ऋषि कार्ये त्रिकाशाभिः पुंलिङ्गेनैव कारयेत् ॥ ८५२ ॥
पवित्राणां लक्षणं प्रोक्तं दर्भमालाविधिं शृणु ।
सप्तपञ्चाग्नि दर्भाभिः विंशत्यङ्गुली वनम् ॥ ८५३ ॥
रज्जुद्वयङ्गुलं नाहं सव्येणाग्रेण कारयेत् ।
एकद्वित्र्यङ्गुलं त्यज्य न्यस्त्वा समं कुरु ॥ ८५४ ॥
दर्भमाला इमं प्रोक्तं दर्भाणां लक्षणं कुरु ।
दर्भांस्तु त्रिविधा ज्ञेया तद्भेदमधुना शृणु ॥ ८५५ ॥
स्त्रीपुं नपुंसकाचैव त्रिविधा च मुदाहृतम् ।
तालकं पत्रमध्ये तु पत्रवत्पार्श्वसंयुतम् ॥ ८५६ ॥
छिन्नभिन्नाग्रकं चैव नपुंसकमिति स्मृतम् ।
पुंस्क्रियां तु पुन्दर्भै स्त्रीक्रियायां स्त्रियं गृहेत् ॥ ८५७ ॥
नपुंसकं वर्जयेत्तत्राभिचाराय कल्पयेत् ।
दर्भाणां लक्षणं प्रोक्तं समिधां लक्षणं शृणु ॥ ८५८ ॥
द्वाविंशदङ्गुलायामं कनिष्ठाङ्गुलनाहकम् ।
उत्तर प्रक्षे सङ्ग्राह्या चर्महीनं त्यजेद्बुधः ॥ ८५९ ॥
वकञ्च स्थानशुष्कं तु वर्जयेत्तु प्रयत्नतः ।
समिल्लक्षणमाख्यातम् आहुती मानमुच्यते ॥ ८६० ॥
श्लोकं दधि क्षीर सर्पिषं पुष्पसारं शुक्तिं शुक्तिम् ।
शक्तिं सक्तुकं लाजकं च । मुष्टिं मुष्टिं गृह्य- ॥ ८६१ ॥
कन्दं गुञ्च पक्वं चेत्रिते निष्कं निष्कं च भूयात् ।
तिलं माषं सर्षपञ्चैव मुद्गं वेणुं शालीं चार्थ- ॥ ८६२ ॥
किं वै कलन्ता । वांशिन्न्यां च प्रियं गुप्तलान्तम् ।
शन्त्रयामो नर्धमं ततो वा । समिदारुण- ॥ ८६३ ॥
प्। ६३)
सङ्गृह्यवेदाङ्गुलदीर्घकम् । मध्यमादिकनिष्टान्तं-
परिणाहयुतांश्च वै । अवकानि वृणास्तत्र- ॥ ८६४ ॥
मेखला मृधु मे न्यसेत् कुशदर्भं तु गृन्धिं
सावेन चाङ्गुलम् । कृत्वाग्रं चतुरङ्गुल्यं- ॥ ८६५ ॥
कारयेल्लम्ब कूर्चकम् । कुलिशं प्रथमं विद्यात्- ॥ ८६६ ॥
द्वितीयं शक्तिरुच्यते । तृतीयं * * तु चतुर्थं-
खड्गमेव च । पञ्चमं पाशसज्जं तु षष्टमं- ॥ ८६७ ॥
कुशमेव च । गदा तु सप्तया विद्यात्-
त्रिशूलं चाष्टमं स्मृतम् । चक्रं तु नवमं- ॥ ८६८ ॥
प्रोक्तं दशमं पद्ममुच्यते । दशायुध-
मिति ख्यातं सर्वशत्रुनिवारणम् ॥ ८६९ ॥
हेमेनेवाथ ताम्रेण वाथ कारयेत् । अथ- ।
मा यज्ञ वृक्षाणां मध्यसारेण कारयेत् ॥ ८७० ॥
प्रथमं कुलाङ्गुलं कुर्यात् धर्माङ्गुलं द्वितीयकम् ।
पञ्चाङ्गुलं तृतीयं तु चतुर्थं तु त्रियङ्गुलम् ॥ ८७१ ॥
मात्राङ्गुलेन कर्तव्यं मन्यमाने कीर्तयेत् ।
पाशं चैवाम्बुजं चैव शक्तिमङ्कुशमेव च ॥ ८७२ ॥
चतसृणान्ता स्त्रीलिङ्गशेषां च कविवर्जिता ।
पुल्लिङ्गन्विति विख्याता चुबुकं तु नपुंसकम् ॥ ८७३ ॥
दशायुध समायुक्तं पञ्चायुधमथ शृणु ।
टङ्कं नागं च वह्निं च घण्टां चक्षुरिमा क्रमात् ॥ ८७४ ॥
पञ्चायुधसमाख्याता तेषां लक्षणमुच्यते ।
उच्छ्रयं पूर्वत्वद्ग्राह्यं भजित्वा पूर्ववत्पुनः ॥ ८७५ ॥
तारं तु पूर्ववत्कुर्यात् घनं पूर्ववदाचरेत् ।
प्रासादस्य वृषाणीनां गोशृङ्गं मण्डपालयेत् ॥ ८७६ ॥
प्राकारनन्दिने चैव शुभानि वृषभालयम् ।
वृत्तमेव सुखासीने चतुरश्रं स्तितलिङ्गकम् ॥ ८७७ ॥
प्। ६४)
शेषलक्षणमेवोक्तं शयनलिङ्गं प्रकीर्तितम् ।
पूर्वे तु शत्रु विन्यस्य रेवती वह्निगोचरे ॥ ८७८ ॥
भूतानां दक्षिणे भागे नैर्-ऋत्यां मम पूतना ।
पश्चिमे वक्रमुण्डी तु वायव्यां निचरं तथा ॥ ८७९ ॥
उत्तरे मेषदेवं तु शाङ्करे शङ्करं तथा ।
स्कन्दरूपवान् सर्वे विशेषं किञ्चिदस्ति हि ॥ ८८० ॥
कारणे भीमसहिता ।
लिङ्गस्य तुङ्गं त्रिविधेन भज्या मूलेन- ॥ ८८१ ॥
वस्त्राभरणस्य मध्ये । ऊर्ध्वे तदंशा
विविधैश्च पुष्पं देवस्य पूजाय विचक्षणानि ॥ ८८२ ॥
पार्थिवं गन्धपुष्पाढ्यं स्कन्दमूलफलादिभिः ।
आप्यं वारि रसं क्षीरं दधिगोमूत्र गादिभिः ॥ ८८३ ॥
आग्नेयं हेमरक्तादि दिवामाभरणादिकम् ।
वायव्यामरं छत्रं यजनं वातकारणम् ॥ ८८४ ॥
नाहसङ्गेय वाद्यं तु घण्टावेदं तु नादिकम् ।
एते पञ्चोपचारैस्तु कथिता शास्त्रवेदिता- ॥ ८८५ ॥
आवाहनं पुराप्रोक्तं स्थापनाचारं कीर्तितम् ।
पञ्चोपचारम् । दशोपचारम् ॥ ८८६ ॥
प्रथमम् आवाहनं चैव स्थानं तु द्वितीयकम् ।
तृतीयं पाद्यतो दद्यात् चतुर्थम् आचमनीयकम् ॥ ८८७ ॥
पञ्चममर्घ्य विन्यासं षष्टं चाभिषेचनम् ।
सप्तमं वस्त्रगन्धं च अष्टमं पुष्प पूजयेत् ॥ ८८८ ॥
नवमं धूपदीपं च दशमं तु निवेदयेत् ।
एकादशे बलिं कुर्याद्वादशे होमकर्मणि ॥ ८८९ ॥
त्रयोदशे श्रीबलिं कुर्यात् गेयवायं चतुर्दशम् ।
नृत्तं पञ्चादशं चैव उद्वाहनं तु षोडशम् ॥ ८९० ॥
इत्येते कर्मसंयुक्तम् उद्वाहनं तु षोडश ।
आ * * दक्षिणं हस्तं कुञ्चितं चतुरङ्गुलम् ॥ ८९१ ॥
पुष्पवारी गृहीत्वा तु चुलुकीदं ततः शृणु ।
पञ्चशुद्धिः ॥ ८९२ ॥
प्। ६५)
आत्मशुद्धिस्तु पूर्वं स्यात् स्थानशुद्धिर्द्वितीयकम् ।
तृतीयं द्रव्यशुद्धिस्स्यात् चतुर्थं लिङ्गशोधनम् ॥ ८९३ ॥
पञ्चमं मन्त्रशुद्धिस्स्यात् उच्यते पञ्चशुद्धयः ।
कृत्वा तु विधिना स्नानं देहशुद्धिस्ततः परम् ॥ ८९४ ॥
पादप्रक्षालनं कृत्वा हस्तमात्रप्रदेशकम् ।
आवाहयेत्ततो भूमिं स्नानशुद्धिस्ततः परम् ॥ ८९५ ॥
अस्त्रेण क्षालयेद्धीमान् निरीक्ष्य हृदयेन तु ।
कवचे नैव कुण्ठ्याथ तेनैवोन्मीलनं कुरु ॥ ८९६ ॥
गर्भगेहं ततः प्राप्य लिङ्गशुद्धिं समाचरेत् ।
पूर्ववद्वयर्चितं पुष्पम् ईशे नैव विवर्जयेत् ॥ ८९७ ॥
ओङ्कारादि नमोन्तश्च मन्त्रास्सर्वे विशेषतः ।
यजनेषु प्रयोक्तव्यं मन्त्रशुद्धिरुदाहृदम् ॥ ८९८ ॥
यो वेत्ति पञ्चशुद्धिं च स पूजाङ्कर्तुमर्हसि ।
दन्ततालोष्ट सञ्चारे मन्त्रस्याशौ च निर्हणात् ॥ ८९९ ॥
नारदान्तोच्चारणे नैव मन्त्रशुद्धिस्समीरणम् ।
कर्णिकायां तथैशानं पूजयेत्तु विशेषतः ॥ ९०० ॥
पूर्वे तत्पुरुषं चैव अघोरं दक्षिणे यजेत् ।
पश्चिमे तु यजेत्सद्यः वामदेवं तु सौम्यके ॥ ९०१ ॥
हृदयं पावके पूज्यं निर्-ऋतिं तु शिखा यजेत् ।
कवचं वायु देशे तु शिरोवैशान गोचरे ॥ ९०२ ॥
अस्त्रं तु दक्षिणे पूज्य ईशानेन धनं यजेत् ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ ९०३ ॥
अनन्तादि शिखण्डान्तं प्राक्दलादिषु पूजयेत् ।
द्वितीयावरणं प्रोक्तं तृतीयावरणं शृणु ॥ ९०४ ॥
उत्तरेषु यजेद्गौरीं पूर्वेषु वृषभं यजेत् ।
गणेशं याम्ये तु सम्पूज्य गुहं वै वरुणे यजेत् ॥ ९०५ ॥
नन्दीशं च महाकालं भृङ्गीशं चाथमूर्तिनः ।
आग्नेयादिषु कोणेषु पूजयित्वा यथा विधि ॥ ९०६ ॥
तृतीयावरणं प्रोक्तं चतुर्थावरणं शृणु ।
इन्द्रादिलोकपालांश्च ऐन्द्रादिषु प्रकल्पयेत् ॥ ९०७ ॥
प्। ६६)
ब्रह्माणं निर्-ऋतौ पूज्य अनन्तमीशानगोचरे ।
चतुर्थावरणं ह्येवं पञ्चमावरणं शृणु ॥ ९०८ ॥
वज्रादिपकपर्यन्तं पूर्वादिषु दलाग्रतः ।
सप्तमात्र न्यसेन्मध्ये आशाधिप गणेशयोः ॥ ९०९ ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही च तथेन्द्राणी चामुण्डी सप्तमातरः ॥ ९१० ॥
दक्षिणे दक्षिणे चैव वीरभद्रविनायकौ ।
गन्धपुष्पादिना चैव स्वनामा देशिकोत्तमः ॥ ९११ ॥
पञ्चावरणमाख्यातं पूजयेत्सर्वदेवतान् ।
इति कारणे-
पूज्यापूजक पूज्यपूजन फलान् आधारमूर्त्या- ॥ ९१२ ॥
मनो व्याप्त्यै व्यापक भावकोर्ध्वनिमनॄन्-
प्रत्यक् समात्रालया * मुदर्च्चाङ्गमुखहस्त- ॥ ९१३ ॥
भूषण वपुं वर्णाश्च शक्ति सततोपायोपे-
न समुन्नयञ्चन सुधी संस्कृत्य शम्भुं यजेत् ॥ ९१४ ॥
कुङ्कुमं चन्दनं दूर्वा उशीरं सिद्धार्थकं तथा ।
जलेनैव समायुक्तं पाद्यमुत्तममुच्यते ॥ ९१५ ॥
उशीरं चन्दनं चैव दूर्वासिद्धार्थकेन तु ।
उदकेन समायुक्तं मध्यमं पाद्यमुच्यते ॥ ९१६ ॥
चन्दनोशीर युक्ताम्भः कन्यसं पाद्यमुच्यते ।
प्रत्येकं धनरणं श्रेष्ठं तस्यार्धं मध्यमं भवेत् ॥ ९१७ ॥
तस्यार्धं कन्यसं ज्ञेयं पाद्यं द्रव्यं त्रयोदिदम् ।
उशीरजाति कर्पूर तुदीती पूलवङ्गकम् ॥ ९१८ ॥
मुरणैवोदकोपेतम् श्रेष्ठमाचमनीयकम् ।
एलालवङ्क कर्पूरं मुरजातिसमन्वितम् ॥ ९१९ ॥
जलेनैव समायुक्तं मध्यमाचमनीयकम् ।
एलालंवक कर्पूरं जलैस्सार्धं तु कन्यसम् ॥ ९२० ॥
एतेषां तु प्रमाणं च पूर्ववत्समुदाहृतम् ।
अष्टद्रोणैरथाभिस्तु स्नानं कन्यसमुच्यते ।
द्विगुणं मध्यमं ज्ञेयम् उत्तमं त्रिगुणं भवेत् ॥ ९२२ ॥
आपक्षीर कुशाग्राणि अक्षतैर्यवतण्डुलैः ।
तिलैः सिद्धार्थकैश्चैव अर्घ्यमुत्तममुच्यते ॥ ९२३ ॥
प्। ६७)
यवसर्षप शाल्याभिः तण्डुलैर्मध्यमार्ध्यकम् ।
उदकं तण्डुलं शालिं भवेदर्ध्यं तु कन्यसम् ॥ ९२४ ॥
एतेषां तु प्रमाणं तु पूर्ववत् परिकीर्तितम् ।
कर्पूरं कुङ्कुमं पत्रं खड्गं चैव फलत्रयम् ॥ ९२५ ।
चन्दनोशीरलोहैश्च गन्धमुत्तममुच्यते ।
उशीरं चन्दनं चैव कर्पूरं च फलत्रयम् ॥ ९२६ ॥
खनं खड्गसमायुक्तं मध्यमं गन्धमुच्यते ।
हिमङ्घनं च कर्पूरं कन्यसं गन्धमुच्यते ॥ ९२७ ॥
अर्घ्यद्रव्यं -
जात्यारश्वत कर्णिकार तुलसीकेरणसं-
भकोरर्थको धत्तुरोदयमारूपकं ब्रह्म- ॥ ९२८ ॥
शम्यकैः । * * * * लोत्पलम् । शस्तं मल्लिकाया-
च बिल्वबृहती पिण्डीतकी मातकी । नन्दा- ॥ ९२९ ॥
वर्तपलाशपाटलयुतं पुन्नागमभ्यर्च्यते ।
वर्णम् ॥ श्वेतं रक्तं तथा पीतं कृष्णं चेति चतुर्विधम् ॥ ९३० ॥
श्वेतं श्वेतपुष्पं च पुन्नागं शङ्खपत्रं च मल्लिका ।
नन्द्यावर्तं श्रियावर्तं मन्दारं बहुकर्णिका ॥ ९३१ ॥
द्विकर्णीकरणं जाति लक्ष्मी च वकुलं तथा ।
श्वेतार्कं मालती द्रोणमसती श्वेतलोध्रकम् ॥ ९३२ ॥
पिष्टकासी सकुसुमं भद्रं चैव महां तथा ।
एतानि श्वेतपुष्पाणि सात्विकानि विनिर्द्दिशेत् ॥ ९३३ ॥
रक्तपद्मं पलाशं च रक्तोत्पलं च पाटली ।
मौसलीं चैव धुत्तूरं बृहतीकरवीरकम् ॥ ९३४ ॥
व्याघ्री च रक्तमन्दारं पट्टिका वेदिका तथा ।
रक्तान्येतानि पुष्पाणि राजसानि विनिर्द्दिशेत् ॥ ९३५ ॥
शौनक्यं कर्णिकारं च चम्पकं हेम धत्तुरम् ।
आरग्वधं च कोरण्डं सैरिकं गिरिकर्णिकाम् ॥ ९३६ ॥
एतानि मिश्रपुष्पाणि कृष्णानि तामसानि वै ।
मोक्षदं सात्विकं प्रोक्तं वृद्धस्स्याद्राजसं तथा ।
मिश्रकद्वय सिध्यर्थं पत्रं पुष्पसमृद्धिदम् ॥ ९३८ ॥
प्। ६८)
ब्रह्मपत्रं तपस्वी च सहादेवी य धातकी ।
अपामार्गं कुशादूर्वा पञ्चबिल्वं शमी तथा ॥ ९३९ ॥
तुलसी च नृपं चैव जम्बुको नागनन्दिका ।
एकपत्रारविन्दं च विष्णुक्रान्तिं तथैव च ॥ ९४० ॥
ततो नीलोत्पलादन्यत्तामसानि विनिर्द्दिशेत् ।
नीलोत्पलसमं पुष्पं न भूतो न भविष्यति ॥ ९४१ ॥
नन्द्यावर्तं श्रियावर्तं श्वेतार्कं श्वेतपद्मकम् ।
पुन्नागं पट्टिकाषाढं मालतीमुदये ददेत् ॥ ९४२ ॥
पङ्कजं बृहती व्याघ्री व्याघातं करवीरकम् ।
उत्पली पाटलीद्रोणं मध्याहे तु प्रजापते ॥ ९४३ ॥
चम्पकं वैजिका पत्री धुत्तूरं बहुकर्णिका ।
मालती मल्लिका चैव दापयेत्तु प्रदोषके ॥ ९४४ ॥
अर्धयाम
जातिनीलोत्पलं चैव बिल्वपत्रं कदम्बकम् ॥ ९४५ ॥
द्विकर्णी चैव भद्रं च अर्धयामे प्रदापयेत् ।
अन्यपुष्पाणि सर्वाणि अन्यसन्ध्यासु दापयेत् ॥ ९४६ ॥
अतिपक्वमपक्वं च मुकुलं च विवर्जयेत् ॥ ९४७ ॥
केशकीटोपविद्धं च लूतसूत्रावृतानि च ।
स्वयं पतित पुष्पाणि सञ्चितान्यविसस्रके ॥ ९४८ ॥
एकाहोषित पुष्पाणि वर्जयेत्तु विशेषतः ।
पुष्पलक्षणमाख्यातं शृणु धूपस्य लक्षणम् ॥ ९४९ ॥
कारणे-
चन्दनं चैव निर्यासं कुन्दूनुल्कं च कुङ्कुमम् ।
मेधं च कृष्णलोहं च कर्पूरं च क्रमेण तु ॥ ९५० ॥
स पूषट् भूतवेदाश्च अग्निशून्यम्बरांशकम् ।
आहृत्य चूर्णयित्वा तु मधुना च परिप्लुतम् ॥ ९५१ ॥
व्योम पक्षणि ऋग्बाणाम् ईषं कर्पूरमिश्रितम् ।
उत्तमं धूपमाख्यातं मधुना च परिप्लुतम् ॥ ९५२ ॥
चन्दनोशीरसंयुक्तं लघुयुक्तमधुप्लुतम् ।
भागं तु पूर्ववत्प्रोक्तं मध्यमं धूपमुच्यते ॥ ९५३ ॥
प्। ६९)
गुद्गुलुं घृतसंयुक्तम् अधमं धूपमुच्यते ।
धूपपात्रं समादाय दापयेद्विधिवद्बुधः ॥ ९५४ ॥
दीप्ताङ्गारकसंयुक्तं घण्टायां वामकरेण तु ।
कारणे - दीपलक्षणम् ॥ ९५५ ॥
कपिलाघृतेन दीपं स्यात्सितरक्तासितेषु च ।
अधाघृतेऽलाभे तु शुद्धतैलेन वा पुनः … ९५६ ॥
कपिलाया घृतं श्रेष्ठम् अन्येषां मध्यमं स्मृतम् ।
अधमं स्यात् अजासर्पि शुद्धतैलं तथैव च ॥ ९५७ ॥
सात्विकं राजसं चैव तामसं च क्रमेण तु ।
कर्पूरं वर्तितं दीपं दापयेत्सर्वसिद्धिदम् ॥ ९५८ ॥
श्रेष्ठं युगाङ्गुलं ज्वाला मध्यमं तु गणाङ्गुलम् ।
अधमं द्व्यङ्गुलं ज्वाला एवं दीपं प्रकीर्तितम् ॥ ९५९ ॥
वृक्ष बीजोद्भवेद्देहं शिवदीपं न कारयेत् ।
हीने वित्ते तदच्छेद्य निर्गन्धं वा सुगन्धयुक् ॥ ९६० ॥
देवस्य नयनोच्चिष्टं निवृत्यर्थं प्रदोषके ।
कर्तव्यं सायरक्षां तु धूपदीपावधारकौ ॥ ९६१ ॥
मणिनाम वासुदैवक्यं सूचि सोममयं भवेत् ।
जिह्वा सरस्वती चैव नाल इन्द्रं च देवता ॥ ९६२ ॥
त्रिशूलं त्रिमूर्ति दैवत्यम् असुराणां विनाशनम् ।
गच्छन्ति घण्टघोषायां देवसान्निध्यमुच्यते ॥ ९६३ ॥
धूपपात्रस्य तन्मध्ये * * * * * * * * ।
दण्डम् ईश्वरं प्रोक्तं पादौ प्रजापतिस्तथा ॥ ९६४ ॥
नवशक्तिर्नव दीपं स्यात् सप्तदीपस्य मातरः ।
पञ्चदीपे निवृत्यादि एकदीपे सरस्वती ॥ ९६५ ॥
शङ्खं चन्द्रादि दैवत्यं कुक्षिर्वरुण देवता ।
पृष्टे च पार्वती चैव अश्विन्यौ पार्श्वयोस्तथा ॥ ९६६ ॥
शङ्खाग्रे सर्वतीर्थानि इत्येतेऽधिदैवताः ।
दिवारात्रं परित्यज्य कथं पूजे न देशिकः ॥ ९६७ ॥
सर्वभूतमनश्चक्षू वृतिस्थौ शशि भास्करौ ।
मनसानन्द्य मनसा दृष्टिभ्यां भिज्यते मनः ॥ ९६८ ॥
प्। ७०)
अक्षिभ्यां वीक्षणे नैव मन्यत्रैव प्रजापते ।
यावत्पूजा समारभ्य तावच्चक्षुर्मनोगतिः ॥ ९६९ ॥
नान्यक्षणान्यतो भूत्वा ये नाक्षा परं तथा ।
तेनार्चनेन देवेशम् अर्चनं त्यमनं तथा ॥ ९७० ॥
मनच्चक्षुद्वयो वृत्ति यस्मिन् काले द्विजोत्तमः ।
एकचित्ते मनुप्राप्ते तस्मिन् काले समर्चयेत् ॥ ९७१ ॥
चन्द्रार्कनाशनाकाले तत्काले मिति मुच्यते ।
सङ्क्रान्ते विषुवे पूजा न कर्तव्यं कदाचन ॥ ९७२ ॥
पुटात् पुटान्तरं वा * तेन सङ्क्रान्तिरुच्यते ।
पटद्वये द्विपार्श्वे तु विषुवत्सम्प्रकीर्तितम् ॥ ९७३ ॥
ऊर्ध्ववायुरपि प्रोक्तम् अपानं चन्द्र उच्यते ।
तयोर्निरोधनं कृत्वा नष्टचन्द्रार्कनाशननम् ॥ ९७४ ॥
मन्त्रपुष्प समोपेतम् अभिषेकं सदा क्रियाम् ।
पुष्पाणि चैव सर्वाणि मन्त्रेण प्रति दीयते ॥ ९७५ ॥
मन्त्रपुष्पं विशेषेण जायते त्रिपुरान्तकम् ।
प्रोक्षात्कृष्टशुद्धिस्स्यात् णकारं नयनं भवेत् ॥ ९७६ ॥
प्रोत्कृष्ट शुद्धिनयात् प्रोक्षणन्त्विति शब्द्यते ।
नाटारम्भाय रुद्राय जगते जायते नमः ॥ ९७७ ॥
सोमसूर्याग्नि नेत्राय सर्वव्यापि यते नमः ।
म मन्त्रं रुद्रबीजं स्यात् हुं पूजायां पूजिते हरिः ॥ ९७८ ॥
आदानदाय मूर्तिश्च ईश्वरश्च हरी हरः ।
शिवाय पूज्यते मौनं स्नानं तु जप उच्यते ॥ ९७९ ॥
ध्यानस्य पूजिते लिङ्गं मूकपापहरं परम् ।
वारणवासी मणिकर्णी भागीरथी जटाधराः ॥ ९८० ॥
ब्रह्मकपालभिक्षायां वीरभद्रायते नमः ।
यस्त्वेकयेक धरणी हृदयं तद्विष्णोः परमम् ॥ ९८१ ॥
पदम् । एकमूर्तित्रयो भाग ब्रह्मविष्णु महेश्वरः ।
ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ९८२ ॥
यान्तं भान्तं वान्तं च तृतीयस्वरसंयुतम् ।
लान्तः पक्षस्वरोपेतं मान्तं पञ्चाक्षरं स्मृतम् ॥ ९८३ ॥
प्। ७१)
भुक्तिमुक्तिदमाग्नेयं विशुद्धे नैव भस्मना ।
ज्वरापस्मारपैशाच ब्रह्मराक्षस विस्थिता ॥ ९८४ ॥
भस्मा लेपनमात्रेण स्वस्थमत्या भवामि च ।
भस्मस्नानं जलस्नानं पुण्यकोटिगुणं भवेत् ॥ ९८५ ॥
भस्मं देवाकृतिर्वक्ष्ये विशेषेण महेश्वरः ।
त्रिणेत्रं शिखरं रौद्रं त्रिहस्तं गुणवर्धकम् ॥ ९८६ ॥
त्रिपादं वह्निनयनं भस्मकुण्डितविग्रहम् ।
ताण्डवाडम्बरं भीमं रक्तपुष्पोपशोभितम् ॥ ९८७ ॥
रक्तामन्त्रेणश्वरं देवं ध्यात्वा शान्तिं लभेन्नरः ।
श्रीकरं च पवित्रं च हारमाभरणं तथा ॥ ९८८ ॥
लोकेवश्यकरं प्रोक्तं भस्मस्नानं दिने दिने ।
षडङ्गुल प्रमाणेन ब्राह्मणानां त्रिपुण्ड्रकम् ।
नृपाणां चतुरङ्गुल्यं वैश्यानां तु त्रयङ्गुलम् ॥ ९९० ॥
शूद्राणां द्व्यङ्गुलं चैव स्त्रीणामेकाङ्गुलं तथा ।
यथा गङ्गाजलं शुद्धं तथा भस्मविलेपनम् ॥ ९९१ ॥
भासयत्येव वक्त्रे तु भस्मं नित्यं भासयते चयत् ।
दक्षाणां सर्वपापानां भस्मेति परिकीर्तितम् ॥ ९९२ ॥
आग्नेयं भस्मनाकाय भुक्तिदं मुक्तिदं नृणाम् ।
गृहिणो वा ऋणं स्नानम् आग्नेयं ब्रह्मचारिणाम् ॥ ९९३ ॥
मध्यमानामिकाङ्गुष्ट ललाटे भस्मनाकृतिः ।
तत्रिपुण्ड्रं भवेत्तत्तु सर्वपापविनाशनम् ॥ ९९४ ॥
भस्मस्नानं विशुद्धं तु शुचिकरं मतम् ।
व्याधिनाशं सुमोक्षं गङ्गातीर्थेन तुल्यं- ॥ ९९५ ॥
सकलविषहरं क्रोधनाशं सुशान्तः रक्षः ।
पैशाचरक्षः तद्गृह ऋणं तुष्टिः पुष्टिस्सुवश्यं- ॥ ९९६ ॥
पूज्यं लोके नराणां सकलजनसुखं पार्वती-
चैव रक्षः ॥ एतानि तानि शिवमेत्र पवित्रितानि- ॥ ९९७ ॥
भस्मानि कामदहनानि विभूषणानि । त्रैयन्त-
वेश्ममहिमानि ललाटपट्टे लुम्पन्ति देवलिखि- ॥ ९९८ ॥
प्। ७२)
तानि दुरुक्षणानि । कृपाददं गुणं वाप्यम् ।
वाप्याद्दशगुणान्नदी । तस्माद्दशगुणं- ॥ ९९९ ॥
सिद्धि द्विनद्यैश्चैव समुद्रके ॥ पञ्चमुख- ।
वृत्तं च ऊर्ध्ववक्त्रं च पूर्वे चैव त्रिपुण्ड्रकम् ।
त्रिशूलं दक्षिणे देशे पश्चिमे चतुरश्रकम् ॥ १००१ ॥
उत्तरे वदने प्रोक्तं दीपाकारं षडाननम् ।
केकी स्थितं दशहस्तयुक्त षड्वक्त्रयुक्तं प्रति- ॥ १००२ ॥
पक्षनेत्रं षट्कण्डके द्वादशकण्डयुक्तं षड्भिः ।
तु मालाभिरलं क्रमेण । शक्तिं च वारामुस- ॥ १००३ ॥
लं च खड्गं वज्रं च शूला अभयान्वहञ्च ।
अदक्षिणे वज्रवनं च खेटं मायूरकं चाध्व- ॥ १००४ ॥
ज मे वरञ्च । सुब्रह्मण्यन् ।
अभयवरदकटकं पूर्वहस्ते कुमारम् ॥ १००५ ॥
अपरकरतलं स्याद्वज्र शस्त्री धरे च ।
किरीटमकुटयुक्तं पद्मपत्रोद्विकर्ण प्रथम- ॥ १००६ ॥
वरुणवायु स्थापितं तत्कुमारम् । चन्दनं च-
पकं बिल्वं माधूकं पनसं तथा । वैणवं देव- ॥ १००७ ॥
दारूश्च यज्ञवृक्षश्चतुरङ्गणम् ॥ जाती च
क्रमुकं चैव मुनिवृक्षमथापि वा ॥ १००८ ॥
दण्डं चैव पक्षं च दण्डान्यस्यैव सङ्गृहेत् ।
त्रितालं नागमूलं स्यात्क्रमशोग्रान्थिकं कृशम् ॥ १००९ ॥
पीठं तु पार्वती देवी दण्डस्य रुद्रदेवता ।
यष्टिं स्कन्द समायुक्तम् उपदण्डं विनायकम् ॥ १०१० ॥
माला ब्रह्मसमायुक्तं पीठं वै वायु दैवतम् ।
वासुकी रज्जुदेवानाम् ऋषभं तु जनार्दनम् ॥ १०११ ॥
चामरे चन्द्रसूर्येण छत्रं सरस्वती भवेत् ।
दीपं तु लक्ष्मी चैव घण्टानां तु षडाननम् ॥ १०१२ ॥
वेणुजाति पलाशचन्दनतरुं बिल्वं तथा खादिरम् ।
न्यग्रोधं नृपनालिकेर क्रमुकं तालं शमी चेणाकम् ॥ १०१३ ॥
प्। ७३)
माधूकं वकुलं च यत्सुततमम् एतेषु यत्सम्भवम् ।
देवेशस्य वृषध्वजस्य वरणे दण्डायुतं कल्पितम् ॥ १०१४ ॥
अश्वत्थ चूत प्रभवं तु तस्य स्कन्धत्रयं चापि मधूकजम्बू ।
दण्डोपदण्डं प्रतिबन्धनाया न्यग्रोधजं वा पनसोद्भवं वा ॥ १०१५ ॥
रन्ध्राष्टाब्धि कराणि दीर्घमखिल भूतांशकेकाशकम् ।
तस्यार्धं शिखरस्य विस्तरसमं पुच्छद्वयं तत्परम् ॥ १०१६ ॥
पञ्चाशस्य परस्य मध्यविधिना वृषभं विधेयं-
लक्षणं यत्र चामरमब्जपीठलिखितं दीपद्वयं पार्श्वयोः ॥ १०१७ ॥
परस्य विस्तारम् अथाष्टाकृति भागैगहीनम् ।
वृषभस्यमानम् । तद्देव भागत्रयमेव तारम् ॥ १०१८ ॥
गलादि पुच्छान्तमिदं प्रशस्तम् ॥ तस्य ॥
भूतलक्षणम् । अष्टबन्धनम् । त्रिबन्धनम्- ॥ १०१९ ॥
द्वार तारगुणधातुभाजिते एकभाग गुण-
भागभाजिते । वाममेकद्वय भाग दक्षिणे ॥ १०२० ॥
स्थापयेत्तु शिवसूत्रमध्यमे । यामायां पितृ
पत्नीभ्यां दीक्षायामधिकारणात् । दीक्षाकर्ता- ॥ १०२१ ॥
शिवे यस्मात् तस्मादेषां न पुत्रकान् ।
अन्यं तु सरुचे देहे राजचोर भयादिषु ॥ १०२२ ॥
गुरुदेवाग्निकार्यं च नित्यकर्मविरोधकृत् ।
नैमित्तिकन्तु नित्यान्ते कर्तव्यमविरोधतः ॥ १०२३ ॥
नित्येन सहितं वापि यदि काले न विद्यते ।
अर्चनत्वाग्निकार्यं च नित्योत्सव नवोत्सवम् ॥ १०२४ ॥
स्नपने बलिदानं च नैष्ठिके ब्रह्मचारिणम् ।
तैलं तु प्रथमं विद्यात् द्वितीयं गुलमुच्यते ॥ १०२५ ॥
तृतीयं भैरिकं विद्यात् चतुर्थं गुग्गुलुं स्मृतम् ।
पञ्चमंसीसकं सिद्धि षष्टमं सीनमुच्यते ॥ १०२६ ॥
सप्तमं सर्जसारं हि लाक्षारं चाष्टमं स्मृतम् ।
त्रिबन्धं केन संयुक्तौ । * * * * * * * * ॥ १०२७ ॥
द्विबन्धनमिति ख्यातं प्रयोगमधुना शृणु ।
वामहस्तकपद्दीप कण्डोदरमहोदरम् ॥ १०२८ ॥
कर्मजं वेदशास्त्रवेदाश्च विष्टघ्नो ब्रह्मवित्तथा ।
अष्टभूदासमाख्यात द्विनेत्राद्विभुजान्विता ॥ १०२९ ॥
प्। ७४)
शुद्धस्फटिकसङ्काशा कर्तकेशाश्च दंष्ट्रिणा ।
पीताम्बरसमायुक्ता शूलहस्ताभयङ्करा ॥ १०३० ॥
भूतादिवास्तु मे प्रोक्ता महाबलपराक्रमा ।
द्विभुजं च त्रिणेत्रं च श्यामवर्णसुयौवनम् ॥ १०३१ ॥
सर्वहस्ते वहं वज्र वामहस्तेऽभयं तथा ।
शक्ताम्बरसमायुक्ता सरक्तमकुटान्वितम् ॥ १०३२ ॥
सर्वाभरणसंयुक्तं किञ्चित्प्रहसिताननम् ।
पीनोकृपीन जघनं सर्वावयव शोभितम् ॥ १०३३ ॥
शुक्ल यज्ञोपवीतं च मुक्ताभरणभूषितम् ।
प्रसुग्रीवसुपाशैश्च अतिसुन्दररूपवान् ॥ १०३४ ॥
इन्द्ररूपमिति ख्याता अग्निरूपमिदं परम् ।
यक्षे शोधनदेजं भोले मालिरूपकम् ॥ १०३५ ॥
पूर्णभद्रं च वेतालं कण्डुकुण्डलिरेव च ।
नरेन्द्रश्चेति विख्यातं यक्षाश्चेकदशास्मृताः ॥ १०३६ ॥
द्विभुजाश्च द्विनेत्राश्च सरत्नमकुटान्विताः ।
नानावर्णसमायुक्ता रक्तमाला समायुता ॥ १०३७ ॥
व्याल यज्ञोपवीताश्च कुञ्चितब्रू विविद्रुता ।
दुकूलवाससंयुक्तं शोभनावयवैर्युतम् ॥ १०३८ ॥
शुक्लवस्त्रोत्तरीयाश्च किञ्चित्प्रहसिताननम् ।
यक्षाणामपि सर्वेषामाकृतिः कथ्यते मया ॥ १०३९ ॥
नवतालं मध्यमं ख्यातं नवतालं ततः शृणु ।
चित्रसेन महासेन समित्र सुमुखं तथा ॥ १०४० ॥
सुखं च सर्वनागं च सुरजं पञ्चगीतकम् ।
गन्धर्वास्त्विति विख्याता द्विभुजाश्च द्विनेत्रकम् ॥ १०४१ ॥
पीतशुक्लं च कृष्णं च धूम्रकुङ्कुम सन्निभम् ।
श्यामरक्तं च कल्माषं क्रमाद्गन्धर्ववर्णकाः ॥ १०४२ ॥
सरलमकुटोपेता रत्नकुण्डलमण्डिताः ।
सर्वाभरणसंयुक्ता रक्तवस्त्रोत्तरीयकाः ॥ १०४३ ॥
पीतवस्त्र समायुक्तं सुनेत्रं तुङ्गनासिका ।
तालं वीणां च वंशं च वाद्यकर्म तथैव च ॥ १०४४ ॥
प्। ७५)
द्वौ द्वे स कुङ्कुमं कुर्यात्सर्वे तालयुताच्छिवा ।
कृताञ्जलि पुटोवापि इति वादन तत्परा ॥ १०४५ ॥
गन्धर्वन्त्विति विख्याता यातु यान ततः शृणु ।
भयग्रीवोक्त यत्सर्वं कालनेत्र महाबल ॥ १०४६ ॥
सुग्रीवोक्तमुदकं चैव विशिखो देवमर्दक ।
यातुधानास्तुति ख्याता रक्तं कृष्णं च वर्णकम् ॥ १०४७ ॥
श्वेताभं कुङ्कुमाप्रख्यं श्यामं पिङ्गलवर्णकम् ।
पिङ्गसिन्धूरकञ्चैव धूम्रवर्णं तथैव च ॥ १०४८ ॥
क्रमाद्वर्णसमायुक्तं द्विभुजाश्च द्विनेत्रका ।
रक्तकुन्दुलकाश्चैव किञ्चिद्दंष्ट्रा समायुता ॥ १०४९ ॥
दण्डमूलसमायुक्तं सर्वाभरण भूषितम् ।
रक्तपीताम्बरधरं दर्शने तु भयङ्करा ॥ १०५० ॥
कृष्णकञ्चुकसंयुक्तं स्फुरद्दर्शनसंयुतम् ।
यातुधानास्त्विति प्रोक्ता चारणाकृति रुच्यते ॥ १०५१ ॥
खड्गचारस्वचारञ्च ब्रह्मवित्तं च शाश्वतम् ।
अतिशाली सुपुष्पं च तुष्टः कष्टविहीनकम् ॥ १०५२ ॥
चारणाष्टाकृतिः ख्याता द्विभुजा च द्विलोचना ।
नीलं रक्तं तथापीतं गौरं धूसरवर्णकम् ॥ १०५३ ॥
कल्मषं पिङ्गलं चैव कृष्णवर्णं तथैव च ।
वर्णास्तु चारणानां तु पीनोदरसमन्वितम् ॥ १०५४ ॥
शुक्लकञ्चुकसंयुक्तं श्यामोष्णीषधराशुभा ।
वेत्रहस्त समायुक्ता सदागमन तत्परा ॥ १०५५ ॥
चारणान्तेवमाख्यातं राक्षसाकृतिरुच्यते ।
क्रव्यादा श्रोणताक्षश्च कञ्चुको यज्ञशत्रुका ॥ १०५६ ॥
ब्रह्मवित्वालहस्ताश्च विलालाश्च वीरहा ।
भिन्नाञ्जननिभाश्चैव द्विभुजाश्च द्विलोचना ॥ १०५७ ॥
अति रौद्रा तीक्ष्णदंष्ट्रा ऊर्ध्वकेशा महोदरा ।
अतिरक्ता स्फुरसंयुक्ता आसनासनसंयुता ॥ १०५८ ॥
अतिरक्तकेशसंयुक्ता कुञ्चित भ्रूसुविभ्रमः ।
दण्डहस्ताश्च भीमाश्च आयासत्प्रियास्तदा ॥ १०५९ ।
प्। ७६)
बृहद्भुजा महाकायः महाबल पराक्रमः ।
राक्षसा रूपमाख्याता पवित्रामाकृतिं शृणु ॥ १०६० ॥
वृद्धरूपं त्रिपादं च वलीपलित संयुता ।
द्विहस्तं च द्विनेत्रं च दीपमात्रसमायुतम् ॥ १०६१ ॥
शुक्लयज्ञोत्तरीयं च शुक्लवस्त्र परिस्ततथा ।
बन्धकेशयुगच्छत्र दण्डं सव्येतरोद्धृतम् ॥ १०६२ ॥
सपवित्रकरं शान्तं तत्तद्ध्यानपरायणम् ।
पितॄणां रूपमाख्यातं सर्वलक्षणसंयुतम् ॥ १०६३ ॥
श्वेतवक्त्रोपरिस्थितं श्वेतवक्त्रमेकवक्त्र-
मंसासक्त नालकुमुदपाणि युगलजोस्मा- ॥ १०६४ ॥
मणदलमन्य स्थितं बितमाल्याम्बल भूषण-
द्विनेत्रं सर्वलक्षणमिति ॥ १०६५ ॥
द्विभुजं च द्विनेत्रं च सुकेशमकुटं तु वा ।
सरत्नमकुटोवापि किरीटमकुटं तु वा ॥ १०६६ ॥
प्रभामण्डलसंयुक्तो विलसत्कुमुदो वहन् ।
कुन्दपुष्पप्रभं चैव पीतदृक् शान्तलोचना ॥ १०६७ ॥
आसीनो वास्तिको वापि शक्तीनां सहवामके ।
चन्द्ररूपमिति ख्यातम् ऋषीणां लक्षणं शृणु ॥ १०६८ ॥
अगस्त्यश्च पुलस्त्यश्च विश्वामित्रपराशराः ।
वाल्मीको जमदग्निश्च सनत्कुमारं तथैव च ॥ १०६९ ॥
ऋषयस्त्वेते समाख्याता तेषां रूपमथ शृणु ।
द्विजस्सुकेशमकुटोपेत द्विभुजा च द्विनेत्रका ॥ १०७० ॥
रक्तवर्ण समायुक्तं शुक्ल यज्ञोपवीतिनम् ।
लम्बवस्त्र धरास्सर्वे ऊर्ध्वे वत्सल संयुतम् ॥ १०७१ ॥
केचिद्वल्कलसंविना कुक्षोवस्त्रसुबन्धकाः ।
केचिज्जटान्वितास्तत्र केशसर्वानशापरे ॥ १०७२ ॥
त्रिपुण्ड्रसहितास्सर्वे भस्मोद्धूलित विग्रहम् ।
दीर्घश्मश्रुयुतास्सर्वे सितदीर्घानखास्तु वा ॥ १०७३ ॥
केचित्पुस्तकसंयुक्ता शान्तरूपस्मितानना ।
भिक्षूणामाकृतिं ख्याता अश्विन्याराकृतिः शृणु ॥ १०७४ ॥
प्। ७७)
फुल्लरक्तोत्पलाक्षौ च चूडामकुडधारिणौ ।
सितं च कौपीनवस्त्रौ रक्तवर्णधरौशुभौ ॥ १०७५ ॥
अतियौवन सम्पन्नौ सव्यासव्योपसव्यकौ ।
नासत्यदास्यानामाग्नौ प्रोक्तौ देवतादि दिक्पतौ ॥ १०७६ ॥
अश्विन्योरा कृतिः ख्याता ध्याने रोगं विनश्यति ।
कालाञ्जननिभाकारा विद्युत्सदृशदंष्ट्रकम् ॥ १०७७ ॥
द्विभुजो रक्तकेशञ्च कुञ्चितभ्रूसुविभ्रमम् ।
कुञ्जासदृश नेत्रं च रक्तवस्त्र परिच्छदा ॥ १०७८ ॥
रक्तयज्ञोपवीतं च किङ्किणीमालयान्वितम् ।
विद्वत्सदृशशूलं च सव्यहस्ते वहन् पुनः ॥ १०७९ ॥
नागपाशं वहन् वामे जिह्वोर्ध्वे वक्रसंयुतम् ।
अभिषस्ता शिरोर्ध्वस्त सर्वेषां च भयङ्करम् ॥ १०८० ॥
यमरूपमिति ख्यातं रक्षोरूपमथ शृणु ।
द्विभुजं च द्विनेत्रं च कृष्णवस्त्रविमिश्रकम् ॥ १०८१ ॥
हेमवस्त्र परीधानं खड्गखेटकसंयुतम् ।
शुक्लयज्ञोपवीतं च शुक्लवस्त्रोत्तरीयकम् ॥ १०८२ ॥
किञ्चिद्दष्ट्रसमायुक्तं प्रेतकासनसंयुतम् ।
निर्-ऋते रूपमाख्यातं वरुणस्याकृतिं शृणु ॥ १०८३ ॥
शङ्खकुन्देन्दुधवलो द्विभुजं च द्विनेत्रकम् ।
सर्वाभरणसम्पन्न कुण्डलाभ्यां विराजितम् ॥ १०८४ ॥
सव्येपाशं वहन् वामे दण्डस्य तदर्धके वहन् ।
आसीनो वास्तितो वापि मेघवाहन कोसल ॥ १०८५ ॥
वरुनस्य रूपमेवं स्यात् वायुरूपम् अथ शृणु ।
कृष्णवर्णो द्विनेत्रं च कुञ्चित भ्रूसविभ्रमम् ॥ १०८६ ॥
शुक्लयज्ञोपवीतं च शुक्लमाल्यानुलेपनम् ।
सव्येकुशं वहन् वामे प्रलम्ब कटकं वहन् ॥ १०८७ ॥
मिश्रवर्णाम्बसंयुक्तो मृगारूढं सुयौवनम् ।
दिव्याभरणसंयुक्तो गमनोन्मुखवक्त्रकम् ॥ १०८८ ॥
वायुरूपं समाख्यातं कुबेरस्याकृतिं शृणु ।
सप्तकाञ्चनवर्णाभो द्विभुं च द्विनेत्रकम् ॥ १०८९ ॥
प्। ७८)
शुक्लवस्त्र परीधानं सरत्नमकुटान्वितम् ।
शङ्खं सव्येवहन् वामे विलसन्नलिनं वहन् ॥ १०९० ॥
सिह्मासन समासीनो नरवाहन कोऽपि वा ।
शुक्लयज्ञोपवीतं च वृषारूढं सुशान्तकम् ॥ १०९१ ॥
कपर्दी भस्मदण्डाङ्गं तरुणेन्दुविभूषणम् ।
शूलं चाभय हस्तं च मृगटङ्कं तथैव च ॥ १०९२ ॥
दक्षिणे दक्षिणे धार्यं व्याघ्रचर्माम्बरान्वितम् ।
ईशानरूपमाख्यातं द्विभुजं वापि कारयेत् ॥ १०९३ ॥
दिक्पालाकृतिरूपं स्यात् सर्वलक्षणमेव च ।
वक्ष्येऽहं तु समासेन समाहितमनाः शृणु ॥ १०९४ ॥
नानावर्णमुदुद्वर्ण नीलवर्णं तथैव च ।
जीमूतञ्चैव नीलं च अग्निवर्णं तथैव च ॥ १०९५ ॥
पद्मनाभनिभं चैव पीतवर्णं च नीरकम् ।
अञ्जनाभं च रक्तं च वर्णं तेषां प्रकीर्तितम् ॥ १०९६ ॥
द्विनेत्रा द्विभुजाशान्ता रक्तवर्णसमायुतम् ।
शुक्लयज्ञोपवीतं च सर्वाभरण भूषितम् ॥ १०९७ ॥
करण्डमकुटोपेतां मुक्तकेशान्विता शुभा ।
कृताञ्जलि पुटास्सर्वे शिरस्वायुधधारिणीम् ॥ १०९८ ॥
आयुराधारवेदानां रूपमेव प्रकीर्तितम् ।
भयवादनो प्रियश्चैव भयनाशकराः स्मृताः ॥ १०९९ ॥
खड्गायुधोज्वलश्चैव कपिला महलोचन ।
भीमरूपो प्रज्वलितो देहजोपिहिताशन ॥ ११०० ॥
पितामहानुजा सञ्ज्ञाश्च पृथिवीधरसंयुतम् ।
इन्द्रसम्मानमन्त्राश्च चित्तदयापरसञ्ज्ञकम् ॥ ११०१ ॥
चेतोपशालसञ्ज्ञश्च सारसन्तुष्टमेव च ।
क्रव्यादां श्रोणितांश्चैव कर्णको यज्ञशत्रुभिः ॥ ११०२ ॥
वस्त्रविपुलांसकश्चैव प्रेतापितृगणाः स्मृताः ।
विशालाक्षं च वीरं च सद्भष्टरणप्रिया ॥ ११०३ ॥
एताष्टादशकञ्चैव द्विभुजाश्च द्विलोचनः ।
अतिरौद्रीस्तीक्ष्णदंष्ट्रा ऊर्ध्वकेशा महोदराः ॥ ११०४ ॥
प्। ७९)
अतिरक्ताकेशसंयुक्ता कुञ्चित भ्रूसविभ्रमम् ।
दण्डहस्ताश्च भीमाश्च आसामासु प्रिया स्मृताः ॥ ११०५ ॥
बृहद्भुजा महाकाया महाबल पराक्रमः ।
अष्टादशगणानां च रूपमेव प्रकीर्तितम् ॥ ११०६ ॥
सकलं निष्कलं चैव सादाख्यमिति चोच्यते ।
महेशं सकलं विद्यात्रिविधं तेषां भवन्ति वै ॥ ११०७ ॥
शिवमेवं विजानीयात् साधाख्यं पञ्चधा भवेत् ।
प्रथमं शिवसादाख्यम् अमूर्तींश्च द्वितीयकम् ॥ १९०८ ॥
द्वितीयं मूर्तिसादाख्यं चतुर्थं कर्तृमेव च ।
पञ्चमं कर्मसादाख्यं पञ्चसादाख्यमेव च ॥ ११०९ ॥
महेशं तु महासेन पञ्चविंशति भेदतः ।
एतैस्तु तत्वसंयुक्तम् एकत्रिंशति निसृतम् ॥ १११० ॥
शिवस्य लक्षणं वक्ष्ये समासाच्छ्रुणु षण्मुख ।
पञ्चसाख्यं महेशं शिवलक्षणम् ॥ ११११ ॥
शिवं परात्परं सूक्ष्मं नित्यस्सर्वगताव्ययम् ।
अनिन्दितमनौपम्यम् अप्रमेयमनामयम् ॥ १११२ ॥
शुद्धत्वाच्छिवमुद्दिष्टं परादूर्ध्वं परात्परम् ।
व्योमग्निनां तु सूक्ष्माभि नित्यं कारकशून्यकम् ॥ १११३ ॥
व्याप्ते सर्वगतं प्रोक्तम् अक्षुणाम् अव्यय भवेत् ।
अमलानिन्दितं ज्ञेयम् अन्यद्रव्यमनौपमम् ॥ १११४ ॥
प्रमाणविधिरित्युक्ता अप्रमेयमिति स्मृतम् ।
इत्येतैर्लक्षणैर्युक्तं शिवरूपमिहोच्यते ॥ १११५ ॥
सृष्ट्यर्थं सर्वतत्वानां लोकस्स्योत्पत्तिकारणम् ।
योगीनामुपकाराय स्वेच्छयाचिन्त्यते शिवम् ॥ १११६ ॥
तच्छिवे तु पराशक्ति सहस्रांशेन जायते ।
तच्छक्तेस्तु सहस्रांशेऽदि शक्तिसमुद्भवम् ॥ १११७ ॥
तच्छक्तेस्तु सहस्रांशे ज्ञानशक्तिसमुद्भवम् ।
अस्याः शक्तेस्सहस्रांशे क्रियाशक्ति समुद्भवाः ॥ १११८ ॥
एते वै शक्तयः पञ्च निष्कलं चेति कीर्तितम् ।
शिवसृष्टिरिदं प्रोक्तं शक्तीनां सृष्टिरुच्यते ॥ १११९ ॥
योगीनां च यदूनां च मन्त्रिणां मन्त्रणं तथा ।
ध्यानपूजा निमित्ताय सकलं निष्कलं भवेत् ॥ ११२० ॥
प्। ८०)
तद्रूपं हि समासेन सादाख्यमिति कीर्तितम् ।
साधाख्यं पञ्चधाप्रोक्तं तेषां लक्षणमुच्यते ॥ ११२१ ॥
पराशक्त्या शक्त्यासु सादाख्यस्तु समुद्भवम् ।
सदाशिवस्तथैवश्च रुद्रोविष्णुश्च दैवता ॥ ११२२ ॥
ब्रह्माणं चैव पञ्चैते तत्वभेदाः प्रकीर्तिताः ।
शिवस्सदा शिवश्चैव मूर्तीनां शिवमुच्यते ॥ ११२३ ॥
मूर्तिं च ब्रह्ममित्युक्तं कर्त्रितश्चेश्वरं स्मृतम् ।
कर्ममीशानमित्युक्तम् इत्येकं हि द्विधा स्मृताः ॥ ११२४ ॥
परात्परः परं चैव सूक्ष्मं द्विसूक्ष्ममेव च ।
स्थूलं चैव क्रमेणैव शिवादि परिलक्ष्यते ॥ ११२५ ॥
एतेषु पञ्चतत्वेषु विशेषमधुनोच्यते ।
तत्वमूर्तिप्रभावं च त्रिभेदं विद्यते क्रमात् ॥ ११२६ ॥
शिवस्य स्थूलसूक्ष्मम् ॥
शिवादि तत्वमित्युक्तं मूर्तिं सदाशिवादयः ।
तयोर्योगेन यद्रूपं तद्रूपमङ्गमुच्यते ॥ ११२७ ॥
भावं सदाख्यमित्युक्तम् इत्येव परिलक्ष्यते ।
सन्ततं शिवभावत्वात्सादाख्यमिति कीर्तितम् ॥ ११२८ ॥
निष्कलं तत्वमित्युक्तं सकलं मूर्तिरुच्यते ॥ ११२९ ॥
सकलं निष्कलोपेतं प्रतापमिति कीर्तितम् ।
-देहि देहम्-
निष्कलं देहिरित्युक्तं सकलं देहमुच्यते ॥ ११३० ॥
देहि देहस्य सम्बन्धं भावरूपमिति स्मृतम् ।
सर्वेषां ध्यानपूजार्थं सकलं निष्कलं भवेत् ॥ ११३१ ॥
एवं ज्ञात्वा विशेषं हि सर्वकर्म समाचरेत् ।
पञ्चसादाख्य तत्वानाम् उद्भवं हि पृथक् पृथक् ॥ ११३२ ॥
शिव सादाख्यमुद्भवि -
शान्त्यतीत पराशक्ति तस्य परियाय वाचका ॥ ११३३ ॥
पराशक्तिर्दशांशेन शिवसादाख्यमुद्भवम् ।
परागम्योद्भवा च शुध्यत्वाच्छिवमुच्यते ॥ ११३४ ॥
प्। ८१)
यद्रूपं सूक्ष्मरूपं च ज्योतिरूपमिति स्मृतम् ।
बिन्दुरूपमिवाकाशं प्रत्यक्षं सर्वतोमुखम् ॥ ११३५ ॥
शिवतत्वमिदं प्रोक्तं तत्वानामखिलालयम् ।
आदिशक्तिश्च शान्तिश्च तस्य पर्याय वाचकाः ॥ ११३६ ॥
आदिशक्तिर्दशांशेन आदिमूर्तिसमुद्भवा ।
आदिशक्तिश्च मूर्तित्वात् दमूलं चेति कीर्तितम् ॥ ११३७ ॥
अमूर्तित्वात्कलाहीनं तद्रूपंलिङ्गवद्भवेत् ।
सूर्यकोटि प्रतीकाशं ज्योतिसम्पाकृतिः स्मृतिः ॥ ११३८ ॥
तस्यामन्तर्गतो मूर्तिः अमूर्तादीनिचोच्यते ।
एते वै दिव्यलिङ्गं तु मूलस्तम्भमिहोच्यते ॥ ११३९ ॥
लिङ्गे सर्वे समुत्पन्नं लयं तत्रैव चोच्यते ।
इच्छाशक्तिश्च विद्या च तस्य पर्यायवाचकाः ॥ ११४० ॥
शक्तिरस्तु दशांशेन ज्योतिमूर्तिरिहोच्यते ।
इच्छामूर्तिगुणत्वाच्च तस्य मूर्तिमुदाहृदम् ॥ ११४१ ॥
मूर्तितत्वात्कलायुक्तं रूपञ्चेति प्रकीर्तितम् ।
ज्वालाग्नि सदृशप्रख्यं * * * * * * * * ॥ ११४२ ॥
इच्छामूर्तिगुणत्वाच्च तस्य मूर्तिरुदाहृतम् ।
मूर्तितत्वात्कलायुक्तं रूपं चेति प्रकीर्तितम् ॥ ११४३ ॥
ज्वालाग्नि सदृशप्रख्यं दिव्यलिङ्गाकृतिर्भवेत् ।
तस्योर्ध्वांशैक भावे तु एकवक्त्रेण संयुतम् ॥ ११४४ ॥
इच्छामूर्ति-
त्रिणेत्रं चारुवदनं सर्वावयवसुन्दरम् ।
साचामिकाननोपेतं लिङ्गमूर्तिरुदाहतम् ॥ ११४५ ॥
मूर्तिसादाख्यमेवोक्तं कर्तृसादाख्यमुच्यते ।
ज्ञानं हि शुद्धरूपत्वात् स्फटिकाभं तदुच्यते ॥ ११४६ ॥
दिव्यलिङ्गमहादैर्घं महास्त्रलतयान्वितम् ।
तस्य मध्ये स्थितो मूर्तिम् ईश्वरः सर्वकारणम् ॥ ११४७ ॥
चतुर्मुखाश्चतुर्वक्त्र नेत्रद्वादशभिर्युतम् ।
चतुरास्य चतुर्नासि वसुश्रोत्रसमन्वितम् ॥ ११४८ ॥
अष्टहस्तद्विपादञ्च सर्वलक्षणसंयुतम् ।
शूलं परशुखड्गं च अभयं दक्षिणे करे ॥ ११४९ ॥
प्। ८२)
पाशं नागं च घण्डां च वरदं वामहस्तके ।
सर्वालङ्कार संयुक्तं सर्वाभरणभूषितम् ॥ ११५० ॥
एवं तमीश्वरं वेतं लिङ्गकर्तारमुच्यते ।
कर्तृसादाख्यमेवोक्तं कर्मसादाख्यमुच्यते ॥ ११५१ ॥
निवृत्तिश्च क्रियाशक्ति तस्य पर्याय वाचकाः ।
क्रियाशक्तिर्दशांसेन कर्म सादाख्यद्भवम् ॥ ११५२ ॥
क्रिया कर्ममिति ज्ञेयं तस्मात्कर्मेति नामतः ।
लिङ्गपीठे प्रकारेण कर्मसादाख्यमुद्भवम् ॥ ११५३ ॥
नादंलिङ्गमिति ज्ञेयं बिन्दुपीठमिति स्मृतम् ।
नादं बिन्दुयुतं रूपं कर्मसादाख्यमुच्यते ॥ ११५४ ॥
चत्वारि कर्तृरूपादि केवलं नादमुच्यते ।
लिङ्गशम्बुरिति ज्ञेयं पीठशक्तिरुदाहृतम् ॥ ११५५ ॥
योनिलिङ्ग प्रकारेण जगत्सृष्ट्यन्तकारणम् ।
तदा संयोग भावत्वात् कर्मभावमुदाहृतम् ॥ ११५६ ॥
बिन्दुमध्ये गतोनादं नादमध्ये तु मूर्तिनः ।
मूर्तिमध्ये गतं तत्वं तत्वमध्ये गतं शिवम् ॥ ११५७ ॥
एतच्छिवमयं लिङ्गं सर्वतत्वालयं स्मृतम् ।
लिङ्गेन जायते तत्र जगत्स्थावरजङ्गमम् ॥ ११५८ ॥
तस्माल्लिङ्गविशेषेण कर्मरूपमुदाहृतम् ।
कर्मोदयेन सृष्टिस्स्यात्कर्मान्ते संहृतिर्भवेत् ॥ ११५९ ॥
एतत्कर्मेश रूपं तु सृष्टिस्थितिलयावहम् ।
पञ्चसादाख्य योनेन कर्मसादाख्यमुच्यते ॥ ११६० ॥
शिवसादाख्य विशेषेण शिवरूपसमाश्रितम् ।
अमूर्तं हि महासेन शिवसादाख्यमाश्रितः ॥ ११६१ ॥
मूर्तरूपाविशेषेण न मूर्तादीन् समाश्रितम् ।
तस्मात्कर्मेशरूपं तु पञ्चमूर्त्याश्रयं विदुः ॥ ११६२ ॥
सर्वतत्वात्मकं ज्ञेयं सर्वाधारमिति स्मृतम् ।
एतद्वै मूर्तिपिण्डित्वा पिण्डिकार्यमिति स्मृतम् ॥ ११६३ ॥
पिण्डिस्थं पिण्डमध्यस्थं पिण्डेन तु पुटीकृतम् ।
पिण्डेन पिण्डितं पिण्डं पिण्डरूपमुदाहृतम् ॥ ११६४ ॥
एतन् शिवमयं पिण्डं सर्वतत्वमयं विदुः ।
पञ्चमूर्तिमयं देवं पञ्चतत्वात्मकं भवेत् ॥ ११६५ ॥
प्। ८३)
मूर्तानां देहभेदैस्तु गुणैः पञ्चाननैर्युतम् ।
तद्भेद कृत्तु महेशादि सर्वतत्वादिसम्भवा ॥ ११६६ ॥
तस्य वस्त्रैस्तु सम्भूता सिद्धादीनि तन्त्रकैः ।
देवस्योत्त कलोपेतो तं धातुपिण्डमिति स्मृतम् ॥ ११६७ ॥
षट्कलानि च पात्रं च षडङ्गैस्तु प्रकल्पयेत् ।
सर्वाङ्गानि च सम्पूर्णं सर्वावयवसुन्दरम् ॥ ११६८ ॥
एवं तु स्मृति मात्रेण मूर्तिंसकलरूपधृत् ।
निष्कलं तदपाये तु तस्मात्सकलानिष्कलम् ॥ ११६९ ॥
सौवीर्यं नास्थितं देहं मांसाद्रुधिरमुच्यते ।
चन्द्रचापमिवाकाशे दर्पणं प्रति बिम्बवत् ॥ ११७० ॥
इत्येवं मनसा कल्प्य निष्कलं सकलोद्भवम् ।
ध्यानलक्षणमेवोक्तम् अङ्गभावमथोच्यते ॥ ११७१ ॥
मूर्तानां गुणरूपं तु साङ्गं चेति प्रकीर्तितम् ।
अश्मानोनमवोहस्य कूलमेकं द्विधाकृतिः ॥ ११७२ ॥
चलं च शक्तिमेवोक्तं ततः सम्बन्धमेव च ।
निष्कलश्शैलजा कर्तृ सकलं भाव्यरूपकम् ॥ ११७३ ॥
भाव्यरूपं तु सम्बन्धं निष्कलं शैलजं न्यसेत् ।
कलातत्वानि वर्णानि मन्त्राणि भुवनानि हि ॥ ११७४ ॥
पदानि षडध्वानि क्रमेणैव विशेषतः ।
निवृत्तिं च प्रतिष्ठा च विद्या शान्तिस्तथैव च ॥ ११७५ ॥
शान्त्यादि पराशक्ति पञ्चैते पञ्चपक्षके ।
।
सडध्वा -
मन्त्राध्वा च पदाध्वा च वर्णार्ध्वा रूपनामकम् ॥ ११७६ ॥
तत्वाध्वा च कलाध्वा च विंशत्येवं पदं शिवम् ।
तस्य क्रमेण निवृत्तिश्च प्रतिष्टाजलमेव च ॥ ११७७ ॥
अग्निरूपे च विद्या च शान्त्यायाचमनुद्गते ।
आकाशे शान्त्यातीताश्च भूतव्याप्ते सुपञ्च च ॥ ११७८ ॥
भुवनानाद्विशञ्चापि चतुविंशतिमेव वा ।
तत्वाद्वा सङ्ख्य षड्त्रिंशत्कलाध्वा षोडशा कला ॥ ११७९ ॥
मन्त्राध्वा च सहस्रांशो पदाध्वा एकशीतिका ।
वर्णाध्वा एकपञ्चाश षडध्वासङ्ख्यमेव वा ॥ ११८० ॥
प्। ८४)
आचार्य सङ्करम् । आचार्यलक्षणम् - आचार्यदोषम् ।
आचार्यलक्षणं वक्ष्ये शृणुष्वेकाग्रमानसः ॥ ११८१ ॥
शिवद्विजकुलोद्भूतं दृढचित्त विलक्षणः ।
शिवसिद्धान्त शास्त्रज्ञः सर्वशास्त्रविशारदः ॥ ११८२ ॥
अरोगी च प्रमादी च कुलं प्रायदर्शनः ।
नृणां पत्नि संयुक्ति शिवभक्ति समन्वितम् ॥ ११८३ ॥
समयाचारवर्तेन तत्वज्ञेन जितेन्द्रियः ।
सर्वलक्षणसम्पन्न शैवाचार्यस्स उच्यते ॥ ११८४ ॥
अत्र किञ्चिद्विशोषोऽस्ति तद्विशेषं शृणुष्वजः ।
पत्निहीनेन प्राप्तेण अर्चिरादि यथा तलम् ॥ ११८५ ॥
कृतञ्चेत्तेन कर्माणि राजा राष्ट्र। विनश्यति ।
तद्ग्रामवासिनां मर्त्या क्षुत्पिपासादि पीडिताः ॥ ११८६ ॥
तेन कृत्वा * * * * * यश्चित्तं तु कारयेत् ।
तत्कर्मन्तु पुनः कृत्वा प्रायश्चित्तपुरस्सरम् ॥ ११८७ ॥
विघ्नावामन दहरो च बन्ध चिरं खञ्चोबला- ।
खाणां खलौ वर्ज्यकः । जातोद्भू अभिदूष्यतः ।
कुसुमदृक् मिथ्यावराकी बकबेकाप्येषु शिवा- ॥ ११८९ ॥
र्चनं न कुर्यात् । दोषं तु सञ्जायते । यावत्तेनोक्त- ।
तन्त्रेण दीक्षां कृत्वा तु वः शिवः - ॥ ११९० ॥
तत्तत्तन्त्रोक्तमार्गेण कर्षणादि क्रियां चरेत् ।
कामिकाद्येक भागं तु न दोषाय तु सङ्करः ॥ ११९१ ॥
आद्यन्तमाचरेद्विद्वान् एकतन्त्रेण सर्वथा ।
अनुक्तं चेत्तथान्येन सङ्ग्रहं सर्वमाचरेत् ॥ ११९२ ॥
उत्तमर्कञ्चेदन्यतन्त्रेण सङ्करं तत्र सङ्करम् ।
तेन दोषेण यद्वस्तु राष्ट्रनाशं भविष्यति ॥ ११९३ ॥
लक्षणं चेत्तस्य तन्त्रेण कारयेत्सर्वकर्मसु ।
यदिमो न कुवन्दिस्थ नानाबन्धनक्षयम् ॥ ११९४ ॥
कर्षणादि प्रतिष्ठां तम् एक तन्त्रेण कारयेत् ।
यस्मिन् तन्त्रे प्रकर्तव्यम् अन्य तन्त्रेण कारयेत् ॥ ११९५ ॥
कारयेदन्य तन्त्रेण नोक्तं तस्मिन्विशेषतः ।
कर्मणादि प्रतिष्टां तम् एकतन्त्रेण कारयेत् ॥ ११९६ ॥
प्। ८५)
मुक्तिदं मुक्तिदं चैव सर्वसिद्धिमवाप्नुयात् ।
पूर्वमेकेन कृत्वा तु पश्चादन्येन वै कृतः ॥ ११९७ ॥
एतत्तु सङ्करं तेन राजा राष्ट्रं विनश्यति ।
तच्छिष्येणा वशिष्टं तत् कर्तव्यं हि षडानन ॥ ११९८ ॥
अन्यथा यदि ना कुर्यादस्मादाचार्य सङ्करम् ।
सङ्करेति सति राष्ट्रं नाशनं च न संशयः ॥ ११९९ ॥
उत्तमं कर्मशास्त्रं स्यान्मध्यमं कर्मवित्तमः ।
अधमं शास्त्रं विज्ञेयं त्रिविधं शिल्पलक्षणम् ॥ १२०० ॥
यथा यज्ञो न हस्तेन गर्भन्यासं तथैव च ।
तथापि देवता गर्भम् आचार्य हस्तमेव च ॥ १२०१ ॥
निरीक्षण ध्यानसंस्पर्शान्मर्त्यस्य कर्म विहङ्गमा ।
पोषयन्ति स्वगात्पुत्रात्तत्तत्पिण्डित वृत्ततः ॥ १२०२ ॥
दृष्ट्वा मृगपतिच्छायां यथा भीतो वने गजः ।
अमन्त्रमर्चनं दृष्ट्वा तद्देहं भयमाप्नुयात् ॥ १२०३ ॥
अमन्त्रेण व्रता पूजा पैशाच सुरवर्धनम् ।
तद्ग्रामं यजमानं च राजा राष्ट्रं विनश्यति ॥ १२०४ ॥
प्रथमं कृतवान् विधिं यथावत्कृतवने तु करोति ।
निषित्तान्तम् अथवा विधिरन्यथा भवेत् चेच्छुभम् ॥ १२०५ ॥
स्वामिनमन्यथा करोति ॥
तन्त्रसादाख्यदेवन् - ॥ १२०६ ॥
कामिकं पादयुग्मं स्यात् योगजं गुल्फमेव च ।
चिन्त्यं पादाङ्गुलं प्रोक्तं कारणं जङ्घका भवेत् ॥ १२०७ ॥
अजितं जानुदेशं स्यात् दीप्तम् ऊरुप्रदेशके ।
सूक्ष्मं तु गुह्यदेशं स्यात् सहस्रं * * * * * ॥ १२०८ ॥
वीरं कर्णदेशे तु रौरवं मुखमेव च ।
मकुटं माकुटं तत्र अङ्गप्रत्यङ्गमेव च ॥ १२०९ ॥
बाहु तु विमलं प्रोक्तं चन्द्र जानमुरस्तलम् ।
बिम्बं च * * * * प्राङ्गीतं जिह्वा व्यञ्जनकम् ॥ १२१० ॥
ललितं स्यात् कपोलं हि सिद्धं चैव ललाटके ।
सन्तान न कुलं विद्यात् शिवोक्तम् उपवीतकम् ॥ १२११ ॥
पारमेश्वरं तु हारं स्यात् किरणं रत्नभूषणम् ।
वातुलं वस्त्रमित्याहुः शिवमर्मानुलेपनम् ॥ १२१२ ॥
प्। ८६)
बलिपुष्पेव माल्यं च सिद्धान्ते न निवेदनम् ।
तन्त्रार्कशरीरेण मन्त्रमूर्तिमयेन च ॥ १२१३ ॥
विपुलार्थन्तु नोदित्वा तत्वमन्त्रार्थदर्शनात् ।
तन्त्रान्तेन समाख्यातं तन्त्र सञ्ज्ञाश्च संहिता ॥ १२१४ ॥
चतुर्थे दशरात्रं तु षण्णाशा पुंसि पञ्चमे ।
षष्टे चतुर्हात् शुद्धि सप्तमे तु दिनत्रयम् ॥ १२१५ ॥
नवाज्ञानन्तवैश्वर्यं नववित्तं च यौवनम् ।
तत्रैव सूपरं शैवं सौम्यन्यादि रौद्रकम् ॥ १२१६ ॥
सौभ्यं चत्वारि भेदेन प्रोक्तं दक्षिणवामकम् ।
पण्डितानपि बाधन्ते किं पुनस्तानपण्डितान् ॥ १२१७ ॥
बुभञ्च न वापानान् शास्ता वैवस्वतो यमः ।
दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ॥ १२१८ ॥
देवताद्गम्यते सर्वं दैवं हि परमागतिः ।
यथा सर्पमुखाद्ग्रस्तं मण्डूकमिति स्वयम् ॥ १२१९ ॥
तथा संसारसन्दष्टं नरमाङ्क्षिति सद्गुरुः ।
कीशा शरीरमित्युक्तं मन्त्रजीव इति स्मृतम् ॥ १२२० ॥
आत्ममन्त्र प्रसिद्धान्तं योगं शिवसान्निध्यकारणम् ।
गर्भिणीं प्रसवेदन्तु परिभागमिदं स्मृतम् ॥ १२२१ ॥
परिभागमिदं षष्ट्योमासपक्षादिभिर्विना ।
सर्वमासेषु इत्येव कर्तव्यम् आचार्यश्च यते दिने ॥ १२२२ ॥
मनसा कर्मणावाचा गुरुक्रोधन्नकारयेत् ।
तस्य क्रोधेन गम्यन्ते आयुश्री ज्ञान सत्क्रिया ॥ १२२३ ॥
चतुः श्रोत्रियार्थगतिं कुर्वन् अज्ञानं साफलं वयेत् ।
गुर्वाज्ञा पालको यस्मात् ज्ञानसम्पत्तिमश्नुते ॥ १२२४ ॥
वामदक्षिण सिद्धान्तं भेदेन द्विविधं मतम् ।
वामं परशवाहस्स्यात् दक्षिणं भैरवार्हकम् ॥ १२२५ ॥
सिद्धान्तं यामलं सर्वम् आदि शैवोक्तमार्गकम् ।
शैवं पाशुपदं सोमं लाकुलं तु चतुर्विधम् ॥ १२२६ ॥
मन्त्र सिद्धान्तकं श्रेष्टं मष्ठाविंशति संहिता ।
यस्मिन् तन्त्रे समारम्भं कर्षणाद्यर्चनान्तकम् ॥ १२२७ ॥
प्। ८७)
तस्मिन् तन्त्रे प्रकर्तव्यम् अन्यतन्त्रेण कारयेत् ।
सौम्यमार्हतं चैव शैवं पाशुपतं तथा ॥ १२२८ ॥
कापालं पाञ्चरात्रं च षडेते समाया स्मृताः ।
सौम्यार्हतमिदा * * भाकर वेदान्त नैया-
यिक वैशेषशैवास्सर्वे प्रकुर्वीतीति गृहस्था- ॥ १२३० ॥
द्विजोत्तमी । यामला मातृतन्त्रे च कापाले पञ्च- ।
रात्रिके । बौद्धे चार्हते चैव * * * * पि च ॥ १२३१ ॥
अन्येष्वविषु मार्गेण तत्तच्छास्त्रैः स्वशास्त्रकः ।
शैवा कुर्वन्ति दीक्षाश्च तल्लिङ्ग स्थापनादिकम् ॥ १२३२ ॥
मुख्यत्वादह शैवस्य मुखमास्य मनोऽपि च ।
अधिकारोस्ति सर्वस्य नान्येषां शिवदर्शने ॥ १२३३ ॥
तस्मात्परार्थमात्रार्थं स्थापनं यजनं तथा ।
शिवविप्रेण कर्तव्यम् अन्येषां स्वार्थमेव हि ॥ १२३४ ॥
परार्थमपि कुर्याद्वे लोपं तन्त्रपतेस्तथा ।
तद्राष्ट्रस्य विनाशस्तु अचिरेण न संशयः ॥ १२३५ ॥
वस्तुपराङ्मुख वस्तुनिकृत्यं वस्तुमुखं भव-
रीशनिरीक्षणात् । यत्कृतमण्डप गोपुर- ॥ १२३६ ॥
पीठं वस्तुमुखानि मुखानि न भवन्ति ।
अथ तत्वानि षड्त्रिंशन् पृथिव्यप्- ॥ १२३७ ॥
तेजो मरुद्वियत् । गन्धोरूपरसस्पर्श शब्दो-
पस्थौ च पायु च । पादौ पाणि च वाङ्नासा जिह्वा- ॥ १२३८ ॥
चक्षुस्त्वचः शृती । मनोऽहङ्कारबुद्धिश्च प्रकृति-
वज्ञयस्त्वया । रागोनियति विद्यां च कलाकालं- ॥ १२३९ ॥
च मोहिनी । विद्याश्चेश्वर सादाख्यं शक्तिश्शिव-
इति स्मृतम् । तत्व तत्वेश्वरं न्यासं मूर्तिमूर्तीश्वरा- ॥ १२४० ॥
न्वितम् । तत्वत्रयाधिपः । आत्मविद्या शिवा-
ख्यं तु तत्वत्रयमिति स्मृतम् । क्ष्मावह्नियजमानार्क- ॥ १२४१ ॥
जलवायु निशाकर । शर्वः पशुपतिश्चोग्रो
रुद्राख्यो भव एव च । ईशानं च महादेवो- ॥ १२४२ ॥
प्। ८८)
भीमलश्च वृषमूर्तयः । पञ्चमूर्ति आत्मा ।
पञ्चमूर्त्यात्मको न्यासो कष्टा वारि दहनानिलाः ॥ १२४३ ॥
खञ्चेति मूर्तये लिङ्गे ब्रह्माद्याः पञ्चमूर्तयः ।
इन्द्राश्याग्नि यमश्चैव निर्-ऋतिर्वरुणस्तथा ॥ १२४४ ॥
वायु सोमस्तथेशान ब्रह्म विष्णुश्च लोकयाः ।
दशायुध-
अनन्तेशस्तथा सूक्ष्म शिवोक्तं चेकनेत्रकम् ॥ १२४५ ॥
एकरुद्रस्त्रिनेत्रश्च शिखं च शिखण्डिनम् ।
अष्टविद्येश्वराश्चेते त्रिणेत्राश्च चतुर्भुजाः ॥ १२४६ ॥
दर्पणं पूर्णकुम्भं च षष्टभं युग्मचामरम् ।
श्रीवत्सं स्वस्तिकं शङ्खं दीपो देवाष्टमङ्गलम् ॥ १२४७ ॥
कुम्भकर्णो निकुम्भश्च सिह्मस्यो गजवक्रकम् ।
ज्वालाघं जालजङ्घं च लोहजं तृविधा भवेत् ॥ १२४८ ॥
मृगास्युष्टमिदं प्रोक्तं पीठे उपरि पूजयेत् ।
धरो धृ सोमनीलं च प्रमुखं च प्रभावकम् ॥ १२४९ ॥
कलौ भीमं तथा नष्टौ वसूनां परिकीर्तितम् ।
पैशाचं राक्षसं यक्षं गन्धर्वम् ऐन्द्रमेव च ॥ १२५० ॥
सौम्यं प्रजेश्वरं ब्रह्मम् अष्टमं परिकीर्तितम् ।
वामा ज्येष्ठा रौद्री च काली कलविकरणीं तथा ॥ १२५१ ॥
बलविकरणी बलप्रमथिनी सर्वभूतमनोन्मनी ।
चण्डरुद्रो महामोडी विबुधो विहलोत्तमः ॥ १२५२ ॥
विश्वरूपो विशालाक्षी भूधरो मेघवाहनः ।
एतान् विमानपालाश्च पूर्वादीनि क्रमान्न्यसेत् ॥ १२५३ ॥
अच्युतानन्द मूर्तिस्तु चक्रपाणिर्जनार्दनः ।
पुरुषं प्रक्षुतं चैव गोविन्दो मत्तनायकम् ॥ १२५४ ॥
प्रजापतिश्च धातारं विधातारं च पितामहम् ।
अजं वै सृष्टि मूर्तिश्च हिरण्यगर्भश्चतुर्मुखम् ॥ १२५५ ॥
अष्ट स्कन्द
स्कन्दस्यैव कुमारश्चेत् सुब्रह्मण्यं तथैव च ।
कार्तिकेयश्च सेनं च षण्मुखो शिखिवाहनः ॥ १२५६ ॥
प्। ८९)
सेनापतिं च इत्येते पूर्वादीनि क्रमान्न्यसेत् ।
माणिक्कं पुष्परागं तु स्फटिकाभं तु * * * ॥ १२५७ ॥
प्रवालकं चै वैडूर्यम् इन्द्रनीलं तु सप्तधा ।
रत्नं चैव माख्यातं लब्धमानेन कारयेत् ॥ १२५८ ॥
अष्टमृतु ।
कुलिका वटको शृङ्गगजदन्तमृगं तथा ।
नन्दद्यब्धि हृदयवल्लिके प्रणजामपि मृतुका ॥ १२५९ ॥
उर्वशी मेनका चैव लक्ष्मी चैव तिलोत्तमः ।
सुमुखी सुमना चैव कुमुखी कामवर्धनी ॥ १२६० ॥
एताश्चाप्सरसा प्रोक्ता अष्टमङ्गलधारिका ।
परस्सिद्धं पद्मक्तिकं चैव मन्त्रज्ञो मन्त्रवित्तमः ॥ १२६१ ॥
प्राङ्ज्ञश्वरम्बरां चैव * * वत्सिद्धपूजिता ।
सिद्धास्वेताः समाख्याता तेषां वर्णानि का शृणु ॥ १२६२ ॥
अनन्तो वासुकिश्चैव तक्षकः कार्कोटकं तथा ।
शङ्खपालश्च गुलिकः पद्मको वासुकी तथा ॥ १२६३ ॥
नागास्वष्ट इति ख्याता द्विभुजाश्च द्विलोचना ।
उत्तमं पूर्वदिग्भागे चतुर्वक्त्रं चाग्निगोचरे ॥ १२६४ ॥
कुण्डोदरं दक्षिणे चैव नैर्-ऋत्यासु प्रबोधकैः ।
वारुण्या सिह्ममुखी चैव वायव्यां तु अधोमुखम् ॥ १२६५ ॥
सोमे च एकपादः स्यादैशान्यामष्टपादकम् ।
इत्येते चाष्टभूतानां परिवाराग्रे बलिं क्षिपेत् ॥ १२६६ ॥
अर्कपङ्कज बिल्वं च नन्द्यावर्तं च पाटली ।
करवीरं चम्पकश्चैव नीलोत्पलमथाष्टकम् ॥ १२६७ ॥
अष्टपूजा-
द्वारोर्ध्वे दक्षिणे पार्श्वे विघ्नेशं सम्प्रपूजयेत् ।
द्वारोर्ध्वे वामपार्श्वे सरस्वतीं सम्प्रपूजयेत् ॥ १२६८ ॥
द्वारोर्ध्वे मध्यमे चैव श्रीदेवीं सम्प्रपूजयेत् ।
द्वारस्य दक्षिणे पार्श्वे गङ्गा नन्दीश्वरं यजेत् ॥ १२६९ ॥
द्वारस्य वामपार्श्वे तु महाकालीं यमुनां बुधः ।
भुवङ्गं च पतङ्गं च ऊर्ध्वान्तं सम्प्रपूजयेत् ॥ १२७० ॥
प्। ९०)
विमलं च सुबाहुं च गुहो नित्योपदाननम् ।
गङ्गां चैव महानन्दी महाकालं यमुनां तथा ॥ १२७१ ॥
स्तानकम् इति विख्यातं विघ्नेशं चैव पद्मजा ।
वागीशं च विशेषेण आसनं त्विति पठ्यते ॥ १२७२ ॥
भुवङ्गं च पतङ्गं च शयनं विधि पद्मजः ।
द्वारेषु देवतास्सर्वे परस्परनिरीक्षणम् ॥ १२७३ ॥
देव देवं नमस्कृत्वा द्वारदेवान् प्रपूजयेत् ।
पतङ्गस्योर्ध्वे गणेशं तु तस्य वामे सरस्वती ॥ १२७४ ॥
दक्षिणे च भुवङ्गस्य गङ्गा नन्दी च मेव च ।
यमुनां च महाकालं तस्य वामे तु पूजयेत् ॥ १२७५ ॥
विमलं च सुबाहुं च पूजयेद्वै कवाटयोः ।
ऋषभं पूजयेदग्रे गन्धपुष्पादिभिर्बुधः ॥ १२७६ ॥
द्वारमन्तर्मुखं वापि द्वारपालबहिर्मुखम् ।
कारणे ।
द्वारार्चनायां स्नानकाले तदन्ते धूपदीप- ॥ १२७७ ॥
नैवेद्यप्रदाने । तदन्ते श्रीबल्यादौ तत् ।
समाप्तौ नटाद्ये तदन्ते तत्ताडयेद्वारघण्टां- ॥ १२७८ ॥
यस्मिन् काले धूपदीपान् तदादीन् । तस्मिन्
काले घोषयेद्धूपघण्टाम् । घोषणाद्रा- ॥ १२७९ ॥
क्षसाद्यागश्चा गच्छन्ति तद्द्रव्य तद्देवता ।
इन्दुनिभपञ्चमुख हस्तदशयुक्तं शूलकर- ॥ १२८० ॥
टङ्कमसि वज्रमभयं स्यात् । पाशवरदाङ्कुश-
मणिदहनवामे रक्तकमलासन सदाशिव- ॥ १२८१ ॥
स्वरूपम् । देविशिरदक्षिणमथोत्तरसुपादं
गोमुखान्त घृतवारि भुजयुक्तम् । योनिगत- ॥ १२८२ ॥
मध्य संस्थित सुलिङ्गस्थापित सदाशिवमनो-
न्मनि स्वरूपम् । एकमुख वेदकर विद्रुम- ॥ १२८३ ॥
स्वरूपम् । कृष्णमृग टङ्कवरदाभय चतुष्कम् ।
लोचन तृतीयसित वस्त्र परिधानं चन्द्रयुत- ॥ १२८४ ॥
प्। ९१)
मौलि गतगौरि सहस्रसूनुम् । कुन्दनिभ-
वेदकरवह्नि नयनं स्यात् पङ्कजपताग- ॥ १२८५ ॥
वरदोत्पल चतुष्कम् । लोचन तृतीयसित-
वज्रपरिधानं चन्द्रयुत मौलिगत गौरि- ॥ १२८६ ॥
सहस्रसूनुम् । अङ्गभिम भूषण विचित्र-
नयनं स्यात् तुङ्गमकुटोज्वल मनोन्मानि- ॥ १२८७ ॥
स्वरूपम् । सदाशिव ध्यानम् ।
आदौ पञ्चमुखं प्रकल्प्यविधिना तद्वारव- ॥ १२८८ ॥
क्त्रादिकम् । सद्यं वाममघोर तत् पुरादिषु- ।
शान्यसेदि क्रमात् । मूर्धानं वदनं तदैव हृदयं- ॥ १२८९ ॥
गुह्यं च पादद्वयम् । ईशानं पुरुषं च घोरमथवा- ।
वामञ्च सद्यं न्यसेत् । तस्य वर्णम् ।
गोक्षुरधवलाकारं सद्यो जातस्य वर्णकम् ॥ १२९० ॥
जपाकुसुमसङ्काशं वामदेवस्य वै गुह ।
अघोरं मञ्जनप्रख्यं पुरुषं कुङ्कुमप्रभम् ॥ १२९१ ॥
शुद्धस्फटिकमीशानं पञ्चवक्त्रं षडाननम् ।
पञ्चवक्त्र * * * * * * * * * * * * ॥ १२९२ ॥
पायसं पूर्वदिग्भागे कृसरान्नं दक्षिणे तथा ।
मुद्गान्वं पश्चिमे भागे गुलान्नम् उत्तरे न्यसेत् ॥ १२९३ ॥
शुद्धान्नम् ऊर्ध्ववक्त्रं च पञ्चवक्त्रे प्रदापयेत् ।
कपित्थस्य फलं सारं यावत्कुञ्जरभाक्षितम् ।
तथा सर्वनिवेद्यानि भुञ्जीयात्परमेश्वरम् ॥ १२९५ ॥
पेयं शोष्यं च लेह्यं च चोष्यं च भक्ष्यं करतले न्यसेत् ।
अन्नाद्यपूपतोयादि दर्शनाद्गृह्यते मया ॥ १२९६ ॥
रसादि भक्त जिह्वाया अनामि कमलोद्भवा ।
स्वमूर्धान्तु उभयौ तु पार्श्वे त्रयस्त्रिंशन्मूर्तिः ॥ १२९७ ॥
प्रतिमा हृदिस्हित शक्त्याकृति शैलजलोह-
मेव स्तन्नावसन्ति सततं स जीवः । शूलस्य- ॥ १२९८ ॥
मध्ये वृषणशृङ्गमध्ये पद्मस्य मध्ये शिख-
रस्य कुक्षौ । सृष्टिलिङ्गस्य लिङ्गार्थं व्याख्या- ॥ १२९९ ॥
सङ्ख्येयमूर्तिनः ।
प्। ९२)
शश्वद्धिशेखरं श्याम निग्रहं कालनिग्रहम् ।
गौरीश्वरं च वै वाह्यम् उमायानुग्रहं परम् ॥ १३०० ॥
उमया सहितं गौरी संवादं च सुखावहम् ।
गुहोमा सहितं सार्धं नन्द्यारूढं पुरान्तकम् ॥ १३०१ ॥
किरातार्जुनकं कालम् उमार्ध हरिरर्धकम् ।
नृत्तमूर्त्तित्रयं पश्चाद्दहनं जाह्नवीधरम् ॥ १३०२ ॥
चण्डेशानुग्रहं पश्चात् मुखलिङ्गमतः परम् ।
विघ्नं कन्दस्य चण्डेशं क्षेत्रेशं कमलोद्भवम् ॥ १३०३ ॥
चक्रपाणिश्च मार्ताण्डं नागेशं वीरभद्रकम् ।
गौरी दुर्गं तथा श्रेष्ठं महामोदि सरस्वति ॥ १३०४ ॥
जाह्नवी भद्रकाली च लक्ष्मी पृथिवी मातरम् ।
एतच्छास्त्रोक्तमार्गेण पूजयेदादि शैवकम् ॥ १३०५ ॥
सोमास्कन्देश्वरं चैव इन्दुशेखरमेव च ।
ऋषभं वाहनं चैव नटेश्वरं तथैव च ॥ १३०६ ॥
तथा वै केशवासं च भिक्षाटनमतः परम् ।
चण्डेशानुग्रहं पश्चात् दक्षिणे कालनाशनम् ॥ १३०७ ॥
लिङ्गोद्भवानां च मूर्तीनां भेदाष्षोडशधा भवेत् ।
शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं- ॥ १३०८ ॥
त्रिणेत्रम् । शूलं वक्त्रं च खड्गं परशुम-
भयदं सव्य भागे वहन्तम् । नागं पाशं च घण्टा- ॥ १३०९ ॥
प्यनलकरयुतं साङ्कुशं वामभागे नानालङ्कार-
युक्तं स्फटिकमणिनिभं नौमि सादाख्य तत्वम् ॥ १३१० ॥
श्यामां त्रिनेत्रा द्विभुजा त्रिभङ्गी सव्यापसव्य-
स्थित कुञ्चिताङ्घ्री । सव्योत्पला कटकास्तनो- ॥ १३११ ॥
च्चाहस्तान्यलम्बा परमेश्वरी सा । कुन्देन्दुस्फटि-
काभा सा जटामकुटमण्डिता । पञ्चाचनसमा- ॥ १३१२ ॥
युक्तं पञ्चवक्त्रसमन्वितम् । वक्त्रं प्रतिविशेषेण-
त्रिलोचन समन्वितम् । दशभुजं- तु रेकन्तु द्विपादं- ॥ १३१३ ॥
पद्मसंस्थितम् । शूलं परशुखड्गं च वज्राभयं च
दक्षिणे । नागं पाशाङ्कुशं चैव घण्टां वह्निं च वामके ॥ १३१४ ॥
प्। ९३)
सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् ।
दिव्याम्बरधरदेवं दीर्घबाहुं नखोज्वलम् ॥ १३१५ ॥
दिव्यगन्धानुलिप्ताङ्गं दिव्यमालाविभूषितम् ।
शान्तरूपमिदं प्रोक्तं किञ्चित्प्रहसिताननम् ॥ १३१६ ॥
एतद्रूपं स्मरेन्नित्यं धर्मकामार्थमोक्षदम् ।
ध्यानरूपमिदं प्रोक्तं विशेषमधुनोच्यते ॥ १३१७ ॥
वै कर्तनो विवस्वांश्च मार्ताण्डो भास्करो रविः ।
लोकप्रकाशकश्चैव लोकसाक्षित्रिविक्रमः ॥ १३१८ ॥
आदित्यः सूर्यदेवांश्च अंशुमानो दिवाकरः ।
एते वै द्वादशा दिव्याः सर्वलक्षणसंयुताः ॥ १३१९ ॥
कर्मेशं पूर्ववक्त्रं स्यात्कर्तृसव्याननं भवेत् ।
अपरम् ऊर्ध्ववक्त्रं स्यादमूर्ताश्चोत्तराननम् ॥ १३२० ॥
ऊर्ध्वं तु शिवसादाख्यम् एवं पञ्चाननं विदुः ।
ईशानमूर्ध्ववक्त्रञ्चादि तथा कर्माणि वद्भवेत् ॥ १३२१ ॥
प्राग्वक्त्रम् उद्दिष्टं दक्षिणाष्टमुखं यथा । पूर्वोर्ध्वं- ।
दक्षिणं स्यैव इतरं पश्चिमोत्तरम् । किञ्चि- ॥ १३२२ ॥
दस्ति विशेषोऽस्ति ऊर्ध्वानस्यधोमुखम् ।
मूलं सञ्चित्य तद्वक्त्रं पराङ्मखमिति स्मृतम् ॥ १३२३ ॥
पूजाकाले तु तां ध्यात्वा अर्चितं कर्मवक्त्रवत् ।
एवं सङ्कल्प्य विधिवत्पूजान्ते पूर्ववद्भवेत् ॥ १३२४ ॥
एतत्पञ्चात्मकत्वाच्च सर्वकारणकारणम् ।
सदाशिव इति प्रोक्तम् इति शास्त्रस्य निश्चयम् ॥ १३२५ ॥
एतद्वै कर्मरूपत्वात् कर्मं कर्मन्तु कारयेत् ।
योगिनां मन्त्रिणां चैव स्मृतिमात्रे भवेद्गुरु ॥ १३२६ ॥
इत्येतैर्लक्षणैर्युक्तं कर्मसादाख्यमुच्यते ।
शिवादि कर्मपर्यन्तं क्रमेण परिकीर्तितम् ॥ १३२७ ॥
सादाख्यलक्षणं प्रोक्तं महेशं शृण षण्मुख ।
कर्मेशस्य सहस्रांशे महेशस्य समुद्भवम् ॥ १३२८ ॥
प्। ९४)
महेशं सकलं विद्यात् सृष्टिस्थितिलयात्मकम् ।
पञ्चविंशतिभेदेन अमूर्तं पञ्चविंशतिः ॥ १३२९ ॥
नानारूपधरो देवो नानाभेद समन्वितम् ।
नानाछिन्न समोपेतो नानालीलापरो हरः ॥ १३३० ॥
स्थानं यानं समासीनं नृत्तं कोपं च सौम्यकम् ।
अनेकाकारसंयुक्तो देव देवो महेश्वरः ॥ १३३१ ॥
जटामकुटसंयुक्ते मेकवक्त्रं त्रिणेत्रकम् ।
सर्वाभरणसंयुक्तम् एकपद्मासनस्थितम् ॥ १३३२ ॥
एवं महेशमेवोक्तं रूपभेदमथा शृणु ।
प्रथमं सोमधारी च द्वितीयमुमया सह ॥ १३३३ ॥
तृतीयं तु वृषारूढं चतुर्थं नृत्तकोद्भवम् ।
वै वाह्यं पञ्चमं विद्याषष्ठमं भिक्षाटनं भवेत् ॥ १३३४ ॥
कलारीं सप्तमं विद्यात्कालाभा चाष्टमं भवेत् ।
नवमं त्रिपुरारी स्यात्जलं धरापरो दश ॥ १३३५ ॥
एकादशे गजाहारीं स्याद्वादशं वीरभद्रकम् ।
त्रयोदशं हरेरर्धं तदर्धनारिमतः परम् ॥ १३३६ ॥
पञ्चादशं किरातं स्यात् कङ्कालं षोडशं भवेत् ।
चण्डभानुग्रहं चैव ततः सप्तदशो भवेत् ॥ १३३७ ॥
विषापहरणं चैव अष्टादशमिति स्मृतम् ।
चक्रदार स्वरूपं च एकोनविंशति स्मृतम् ॥ १३३८ ॥
विघ्नप्रासादविंशं च उमास्कन्दं ततः परम् ।
द्वाविंशदेकपादं स्यात् त्रयोविंशत्सुखावहम् ॥ १३३९ ॥
दक्षिणामूर्तिरूपं तु चतुर्विंशति प्रकीर्तितम् ।
इन्दुधारादि षट्कन्तु धर्मात्माख्य समुद्भवा ॥ १३४० ॥
विषापहरणादीनि कुक्षे पञ्चानं विदुः ।
सुवासनादि लिङ्गान्तं शिवाख्ये तु त्रयोद्भवा ॥ १३४१ ॥
एते महेश रूपांश्च कर्मादिषु समुद्भवा ।
पञ्चविंशत्प्रकारेण रूपं चेति पृथक् पृथक् ॥ १३४२ ॥
प्। ९५)
एते महेश कोट्यंशा विष्णुब्रह्मासमुद्भवा ।
नेत्रेषु सव्यवामोर्ध्वो सूर्यसोमा शिवोद्भवम् ॥ १३४३ ॥
आस्ये ज्ञान समुत्पन्नं गलेशे तु समुद्भवम् ।
षण्मुखं हृदयेज्जातं नाभेर्देवा समुद्भवाः ॥ १३४४ ॥
पञ्चाशत्कोटि देवाश्च महांशे तु समुद्भवः ।
ऋषयश्च तथा कोट्यः रोमाच्चैव समुद्भवाः ॥ १३४५ ॥
तत्वानामुद्भवं प्रोक्तं यतीनामुद्भवं शृणु ।
एकैकेन दशांसेन जायते क्रमशस्तथा ॥ १३४६ ॥
एते वै पञ्चशक्त्याश्च शिवादीनां तु शक्तयः ।
मनोन्मन्या सहस्रांशो गौरीष्वथ समुद्भवः ॥ १३४७ ॥
श्रीदेव्या सरस्वती दुर्गादुमा चैव प्रभा तथा ।
वामा ज्येष्ठा च लक्ष्मी च तथा वैश्यानु शक्तयः ॥ १३४८ ॥
एते वै कोटि शक्तिश्च गौरी देवसमुद्भवः ।
शक्तिभेदं विशेषेण समासात्परिकीर्तितम् ॥ १३४९ ॥
सूत्राग्रम्मुखमित्युक्तं सूत्राधः पादमुच्यते ।
सूतसन्धिस्तु पृष्टं स्यात्सूत्र पार्श्वौ तु बाहुकौ ॥ १३५० ॥
व प्रक्रमेवा सुखासीने चतुरश्रं तिष्ट लिङ्गकम् ।
शेषलक्षणमेवोक्तं शयनं लिङ्गं प्रकीर्तितम् ॥ १३५१ ॥
लिङ्गवचनम्-
पृथिव्या यानि तीर्थानि पुण्यान्यतनानि च ।
लीयन्ते तानि लिङ्गे तु तस्माल्लिङ्गं प्रकीर्तितम् ॥ १३५२ ॥
भद्रदल ।
प्राच्यामग्रतः शम्भु नोत्तरे योषिताश्रये ॥ १३५३ ॥
न प्रतीच्यां तु यत्पृष्टं तद्दक्षे संस्थितोर्चयेत् ।
योगजे - अर्चना प्रकरणे ॥ १३५४ ॥
प्रतीच्यां तु यथा द्वारं तत्रेशं पुरुषं स्मरेत् ।
सद्यो जातं भवेत्प्राच्यां घोरं वामं च पूर्ववत् ॥ १३५५ ॥
प्। ९६)
भोगाङ्गानि यथा पूर्वं साधकं चोत्तरानना ।
प्रथमं शिवसादाख्यं मूर्ति द्वितीयकम् ॥ १३५६ ॥
तृतीयं मूर्तिसादाख्यं चतुर्थं कर्तृनामतः ।
पञ्चमं कर्मसादाख्यं पञ्चसादाख्यमुच्यते ॥ १३५७ ॥
ब्रह्माणं यागमूर्तिं च विष्णुमूर्तिं बलिस्तथा ।
ईश्वरं कुम्भ मूर्तिं च अग्निमूर्तिं च रुद्रका ॥ १३५८ ॥
सदाशिवं मूलबेरं पञ्चमूर्तिरिति स्मृतम् ।
लिङ्गात्तद्रूपकं ज्ञात्वा कल्पयेत्सादनं ततः ॥ १३५९ ॥
स्वयम्भुर्दैविकं बाणे कल्पयेदेकमानसम् ।
आर्षेगाणवे वत्स कल्पयेदासनत्रयम् ॥ १३६० ॥
मानुषं चैव वै वत्स पञ्चासनं प्रकल्पयेत् ।
कुन्देन्दुवर्णां वरदां त्रिणेत्रां कोटीर- ॥ १३६१ ॥
भाराम् अभयां भयस्नाम् । पाशां कुशां पङ्कज-
मध्य संस्थाम् आधारशक्तिमिति चिन्त्यमूले ॥ १३६२ ॥
एकाशीति पदं सुवृत्तमखिलं पाताल-
भाग स्थित नागैरष्टभिरष्टदिक्षुनिहितै- ॥ १३६३ ॥
शङ्खाद्यपुष्पप्रभम् । संयुक्तम् असुकृष्णरक्त-
सदृशं राधू-मत्र धूमत्रान्वितम् । शङ्खाभस्फ- ॥ १३६४ ॥
टिक * * * * * * * * * * ष्टत्वर्णै
रनन्तासनम् । योगस्योत्परि संह्य * * * * ॥ १३६५ ॥
र्दश वायुभिश्च सहितं युक्तं दशात्माक्षरैः ॥ १३६६ ॥
भूमिस्थं स्थिति सम्भवं च नियतश्चोर्ध्वं च-
दातं च वम् ओङ्कारेण तु चित्र कदलनिभं- ॥ १३६७ ॥
नाढ्यं च तद्देवता । पूर्णचन्द्र सदृशं सुवर्तुलं-
कर्णिकोपरि निधाय तत्समम् । अम्बिकादि- ॥ १३६८ ॥
सहितं शिवास्पदं वादि शक्तिसहिताय जामिदम् ।
आधारबीजाङ्कुर नालकं च सुखा सुखसनेषु- ॥ १३६९ ॥
त्रिषु मण्डलेषु । गुणयेष्वत्र त्रिषु क्रमेण प्रक-
ल्पना सम्प्रहिरार्द्रपुष्पैः । न्यवेदनं ताडन- ॥ १३७० ॥
प्। ९७)
योगसिंहं पद्मासनं तद्विमलं क्रमेण ।
पीठस्य पञ्चाङ्ग षडङ्ग नाम्ना त्रिमण्डलानि- ॥ १३७१ ॥
त्रिगुणात्मकं च । आवाहनासनं पद्मम् अनन्ता-
सनानि कर्मणि । विमलासनम् अर्चनैर्युक्तं- ॥ १३७२ ॥
भोग्यं योगासनं भवेत् । नृत्तयोगादि संयुक्तं-
सिह्मासनमतः परम् । हैमनि भवेदकर श्याम- ॥ १३७३ ॥
करयुक्तम् । कुण्डिक पताक वरदा यननमाला ।
विचित्र वसनाम्बरं जटामकुटयुक्तमक्षयुत- ॥ १३७४ ॥
लोचनम् । पितामह किरीट मकुटान्वितसु-
केशवस्वरूपम् । शिवरूपम् ॥ १३७५ ॥
रक्तनिभवेदकर व्योममुखयुक्तं शूलवर-
दाङ्कुश पताकयुत हस्तम् । कृष्णवरदाम्बर- ॥ १३७६ ॥
शशाङ्क सुतमौग्री वेदगुण नेत्रयुत रौद्र- ।
शिवरूपम् । एकमुखवेदकर विद्रुमनिभं- ॥ १३७७ ॥
स्यात् । कर्णमुख टङ्क अभयं वर चतुष्कम् ।
अम्बरतृतीयसित वस्त्र परिधानं चन्द्रयुत- ॥ १३७८ ॥
मौलि हरमीश्वरस्वरूपम् । परमेश्वरिरूपम् ।
विद्युद्प्रभास्सकल चन्द्रमुखाद्युजिह्वा नेत्र- ॥ १३७९ ॥
द्वया सकलयोनिषु मध्य संस्था बाहुद्वया-
प्रसृतकोत्पलहस्तयुक्ता प्राणादिचार्णनव- ॥ १३८० ॥
केषु संस्मितास्ते वह्निमण्डलमेवोक्तं रवि-
मण्डलमेवोच्यते । वीत प्रभासारसिजानन- ॥ १३८१ ॥
युग्मनेत्रा ॥ बाहुद्वया प्रसृत पङ्कज चर्यमाणा ।
पीनस्तना कनककुण्डल कर्णयुक्ता- सूर्यप्रभा- ॥ १३८२ ॥
रविकलोपरि संस्थितास्था । रविमण्डल-
मेवोक्तं चन्द्रमण्डलमुच्यते । श्वेतप्रभा- ॥ १३८३ ॥
कनककुलमण्डितान्ये बाहुद्वयाकुमुदधृक्कर-
तलम्बहस्ता । नेत्रद्वया रुचिर कुण्डलवक्त्र- ॥ १३८४ ॥
युक्ता । पूर्वादिषु षोडशकले परिसंस्थितास्था-
एवमावाहनं प्रोक्तं प्रतिसन्ध्यासु कारयेत् ॥ १३८५ ॥
प्। ९८)
प्रजापतिरुवाचः
प्रतिष्ठाकालमारभ्य स्थिते लिङ्गस्थितश्शिवः ।
कस्मादावाहितं कस्मिन् को ब्रूहि मम शङ्कर ॥ १३८६ ॥
ईश्वर उवाच-
त्वया प्रोक्तं तु तत्सत्यं किञ्चित्प्रहसितानन ।
स्थितस्स्यादावाहना नास्ति देशाद्देवान्तरेव च ॥ १३८७ ॥
मन्त्रेण स्वाभिमुख्यं च क्रियान्ते तस्थिवं शिवम् ।
उद्वासनं चैव मुख्यं च न च देशान्तरे गतिः ॥ १३८८ ॥
यथा काष्टस्स वह्निस्तु मथनात्तत्प्रकाशते ।
यथा ज्वलित वह्निस्तु भस्मनाच्छाद्यते सति ॥ १३८९ ॥
भस्मं व्यपोह्य वातेन ज्वलनं क्रियते यथा ।
तद्वह्निवत्स्थिरेशं तु तन्मन्त्रेणैव दीप्यते ॥ १३९० ॥
आवाहनोद्वासनं नास्ति शिष्टलिङ्गे विशेषतः ।
प्रजापति समाप्ते तु द्विमुखं तद्विसर्जनम् ॥ १३९१ ॥
यथा कुण्डगतस्याग्नेः वायुनाज्वलनं भवेत् ।
तथा च लिङ्गमात्रेण जायते भगवान् शिवः ॥ १३९२ ॥
देवैश्च मुनिभिश्चैव यल्लिङ्गं तु प्रतिष्ठितम् ।
तच्छिष्टं लिङ्गमित्युक्तं शिवसान्निध्यकारणम् ॥ १३९३ ॥
तस्मादावाहनं नास्ति न चैवोद्वासन क्रिया ।
कुत आवाहनं देवं कुत्रोद्वासनं तथा ॥ १३९४ ॥
स्मरणादेव आवाहनं विस्मरन्ति विसर्जनम् ।
लिङ्गमावाहनं चैव लिङ्गमूर्तिरिति स्मृतम् ॥ १३९५ ॥
आचार्य सन्निधौ कृत्वा दर्पणं वा यजेत्क्रमात् ।
दीपान् दीप सहस्राणि मूलदीपं न लिप्यते ॥ १३९६ ॥
यस्य देवार्चनं लिङ्गं मूललिङ्गं न लेपकम् ।
गोलत्वे नेकवर्णानि क्षीरमेकं समुद्भवम् ॥ १३९७ ॥
मन्त्रमेकं समुत्पन्नं तन्त्रं च बहुरूपकम् ।
कुलाल चक्रमृद्भिस्तु नानारूपेण दृश्यते ॥ १३९८ ॥
आचार्य मनसाध्यात्वा दुश्चया परमेश्वरा ।
अनेकदीपावलि भास्समूह सन्तिष्टमस्यानन- ॥ १३९९ ॥
बाधमान एवं गुणारूपिषु विद्यते चेत् ।
अरूपिणा तत्र किमस्ति वाच्यम् ॥ १४०० ॥
प्। ९९)
शिलामृद्दारुचित्रेषु देवता यत्र कल्पिता ।
अकल्पित स्वयं ज्योति आत्मनो देवतानिकम् ॥ १४०१ ॥
काष्टादग्नि घटे चन्द्रे स्वीशमावाहयेत्ततः ।
यद्देवमर्चयित्वा तु तद्देवम् आत्म भावयेत् ॥ १४०२ ॥
लिङ्गं च पीठं परिमृज्य दर्भैः प्रक्षाल्य पञ्चाङ्ग-
षडङ्गमन्त्रैः । प्रासादमन्त्रेण हृदा तु लिङ्गं- ॥ १४०३ ॥
स्पृशश्च हस्तद्वय सम्पुटाभ्याम् ॥ लिङ्गमा-
वाहनं चैव लिङ्गमूर्तिरिति स्मृतम् । यथानल- ॥ १४०४ ॥
तरस्याद्वा कृत्वा योग्यं व्यपोह्य च । कृत्वा-
हृद्गामञ्जलिं च कुसुमं प्रासादमन्त्रं पठन्- ॥ १४०५ ॥
भक्त्यानिष्कल गोचरं सह रसीभावं गतः
साधकः । ध्यायेद्विक्रमता स्वशक्तिभवने- ॥ १४०६ ॥
नादे तथा बिन्दुके । निष्क्रान्तं क्रमशस्स्व-
शक्ति भवने स्यादेवमावाहनम् । भूतानां- ॥ १४०७ ॥
चैव भूतान्ताम्भाग तान्त मेव च । शिवविष्णु-
समारूढ शिवमन्त्रमिहोच्यते । प्रस्तारम् ॥ १४०८ ॥
आकाशात्सम्भवा रेखा द्वितीयम् अर्धचन्द्रकम् ।
तृतीयं कुटिलाकारं चतुर्थं वह्निसंयुतम् ॥ १४०९ ॥
पञ्चमं च ध्वजाकारम् अष्टमं चाधो मुखम् ।
सप्तमं बिन्दुसंयुक्तम् अष्टमं नादमुच्यते ॥ १४१० ॥
अष्टरेखा समायुक्तं प्रासादमिति कथ्यते ।
तस्य प्रस्तरम् ॥
पञ्चाक्षरात्मको देहो यस्य प्रासादयात्मकः ॥ १४११ ॥
यो विजानाति सततं स एव गुरुरीश्वरः ।
पञ्चविंशच्चतुर्थस्य पञ्चमं पञ्चविंशकम् ॥ १४१२ ॥
अष्टकान् पञ्चमं युग्मम् अग्निबीज समन्वितम् ।
मेधो द्वितीयबीजस्थं धातुपूर्वं यथाक्रमम् ॥ १४१३ ॥
मन्त्रं समुदितो वापि लाञ्चकं स्याच्छिवस्य तु ।
नादं नादादिकं कूटं कालार्णं पार्थिवान्वितम् ॥ १४१४ ॥
वारुणं वह्निसंयुक्तं मरुतु षष्टं स्वरान्वितम् ।
स्वरान्ते बिन्दुनादाढ्यं नवार्णात्मा शिवं विदुः ॥ १४१५ ॥
प्। १००)
मन्त्रं प्रोक्तं शिवस्याह जगत्सृष्टिलयात्मकः ।
नादार्णं तु समुद्धृत्य दिच्चतुर्दशसंयुतम् ॥ १४१६ ॥
बिन्दुनादसमायुक्तं नादाद्यं प्रथमान्वितम् ।
अष्टवर्गादिमं चैव तृतीयस्वरसंयुतम् ॥ १४१७ ॥
तद्वर्गादि समुद्धृत्य प्रथमस्वरसंयुतम् ।
पञ्चाक्षरमयाह्येतत् मन्त्रं सदाशिवस्य तु ॥ १४१८ ॥
कौषष्टीविषु बिन्दु चन्द्रशकल त्र्यक्षाश्चाक्ष
भास्वध्वनिम् । सीते बिन्दु युतेनुजासन- ॥ १४१९ ॥
यनां सर्गजा कुब्जोदरम् । एकीकृत्य यथा-
कर्म (क्रम) मनन्वितो भित्वा कलासञ्चयम् ॥ १४२० ॥
नित्ये निर्मल विक्रयाख्य सहजामिश्रत्व-
(ज्य) वर्तामहे ॥ तस्य । अन्तर्नाडीनियमित- ॥ १४२१ ॥
मरुल्लम्बितं ब्रह्मरन्ध्रं स्वान्तेशान्ति प्रणयन-
समुन्मीलमादन्त सान्द्रम् । प्रत्यक् ज्योति- ॥ १४२२ ॥
र्जयति निमिय स्पष्टलालाट नेत्रैः । व्याजी-
व्याप्ति कृतमपि जगत् व्यापि चन्द्राख्यमौले ॥ १४२३ ॥
प्रस्तारे परमाक्षरस्य निपुणो निस्तारलब्धो-
दये । विस्तारे नियतप्रपञ्चतनये निस्तन्त्रयोग- ॥ १४२४ ॥
श्रमः । तैर्नित्ये कृतविश्रम सहजयादृष्ट्वा
शिवं सम्पदम् । अत्रास्ते सुखमस्तु मोहम- ॥ १४२५ ॥
हिमा प्रासादसिन्धौ गुरुः ॥ मूलारबिन्ध्वा
द्वादशपर्यन्तं मानसा पुंसादमुच्चार्य- ॥ १४२६ ॥
शिवसमरसोरश्चन्दं स्वराघीष बिष-
बिन्दुम् अर्धचन्द्रत्रिकोणबिन्दु नियमध्य- ॥ १४२७ ॥
गत स्वनिहतवनाहलमित्रङ्गित त्रिशूल-
कुब्जकयुगल गर्भसर्गचूलिकाकर- ॥ १४२८ ॥
प्रस्तारपूर्वकम् । निस्तायक च निस्तीर्य-
निष्कलमिदमहम्भावनानि निस्सङ्गनिरु- ॥ १४२९ ॥
पतिकमल लालेपमुपाशान्त शकलशक्ति-
कल्लोल कोलाहल सुखकरसन्निभृत निक- ॥ १४३० ॥
सम्भसन्तारं भचितमहानदीं चातनिशाश-
शाङ्क शतसहस्रसङ्काश परंशिवम्- ॥ १४३१ ॥
प्। १०१)
अनुप्रविश्य पुनरावृत्ति भावानि अस्तमय-
निर्विष्ट्य अनुसन्धतीदम् ॥ मूलाधारे स्मरे र- ॥ १४३२ ॥
ग्निचन्द्रसूर्यसमन्वितम् । कुण्डल्यां तु विधातारं
नाभौ विष्णुमुदाहृतम् । हृदरे (ये) केवलं रुद्रं- ॥ १४३३ ॥
कर्णमूले महेश्वरम् । जिह्वामूले तु नादाख्यं-
नासाग्रे बिन्दुरेव च । नादाख्यं भ्रुवमध्ये तु- ॥ १४३४ ॥
ललाटे शक्तिसञ्ज्ञिकम् । ब्रह्मरन्ध्रे शिवं
विद्यादूर्ध्वनृत्तं विचिन्तयेत् ॥ १४३५ ॥
शुक्लशोणितयोर्मध्ये बिन्दुरूपं परात्परम् ।
शिवमध्यगतो शान्तं शान्त्यातीतं परात्परम् ॥ १४३६ ॥
परात्परतरं देवम् इत्येते शिव भावयेत् ।
आदि चन्द्रं मृत्यु भूषण चन्द्रखण्ड गुणाग्र- ॥ १४३७ ॥
उद्भानु गन्धमनि सीर भास्करस्येन्दुवक्त्र-
हलाकृति सां शुग्मं त्रिशिख द्विबिम्बो- ॥ १४३८ ॥
क्त द्विकुब्जकलम्मत पातु वः । सकलो पर-
स्सकलो शिवः । प्रासादमारुह्य कलाध्वनीयं- ॥ १४३९ ॥
पश्यन्नधस्तात् सकलं प्रपञ्चम्-
परामृते तत्र सुकेशि सध्य आनन्दसान्द्रं रसयं प्रकाशे ॥ १४४० ॥
वेदोऽहनि स्मरहरेश सदाशिवाख्यं सोपानप-
र्भक्षमति लङ्घपरैरलङ्घ्यम् । प्रासादशृङ्ग- ॥ १४४१ ॥
मसुदुस्सुखगावशेष अध्यास्महै शिव-
मनङ्गमुपाङ्गयन्ति । प्रासादमात्रस्य भजन्ति- ॥ १४४२ ॥
केचित् तत्वेन सोपाय वशेन धन्या । ज्योत्स्नां-
शिवेत्तोरण पायनीत्वां संविंवययिञ्जिम्मन- ॥ १४४३ ॥
मोहतन्त्री । अभावे भावं कुर्यान्निराश्रया ।
अमनस्को नमस्कृत्वा न किञ्चिदपि चिन्तयेत् ॥ १४४४ ॥
पूर्वं हंसितस्सोऽहं पश्चाद्दोमिति यद्यपि ।
अहमेवेद्यलं वेद्मि त्वमाल शिवमेव च ॥ १४४५ ॥
आकूतं चेदमूर्ताख्यं समूर्तं चेत्समूर्तकम् ।
वह्नेर्वृषद्वयं शक्ति रविनाय विभाविभौ ॥ १४४६ ॥
प्। १०२)
प्राकाश जलयोर्मध्ये प्रासादमनुसन्दधे ।
यदष्षडध्व लहरीं कालुष्यमुपशाम्यति ॥ १४४७ ॥
विमस्तमस्तमश्चेति प्रासादस्य परस्य च ।
तयोरास्वादनार्थस्य शिवशक्तिमयो हि सः ॥ १४४८ ॥
सोऽहं पूर्णानि मामरिशो देहं श्रीविद्यया वहन् ।
प्रासादहृदयेच्छा सनिश्वास परमश्शिवः ॥ १४४९ ॥
प्रासादगिरिसंरूढं प्रासादाख्यं महौषधम् ।
संसारसर्पदष्टानाम् एतदस्ति महौषधम् ॥ १४५० ॥
अलमल नियती नियतिः परमार्थरूपिणे भावम् ।
लब्धे दक्षिण भववे किं यस्तालवृन्ते नः ॥ १४५१ ॥
पूज्यापूज्य पूजनफलान् आधारमूर्त्यामनो-
व्याप्यैर्व्यापक भावको ध्वनिमनान् प्रत्यर्थ- ॥ १४५२ ॥
मात्रालयान् । मुद्राष्वाङ्गमुखास्त भूषण-
वपुर्वर्णाङ्ग शक्तिस्तमोपायोपेय समुन्न- ॥ १४५३ ॥
यनं च न सुधी संस्मृत्य शम्भुं यजेत् ।
अलिपिशित पुरन्धरभोग पूज्यावरोहं बहु- ॥ १४५४ ॥
विधगुलयोगारम्भ सम्भावितोऽयम् । पशुजन-
विख्यातं भैरवी संश्रितोहं भैरवोयः शिवोऽहम् ॥ १४५५ ॥
अनकृतामीशकृतामीशगताभ्यान्नाडीं
सुषुम्नामिव पश्य विधिम् । आनन्द पुष्पोऽमितः- ॥ १४५६ ॥
वारिसिक्तां श्रान्तदिव्योत्सव तूर्यघोषैः ।
न मे प्रियं चतुर्वेदीमुद्भक्तश्च प्रचोदिताम् ॥ १४५७ ॥
तस्मै देहहतो ग्राह्यं स च पूज्यो यथाह्ययम् ।
नाभेदं तु चरङ्गुल्यम् अधस्तादग्निमण्डलम् ॥ १४५८ ॥
कदम्ब पुष्पवद्वर्णम् अष्टपत्रं त्रिकोणकम् ।
कुलाधारमयं प्रोक्तं द्वितीयं नाभिमूलके ॥ १४५९ ॥
भुजङ्गवलयाकारम् अष्टवर्तुलमेव च ।
कुण्डलाख्या महानाडी भानुमण्डलमुच्यते ॥ १४६० ॥
शिखाग्रे द्वादशाङ्गुल्यं वीणादण्डस्य पार्श्वयोः ।
सुषुम्ना मध्यगप्राणमध्ये तु सुषिरं तथा ॥ १४६१ ॥
प्। १०३)
जीवप्राणसमायुक्तं तेषु मध्येषु सञ्चरेत् ।
सञ्चार ति हि तत्काले आधारेषु च संस्थितः ॥ १४६२ ॥
आधेयं यत्प्रयुक्तं च समाधित्येवमाश्रितम् ।
इडा च पिङ्गला चैव वीणादण्डस्य पार्श्वयोः ॥ १४६३ ॥
उपानं पादुकं चैव जगतीं जङ्घनं तथा ।
कुक्षरं तत् कुमुदं चैव बाहुलाङ्कमेव च ॥ १४६४ ॥
कण्डम् कर्णमिति ज्ञेयम् अधरेऽधरं भवेत् ।
महापट्टिललाटं स्यात् केशान्तघृतवारिणी ॥ १४६५ ॥
सर्वाङ्गं शोधयेत् वस्स पीठं पाशुपते न च ।
पीठशुद्धिरिति ख्यातं स्थलं चैवास्त्रमन्त्रतः ॥ १४६६ ॥
पत्रं ब्रह्मा फलं विष्णु पुष्पमीश्वरमेव च ।
त्रीणि देव शिरच्छेद्यमर्च्चनादि प्रयोजनम् ॥ १४६७ ॥
मत्स्योच्छिष्ट जलं प्रोक्तं जिह्वोच्चिष्टं तु मन्त्रकम् ।
वत्स्योच्छिष्टं तु क्षराभं भृङ्गोच्छिष्टं तु पूर्वकम् ॥ १४६८ ॥
द्रव्यमुच्छिष्टमन्नानामर्चनार्थं प्रयोजनम् ।
उच्चिष्टं शिवनिर्माल्यम् इदम् प्रेतजीवकम् ॥ १४६९ ॥
काकपिष्टसमुत्पन्नं पञ्चैतानि पवित्रकम् ।
अङ्गुष्टा ब्रह्मदैवत्या तर्जनी केशवस्तथा ॥ १४७० ॥
मध्यमं ब्रह्मदेवत्यम् अनामिकामीश्वरं तथा ।
कनिष्टां सदाशिवं चैव अङ्गुली अधिदैवताः ॥ १४७१ ॥
स्त्रीपुमान्नपुंसकम् ।
अङ्गुष्टं तर्जनी नारी मध्यमं तु नपुंसकम् ॥ १४७२ ॥
अनामिकायां कनिष्टं च पुरुषाणां तथैव च ।
भूमिदेवी ।
द्विभुजा च द्विनेत्रा च करण्डमकुटान्वितम् ॥ १४७३ ॥
पद्ममष्टदलंश्वेतं कर्णिकाकेसरे स्थितम् ।
पद्ममध्ये स्थितां देवीं हेमवर्णैरलङ्कृताम् ॥ १४७४ ॥
सद्यमन्त्रं समावाह्य तस्माद्देवीं प्रपूजयेत् ।
अङ्गवैकल्य दोषाद्यैराचार्यः सङ्गहीनकम् ॥ १४७५ ॥
स्वयम्भुलिङ्गविच्छिन्नेनाङ्गहीनेन दोषभाक् ।
एकचक्रसमायुक्ता सारथी तु महारथम् ॥ १४७६ ॥
प्। १०४)
सप्ताश्वसहितं कृत्वा सूर्यं पुरुषरूपिणम् ।
ईषदङ्कितकेशं वा केशकेनष्टकं तु वा ॥ १४७७ ॥
संरक्तमकुटं वापि प्रभामण्डलसंयुतम् ।
रक्तवस्त्रोत्तरीयं च रक्तवर्णसुयौवनम् ॥ १४७८ ॥
सर्वाभरणसंयुक्तं शुक्लयज्ञोपवीतकम् ।
अम्बुजासन मध्यस्थं प्रभामण्डलमध्यमे ॥ १४७९ ॥
द्विभुजं च द्विनेत्रं च हस्तयोः पद्मके दधन् ।
रथे समवस्थितो ह्येवं सूर्यस्याकृतिरुच्यते ॥ १४८० ॥
रूपं वै कर्तनादीनां सूर्याकृति पदोच्यते ।
शास्ता देहं समासेन समाहितमना शृणु ॥ १४८१ ॥
द्विभुजं च द्वेनेत्रं च श्यामवर्णं समाहितम् ।
कञ्चुकं चिह्नरूपं च शुक्लयज्ञोपवीतकम् ॥ १४८२ ॥
शृत्योर्वलयसंयुक्तो हारकेयूरसंयुतम् ।
किरीटमकुटं वापि सुकेशमकुटं तु वा ॥ १४८३ ॥
सरत्नमकुटं वापि अङ्गुलीयकसंयुतम् ।
कुमुदं सव्यहस्ते तु अभयं वामहस्तके ॥ १४८४ ॥
अथवा विपरीतं वा वक्रदण्डं तु सव्यके ।
करकं वामहस्तं वा सव्यहस्त प्रसारितम् ॥ १४८५ ॥
अङ्कुशं वामहस्ते तु अक्षमालायुतं तु वा ।
शान्तौ वीरापिनोवेदा वेदाध्यायी पवित्रकः ॥ १४८६ ॥
शयनं वामपादं तु दक्षपादं तु कुञ्चितम् ।
तज्जानुपरितन्त्रैव विलासहस्तसंयुतम् ॥ १४८७ ॥
चतुर्भुजयुतं चेत्तु परेसव्ये तु वज्रकम् ।
वामे दण्डयुतो विद्या मोहिनी तनयश्शुचिः ॥ १४८८ ॥
शास्ता देहस्समाख्यातं स्कन्दरूपमथ शृणु ।
गुरुपुस्तक नागानां भक्तानाङ्गि गणस्य च ॥ १४८९ ॥
पार्वती यक्षमात्राणां न निर्माल्यं शिवे य च ।
गोभू हिरण्य वस्मादि मणि हेमादि भूषणम् ॥ १४९० ॥
विहाय शेषनिर्माल्यं चण्डेशाय निवेदयेत् ।
तैलचूर्णं च भस्मं च ताम्बूलस्थानमेव च ॥ १४९१ ॥
प्। १०५)
एवं वर्णविधिं प्रोक्तं निर्माल्यं तु विसर्जयेत् ।
स्थूललिङ्गं विमानं च सूक्ष्मलिङ्गं सदाशिवम् ॥ १४९२ ॥
बलिपीठं भद्रलिङ्गं लिङ्गत्रयमुदाहृतम् ।
लिङ्गच्छायां तु लिङ्गं तु प्रासादं यस्तु छायया ॥ १४९३ ॥
बलिपीठमिदं प्रोक्तं पञ्चलिङ्गमिति स्मृतम् ।
लिङ्गं सूक्ष्मतन्त्रे अथ पञ्चगव्यम् ॥ १४९४ ॥
नव पदघृतमध्ये दुग्धमैन्द्रे दधिस्स्यात् ।
यमदिशि घृतमिन्द्रो वारुणे गोमयो द्वौ ॥ १४९५ ॥
अनल निर्-ऋतिवायुवीशकोणेषु पिष्टामलक-
रजनितीयं स्थापयेत्पञ्चगव्यम् ॥ १४९६ ॥
गोमूत्रं गोमयं दुग्धं दधि सर्प्यं च पञ्चधा ।
प्रत्येकं स्थापयेत् पूर्वे प्रत्येकं केवलं स्मृतम् ॥ १४९७ ॥
एतेषामेकपात्रं तु गृह्यस्नात्वा तु मिश्रकम् ।
विशेषम् ॥ गोमूत्रं स्थापयेत्पूर्वे गोमयं दक्षिणे तथा ॥ १४९८ ॥
क्षीरं तु पाशभृद्देशे सौम्यायां दधि विन्यसेत् ।
मध्यमे स्थापयेत्सर्वं तत्तन्मन्त्रेण देशिकः ॥ १४९९ ॥
क्षीर कुम्भं तु मध्ये तु दधिपूर्वन्तु विन्यसेत् ।
दक्षिणे घृतं विन्यस्य गोमूत्रम् उत्तरे न्यसेत् ॥ १५०० ॥
पश्चिमे गोमये चैव आग्नेय्यां पिष्टसंयुतम् ।
नैर्-ऋत्यां रजनी स्थाप्य वायव्यामलकं न्यसेत् ॥ १५०१ ॥
ऐशान्यां पुष्पसंयुक्तं कुर्यात्तत्पञ्चगव्यगैः ।
गोमूत्रं वृषभं दैवं गोमयं विष्णुदैवतम् ॥ १५०२ ॥
क्षीरं शुक्रं च दैवत्यं दधिर्गणपतिं तथा ।
धृतं च रुद्रदैवत्यं पञ्चगव्याधि देवताः ॥ १५०३ ॥
सद्योजातादिभिर्मन्त्रैः पञ्चगव्याभिमन्त्रयेत् ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ १५०४ ॥
सद्यादीशानपर्यन्तं गोमयादिषु विन्यसेत् ।
प्रस्थपादघृतं चैव द्विपादं दधिरुच्यते ॥ १५०५ ॥
द्विपादं क्षीरमित्युक्तं चतुर्थं गोमयोदकम् ।
षड्गुणं चैव गोमूत्रं पञ्चगव्याढकं भवेत् ॥ १५०६ ॥
प्। १०६)
उत्तमं प्रस्थसंयुक्तं मध्यमं कुडवद्वयम् ।
अधमं कुडुवमित्युक्तम् इत्येते द्रव्यमुच्यते ॥ १५०७ ॥
स्वर्णो वा रजतो वापि ताम्रमृण्व सुपात्रयोः ।
अन्ये तु कंसपात्रं स्यात् अयोपात्रस्य मृण्मयम् ॥ १५०८ ॥
वर्णम्-
कपिलायां तु गोमूत्रं रक्तायां गोमयं भवेत् ।
कृष्णायां क्षीरमित्युक्तं सितायां दधिरुच्यते ॥ १५०९ ॥
धूम्रायां तु दधि ग्राह्यं पञ्चगव्यमुपासने ।
सर्वं वा कपिलायां तु नानावर्णे पुनः पुनः ॥ १५१० ॥
फलम्
कल्पकोटिसहस्रेषु शिवलोकं महीयते ।
तथावद्देवदेवेशं पञ्चगव्याभिषेचनम् ॥ १५११ ॥
दशापरार्धतोयेन क्षीरेण शतं क्षिपेत् ।
गव्यं च पापनाशं स्यात् सर्वारिष्ट विनाशनम् ॥ १५१२ ॥
प्रायश्चित्ते अशुभे शुद्धं पञ्चगव्यं विशिष्यते ।
घृतं वै प्रस्थमेवं तु दधिद्वि प्रस्थमेव च ॥ १५१३ ॥
त्रिप्रस्थं चैव गोक्षीरं चतुः प्रस्थं गोमयं तथा ।
षट्प्रस्थं चैव गोमूत्रम् उत्तमं तु प्रजापते ॥ १५१४ ॥
प्रस्थार्द्धन्तु घृतं चैव प्रस्थं दधिरुच्यते ।
प्रस्थार्धं क्षीरमित्युक्तं द्विप्रस्थं गोमयं तथा ॥ १५१५ ॥
त्रिप्रस्थं चैव गोमूत्रं मध्यमं तु प्रजापते ।
अतः परं प्रवक्ष्यामि पञ्चगव्य विधिक्रमम् ॥ १५१६ ॥
सर्वपापविनाशार्थं सर्वसिध्यर्थमुच्यते ।
उत्तमं द्रोणमेवन्तु मध्यमं तु कूर्चकम् ॥ १५१७ ॥
तदर्धमधमं ज्ञेयं त्रिविधं परिकीर्तितम् ।
कपिलाघृतेन गोमादा सितगोदधिरुच्यते ॥ १५१८ ॥
पीतवर्णं तु क्षीरं स्यात् रक्तवर्णं तु गोमयम् ।
कृष्णवर्णं तु गोमूत्रं सङ्ग्रहेत्तु विचक्षणः ॥ १५१९ ॥
घृतं वै रुद्रदैवत्यम् अर्धं वै सोमदेवतम् ।
क्षीरं तु शुक्र दैवत्यं गोमयं चार्कदेवता ॥ १५२० ॥
गोमूत्रानलदैवत्या पञ्चगव्याधिदैवता ।
काश्यपं घृतमेवं तु कौशिकं दधिरुच्यते ॥ १५२१ ॥
प्। १०७)
क्षीरस्य भारद्वाजं च गौतमं गोघृतं तथा ।
आत्रेयं च गोमूत्रम् ऋषयश्च प्रकीर्तिताः ॥ १५२२ ॥
सावित्र्यं गृह्यगोमूत्रं गन्धद्वारेति गोमयम् ।
आप्याय स्वेति च क्षीरं दधिक्राविण्णैति वै दधि ॥ १५२३ ॥
शुक्रमसिज्योतिरसि वाज्यं देवस्यत्वेति-
कुशोदकम् ॥ गोमूत्रं तत्सवितुः दयात् ॥ १५२४ ॥
गोमय गन्धन्द्वारां दुराधर्षां श्रियम् ।
दधिक्राविण्णो तारिषत् ॥ आज्यं शुक्रमसि-
कुशोदकम् । देवस्यत्वा सवितुः । गोमूत्रम् । मध्यमे- ॥ १५२६ ॥
स्थाप्य गोमयं पूर्व विन्यसेत् । क्षीरं तु दक्षिणे-
स्थाप्य पश्चिमे दधिरुच्यते । उत्तरेषु घृतं- ॥ १५२७ ॥
स्थाप्य स्थापयेत्तु क्रमेण तु । शिवाग्रे मण्डपं-
कृत्वा स्थण्डिलं पञ्चकोष्टकम् । कोष्टं वास्त्राणि ॥ १५२८ ॥
मन्त्राणि पूर्ववत्पूजयेद्विबुधः । मध्ये क्षीरं तथा-
स्थाप्य पूर्वे दधिरुच्यते । दक्षिणे घृतमेवं तु ॥ १५२९ ॥
पश्चिमे मधुविन्यसेत् । उत्तरे शर्करान्यासं
पञ्चामृतमिहोच्यते । त्रिदभैर्देवं कार्यं च- ॥ १५३० ॥
पित्र्यं चेक ततो भवेत् । द्विदभैश्च गृहस्थानां-
पवित्रं सम्यगाचरेत् ॥ महावस्य वर्षस्य- ॥ १५३१ ॥
चोरस्य कलहस्य च । नित्योत्सवेन काले-
तु कुर्याल्लिङ्ग प्रदक्षिणम् । गुरुस्वामिकलम् ॥ १५३२ ॥
आचार्यं च गुरुस्वामि त्रिविधं तु यथा क्रमम् ।
आचार्यं बालशिक्षा च यज्ञसूत्रधरं गुरुः ॥ १५३३ ॥
उपदेशक्रमं ह्येवं तत्स्वामिन्तु विधीयते ।
गोत्र गोचरवृक्षाणां मठाङ्गम समन्वितम् ॥ १५३४ ॥
गुरुस्थानं च वृक्षं च तद्भेदं वा शिवद्विजः ।
पापं क्षीरपरिभ्रष्टौ नास्तिकं शृतिदूषकैः ॥ १५३५ ॥
कुष्टैव्याधी च संयुक्तं शिवद्रव्यापहारिणे ।
गुरुद्रव्यापहारी च गुरुद्रोही च पातकैः ॥ १५३६ ॥
प्। १०८)
बहुबीजेन तत्क्लेशी निर्बीजो चक्षुहीनकः ।
अदृष्टार्थं प्रकर्तव्यं दृष्टा पूजा च निष्फलम् ॥ १५३७ ॥
तद्ग्राम वा विने मत्या सस्य धनक्षयम् ।
मननं सर्वदिक् तत्व त्राणसंसार्यनुग्रहम् ॥ १५३८ ॥
मननत्राण धर्मित्वान्मन्त्रशब्दमिहोच्यते ।
मन्त्रो द्विरूपो विज्ञेयो वाच्यवाचकभेदकः ॥ १५३९ ॥
वाग्रूपो वाचकः प्रोक्तो वाच्यस्त्वर्थात्मको मतम् ।
वाच्यवाचकयोश्चैव नादार्थं क्वचिदिष्यते ॥ १५४० ॥
नादो मन्त्र इति प्रोक्तो स नादो जायते परा ।
नादात् बिन्दुसमुद्भूतो सिन्धोरस्य स्वरो भवेत् ॥ १५४१ ॥
तस्मात्स्वरद्वया वह्ने तेषां भेदो त्रयोदश ।
स्वरात्षोडश जीवाख्या कादयो देहपद्मजा ॥ १५४२ ॥
सङ्ख्यया ते चतुस्त्रिंशत् तयोर्वै व्यञ्जनानि तु ।
पाणो पायि विभेदेन व्याप्तं तेनैव सर्वतः ॥ १५४३ ॥
तैरेव विरचितं शास्त्रं परावर विभेदितम् ।
नवखण्डं तु नादाख्यं पञ्चाशद्वर्णभेदतः ॥ १५४४ ॥
विकार भूत भूताख्यं देवदेवेन्द्रसङ्ख्यया ।
खण्डाया वर्णयो वर्णैः एवमेष नवात्मकाः ॥ १५४५ ॥
स नादः कथ्यते विप्र परिपायैश मनादिभिः ।
स्थूलसूक्ष्म परं चैव त्रिविधं परिपठ्यते ॥ १५४६ ॥
शब्दबोधानुवृत्यात्मा सर्वप्राणि हृदिस्थिता ।
पञ्चाशद्रुद्रदेवेन पञ्चाशच्छक्ति भेदितम् ॥ १५४७ ॥
सस्मिन्स्तामातृका ज्ञेया सन्धकैस्तत्वदर्शिभिः ।
तद्वासो चक्ष्यते विप्र पश्चाद्वर्णाध्व वर्णनेः ॥ १५४८ ॥
भगवन् प्राणिनो लोके क्षीण चत्वाशतायुषः ।
लो?ह मोहमागमानां रागद्वेषादिभिर्युताः ॥ १५४९ ॥
तेषां योग्यमशक्तानां शक्तानां च यथाक्रर्म ।
बहुधामन्त्रसद्भावो वक्तव्यं करुणानिधे ॥ १५५० ॥
येन येन प्रकारेण सुखावायो भवेन्नृणाम् ।
तेन तेन प्रकारेण कथयामि समासतः ॥ १५५१ ॥
जीवाद्यं पञ्चमे वायु पूर्वकारणकर्ययुक् ।
चिन्तामणिरिति ख्यातो मन्त्रोऽयं शिववाचका ॥ १५५२ ॥
प्। १०९)
भूशिरशूलिका वर्म हेतयो मुनिपुङ्गवाः ।
सद्योजातो दयावापि तत्स्थानप्युभयं तु वा ॥ १५५३ ॥
तदा तद्वर्णभेदेन कुर्युर्मन्त्रागकल्पनाम् ।
अथवान्य प्रकारेण मन्त्रलक्षणमुच्यते ॥ १५५४ ॥
सान्तार्कं बीजसंयोगात् पदहृद्गुह्यमस्तके ।
हृच्छिखास्य तनुत्राणमूर्ध्वमूलदृगस्त्रकान् ॥ १५५५ ॥
उद्धरेत्क्रमशो मन्त्री सज्वालास्तिष्टिरस्त्रकम् ।
यद्वा नलासनारूढ वर्णाव्योमेन्दु भास्वरे ॥ १५५६ ॥
यष्ट्र भूजलवह्न्यादि व्योमबीजामसङ्गमात् ।
मन्त्रोऽयं मूलभेदं तु प्रायश्वदस्याङ्ग कल्पनाम् ॥ १५५७ ॥
तत्वपादार्थयोर्वापि समायोगस्य कारणम् ।
खबीजं मूलबीजस्थं कारणे तं सिताणकम् ॥ १५५८ ॥
स सृष्टि रुच्यते द्घ्र?स्व तद्वा शिवपदान्वितम् ।
तारमाद्यं तु तन्वङ्गं बीजं खव्यापिनेऽपि च ॥ १५५९ ॥
शुद्धरेद्धपकम् प्राय मूल मन्त्रोऽयमीरितम् ।
तत्र ब्रह्माङ्गसङ्कॢप्तिरनुलोमविलोमतः ॥ १५६० ॥
अथ कालात्मनश्चेह वक्ष्येऽहं मन्त्रलक्षणम् ।
इति कामिके ।
शिवतत्वे परे सूक्ष्मे बिन्दुरुत्पद्यते तथा ॥ १५६१ ॥
बिन्दोन्नादसमुत्पन्नं नादाच्छक्तिरजायत ।
शक्तेस्तु वाग्भवं जातं वाग्भवात्षोडशाकला ॥ १५६२ ॥
कलाद्यैर्व्यञ्जनं जातं व्यञ्जनात्सर्वशास्त्रकम् ।
शिवशक्तिप्रकारेण बिन्दुनादसमुद्भवम् ॥ १५६३ ॥
अङ्गुरान्नादमित्युक्तं बिन्दुबीजमिति स्मृतम् ।
तद्बीजं कन्दमित्युक्तं सर्वशक्तिमयं परम् ॥ १५६४ ॥
तद्बीजाङ्कुरकाले तु अकारमाल्यसम्भवम् ।
अकारादि क्षकारान्तम् आस्य बीजेनवोद्भवम् ॥ १५६५ ॥
अवर्गं च कवर्गं च चवर्गञ्च टवर्गकम् ।
तवर्गं च पवर्गं च यवर्गं च षवर्गकम् ॥ १५६६ ॥
अष्टवर्गमिदं प्रोक्तं वर्गभेदमिहोच्यते ।
अवर्गं शिववर्गन्तु कवर्गं ब्रह्मवर्गकम् ॥ १५६७ ॥
प्। ११०)
चवर्गं विष्णुवर्गन्तु टवर्गं रुद्रवर्गकम् ।
यवर्गं व्योमवर्गन्तु शवर्गं शक्तिवर्गकम् ॥ १५६८ ॥
वर्गनाममिदं प्रोक्तं पुनर्भेदं तथाशृणु ।
अवर्गमिन्द्रवर्गन्तु अग्निवर्गं कवर्गकम् ॥ १५६९ ॥
चवर्गं यमवर्गं तु टवर्गं नृतिवर्गकम् ।
तवर्गं वरुणवर्गं तु पवर्गं वायुवर्गकम् ॥ १५७० ॥
यवर्गं सोमवर्गं तु शवर्गम् ईशवर्गकम् ।
वर्गभेदमिदं प्रोक्तं कीलभेदमिहोच्यते ॥ १५७१ ॥
आद्यं मध्यं मारवै ज्यमय वै मध्ये गतं योजयेत्-
सोऽयं कीलमिति स्मृतौ च परतौ यद्यत्स्वरूपं- ॥ १५७२ ॥
लभेत् । मन्त्रस्योच्चरणेखिलस्य च लिपे संयो-
गतो युक्तित कील मन्त्रसुसिद्धयो जपतु- ॥ १५७३ ॥
तत्संयोज्य सर्वोप्य च । एतत्कीलप्रयो-
गेन ज्ञात्वा सर्वं समाचरेत् ॥ किरणे- ॥ १५७४ ॥
प्रणवहीनम् ।
यं मन्त्रं प्रणवं हीनं तन्मन्त्रं प्राणहारकम् ।
सर्वेषां चैव मन्त्राणां प्राणं प्रणवमुच्यते ॥ १५७५ ॥
प्रणवस्याग्नि दैवत्यं परब्रह्मस्वरूपिणम् ।
छन्दस्यं देवि गायत्री ऋषिर्ब्रह्मेति कीर्तितम् ॥ १५७६ ॥
प्रणवं सम्प्रवक्ष्यामि सङ्क्षेपान् न तु विस्तरान् ।
अकारं च उकारं च मकारो बिन्दुनादकम् ॥ १५७७ ॥
अकारं ब्रह्मदैवत्यम् उकारं विष्णुरुच्यते ।
मकारं रुद्रदैवत्यम् बिन्दोरीश्वरमेव च ॥ १५७८ ॥
नादं सदाशिवं प्रोक्तं पञ्चभेदात्मकं स्मृतम् ।
अकारस्य हृदि स्थितम् उकारस्य कर्णकम् ॥ १५७९ ॥
तालुमध्ये मकारस्य बिन्दोश्चैव ललाटकम् ।
तस्मादुपरि नादस्य स्थानं ह्येवं प्रकीर्तितम् ॥ १५८० ॥
प्रणवं सर्ववर्णाख्यं सर्वदेवमयं विदुः ।
ऋषि सनत्कुमारस्तु ओङ्कारं सुक्लवर्णकम् ॥ १५८१ ॥
गायत्री छन्द इत्युक्तं तस्य वै शिवतत्वतः ।
ओमित्येकाक्षरं ब्रह्म वदन्ते सर्वयोगिनः ॥ १५८२ ॥
बिन्दुनाद प्रकारेण प्रनवाकृति रूपकम् ।
प्रणवाकृति रूपं तु प्रणवोत्पत्तिरुच्यते ॥ १५८३ ॥
श्लोक नुम्ब्रे मिस्सिन्ग् फ़्रोम् हेरे
प्। १११)
प्रथमं नादमुत्पन्नं द्वितीयं गलिकोद्भवम् ।
तृतीयं वलयोत्पन्नं चतुर्थं चुलिकोद्भवम् ॥ १५७८ ॥
नादं नादमिति प्रोक्तं पञ्चभेदात्मकं स्मृतम् ।
उकारं वलयं ज्ञेयं चुलिकं बिन्दुरूपकम् ॥ १५७९ ॥
अनुस्वारं मकारं च पञ्चवर्णाः प्रकीर्तिताः ।
सृष्टि स्थिति निमित्ताय अधोमुखोच्चारणे सुधीः ॥ १५८० ॥
प्राणीनां वक्त्रसञ्ज्ञातं प्रणवो नाम कीर्तितम् ।
आद्यमुच्चार्यतो मन्त्री मन्त्रशुध्यर्थकारणात् ॥ १५८१ ॥
संसारोच्छेदमन्त्रं सकलशिवमयं सारसिद्धान्त-
मन्त्रं मन्त्राणां मन्त्रराजं मनसि* * * * * * ॥ १५८२ ॥
तीतमन्त्रम् । अणिमाद्याद्यैश्वर्यमन्त्रम् अमृत-
शिवमयं मृत्युनाशार्थमन्त्रम् ओमित्येकार्थ- ॥ १५८३ ॥
मन्त्रम् उपनिषधरं नमश्शिवाय मन्त्रम् ।
पञ्चाक्षरं परं ब्रह्म पवित्रं पापनाशनम् ॥ १५८४ ॥
चिन्तयेन्मनसा नित्यं शिवलोके महीयते ।
नमस्कारं पीतवर्णो स्यस्थानं पूर्वमुखं स्मृतम् ॥ १५८५ ॥
इन्द्रादि दैवतच्छन्दो गायत्रीं गौतमः स्मृतम् ।
मकारं कृष्णवर्णास्य स्थानं वै दक्षिणामुखम् ॥ १५८६ ॥
छन्दोऽनुष्टुप् ऋषिश्चात्री रुद्रो दैवत उच्यते ।
शिकारं धूम्रवर्णोऽस्य स्थानं वै पश्चिमं मुखम् ॥ १५८७ ॥
विश्वामित्र ऋषिश्चन्दो * * विष्णुश्च दैवतम् ।
वकारो हेमवर्णोस्य स्थानं मेवोत्तरं मुखम् ॥ १५८८ ॥
ब्रह्मादि दैवतच्छन्दो बृहती चाङ्गिरा ऋषिः ।
यकारं रक्तवर्णोस्य स्थानमूर्ध्वमुखं विराट् ॥ १५८९ ॥
छन्द स वृषिर्भारद्वाजो स्कन्दो देवतोच्यते ।
इति उदातानुदात्त स्वरित ॥ १५९० ॥
उदात्त प्रथमस्तद्वच्चतुर्थस्य द्वितीयकम् ।
पञ्चमं स्वरितं चैव मध्यमो निषध स्मृतम् ॥ १५९१ ॥
नाकारं स्त्री समाख्यातं पुंलिङ्गं चाक्षरत्रयम् ।
नपुंसको यकारस्तु पञ्चाक्षरमिहोच्यते ॥ १५९२ ॥
अजादि हृदयं वामं शिखाघोरं शिखास्तथा ।
पुरुषं कवमीशानं शिवं नेत्रास्त्रकं क्रमात् ॥ १५९३ ॥
प्। ११२)
तस्य । हृदयं च शिरश्चैव शिखाकवचमेव च ।
नेत्रमस्त्रषडङ्गानि कीर्तितानि क्रमेण तु ॥ १५९४ ॥
हृदादि नेत्रपर्यन्ता बिन्दुयुक्ताः प्रकीर्तिताः ।
अस्त्रं विसर्गसंयुक्तं ज्ञातिषट्कसमन्वितम् ॥ १५९५ ॥
ओङ्कारं प्रथमं बीजं मकारं तु द्वितीयकम् ।
तृतीयं बीजमीकारं सर्वकारणकारणम् ॥ १५९६ ॥
चतुर्थं बीजमूकारं व्योकारं पञ्चमं भवेत् ।
मकारं षष्टमं स स्यात् व्याकारं सप्तमं तथा ॥ १५९७ ॥
विकारम् अष्टमं बीजं नेकारं नवमस्त्रकम् ।
ओङ्कारं दशमं बीजं शिवमन्त्रमिहोच्यते ॥ १५९८ ॥
सान्तमौकार संयुक्तं षष्टस्वर समन्वितम् ।
बिन्दुनादसमायुक्तम् आदौ प्रणवसंयुतम् ॥ १५९९ ॥
लिङ्गस्थापनकाले तु मन्त्रमेवं न्यसेत्क्रमात् ।
अर्चनं जपकाले तु शिवाय सहयोजयेत् ॥ १६०० ॥
पञ्चाक्षर स्त्रीपुं नपुंसकम्
नादं गगनमित्युक्तं बिन्दुरस्य शिवो भवेत् ॥ १६०१ ॥
हकारं हृदयं प्रोक्तं मौकारं बाहुकद्वयम् ।
ओङ्कारं पादमित्युक्तं प्रासादस्यासनाय नमः ॥ १६०२ ॥
भीमसंहितायां-
अकारं मूर्ध्नि विन्यस्याकारं तु ललाटके ।
लकारं दक्षिणे नेत्रे ईकारं वामलोचने ॥ १६०३ ॥
उकारं दक्षिणे नासे ऊकारं व्योमनासिके ।
ऋकारं दक्षिणे श्रोत्रे ॠकारं वाम श्रोत्रके ॥ १६०४ ॥
ऌकारं दक्षिणे गण्डे ॡकारं वामगण्डके ।
एकारम् ऐकारं न्यस्य ओ औ च तालुमध्यके ॥ १६०५ ॥
अं तालुमूले विन्यस्य अः तालुमूले विन्यसेत् ।
कवर्गं दक्षिणे हस्ते च वर्गं वामहस्तके ॥ १६०६ ॥
टवर्गं दक्षिणे पार्श्वे तवर्गं वामपार्श्वके ।
प फ दक्षिपार्श्वे तु ब भ वामपार्श्वके ॥ १६०७ ॥
मकारं नाभिदेशे तु वकारादि हकारकम् ।
अष्टाक्षरं समुद्धृत्य हृदस्थं वै विजृम्भितम् ॥ १६०८ ॥
लकारं गुददेशे तु क्षकारं गुह्यविन्यसेत् ।
पञ्च पञ्च चतुर्थं च पञ्चमं पञ्चपञ्चकम् ॥ १६०९ ॥
प्। ११३)
षष्टमं पञ्चपञ्चानां मायाबीजमतः परम् ।
सप्तमं च चतुर्थं च द्वितीयस्वरसंयुतम् ॥ १६१० ॥
मरुद्बीज समायुक्तं शिवमन्त्रमिहोच्यते ।
यान्तं मान्तं वान्तान्तं तृतीयस्वरसंयुतम् ॥ १६११ ॥
लान्तं पक्षस्वरोपेतं मान्तं पञ्चाक्षरं स्मृतम् ।
पञ्चाक्षरात्मको देहो यस्य प्राणा ऋचात्मकम् ॥ १६१२ ॥
यो विजानाति सततं स एव गुरुदीश्वरम् ।
अकारं पृथिवी ज्ञेय खकारमाप उच्यते ॥ १६१३ ॥
गकारं तेज इत्युक्तं घकारं वायुरुच्यते ।
ङकारं गगनं प्रोक्तं चकारं वायुरुच्यते ॥ १६१४ ॥
छकारं प्रणिरित्युक्तं जकारं पादमुच्यते ।
झकारं वायुरित्युक्तं ञकारमुपस्थमेव च ॥ १६१५ ॥
दकारं श्रोत्रमित्युक्तं ठकारं च ककुरुच्यते ।
डकारं चक्षुरित्युक्तं ढकारं जिह्वसञ्ज्ञितम् ॥ १६१६ ॥
एज?णकारं घ्राणमित्युक्तं तकारं शब्दमेव च ।
थकारं स्पर्शनं प्रोक्तं दकारं रूपमुच्यते ॥ १६१७ ॥
धकारं रसमित्युक्तं नकारं गन्धमुच्यते ।
पकारं वचनमित्युक्तं फकारं गगनमुच्यते ॥ १६१८ ॥
सकारं दानमित्युक्तं भकारं विसर्गमुच्यते ।
मकारानन्दमित्युक्तं तत्वानाम् अक्षरं न्यसेत् ॥ १६१९ ॥
यकारमनुदित्युक्तं रकारं वह्निरुच्यते ।
लकारं पार्थिवं ज्ञेयं वकारं वरुणं भवेत् ॥ १६२० ॥
शकारं कन्दमित्युक्तं षकारं सममिच्युते ।
सकारं शक्तिरित्युक्तं हकारं पुरुषकं स्मृतम् ॥ १६२१ ॥
लकारं कुर्मि बीजस्य क्षकारं कर्ममुच्यते ।
अकारादीनि वर्णानां समासात्परिकीर्तिताः ॥ १६२२ ॥
मन्त्राणामुद्भवार्थाय वर्णानां च समुद्भवम् ।
अकारादि क्षकारान्ताः एकपञ्चाशदुक्षराः ॥ १६२३ ॥
एते वर्णा प्रशस्यन्ते कामिकार्थ प्रदायिका ।
स्त्रीरूपं चैव पुंरूपं तथा चोद्भवरूपका ॥ १६२४ ॥
सर्वे च देवतारूपधृक् ॥
वर्णबीजं च वर्णं च लिङ्गबीजाकर्षमन्त्रकम् ॥ १६२५ ॥
एते वैषां सुनामानि वर्णपर्याय वाचकाः ।
तेषां हि चोद्भवानां च रूपभेदं तथांशकम् ॥ १६२६ ॥
प्। ११४)
तत्वमन्त्रादि भेदैश्च अधिदेवं फलं तथा ।
स्थूलसूक्ष्माकृतिश्चैव जीवोद्भादि विशेषतः ॥ १६२७ ॥
एतद्भेदं समासेन सङ्क्षेपाः शृणु षण्मुख ।
शिवतत्वे परे सूक्ष्मे बिन्दुरूपं सुजायते ॥ १६२८ ॥
बिन्दोन्नादसमुत्पन्न नादशक्तिरजायत ।
शक्तेस्तु जायते शब्दं शब्दो जातस्तु चोद्भवम् ॥ १६२९ ॥
वाग्भवे तु कलाजातं कलाभ्यो विकलास्तथा ।
तस्य वाचक मन्त्राश्च मन्त्रास्ते नैव भिद्यते ॥ १६३० ॥
एते सृष्टिक्रमं प्रोक्तं तेषां लक्षणमुच्यते ।
सृष्टिकर्मम्-
बिन्दुरूपं पराशक्ति नादं स्यादतिरिच्यते ।
शक्तिरिच्छाहुतिर्ज्ञेया शब्दज्ञानमिहोच्यते ॥ १६३२ ॥
वाक् भवं स्यात्क्रियाशक्ति कला चैव षोडशस्वराः ।
तेषां रूपं तथा प्रोक्ता प्रकृतिं विकृतिं तथा ॥ १६३३ ॥
प्रकृतिं सप्तवर्णानि विकृतिन्तु नवार्णकम् ।
अकारं च हकारं च उकारं च षकारकम् ॥ १६३४ ॥
उकारं चैव ऊकारं षकारं स्यात् ष्ट्रकारकम् ।
ऌकारं चैव ॡकारम् एकारम् ऐकार सम्भवम् ॥ १६३५ ॥
ओकारौ कारौ तथा ज्ञेयौ क्रमेणैव समुद्भवा ।
एते वै प्रकृती प्रोक्ता अकारादीनि वर्णकम् ॥ १६३६ ॥
अकारादीनि वर्णान्ता एते वै षोडशस्वरा ।
कलामात्रा स्वरा जीवा प्रकृतिं विकृतिस्तथा ॥ १६३७ ॥
प्राणात्मानं च देहं च तथा पर्यायवाचका ।
कला भेदमिदं प्रोक्तं विकला भेदमथ शृणु ॥ १६३८ ॥
अकारादि क्षकारान्ता वर्णान्ताश्च विकला स्मृताः ।
अकारादीनि पञ्चार्णामकारे तु समुद्भवा ॥ १६३९ ॥
चवर्गेण तु पञ्चार्णामिकारे तु समुद्भवा ।
उकारे तु समुत्पन्नं दकारादीनि पञ्चकम् ॥ १६४० ॥
तकारादीनि पञ्चार्णं मकारे तु समुद्भवम् ।
पकारादीनि पञ्चार्णा ककारे तु समुद्भवा ॥ १६४१ ॥
ओङ्कारे तु समुत्पन्नं यकारादीनि शास्त्रतः ।
एते वै पञ्चपञ्चाशत्पञ्च पञ्चाक्षराः स्मृताः ॥ १६४२ ॥
प्। ११५)
पुंलिङ्गम्-
देहोपाधि शरीरं च क्षेत्राधारे तनुस्तथा ।
व्यञ्जनं विकलाशक्ति बिन्दुपर्याय वाचका ॥ १६४३ ॥
कला च विकलानां तु त्रयोपक्षाणि वक्ष्यते ।
शिवाग्नि भूतरुद्रं च त्रयोदश तिथिस्तथा ॥ १६४४ ॥
एते वै रसवर्णानि पुंलिङ्गं चैव कीर्तिताः ।
एक्षवेद रसो भानु मनुबीजादि कारकम् ॥ १६४५ ॥
एते वै षट्सु बीजानि स्त्रीलिङ्गं चैव चोच्यते ।
ऋ ॠ ऌ ॡ चत्वारि नपुंसकमिति स्मृतम् ॥ १६४६ ॥
ककारं च गकारं च चकारं च जकारकम् ।
टकारं च डकारं च णकारं च दकारकम् ॥ १६४७ ॥
पकारं च मकारं च यकारं च षकारकम् ।
एते द्वादशवर्णानां पुल्लिङ्गं चेति कीर्तितम् ॥ १६४८ ॥
खकारं च घकारं च छकारं च झकारकम् ।
टकारं च डकारं च णकारं च दकारकम् ॥ १६४९ ॥
पकारं च मकारं च * * * * * * * * ।
ठकारं च ढकारं च थकारं च घकारकम् ॥ १६५० ॥
एते वै भानुबीजांश्च स्त्रीलिङ्गानि विनिर्द्दिशेत् ।
शेषं नपुंसकं विद्यात् त्रयोभेदमिति स्मृतम् ॥ १६५१ ॥
अकारादि स्त्रयो व्योम ईकारादि त्रयोऽनिलम् ।
दकारादीनि वर्णानि तेजोबीजानि निर्द्दिशेत् ॥ १६५२ ॥
एकारादि त्रयोप्यायाम् औकारादि त्रयो महि ।
प्रकृति स्तुतिबीजं स्यात् विकृतिर्मूर्तिरुच्यते ॥ १६५३ ॥
प्रभावं विकलाः प्रोक्ताः इत्येते त्रिविधा भवेत् ।
प्रकृतिर्भास्वमित्युक्तं विकृतिर्मूर्तिरुच्यते ॥ १६५४ ॥
अकारमेकं मात्रं तु ऐकारं तु द्विमात्रकम् ।
ओकारमेकमात्रं तु औकारं तु द्विमात्रकम् ॥ १६५५ ॥
अनुस्वार विसर्गं च एकमात्र समन्वितम् ।
अकारादि नकारान्तं लकारं च लकारकम् ॥ १६५६ ॥
पृथिव्यां शानिति ज्ञेया चकारादीनि पञ्चकम् ।
वकारं च सकारं च जलांशकमिति स्मृतम् ॥ १६५७ ॥
णकारादि नकारान्तं तकारादि प्रयार्णकम् ।
अकारं सर्वदेवत्यं रक्तं सर्ववशीकरम् ॥ १६५८ ॥
प्। ११६)
आकारस्यापरा शक्तिः श्वेतमाकर्षणं भवेत् ।
लकारं विष्णुदेवत्यं श्यामं रक्षकरं भवेत् ॥ १६५९ ॥
मया शक्तीनि रीकारं पीतं स्त्रीणां वशीकरम् ।
उकारं वसुदेवत्यं कृष्णं राजवशीकरम् ॥ १६६० ॥
उकारं भूमि देवी च श्यामं लोकवशीकरम् ।
ऋकारं ब्रह्मणोज्ञेयं पीतमुग्री विनाशनम् ॥ १६६१ ॥
श्रीकण्ठरूपं * कारं मञ्चरज्वरनाशनम् ।
अश्विनीभ्यां तु ऌ ॡ च सितरक्त ज्वरापहम् ॥ १६६२ ॥
एकारं वीरभद्रं स्यात् पीतं सर्वार्थसिद्धिदम् ।
ऐकारम् आदि शक्तिस्यात् स्फटिकं जाह्नवीधरम् ॥ १६६३ ॥
ओङ्कारम् ईश्वरं विद्यात् ज्योतिस्सर्व फलप्रदम् ।
औकारम् आदिशक्तिस्स्यात् शुक्लाहं सर्वसिद्धिदम् ॥ १६६४ ॥
अङ्कारं तु महेशं स्याद्रक्तस्सर्वसुखप्रदम् ।
अःकारं कालरुद्रश्च मुक्तः कालनिकृन्तनम् ॥ १६६५ ॥
प्राजापत्यं ककारस्स्यात् पीतं दृष्टिकरं भवेत् ।
खकारं जाह्नवी ज्ञेयं क्षुराभं पापनाशनम् ॥ १६६६ ॥
गकारं गणरूपं स्यात् रक्ताभं विघ्ननाशनम् ।
धकारं भैरवी ज्ञेया रक्तदं जयावहम् ॥ १६६७ ॥
दकारं कालविज्ञेया कालं सर्वजयावहम् ।
चकारं चण्डरूपं स्यादज्ञानं रिपुनाशनम् ॥ १६६८ ॥
छकारं भद्रकं काली स्याद्राजायार्त जयप्रदम् ।
जकारे जम्भला ज्ञेया रक्ताभं तु जयावहम् ॥ १६६९ ॥
झकारम् अर्धनारीस्स्यात् पीतरक्तं जयावहम् ।
ज्ञकारं कोटरी ज्ञेया पीतं रोगविनाशनम् ॥ १६७० ॥
भृङ्गीशं स्यादृकारं तु रक्तं सर्वसुखावहम् ।
ठकारं चन्द्ररूपं स्यात्सितं मृत्युविनाशनम् ॥ १६७१ ॥
डकारं चेकनेत्रं स्यात् पीतं कालाजयापहम् ।
ढकारं यमबीजं स्यान्नीलं मृत्युजयावहम् ॥ १६७२ ॥
णकारे नन्दबीजं स्याद्रक्ताभं चार्थसिद्धिदम् ।
तकारं वसुदेवत्यं श्वेतं सर्वजया भवेत् ॥ १६७३ ॥
थकाराथर्वणो ज्ञेयो कुन्दाभं स्याज्जयप्रदम् ।
दुर्गाबीजं दकार स्यात् श्यामम् सर्वार्थसिद्धिदम् ॥ १६७४ ॥
धकारं धनदं विद्यात् पीताभं चार्थ सिद्धिदम् ।
११७)
स्वयम्भु दैविकं चैव देव्या आकर्षमानुषम् ।
राक्षसा बाणलिङ्ग सप्तधा लिङ्गमुच्यते ॥ १६७६ ॥
पताका झर्झराकारा रुद्रक्षा कृतिरेव च ।
आज्यं वा मधुगन्धं वा पाताला पर्वता कृतिः ॥ १६७७ ॥
एतेषां लक्षणं प्रोक्तं लिङ्गं स्वयम्भुरुच्यते ।
दीर्घाकारं शिरोभिन्नं निम्नोन्नतसमप्रभम् ॥ १६७८ ॥
रेखाकोटरसंयुक्तं मुखे धारा यवोन्नतम् ।
कराभ्यां सम्पुटाकारं ब्रह्मसूत्रविवर्जितम् ॥ १६७९ ॥
एतेषां लक्षणं प्रोक्तं लिङ्गं दैविकमुच्यते ।
कूश्माण्डस्य फलाकारं मातुलुङ्गफलाकृतिः ॥ १६८० ॥
उर्वारुक फलाकारं कपित्थस्य फलाकृतिः ।
तालं फलवताकारं गाणवं लिङ्गमुच्यते ॥ १६८१ ॥
स्थूलं मूललिङ्गं यवमध्यम वै पिपीलिकाम् ।
मध्यमं लिङ्गं तु शिरस्थूलमार्षमुदित चतुर्भेदम् ॥ १६८२ ॥
द्वारं वा गर्भमानं वा लिङ्गमानमथापि वा ।
शिल्प शास्त्रोक्तमानं वा हस्तमानमथापि वा ॥ १६८३ ॥
शिल्पिशास्त्रोक्तमानं वा छत्राकारं शिरोदयम् ।
निजविपुलेष्टांशघ्नमूले तदा तदग्रे च ॥ १६८४ ॥
विष्णुद्भागेन सम्यग् चतुरश्रा वार्षगे लिङ्गके ।
माणिकं पद्मरागं च वैडूर्यं पुष्यरागकम् ॥ १६८५ ॥
नीलं वज्रं प्रवालं च स्फटिकं मरकतं तथा ।
नवरत्ना इति ख्याता एहि सङ्कल्प लिङ्गकैः ॥ १६८६ ॥
माणिकं कीर्तिदं विद्यात् श्रीप्रदं पद्मरागकम् ।
आयुः पदञ्च वैडूर्यं जयदं पुष्यरागकम् ॥ १६८७ ॥
पुष्टार्थमिन्द्रनीलं स्यात् वश्यं स्यात्तु प्रवालकम् ।
स्फटिकं पुत्रवृद्धिंस्या सर्वं मरकतप्रदम् ॥ १६८८ ॥
इह लोके पिलास्वेहे देहान्मुक्तिमवाप्नुयात् ।
पक्वजं सूफलाकारं लिङ्गं पीठं सुवर्णकम् ॥ १६८९ ॥
लिङ्गाधिक्ये भवेन्मृत्युः योन्याधिक्ये धनक्षयम् ।
लिङ्गयोनिसमं कुर्यात्सर्वसम्पत्सुखावहम् ॥ १६९० ॥
प्। ११८)
वर्ज्यमर्कशरूक्षणित कृशस्थूलादि दीर्घा-
कृतिश्वेतं चेत्कपिलङ्क्षतं च विविधं चन्द्रा- ॥ १६९१ ॥
न्वितं च स्फुटम् । रेखाबिन्दु कलङ्गयुक्त-
मधिकं शक्त्या च लिङ्गेन वा शूलाग्रस्फटितं- ॥ १६९२ ॥
नरेण गृहिणा सर्वम् ममक्षो शुभम् ।
दिनमुद्दिश्य यागायोग्यानि चान्यानि- ॥ १६९३ ॥
बहिर्घनानि सर्वाणि दण्डानि च तत्क्रियान्तम् ।
अन्तस्साराणि दारि रूपं पुमान् विदुः ॥ १६९४ ॥
बहिस्साराणि सर्वाणि नारिरूपमिहोच्यते ।
यागान्ते वर्जयेन्नारी तल्लयान्तं पुमान् विदुः ॥ १६९५ ॥
एवं दण्डक्रमं कुर्याद्विशेषं किञ्चिदस्तिभिः ।
उत्शब्दम् उगतं विद्यात्स्वयं मघमिति स्मृतम् ॥ १६९६ ॥
उद्गतं तु स्वयं यस्स्यात् तस्मादुत्सवमुच्यते ।
पूज्यते सर्वगात्राय जायते ज्ञानमात्मनि ॥ १६९७ ॥
पुराणाज्जायते यस्मात् तस्मात् पूजेति कथ्यते ।
शङ्खं चन्द्राधिदैवत्यं कुक्षिं गङ्गाधि दैवता ॥ १६९८ ॥
पृष्टे प्रजापतिश्चैव अग्रे ब्रह्माधिदैवता ।
दिनस्य गणसुप्रियम् । सर्वदेवान् सगच्छद्विः ॥ १६९९ ॥
ध्वजमारोपयेद्बुधः । अन्तस्थ सारा।इ
तृतीयोक्तं वाममस्त्रमिति स्मृतम्
काषादि विद्यान्तकं घोरं बिम्बं तत्पुरुषं तथा ॥ १७०१ ॥
भूम्यादि नादपर्यन्तमीशानादि कथ्यते ।
काष्टादि वरधूशक्ति तत्वतत्वान्तर स्थितम् ॥ १७०२ ॥
अत्रिर्वसिष्ट भृङ्गिं च गौतमं काश्यपं तथा ।
ब्रह्मा विष्णुश्च रुद्रश्च ईशस्सादाख्यमेव च ॥ १७०३ ॥
ईशानादिक्रमेणैव प्रोक्तं पङ्कजलोचने ।
ऋषिच्छन्दस्य देवस्य क्रमाद्विद्युक्तवर्त्मना ॥ १७०४ ॥
देवानां स्वपदस्थाने दत्वाचम्य विचक्षणः ।
द्रव्यं निरीक्षमात्रेण तन्मन्त्रेण स्मरेत्क्रमात् ॥ १७०५ ॥
प्। ११९)
तद्रव्यं रक्षयेत्कृत्वा पात्राणामधि दैवताः ।
दीप्ततन्त्रे-
आसनम्मूर्तिमावाह्य एतत्रितयमूर्धनि ॥ १७०६ ॥
व्याप्ति व्यापक भावेन ज्ञात्वा यजनमारभेत् ।
आसीनं शुद्धं विद्यान्तं मूर्तिशक्त्यन्त गोचरे ॥ १७०७ ॥
आवाह्य शिवो मूर्तिः * * मानु परियन्ततः ।
सुप्रभेदे-
द्विनेत्रं द्विभुजं चण्डकरण्डमकुटं तु वा ॥ १७०८ ॥
किरीटमकुटो वापि केशबन्धयुतोऽपि वा ।
सर्वाभरणसंयुक्ता पादज्वल समन्विता ॥ १७०९ ॥
दुकूलपददेवाङ्गैः चित्रवस्त्रैश्च वेष्टिता ।
सर्वावयव सम्पूर्णा सर्वलक्षण संयुता ॥ १७१० ॥
दक्षिणे कटकं वापि वामहस्तं प्रलम्बितम् ।
वामं तु कटकं वापि दक्षहस्तं प्रलम्बितम् ॥ १७११ ॥
नी भङ्गस्य वशात्तत्र लं भयेत्सूत्रमादरात् ।
गौर्याकृति रूपं तु भवान्याकृतिरुच्यते ॥ १७१२ ॥
द्विनेत्रा द्विभुजा श्यामा पीनोन्नत पयोधरा ।
श्यामा च पीनगण्डा च पीनोर।क्ष दलेक्षणा ॥ १७१३ ॥
करविन्यासमस्याश्च कारयेत्पूर्ववत्पुनः ।
भवान्याकृतिराख्यातं गौरीरूपं तु पूर्ववत् ॥ १७१४ ॥
मन्त्रादौ सूतकं प्रोक्तं मन्त्रान्ते प्रेतकं भवेत् ।
प्रेतकं पितृ तृप्तस्स्यात् सूतकं राक्षसं भवेत् ॥ १७१५ ॥
मध्यमं मृत्युनाशं स्यात्रिकालं शैव वर्जयेत् ।
दान्तं पयः पक्वफलं पवित्रं तिलं च पुष्पान्न- ॥ १७१६ ॥
सदुपजालम् ॥
करवीरम् अहोरात्रं पङ्कजं तु षण्मासयोः ॥ १७१७ ॥
द्विषाण्मासं च तुलसी बिल्वपत्रं प्रपूजयेत् ।
पुष्पजातिषु सर्वेषु करवीरं विशेषतः ॥ १७१८ ॥
पत्रेण क्षालनं प्रोक्तं पुष्पेण प्रोक्षणं तथा ।
इक्षुदण्डफलं मूलं क्षालनं छेदनं तथा ॥ १७१९ ॥
शैवोद्भवं तुलिङ्गानां कुण्डगोलमिति स्मृतम् ।
आदि शैवो शिवो रुद्र शुद्धशैव शिवात्मकम् ॥ १७२० ॥
तस्माच्छैवं प्रकर्तव्यं प्रतिष्टा चोत्सवान्तकम् ।
आदि शैवेन कर्तव्यम् आत्मार्थं च परात्मकम् ॥ १७२१ ॥
प्। १२०)
आदिशैव इति प्रोक्तं स शिवः ब्राह्मणो गुरुः ।
जन्माशौचं मृताशौचं पूजाकाले मृतं यथा ॥ १७२२ ॥
आशौचं नाचरेत्तत्र पूजाशेषं समाचरेत् ।
ब्रह्मचारी गृहस्थानां यतीनां देशिकस्तथा ॥ १७२३ ॥
आशौचं तु न कर्तव्यं पद्मपत्रमिवाम्भसा ।
सूतके मृतके चैव क्रियालोपं न कारयेत् ॥ १७२४ ॥
जलबुद्बुधवज्जीवः तस्माल्लिङ्गं समर्चयेत् ।
लिङ्गार्चनरता नारी प्रसूतेन रजस्वला ॥ १७२५ ॥
रविरग्निरथा वायु कोटि कोटि गुणश्शुचिम् ।
शिवद्विजदशाहन्तु द्विजानां तु तथैव च ॥ १७२६ ॥
द्वादशाहं नृपस्यैव वैश्यः पञ्चदशा भवेत् ।
मासमेकं भवेच्छूद्रो चातुर्वर्णस्समासतः ॥ १७२७ ॥
दीक्षोत्सव प्रतिष्टा च कुर्वन्यस्तु शिवद्विजः ।
अन्तराले शृतं चेत्सदाशौचे मृतं जन्मजौ च ॥ १७२८ ॥
स पुत्रशिष्यमाहूय तत्क्रियां तत् समारभेत् ।
लिङ्गं वा कौतुकं वापि नित्य पूजा शिवद्विजः ॥ १७२९ ॥
सूतकं प्रेतकाद्यं तु एकाहेन तु शुध्यति ।
दशाहे शुद्धिर्विप्राणां द्वादशाहे नृपस्य तु ॥ १७३० ॥
वैश्य पक्षे तथा शुद्धि शूद्रश्च मासमाचरेत् ।
यागादि सर्वकार्येषु यागार्थं च व्रतं चरेत् ॥ १७३१ ॥
द्वयाशौचं न कर्तव्यं पद्मपत्रमिवाम्भसा ।
द्विजानां दीक्षितानां च यतीनां ब्रह्मचारिणाम् ॥ १७३२ ॥
आशौचं भवेत्किं च स्नान मात्रेण शुध्यति ।
विद्यापुराणे-
मातामहिपितामह्यो मातुलाग्रकयोर्मृतौ ॥ १७३३ ॥
स्वगुरोराचार्ययोरेषां मातानां च पितृष्वसुः ।
मातृष्वसु भगिन्याश्च गर्भवानपि स्नापयेत् ॥ १७३४ ॥
स्मृतिवचने-
याम्नौ द्वादशदण्डान्तौ भृत्या * * मृतं यदि ।
परित्यज्य शिवं कुर्यात् नित्यनैमित्तिकाचरेत् ॥ १७३५ ॥
महामुखे-
जीवश्शिवश्शिवो जीवः जीवः शिवेन उच्यते ।
पशुपाश शब्दतो जीवं पाशमुक्तः परश्शिवः ॥ १७३६ ॥
चतुष्पादं वेदरूपं तु अग्निरूपं तु शृङ्गकम् ।
आदित्यश्च प गोपालखगं रुद्रं तथैव च ॥ १७३७ ॥
प्। १२१)
ब्रह्माविष्णुश्च रुद्रश्च वृषरूपं वृषमुच्यते ।
प्राप्ते कलियुगे घोरे नष्टे दग्धे च वा पुनः ॥ १७३८ ॥
वृषरूपेण शम्मित्वा शृतिश्चानन वाहनम् ।
आघ्रारविन्दन्तु वेदश्वानश्शनैश्शनैः ॥ १७३९ ॥
यत्पादानि महन्तव्यं तं वन्दे परमेश्वरम् ।
शुभं च अशुभं चाव अशुभं शुभवाहनम् ॥ १७४० ॥
ऋग्यजुस्साम वेदाश्च अङ्गप्रत्यङ्गमेव च ।
चन्द्रार्कवच्छिन्नौ चैव सर्वदेवाश्च मेव च ॥ १७४१ ॥
तस्मात्तद्वाहनं चैव श्वान वाहन मुच्यते ।
कामिके-
त्रयोदशीममावास्यायां माघमासे चतुर्दशी ॥ १७४२ ॥
चतुर्दश्याधिकारात्री शिवरात्रिस्तु पूजयेत् ।
चतुर्दशी शिवां प्रोक्ता अमावास्या स्वयं शिवः ॥ १७४३ ॥
एतयोस्सङ्गमं कुर्याच्छिव रात्रिप्रदं बुधः ।
जपेन देवता नित्यं पूर्यमानं प्रसीदति ॥ १७४४ ॥
प्रसन्नाभि विधानाभौ इत्यामुक्तं च शाश्वतम् ।
यक्षराक्षस पैशाच ग्रहस्सर्पादि भीषणा ॥ १७४५ ॥
जापितेऽन्तौष सर्वस्मिन् भयभीत समन्वितम् ।
वक्ष्यामि शिवरात्रिं स्यात्पूजयेन्मुनि सत्तम ॥ १७४६ ॥
कृतत्रेधा युगे चैव द्वापरौ च कलौ युगे ।
युगे युगे तु सम्पूज्य त्रेतायां तु गुहं यजेत् ॥ १७४७ ॥
त्रेतायामपि विघ्नेशं च परेत्यच्युतं यजेत् ।
ब्रह्मेन्द्रे ऋषिभिश्चैव कलियुगे तु समर्चयेत् ॥ १७४८ ॥
माघे कृष्ण चतुर्द्दश्यां पूर्वाषाढे तु पञ्चमी ।
तुरगे सप्तमी चैव कृष्णाष्टम्यां तु कृत्तिका ॥ १७४९ ॥
आर्द्रमासे तु द्वादश्यां पुष्यमासे तथाष्टमी ।
एवं संवत्सरे पूज्य शिवरात्रिमुपासने ॥ १७५० ॥
माघमासे चतुर्द्दश्यां सत्फलं शिवरात्रिकम् ।
एकमासे द्विपक्षे तु रात्रावधिकपक्षकम् ॥ १७५१ ॥
तद्रात्रौ शिवपूजान्तं तत्फलं हन मे निशि ।
पक्षकं सममेकं स्यात् पूर्वरात्रौ शिवं यजेत् ॥ १७५२ ॥
पुमां * * व पक्षे तु राजा राष्ट्रं विनश्यति ।
पूर्वरात्रे च कर्तव्यम् अन्यरात्रौ न कारयेत् ॥ १७५३ ॥
प्। १२२)
तस्मात्सर्वप्रयत्नेन पूर्वरात्रौ विशेषतः ।
रात्राधिके तु पक्षे तु शिवपूजाविधाय च ॥ १७५४ ॥
तद्रात्रिः शिवपूजास्स्यात् देव सान्निध्यमेव च ।
शर्वरी पक्षहीने तु सर्वदोषकरं तथा ॥ १७५५ ॥
तस्मात्सर्वप्रयत्नेन सर्वमास क्रमेण तु ।
नित्य सन्ध्यावसाने तु शिवरात्रिं समाचरेत् ॥ १७५६ ॥
यामं प्रति विशेषेण शिवपूजां विशेषतः ।
नवाहेऽथ सप्ताहे पञ्चाहे वाङ्कुरार्पणम् ॥ १७५७ ॥
अङ्कुराण्यर्पयेत् पश्चात् पूर्वोक्त विधिना सह ।
तद्दिनस्य तु पूर्वे तु मण्डपं शोधयेत्ततः ॥ १७५८ ॥
पञ्चगव्येन सम्पूज्य कौतुकं बन्धयेत्ततः ।
बिल्वपत्रं तु सम्पूज्य सर्वगन्धं समाश्रितम् ॥ १७५९ ॥
वस्त्रेण वेष्टयेद्धीमान् बिल्वं चैवाधिवासनम् ।
प्रभाते विमले धीमान् देशिकः स्नानमाचरेत् ॥ १७६० ॥
पूर्वाह्ने तर्पणं चैव मध्याह्ने तु प्रदक्षिणम् ।
सायाह्ने पूजनं दृष्ट्वा जनानां तु व्रतं यजेत् ॥ १७६१ ॥
ब्रह्म क्षत्रियशूद्रास्तु उपवासं प्रकल्पयेत् ।
द्विजानां शिव भक्तानां सर्वप्राणी तथैव च ॥ १७६२ ॥
सर्वप्राणी तु नारीणाम् उपवासं तथैव च ।
निद्राहीनः समाख्यातं सर्वकार्याणि साधयेत् ॥ १७६३ ॥
आयुष्करं च सिद्धिं च सर्वमोक्षस्तथैव च ।
अमङ्गल्योपवासानां पुंसां जन्म तु मङ्गलम् ॥ १७६४ ॥
अपत्नीकश्च यत्नेन उपवासमनिद्रकम् ।
ऋग्यजुस्सामवेदानां चतुस्सन्धि प्रपूजयेत् ॥ १७६५ ॥
ब्रह्मेन्द्र ऋषिहीनां तु देशिको भावयेत्ततः ।
विघ्नेशं पूजयेत्पूर्वं सौरपूजाम् अतः परम् ॥ १७६६ ॥
शालिभिस्तण्डुलं कृत्वा पुण्याहं वाचयेत्ततः ।
पूर्वं तु पञ्चगव्यं स्यात् द्वये पञ्चामृतं भवेत् ॥ १७६७ ॥
तृतीये मधुनास्नानम् इक्षुसारं चतुर्थकम् ।
यामं प्रति विशेषेण पूजयेद्देशिकोत्तमः ॥ १७६८ ॥
पूर्वे तु स्नपनं प्रोक्तम् अष्टोत्तरशतं भवेत् ।
द्वितीये स्नपनं चैव पञ्चविंशति सङ्ख्यया न्यूनमेकम् ॥ १७६९ ॥
तृतीये स्नपनं चैव नवकुम्भान् प्रपूरयेत् ।
यामं प्रतिविशेषेण स्नपनं कारयेद्वधः ॥ १७७० ॥
प्। १२३)
पूर्वयामं तु सम्पूज्य बिल्वपत्रं समर्चयेत् ।
द्वितीये पद्मपुष्पं च तृतीये जातिपुष्पकम् ॥ १७७१ ॥
नन्द्यावर्तन्तु सम्पूज्य चतुर्यामे तु पूजयेत् ।
चतुस्सन्ध्यार्चनं कुर्याद्बिल्वपत्रं महत्फलम् ॥ १७७२ ॥
मुद्गान्नं प्रथमं चैव द्वितीयं पायसान्नकम् ।
तृतीयं कृसरान्नं स्यात् शुद्धान्नं तु चतुर्थकम् ॥ १७७३ ॥
यामं प्रतिविशेषेण क्षेत्रपालं समर्चयेत् ।
यामं प्रतिविशेषेण महापूजां समाचरेत् ॥ १७७४ ॥
देशिकः पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ।
ब्राह्मणान् पूजयेत्तत्र माहेश्वरान् सूपूजयेत् ॥ १७७५ ॥
पूजयेत्परिचाराणां वस्त्र हेमाङ्गुलीयकैः ।
श्रीकरं विजयं पुण्यम् आयुरारोग्यवर्धनम् ॥ १७७६ ॥
एवं विधिवत्सम्पूज्य शिवलोके महीयते ।
तच्चिष्टे शिवरात्रिः स्यात् माघमासे चतुर्द्दशी ॥ १७७७ ॥
माघात्फल्गुनयोर्मध्ये कृष्णपक्षे चतुर्द्दशी ।
पक्षकं सममेवं स्यात् पञ्चदुश्यां विधिं यजेत् ॥ १७७८ ॥
भास्करास्तमनात्पूर्वं चतुर्द्दीश युते यजेत् ।
चन्द्रक्षयेण कर्तव्यं चतुर्दश्यान्तमेव च ॥ १७७९ ॥
माघमासान्त संयुक्तं शिवरात्रिं सुपूजयेत् ।
सा तिथिः सकला ज्ञेया यस्यामस्तमितो रविः ॥ १७८० ॥
तन्नक्षत्रमहोरात्रं यस्यामभ्युदितो रविः ।
इति विजयाख्य महातन्त्रे शिवरात्रि विधिः ॥ १७८१ ॥
अमा चतुर्दशीमित्या रुद्रमिथ्या च सप्तमी ।
दशम्येकादशी मिश्रां हन्ति पुण्यं पुराकृतम् ॥ १७८२ ॥
चतुर्दश्यामधिकारात्रि सा शिवारात्रिरिष्यते ।
पूर्वात्रियोदशी रात्रौ याममेकं चतुर्दशी ॥ १७८३ ॥
इष्टा त्रयोदशी मिश्रा नेष्टामावास्यया युता ।
पोषणं तु चतुर्दश्यां पारणं तु चतुर्दशी ॥ १७८४ ॥
यस्यां त्रयोदशी पूर्णा याममेकं चतुर्दशी ।
सा रात्रिः भुक्तिमुक्ति प्रसाद दर्शयुक्तमथा भवेत् ॥ १७८५ ॥
त्रयोदशी भगाकारा लिङ्गाकारा चतुर्दशी ।
विधातव्यं गृहस्थेन दर्शयुक्तं तपस्विनी ॥ १७८६ ॥
प्। १२४)
शिवाशं चतुर्विंशदंशकृत लिङ्गतुङ्गमथो-
ब्रह्म भागे भवेत्तातुरंशम् । पुनर्मध्यमे विष्णु- ॥ १७८७ ॥
भागं वसुश्च नवांशं शिवांशं भजेद्वर्धमानम् ॥
धारालिङ्गे सर्वलिङ्गेऽन्तर्मूलेऽष्टाग्रङ्का ॥ १७८८ ॥
युगाग्रम् ॥ तस्मादूर्ध्वे जिद्विगुण्यं सुधारं-
धारालिङ्गे सद्राद्रौ सर्ववर्णेषु शस्तम् ॥ १७८९ ॥
अस्त्रेण हुं फडन्तेन पूर्णायामेकं त्रयोदशी ।
वद्घटिकैका चतुर्दशी करन्यासं समाचरेत् ॥ १७९० ॥
करन्यासं समस्तं कृत्वा सुषिरं देहं मध्यमे ।
ध्यात्वा जलन्तं हुङ्कारं प्राणं संयम्य निश्चयम् ॥ १७९१ ॥
हुङ्कारं तेन ते नैव रेचकेण समन्वितम् ।
ग्रन्थि ॥ १७९२ ॥
पञ्चग्रन्थिं ततः कृत्वा तस्मात्प्रकृति निश्चयम् ।
मुक्तिमन्त्रेण सङ्ग्राह्य जीवं हुङ्कारमूर्धनि ॥ १७९३ ॥
कुम्भकेन समोपेतं वायुमूर्ध्वं गतं नयेत् ।
ते नैव द्वारदान्तस्थे शिवेन सहयोजयेत् ॥ १७९४ ॥
आत्मयोजन मेतत्स्यात् ततो भूतानि शोधयेत् ।
पृथ्वि वातोपयो वह्नि द्वौ द्वौ शोध्यौ परस्परौ ॥ १७९५ ॥
आकाश्च विरोधेन यथा शोध्यं तथोच्यते ।
सूक्ष्मतन्त्रे-
निवृत्यादीनि भूतानि नान्यद्वानं समस्तकम् ॥ १७९६ ॥
व्याप्यवस्थितानि मत्वा तानि विशोधयेत् ।
दहनं वाथ भूतानां परस्पर विशोधनम् ॥ १७९७ ॥
मण्डलादि समाध्यक्षं भूतशुद्धिरिहोदिता ।
शोध्यापरागरहितं कलामात्र व्यवस्थितम् ॥ १७९८ ॥
विचिन्त्य दिव्यदेहार्थम् अमृत-प्लवनं नयेत् ।
ध्यात्वा कुण्डिलिनीं शक्तिम् अमृतैक स्वरूपिणीम् ॥ १७९९ ॥
तदुद्भूतामृतस्रावे सिक्तां देवकलां स्मरेत् ।
कृत्वा हृद्यासनं तस्मिन् मूर्त्यात्मानं समानयेत् ॥ १८०० ॥
पुनराप्यायनं कृत्वा करन्यासं समाचरेत् ।
मूलां दशांशतोङ्गानां जपकार्योत्रयी मतः ॥ १८०१ ॥
अङ्गुष्टेन विना कर्म कृतं तत्फलदं यदा ।
शिरसाधारणं कोटि कर्णं च दशकोटितम् ॥ १८०२ ॥
प्। १२५)
शतकोटिगले बद्धं सहस्रमासबन्धनम् ।
पार्वती वयसो हुत्वा ज्ञानलब्धेन गानवान् ॥ १८०३ ॥
ज्ञानसम्बन्धमानं स्यादुत्तमम् अष्टतालकम् ।
मुहुर्मुहुः कुञ्चित पादयुक्तं चोर्द्दण्डितं वाम- ॥ १८०४ ॥
करञ्च वामम् । विवर्तितं यत्करणं विधिज्ञैः
नियोजयेत्तन्नवनीतवृत्ते । (सूक्ष्मे) ॥ १८०५ ॥
नानाविधं तथाख्यातम् अन्तर्बाह्य विशेषतः ।
लिङ्गप्रासादयोर्मध्ये श्रेष्ठं श्रेष्ठं प्रकीर्तितम् ॥ १८०६ ॥
गर्भे प्रदक्षिणं कृत्वा न तु शक्यं बहुदोषकम् ।
गर्भे गेहे भवेल्लिङ्गच्छाया निर्माल्य सङ्करम् ॥ १८०७ ॥
सोमसूत्रं च मूलञ्च देवसामीप्यमेव च ।
परिहृत्य तु तत्सर्वं यदि सर्व फलावहम् ॥ १८०८ ॥
अन्तर्मण्डलदेशेऽपि सोमसूत्रं च विद्यते ।
प्रासादस्य प्रमाणं वा प्रासाद सममेव वा ॥ १८०९ ॥
निर्माल्य सङ्करेपि स्याद्धामच्छाया च विद्यते ।
परिहृत्य तत्तत्सर्वं प्रदक्षिणमथाचरेत् ॥ १८१० ॥
सव्यापसव्यमार्गेण मुदगत्या समाचरेत् ।
सव्यापसव्यमार्गेण कर्तव्यं वा प्रदक्षिणम् ॥ १८११ ॥
सव्य चण्डेश प्रदेशं स्यादपरं सोमसूत्रकम् ।
सव्यापसव्यमार्गेण कर्तव्यं वा प्रदक्षिणम् ॥ १८१२ ॥
सव्यचण्ड प्रदेशं स्यादपरं सोमसूत्रकम् ।
सव्यापसव्यमार्गेण मृदुगत्या समाचरेत् ॥ १८१३ ॥
सव्यापसव्यमेवं स्यात् अन्तर्नित्योत्सवाय च ।
अङ्गप्रदक्षिणं चान्यदुदयास्तमनन्तकम् ॥ १८१४ ॥
अनयोः पुण्यमाभात्यन्न शक्यं बहुदोषतः ।
क्षेत्रमाहात्म्य तद्वेद देवानां तत् फलं भवेत् ॥ १८१५ ॥
धाम?स्वविस्तार समानसूत्रं सोमस्य सोमे-
दिशि संस्थितस्स्यात् । सूत्राद्बहिर्लङ्घन- ॥ १८१६ ॥
यान्तं न दोषं स दोष मत्यन्तरलङ्घनीयम् ।
शिवस्य मन्दिरच्छाया पादो ग्रामो नयेन्नरः ॥ १८१७ ॥
सदारस्य स पुत्रस्य नरकीस्स्यान्न संशयः ।
लिङ्गच्छायां तु लिङ्गं च प्रासादं यस्तु छायया ॥ १८१८ ॥
प्। १२६)
बलिपीठमिदं प्रोक्तं पञ्चलिङ्गमिहोच्यते ।
स्त्रीणां चैव नराणां च शिव भक्तास्वमानतः ॥ १८१९ ॥
तत्तत्स्वनाम मन्त्रेण प्रणवादि नमोऽन्तकम् ।
शिवमन्त्रं न दादौ तु स्वनामं मध्यमे न्यसेत् ॥ १८२० ॥
शिवशब्दं तृतीयं तु भक्ताना मन्त्रमुच्चरन् ।
शान्तिकं प्रातः काले तु सायं काले तु पौष्टिकम् ॥ १८२१ ॥
काम्यमान्ध्यन्दिने कुर्याधामच्छायां न लङ्घयेत् ।
प्रदक्षिणं स्वमार्गेण कुर्यात्काम्य प्रदक्षिणे ॥ १८२२ ॥
षण्मासात्सिद्धिदं विप्र शान्तिकेन महत्फलम् ।
पौष्टिकं चाष्टमासे तु फलदं परिकीर्तितम् ॥ १८२३ ॥
संवत्सरमुपासित्वा काम्यं सर्वार्थसिद्धिदम् ।
शेषं तु गणाधिमध्ये मेषादिकन्यान्तवधा- ।
क्रमेण । विंशत्यष्टाधिकं मन्त्रं मालामन्त्र इति स्मृताः ॥ १८२५ ॥
सिद्धंवार्धक्ये सिद्धिदा मन्त्रमाला मन्त्रास्तु यौवने ।
पञ्चाक्षराधिका बाल्ये सिद्धिदा सर्वदापरे ॥ १८२६ ॥
स्त्री * * * * * न्त्रा वह्निजान्ता नमोऽन्ता च- ।
नपुंसका । शेषाः पुमांस इत्युक्ताः स्त्रीविधा- ॥ १८२७ ॥
मन्त्र जातयः । साध्यम् । जपादिषु प्रसिध्यर्थास्त्रध्य-
र्च्चा जाततर्पणे । सुसिद्धा पाठमन्त्रेण साधकारि- ॥ १८२८ ॥
ष्टते रिपुः । प्रत्युरश्शत्रिवर्णैस्तु मन्त्रानाशकरा-
स्मृतिः । सुसिद्धम् । जपार्चादि क्रियास्सिद्धं मन्त्रो- ॥ १८२९ ॥
यं साधकोत्तमः । तस्यार्धसाधनास्सर्वे मन्त्राः
सर्वत्र सिद्धिदः । एकार्णसिद्धितो मन्त्रो जपलक्षं- ॥ १८३० ॥
जपादिकम् । वर्णाधिक्यं जपं त्राक्षं कर्तव्यो-
युक्तितः क्रमात् । एवं बीजं जपं कुर्यातद्वद्विगुण- ॥ १८३१ ॥
सङ्ख्यया । स्वाहा नमो विशेषान्ता स्त्री क्लीव पुरुषाः
स्मृतः । वश्योच्चाटन विद्वेषा पुमांसा क्षुद्रकर्मणि ॥ १८३२ ॥
रोगापहारेवतीता क्लीबाश्चान्यत्र कर्णिका ।
गृहे जपं समं विद्यात् कोष्टे शतगुण भवेत् ॥ १८३३ ॥
पुण्यारण्ये तथारामे सहस्रं गुणमुच्यते ।
अयुतं पर्वते पुण्यं नद्यालक्षमुदाहृतम् ॥ १८३४ ॥
प्। १२७)
कोटिदेवालये प्रोक्तम् अनन्तं मम सन्निधौ ।
सूर्यस्याग्रे गुरोमिन्द्रो दीपस्य च जलस्य च ॥ १८३५ ॥
विप्राणां च गवाञ्चैव सन्निधौ तस्य तेजसा ।
तत् पूर्वाभिमुखं वन्द्यं दक्षिणं चाष्टचारकम् ॥ १८३६ ॥
पश्चिमं धनयं विद्यादुत्तरं शान्तिकं भवेत् ।
उष्णीषणी कञ्चुलिकी मुक्तकेशगलावृता ॥ १८३७ ॥
अपवित्र करो शुद्धो विलेपन्न जपेत्क्वचित् ।
क्षाभं मर्दं क्षुधन्ती च निष्ट वनप्रजम भीषणम् ॥ १८३८ ॥
दर्शनं च शरीराणां वर्जयेज्जपकर्मणि ।
अचमे सम्भवेत्तेषां स्मरेद्विममान्वित ॥ १८३९ ॥
अङ्गुष्टेन तु मोक्षार्थी तर्जनीमभिचारके ।
पुष्टये मध्यमे न्यस्य शान्तिकर्मण्यनामिके ॥ १८४० ॥
कनिष्टाकर्षणं प्रोक्तम् अनामिका वापि सर्वतः ।
क्रूरकर्माणि सर्वाणि वृष्टिकाले प्रयोजयेत् ॥ १८४१ ॥
ग्रीष्मे विद्वेषणं कुर्यात् प्रावृड्युच्चारणं भवेत् ।
शैशिरो मारणं कुर्यात् तथा कन्याभिवसन्तके ॥ १८४२ ॥
जपांशुमुच्चार्य तेज पैशाचिकं होमकर्मणि ।
मैसा मन्त्रजप्ते तु सर्वमन्त्रमुदाहृतम् ॥ १८४३ ॥
जपं चतुर्विधं प्रोक्तं सर्वेषां जपकाङ्क्षिणाम् ।
मानसं चैव कर्णोष्टमुपांशुर्व्यक्तमेव च ॥ १८४४ ॥
व्यक्ता दशगुणोपांशु तस्मात्कष्टोष्टकं शतम् ।
सहस्रं मानसं तस्मात् अङ्गुल्यादि जपं शृणु ॥ १८४५ ॥
सम्प्रभेदे ।
अङ्गुल्या जपसङ्ख्या कुशाग्रन्थि पुटया
एकतुल्या फलातदा ॥ जपेन देवता नित्यं- ॥ १८४६ ॥
अकुर्यात्मानं प्रसीदति । अङ्गुष्ठात् षट्गुणं प्रोक्तं-
दभैर्दशगुणाधिकम् । शतसङ्ख्या कुशाग्रन्धि- ॥ १८४७ ॥
प्रवालेश्च सहस्रकम् । मणिर्दश साहस्त्रैः
मौक्तिकं लक्षमुच्यते । पद्माक्षैः कोटिगुणितं- ॥ १८४८ ॥
रुद्राक्षैस्तु न विद्यते । रुद्राक्षस्य ततोत्पत्तिः
शृणुध्वं वक्ष्यतेऽधुना । दिव्यं वर्षसहस्त्रेषु- ॥ १८४९ ॥
चक्षुरुन्मीलितं मया । मुञ्चमुञ्चति नेत्रेषु-
तेन रुद्राक्षमुच्यते । एकवज्रं शिवं साक्षात्- ॥ १८५० ॥
प्। १२८)
अनन्तं धारणात् फलम् । स ध्यायत्रियते यत्र-
स याति परमां गतिम् । द्विवक्त्रं शक्तिरित्युक्तं- ॥ १८५१ ॥
त्रिवक्त्रं नाद एव च । चतुर्वक्त्रं तु बिन्दुस्स्यात्- ।
पञ्चवक्त्रं सदाशिवम् ।
षड्वक्त्रमीश्वरं प्रोक्तं रुद्रस्सप्तमुखं स्मृतम् ॥ १८५२ ॥
अष्टपद्मं तथा विष्णु नवपद्मं चतुर्मुखम् ।
नववक्त्रैक वक्त्रान्तं फलं शतगुणोत्तरम् ॥ १८५३ ॥
हस्तकण्ठ शिरौ कण्ठ सन्धार्यालय भस्मना ।
पूर्वपापात्प्रमुच्यन्ते शिवसायुज्यमाप्नुयात् ॥ १८५४ ॥
दर्शनं पापनाशं तु स्पर्शनं सर्वसिद्धिदम् ।
प्रागुप्तं धारणात्पुण्यं रुद्राक्षं धारयेत्सदा ॥ १८५५ ॥
प्रयाण काले रुद्राक्ष भक्षयित्वा त्रिसन्धिके ।
ते रुद्रपदमाप्नोति पुनर्जन्म न विद्यते ॥ १८५६ ॥
इति विजयतन्त्रे ।
पञ्चविंशति मोक्षार्थम् अष्टाविंशति पौष्टिकम् ॥ १८५७ ॥
त्रिंशच्च धनसम्पत्ति पञ्चाशत्स्याभिचारकम् ।
जपमाला प्रकर्तव्या संस्कर्ता सर्वशम्बरैः ॥ १८५८ ॥
मध्यमानामिकाङ्गुष्टा कर्षणात्सिद्धिरुत्तमाः ।
अङ्गुष्टं तर्जनी योगा मध्यमा सिद्धिरिष्यते ॥ १८५९ ॥
कनिष्टाङ्गुष्ट संयोगात् सिद्धिरुक्ता कनीयसी ।
मूलाद्दशांशतोङ्गानां जपः कार्यो त्रयी मतः ॥ १८६० ॥
अङ्गुष्टेन विना कर्म कृतं तत्फलदं यदा ।
शिरसाधारणं कोटि कर्णयोर्दशकोटिकम् ॥ १८६१ ॥
शतकोटि गलेबद्धं सहस्त्रं बन्धबन्धनम् ।
-तत्र फलम् - ॥ १८६२ ॥
रेखामष्टगुणं विद्यात् पुत्रदीपैः फलैर्दश ।
शतं वै शङ्खमणिभिः प्रवालैश्च सहस्रकैः ॥ १८६३ ॥
मौक्तिकैर्लक्ष साहस्त्रं पद्माक्षं कोटिरुच्यते ।
रुद्राक्षं जपमेवं तु अनन्तफलदं भवेत् ॥ १८६४ ॥
जपेन देवता नित्यं शतमानं प्रसीदति ।
प्रसन्नादि विधानादौ उद्यामुक्तं च शाश्वतम् ॥ १८६५ ॥
यक्षराक्षस पैशाच गृहसर्पादि भीषणम् ।
या पितं तिष सर्वस्मिन् भयाद्वीत समन्वितम् ॥ १८६६ ॥
प्। १२९)
जपेन पापक्षतये विशेषं यत्तत्कृतं जन्म- ।
परम्परासु । जपेन रोगान् जयतेय मुक्तिं- ॥ १८६७ ॥
जपेन सिद्धिं लभते च मुक्तिम् ।
प्रोक्तं च क मनुग्रहात्मकमिदङ्गेहे सरागो- ॥ १८६८ ॥
त्सलम् । गोष्टे गोगणमर्पणे सदनथाग्राह्येऽपि-
शिष्टाग्रहं भाण्डोत्पत्ति करञ्च शौण्डिकगृहे- ॥ १८६९ ॥
मैत्रः परस्त्रीगृहे । क्षेत्रेशस्य सुखा यदि प्रकु-
रुते ध्वस्तं सदा निश्चलम् । मध्ये समेक कटिका- ॥ १८७० ॥
हयने लिखित्वा सम्पूजयेत्परमनुग्रह चक्रमेतत् ।
सर्वोत्तरो भवति तत्र कुसुम्भ यत्नी सर्वात्मना- ॥ १८७१ ॥
वशमुपैति मनुष्य लोके । कामेन्द्रोर्धतले-
त्रिमूर्तिमहितत् पार्श्वयोर्विन्यसेत् ॥ १८७२ ॥
बाणान्यानि तदन्तरे बहिरति श्रीतारती
बीजकम् । आकोन्तत्परितस्ततोष्टदल- ॥ १८७३ ॥
कृत्पद्मन्दलेषूत्क्रमात् श्रीं ह्रीं तद्दलकोटि-
रग्रनिहितं ॐ यूं बहि श्री त्रिधाम् ॥ १८७४ ॥
ह्रीङ्कारं चन्द्रमध्ये उपरिसवलये षोडशा-
वर्णपूर्णे बाह्ये पद्माकृतिस्स्यात् दिनकर- ॥ १८७५ ॥
सहितं सान्त यान्तादि युक्तम् ॥ तद्बाह्ये भानु-
वेष्टया हरिहर सहितं मूलमन्त्रेण युक्तं- ॥ १८७६ ॥
साक्षात्त्रैलोक्यवश्यं सकलविषहरं यन्त्रराजं
नमामि ॥ शतांश विंशत्यनवाष्टपत्रं- ॥ १८७७ ॥
मध्येन्द्रबीजं तदनन्तरञ्च । स्वरान्वि-
तानां च जडं सहस्रं ह्रीं मध्ये न्यसेदिन्दु- ॥ १८७८ ॥
मतीन्दु चक्रम् । अच्छस्वच्छारविन्द-
स्थितिरुभयकराकस्थितम् । पूर्णकुम्भाभ्यां- ॥ १८७९ ॥
वेदाक्षमाले निजकरकमलाभ्यां घटो-
निलपूर्णौ । धृत्यान्तौ च शृवन्तौ शिरसि- ॥ १८८० ॥
शशिकला बन्धुतेऽप्यायन्तां देहन्देवौ-
दधानां प्रविशति विशता कल्पजातं श्रियंवः ॥ १८८१ ॥
स्वतलविभूत्यवाप्ति हेतु स्थितिर्यबिन्दुमु-
खोद्गताभिलक्ष्मी । अनुदिनमिह पद्यते- ॥ १८८२ ॥
प्। १३०)
नृभिर्यजण्डुदिनेषु कदाचिदप्यलक्षम्
विज्ञापि चित्रीतमुदारत्रिकोण शक्यद्रम- ॥ १८८३ ॥
ष्ठदशयुग्म चतुर्दशारम् । अष्टाष्टयुग्मद-
लपद्म महित्रयाङ्गं मध्ये त्रिकोणमतिलै ॥ १८८४ ॥
प्रणमामि चक्रम् । श्रीदेवी तत्परं श्लोकं-
लिखेदेकं यथा पुरा । बाह्याद्दिक्षु दिक्षु- ॥ १८८५ ॥
लिखेत् पृथक् । वषडन्तं ततो मोदो मात्रां च ।
घटमध्यगम् । पुनः पद्मपुटान्तस्थं योज- ॥ १८८६ ॥
येत्सर्वशान्तिके । अनुग्रहात्मकं चक्रं-
एतच्चक्रोत्तमोत्तमम् । श्वेतांशुके वा भूर्जे- ॥ १८८७ ॥
वा पटेवाथ मनोरमे । शुभवारर्क्ष संयोगे-
लाजेन कुङ्कुमेन वा । लिखेच्चक्रं शिवो- ॥ १८८८ ॥
भूत्वा दृढी देवेन्द्रदिङ्मुखम् । रुद्रडं च-
गुली कृत्वा लाक्षाङ्गुल परिस्तुतम्- ॥ १८८९ ॥
येनेदं ध्यायते नित्यं मृत्युर्नोपैति तन्नरम् ।
विषमज्वर हां ह्रीं कृत्वा पुष्टिमदं सदा ॥ १८९० ॥
पूर्वाद्येशानपर्यन्तं विन्यसेत्तु विशेषतः ।
प्रणवादि नमोऽन्तं तु पूजयेत् तु विधीयते ॥ १८९१ ॥
कपालशूलसहिता अभयवरदान्विता ।
नीलमेघनिभाकारा त्र्यक्षाश्चन्द्रशेखराः ॥ १८९२ ॥
सर्वविघ्नहरा देवी कथितान्यष्ट भैरवाः ।
ग्रामेषु नगरेष्वेषु पत्तनेषु गृहेषु च ॥ १८९३ ॥
चन्त्वरेषु श्मशानेषु शालासु गजवाहनम् ।
त्र्यक्षमष्टभुजारौद्रमूर्ध्वकेशं सुदष्ट्रकम् ॥ १८९४ ॥
रौद्रं तुष्टिं तु कृष्णाभं बालेन्दु कृतशेखरम् ।
नरशिरञ्च धत्तूरं नागयज्ञोपवीतकम् ॥ १८९५ ॥
संयुक्तं * * योः पत्रं वित्ततोमरकुण्डलम् ।
शूलं डमरुकं खड्गं पिनागं दक्षिणे करे ॥ १८९६ ॥
कपालं च धनुश्चैव घण्टा पाशमतः करे ।
सर्वाभरणसंयुक्तं धीरं वै केतु मालया ॥ १८९६ ॥
नागनागाम्बरैर्युक्तं पक्वपीठोपरि स्थितम् ।
एवं वै क्षेत्रपालं तु स्वरूपाणां प्रवक्ष्यते ॥ १८९७ ॥
पद्मं शूलं च मुकुलं निष्ष्टूरं योनिशङ्खकम् ।
मन्त्रान्त मुद्रया कार्यं विनियोगं प्रपूजयेत् ॥ १८९८ ॥
प्। १३१)
मातङ्गि ध्यानम् ।
तान्त्री ताण्डविताङ्गुली किसलया तापिञ्चि-
प्रभा मातरनाथ वलावतंसकलितां तारुण्य- ॥ १८९९ ॥
सर्वश्रियम् । हंसालिम्बिक्रदम्ब गर्भकबरी-
भारां भवध्वंसनी । मातस्वाशमतङ्ग तनये- ॥ १९०० ॥
पश्यन्ति पश्ये श्रिया । वाराही मन्त्रम् ।
नेत्रत्रयं स्फटिककुण्डिकयाक्षसूत्राम् ॥ १९०१ ॥
व्याख्यान पुस्तकरविलासित दोश्चतुष्काम् ।
श्वेतासितांशुकधरां सितगन्धपुष्पाम्- ॥ १९०२ ॥
श्वेताम्बुजासन रतां प्रणमामि वाणीम् ।
शातामिति शृतमम्भङ्कुरमायत श्री- ॥ १९०३ ॥
सम्भावना सदसि मूर्ति नरार्तिवेशम् ।
वाच्य प्रसन्न मधुराभवती प्रसन्ना- ॥ १९०४ ॥
छिन्नोवि प्रकटकं तु गिरीन्द्रकन्ये- ।
अष्टमस्य तृतीयं यत् चतुर्दशसमन्वितम् ॥ १९०५ ॥
दण्डकुण्डलमेतद्धि सारस्वत मुदाहृतम् ।
देव्या ध्यानं प्रवक्ष्यामि सर्वकार्यार्थ साधनम् ॥ १९०६ ॥
हृत्पद्म कर्णिकामध्ये सुखासीनां शुचिस्मिताम् ।
रक्तवर्णां सुप्रसन्नां सर्वाभरणभूषिताम् ॥ १९०७ ॥
त्रिणेत्रां चारुमकुटां चन्द्ररेखावतंसकाम् ।
हारनूपुरकेयुर तुङ्गबन्ध विराजिताम् ॥ १९०८ ॥
मुक्तामाणिक्कवैडूर्य द्विपेन कलकान्विताम् ।
रत्नबन्ध सृजं चैव रत्नकुण्डलमण्डिताम् ॥ १९०९ ॥
विचित्ररत्नवलयां विचित्रवलयां शुभाम् ।
पाशकुंशधरां चैव वरदाभय तत्पराम् ॥ १९१० ॥
दधतीमक्षमालां च सा भयेन च प्राणिनां- ।
चामराभ्यां वीज्यमानां च चण्डिका छत्रशोभिताम् ॥ १९११ ॥
शङ्ख पद्मनिधिभ्यां च सेविता पादमूलतः ।
महाघोषं समादाय वह्निवर्णमतः परम् ॥ १९१२ ॥
वाग्प्रवृत्तिप्रदञ्चैव सर्वकामार्थसाधनम् ।
मन्त्रोत्तममिदुं प्रोक्तं कथितं शम्भुना पुरा ॥ १९१३ ॥
ऋषिर्ब्रह्मास्य मन्त्रस्य छन्दो गायत्रमुच्यते ।
अम्बिका देवता प्रोक्ता महादेवोधि दैवता ॥ १९१४ ॥
ब्रह्माण माहुः प्रथमं विष्णुश्च तदनन्तरम् ।
ततः परं महादेवं वदन्ति किल दैवताम् ॥ १९१५ ॥
प्। १३२)
दुर्गाञ्च देवतां केचित्यथान्ये मातृदेवताः ।
वाग्देवीमाहुरपरे लक्ष्मीमन्ये तथा विदुः ॥ १९१६ ॥
आदित्यमाहुरपरे ज्येष्टां शंसन्त्यपरे ।
किमत्र बहुनोक्तेन सर्वदेवमयश्शिवः ॥ १९१७ ॥
एकहस्तां चतुर्हस्तां सर्वाभरण भूषिताम् ।
नितम्बतटविस्तीर्णां मध्यक्षामस्तनोन्नताम् ॥ १९१८ ॥
वामादिशक्ति रुपेतां मनोन्मनीं सुलक्षणाम् ।
ध्यात्वा सम्पूजयेद्धीमान् जगत्प्रीति करार्थवै ॥ १९१९ ॥
श्यामनिभपक्ष स्वम्न? नयनं स्यात् पङ्कज- ।
प्रसार्यकरतुङ्ग- * * * * * * * * * ॥ १९२० ॥
शान्तिकन्विति विख्यातं शैविकं शृणुसत्तम ॥ १९२१ ॥
देवस्य वामहस्तं तु देव्याः कट्याः समायुतम् ।
गौर्याश्च स्वव्यहस्तं तु पङ्कजं धारयेत्पुनः ॥ १९२२ ॥
वामहस्तं तु लम्बं तु विशेषमिति निश्चयम् ।
उमामहेश्वरं ख्यातं गौरी संवादमुच्यते ॥ १९२३ ॥
पूर्ववत्कारयेत्सर्वं विशेषमधुनोच्यते ।
देवस्य दक्षहस्तेन देव्याःस्तनं प्रविश्यति ॥ १९२४ ॥
अन्तस्सङ्गमसंयुक्तं तयोर्मध्यान्तरं यमम् ।
उमासंवादमेवोक्तं शृणुमानुग्रहं द्विजः ॥ १९२५ ॥
उमामहेशवत्सर्वं विशेषं किञ्चिदस्ति हि ।
देवस्य दक्षहस्तं तत् भवान्याम् इन्दुके स्थितम् ॥ १९२६ ॥
उमानुग्रहमेवास्मिन् सर्वस्पष्टसमीरितम् ।
एवं चन्द्रधरस्यैवं चतुर्भेदं प्रकीर्तितम् ॥ १९२७ ॥
चन्द्रशेखरमित्युक्तं दक्षिणामूर्तिरुच्यते ।
अथातः सम्प्रवक्ष्यामि दक्षिणेश द्विधाशृणु ॥ १९२८ ॥
त्रिणेत्रं चतुर्भुजं शान्तं सौम्यरूपं स्मिताननम् ।
कृष्णाजिनाम्बरधरां व्याघ्रचर्मोत्तरीयकम् ॥ १९२९ ।
सिंह्मवक्त्रं च सम्बध्य चन्द्रार्ककुसुमद्वयम् ।
संयुक्तं वा विकीर्णं च वेणुबन्धयुतं तु वा ॥ १९३० ॥
स्निग्धकुन्तलयुक्तं वा जटासंयुतमेव वा ।
रवेदीर्घाङ्गुलं वामे करे पुस्तक संयुतम् ॥ १९३१ ॥
सदसन्दक्षहस्ते तु अनलं वामहस्तके ।
अक्षमाला जपाकारं संयुक्तं दक्षहस्तके ॥ १९३२ ॥
प्। १३३)
देहसूक्ष्मे स्थितिप्राणा ध्यानं युक्तं शुभावहम् ।
किञ्चिदस्मिन् समायुक्तं बलं सर्वाङ्घ्रि संयुतम् ॥ १९३३ ॥
दक्षाङ्घ्रिजानुकामूर्ध्वेशयी वामपदान्वितम् ।
एवं रूपं समाख्यातं लम्बसूत्रमथ शृणु ॥ १९३४ ॥
द्वादशाङ्गुल पर्यन्तम् उपर्युपरिकल्पयेत् ।
अगस्त्यं च पुलस्त्यं च विश्वामित्रं च गौतमम् ॥ १९३५ ॥
योगाभ्यास प्रकाशं तु कारयेद्विधिपूर्वकम् ।
एवं स्याद्दक्षिणामूर्तिः गैयमूर्तिमथा शृणु ॥ १९३६ ॥
कटकं सव्यहस्तं तु नागययज्ञं तदुच्यते ।
वामहस्तं तथाह्येव ऊर्ध्वाननं तदोच्यते ॥ १९३७ ॥
ऊर्वग्रे दक्षिणं पादं तत्र द्वैधं निवेशयेत् ।
सर्वहस्तन्तु कटके वामहस्तं ततोपरि ॥ १९३८ ॥
ऊरू वामे कला प्रोक्ता भागन्तत्कटकोर्ध्वके ।
दण्डायाममिति ख्यातं विस्तारं कोलकं भवेत् ॥ १९३९ ॥
लाम्बुवक्त्र षडङ्गुल्यम् उत्सेधं वंशकं भवेत् ।
कटके मणिबन्धं च हिक्का मध्याप्यनन्तरम् ॥ १९४० ॥
पञ्चषण्मात्रमित्युक्तं * * * दक्षिणे बुधः ।
नाभ्यादामणी बन्धात् अन्तरं चाननं भवेत् ॥ १९४१ ॥
आसीनं वा स्थितं वापि यानं वा भावयेत्पुनः ।
एवं विशेषमन्त्रोक्तं शेषं व्याख्यान मूर्तिवत् ॥ १९४२ ॥
दक्षिणामूर्तिमेवोक्तं वृषरूपमथ शृणु ।
अथातः सम्प्रवक्ष्यामि वृषवाहनलक्षणम् ॥ १९४३ ॥
वृषारूढद्विधा विप्राभुक्तिदं मुक्तिदं तथा ।
भवानी सहितं देवं पीठोर्ध्वे विन्यसेद्बुधः ॥ १९४४ ॥
वृषभं पृष्टतो न्यस्त्वा पूर्ववल्लक्षणोऽन्वितम् ।
चतुर्भुजं त्रिणेत्रं च जटामकुटसंयुतम् । १९४५ ॥
द्रव्याभरणमत्रैव सर्वाभरणसंयुतम् ।
शुक्लयज्ञोपवीतं च शान्तरूपं स्मिताननम् ॥ १९४६ ॥
दक्षिणे परशुं ग्राह्य मृगं वा मांसकं न्यसेत् ।
कटकं सव्यहस्तं वा वामहस्तप्रकोष्टतः ॥ १९४७ ॥
तद्धस्ते तु स पक्षं वा पताकाधोमुखं तथा ।
तन्मध्यमाङ्गुलाग्रं तु नाभिसूत्रसमं भवेत् ॥ १९४८ ॥
एवं कुर्यात् तु भुक्त्यर्थं मुक्त्यर्थमधुनोच्यते ।
त्रिणेत्रं चतुर्भुजं शान्तं सर्वाभरणसंयुतम् ॥ १९४९ ॥
प्। १३४)
वेणी बन्धेन मकुटं * * * * * * * * ।
धामाग्रे दक्षिणे वाथ मण्डपं कारयेत्पुनः ॥ १९५० ॥
धिष्ण्यविस्तारमानं वा अर्धार्धं द्विगुणं तु वा ।
परितः पदमध्ये तु कुण्डं कुर्याद्विधानकम् ॥ १९५१ ॥
पूर्वायांश्चतुश्रं तु चापाकारं तु दक्षिणे ।
पश्चिमे वृत्तकुण्डं तु उत्तरेब्जं तु कारयेत् ॥ १९५२ ॥
ईशानं तु त्रयोर्मध्ये वृत्तं प्रधानकं कुरु ।
प्राक्कुण्डवेदिका मध्ये पावके वा विधानतः ॥ १९५३ ॥
वास्तु होमं प्रकर्तव्यं पर्यग्निकरणं कुरु ।
बलिं क्षिप्त्वा तदन्ते तु शुद्धान्नं दधि संयुतम् ॥ १९५४ ॥
प्रोक्षयेत्पुरुषेणैव पुनः पुण्याहमाचरेत् ।
मध्यमे शिवकुम्भन्तु तस्य वामे तु शक्तिका ॥ १९५५ ॥
कार्तिके पूर्वकुम्भे तु दक्षकुम्भे महेश्वरम् ।
मुरारी पश्चिमे कुम्भे अर्धनारीशमेव वा ॥ १९५६ ॥
मध्यनारीश विन्यासे कुम्भे भेदमिहोच्यते ।
वर्धन्य घटके तत्र न्यासं कुर्यात्सलक्षणम् ॥ १९५७ ॥
ब्रह्माणमुत्तरे कुम्भे शक्तीनां सहवासिनाम् ।
पूर्वादीशानपर्यन्तं लोकपाल भटान्न्यसेत् ॥ १९५८ ॥
सकूर्चान् सापि धानांश्च सवस्त्रान् वारिपूरितान् ।
तिस्रं च दण्डान्तरमुक्तपृष्टे पञ्चाख्य- ॥ १९५९ ॥
दण्डान्तरमूलबाह्ये । दशस्य षड्दण्ड-
तदन्तरे वा ध्वजस्य संस्थापनमेनवोक्तम् ॥ १९६० ॥
मूलस्थूलं भवेन्नारी अग्रस्थूलं नपुंसकम् ।
मूलादग्रसमं चैव पुमान् दर्भैश्च लक्षणम् ॥ १९६१ ॥
कुशां काशां तथा दूर्वा व्रीहिं मोच्छियं तथा ।
विश्वामित्र उशीरं च सप्तदर्भाः प्रकीर्तिताः ॥ १९६२ ॥
तत्वातिथिग्रह सङ्ग्रदर्भैः अष्टादशाङ्गुलमाय समानम् ।
अत्र युगाङ्गुलग्रन्थि तदर्धम् उत्तममध्यम कन्यस- ॥ १९६३ ॥
कूर्चम् । कूशमूले स्थितो ब्रह्मा कुशमध्ये तु ।
केशवः । कुशाग्रे शङ्करं विद्यात्कुशानाम- ॥ १९६४ ॥
धि दैवताः । पञ्चविंशति दर्भैस्तु कुर्यात्कूर्च्च-
मिति स्मृतम् । दशपञ्चकृतं मध्ये नवदर्भै- ॥ १९६५ ॥
स्तु कन्यसं न्यसेत् । ऊर्ध्वकूर्चमतः कूर्चम्-
अन्तः कूर्चं तु कर्तव्यम् इति चार्थाममेव च ॥ १९६६ ॥
प्। १३५)
कूर्चन्तु त्रिविधा ज्ञेया उत्तमा मध्यमा तथा ।
ब्रह्मचारी द्विदर्भैस्तु त्रिदर्भैस्तु ग्रहस्तयोः ॥ १९६७ ॥
वानः प्रस्थकुशाः पञ्च कुशास्सप्तै तु भिक्षुका ।
दक्षिणावर्तकथितम् अपवित्रकरलङ्कृतम् ॥ १९६८ ॥
वलयं द्व्यङ्गुलं प्रोक्तं ग्रन्थिमेकाङ्गुलं भवेत् ।
अग्रे तु चतुरङ्गुल्यं सप्तां * * * * * * ॥ १९६९ ॥
सरस्वत्यादि शक्तीनाम् अदैव प्रोच्यते बुधैः ॥ १९७० ॥
वामनासापुटे चैव स्नानपीठस्य वामके ।
नाभि वामे तथा ऊरु दक्षिणे गुल्फमध्यमे ॥ १९७१ ॥
लम्भयेत्सम भङ्गस्यात् सूत्राद्भागं तु वामनि ।
तत्सूत्रान् स्तनमध्यस्स्यात् त्र्यङ्गुलं चेति कीर्तितम् ॥ १९७२ ॥
सूत्रान् तयोति मध्यं च दक्षिणे चतुरङ्गुलम् ।
सूत्रात्तद्दक्षिणे जानु मध्यवेदाङ्गुलं भवेत् ॥ १९७३ ॥
तस्य सूत्राद्दक्षिणाङ्गुष्ठादस्याङ्गुलमिति स्मृतम् ।
सूत्राला वामचाङ्गुष्टान् सार्ध सप्ताङ्गुलं भवेत् ॥ १९७४ ॥
पाणिद्वयव मध्यं च वेदमात्रमिहोच्यते ।
स्तनमध्ये घटम्रत्वं शिरोन्तात्तत्प्रयोजयेत् ॥ १९७५ ॥
सूत्रान्तमणिबन्धं च त्रिःपञ्चाङ्गुल नीवृकम् ।
वामहस्ताङ्गुलं नीव्रं बाह्ये तु चतुरङ्गुलम् ॥ १९७६ ॥
श्रोण पश्चात् प्रकोष्टान्तं द्व्यन्तरं साङ्गुलं भवेत् ।
पीनोरु पीन * * * * * * * वरोदरि ॥ १९७७ ॥
आसनं वा स्थितं वापि अनुक्तमनुपूर्ववत् ।
केशान्त कर्णजान्वन्ताङ्घ्रितलेभ्यो त्रिवर्धयेत् ॥ १९७८ ॥
मदरेन्द्र दयानाभे योनौ द्विद्यङ्गुलं भवेत् ।
ऊरौ चतुर्यवान्तानि वर्ज्यघाधारि वर्धयेत् ॥ १९७९ ॥
त्रियामनां तु नित्यास्य सर्वेष्वगेषु कल्पयेत् ।
लिङ्गस्य तुङ्गद्विगुणं च द्रव्याद्द्विरष्टताग- ॥ १९८० ॥
श्री गुणं च हीनात् । क्षुद्राल्पयुक्तं दधिकप्र-
शस्ताद्देव्याश्च कुर्यात् सकलं च सम्यक् ॥ १९८१ ॥
अजिते-
पीठोच्च तारा सदृशं मथं वा पादाधिकं चेत्कृ-
तिरन्तराले । भज्याघनत्रय समोच्च यागौनि- ॥ १९८२ ॥
प्। १३६)
मानं स्याच्चङ्करस्य शयनावासयोग्यम् ।
आर्यादेवी मूलबेरोर्चमानं पश्चात्तासा तुङ्ग- ॥ १९८३ ॥
मानं क्रमेण । कर्णान्तं नासिकाभ्यन्तमानं- भवन्तं वा बाहुम्रब्राहुश्च ।
देव्या संस्थापनं वक्ष्ये तल्लक्ष्यस्य पुरस्सरम् ॥ १९८४ ॥
शिलामृद्रव्यमासाद्य सितकुर्यात्प्रतिमां ततः ।
ग्रामादौ शिवहमेध्ये तु कराष्टर्कत्वन्तरालके ॥ १९८५ ॥
गौरी स्थानं प्रकर्तव्यम् इष्टदेशे मनोरमे ।
त्रिहस्ताद्यकपञ्चाशत् हस्तविस्तार संयुतम् ॥ १९८६ ॥
तस्य धाम विधातव्यम् उत्सेधाद्यं तु पूर्ववत् ।
बहुभ्याकारमिष्टं स्यादनुरूपयुतं तु वा ॥ १९८७ ॥
वलद्यकार रूपंश्चे चतुर्थं विभजेत् ततः ।
दैर्ध्यत्वेकांश वृद्धिस्स्यात् षड्भिगर्भोद्भवैः पदैः ॥ १९८८ ॥
एकाभित्तिरुद्दिष्टं क्रियावादं विभजेत्ततः ।
द्वाभ्यां गतोभवेत्तिष्ट भक्ति समन्तादेकमार्गतः ॥ १९८९ ॥
चतुर्थार्जितते तारे अष्टदैर्घ्यमथापि वा ।
गर्भस्यष्टपदै व्याख्यथा च न गद्यते ॥ १९९० ॥
सप्तभिः स्वष्टभिर्वाथ नवभिर्दशभिस्तु वा ।
समन्तादेकभित्ति गर्भन्तु न भागेनमीरितम् ॥ १९९१ ॥
विधानाद्देवि चोत्सेधं सुधामादि
तच्च पूर्वपदे सद्यादमानाङ्गुलेन वा ।
मात्राङ्गुलेन गृहच्छायां या वेषामपि कल्पयेत् ॥ १९९२ ॥
ततश्चैषां प्रकर्तव्यं देवी प्रोक्तं प्रमाणतः ।
चतुर्भुजं त्रिणेत्रं च सुप्रसन्नैकपत्रजा ॥ १९९३ ॥
दुकूलवसना देवी करण्डमकुटान्विता ।
अभयकरयुमसंयुक्ता पाशाङ्कुशधरान्विता ॥ १९९४ ॥
द्विभुजावा द्विनेत्रा वा प्रलम्बितकरान्विता ।
उत्फलग्रहण कर्मारम्भ कालस्य कथित- ॥ १९९५ ॥
नयनरूमील्ये पूर्वे युरोक्तम । धरणिखननि
मश्वधृतं शैवकर्मयजनहुत न दोषां स्थाप- ॥ १९९६ ॥
येत्सम्प्रदार्कम् । मद्भक्त्या शङ्करद्वेषी मद्वेषी
शङ्करप्रियः । तावुभौ नरकं यान्ति यावच्चन्द्रदिनाकरौ ॥ १९९७ ॥
प्। १३७)
शूलचक्रधरान् विप्रान् दूरे दृष्ट्वावमादतः ।
प्रमादात् दर्शनं कृत्वा आदित्यं तु शतं जपेत् ॥ १९९८ ॥
लवङ्गकर्पूर फलत्रयं च समाभिचूर्णं मधु-
शर्करान्वितम् । शिवप्रियं पापहरं पवित्रं- ॥ १९९९ ॥
निश्वद्यमानम् उवासमुत्तमम् ॥
लिङ्गमुद्रा नमस्कारा नालाख्यां शङ्खमुद्रिका ।
सुरभी मुकुली चैवावाहिनी च निष्ठुरा ॥ २००० ॥
स्वयं प्रोक्तं तदद्राक्तौ * * * कौतुकं क्रमात् ।
सुवर्ण माङ्गल्य सूत्राणि शान्तिहोमं समाचरेत् ॥ २००१ ॥
होमान्ते कौतुकं प्रोक्तं सर्वकर्म समाचरेत् ।
सूक्ष्मतन्त्रे -
अङ्कुरार्पण पूर्वं च बलिदानात्क्रमेण तु ॥ २००२ ॥
कौतुकान्तं समारभ्य यागान्तं मधि समाचरेत् ।
षड्वंशमेक हृदयं चतुर्वक्रं चतुर्धरम् ॥ २००३ ॥
मेदिन्यां वास्तुपुरुषं निकुब्जप्राग्शिरोविदुः ।
तस्योत्तमाङ्गविज्ञेया आर्योक्ता नाम देवता ॥ २००४ ॥
सवित्रो दक्षिण कुजं सवित्रः कक्ष उच्यते ।
आपत्स तापवत्सश्च स कक्षो वामतो भुज ॥ २००५ ॥
विश्वस्वी दक्षिणं पार्श्वं वामपार्श्वे महीधरम् ।
मध्ये ब्रह्ममयं कार्यं मित्र पूर्वं विधीयते ॥ २००६ ॥
इन्द्रश्चैवेन्द्रराजश्च दक्षिणापाद ईरितौ ।
रुद्रोरुजयी वामपाद शैवस्तथैव मुखं च ॥ २००७ ॥
वास्तु स्त्रिभौग मध्ये तु वशो षट्प्रागुदङ्मुखम् ।
वास्तुमध्ये तु वर्माणि ब्रह्मा हृदयमुच्यते ॥ २००८ ॥
निष्कुटांशस्वरा ज्ञेया इत्येषां पूरुषस्तथा ।
गृहे गृहे मनुष्याणां शुभाशुभकरप्रभुः ॥ २००९ ॥
तस्याङ्गानि गृहाङ्गानि विद्या नैवोपपीडयेत् ।
प्राथम्यस्तु यथा सङ्ख्यं भर्तारङ्गेति सम्भृताः ॥ २०१० ॥
तस्मात्परिग्रहे विद्वान् पुरुषाशं तु सर्वथा ।
चत्वारिंशश्च पञ्चैव देवतानां समुच्चयम् ॥ २०११ ॥
सदारं सरमुखीभावम् आवाहनमिहोच्यते ।
भक्तानिवेशनं तत्र स्थापनं कथितं बुधैः ॥ २०१२ ॥
प्। १३८)
सन्ध्यादि विहीनं-
एवं ध्यानसमायुक्त सदेहं यं परित्यजेत् ।
कुलस्वजनमित्यादि समुद्धृत्य शिवं यजेत् ॥ २०१३ ॥
श्रद्धया सह शोभितां गतमाप्नोति तत्समं तु मघामघैः ।
भूतानामपि सर्वेषां चैतन्यं शब्दमुच्यते ॥ २०१४ ॥
भूतनस्य चेतने यस्तु घोषरूपं यथा तथा ।
तस्य पाकरणार्थाय शिवात्मावयवर्तिनः ॥ २०१५ ॥
भेरी ताडनघोषेण तदाकरणमाचरेत् ।
तप्तकाञ्चन दीप्त्यर्थं यथा तु षजलं ददेत् ॥ २०१६ ॥
तथैव शिवमूढासु अर्घ्यं दद्याद्विचक्षणः ।
सन्ध्या दीपविहीनम् ॥ २०१७ ॥
सन्ध्या दीपविहीने च द्विगुणं रोपयेत्ततः ।
व्यतिक्रमेण मन्त्रं सर्वं निष्फलं भवेत् ॥ २०१८ ॥
शान्तिहोमं ततः कृत्वा मूलमन्त्रशतं जपेत् ।
कारणे ।
निवेद्यादि विहीने च दुर्भिक्षं बाधते ध्रुवम् ॥ २०१९ ॥
सन्ध्याका तु विहीने च तद्द्रव्यं द्विगुणं ददेत् ।
सन्धिद्वयविहीने च कुर्याद्भव्याभिषेचनम् ॥ २०२० ॥
एकाहे शोकहीने च द्रोणक्षीराभिषेचनम् ।
पञ्चाहे शक्तिहोमं च दशाहे स्नपनं कुरु ॥ २०२१ ॥
मासादूर्ध्व विहीने च कारयेच्छान्ति होमकम् ।
स्नपनं कारयित्वा तु अर्चनोक्तं समाचरेत् ॥ २०२२ ॥
निर्वाण दीपहीने तु लोकोरुक्तं समाचरेत् ।
एकाहेतु विहीना स्यात् द्विगुणं रोपयेत्ततः ॥ २०२३ ॥
पञ्चाहे शान्तिहोमं च दशाहे स्नपनं कुरु ।
द्वारपूजा विहीने च सस्यानां नाशनं भवेत् ॥ २०२४ ॥
द्वारस्थं देवतानां च तन्मन्त्रं च शतं जपेत् ।
गन्धपुष्पादिभिश्चैव पूर्ववत् * * * * येत् ॥ २०२५ ॥
नित्य प्रपूत्योत्सवविहीने तु धान्यं विनिक्षिपेत् ।
सन्ध्यैके तु विहीने तु स्नापयेत्पञ्चगव्यकम् ॥ २०२६ ॥
मूलमन्त्रशतं जप्त्वा उत्सवं पूर्ववत् कुरु ।
सन्धिद्वय विहीने च शान्तिद्वयं च कारयेत् ॥ २०२७ ॥
पञ्चाहे चोत्सवे हीने मूर्तिहोमं तु कारयेत् ।
स्नपनं कारयेच्छम्भोः पूजयेत्तु विशेषतः ॥ २०२८ ॥
प्। १३९)
मासो नित्योत्सवे हीने वाद्याङ्गैः ब्रह्मपञ्चकैः ।
षडङ्गैर्बीजमुख्यैश्च * * * व दशाक्षरैः ॥ २०२९ ॥
प्रत्येकं तु शतं जप्त्वा तद्रव्यं द्विगुणं भवेत् ।
मार्जनं प्रोक्षणा हीने शङ्खघोष विहीनके ॥ २०३० ॥
गवानां नाशमेवात्र व्योमव्यापि शतं जपेत् ।
बलिदान विहीनं स्यात् * * क्षु ग्राम वासिनाम् ॥ २०३१ ॥
शान्ति होमं ततः कृत्वा बलिदानं समाचरेत् ।
नवनैवेद्य हीने च दुर्भिक्षं जायते भुवि ॥ २०३२ ॥
मूर्तिहोमं ततः कृत्वा भूसुरान् भोजयेत्ततः ।
अर्चनोक्तं समभ्यर्च्य प्रभूत हविषं ददेत् ॥ २०३३ ॥
पवित्रारोहणे हीने महामारी प्रवर्तते ।
दाशाहोमं ततः कृत्वा स्नपनं कारयेत्प्रभोः ॥ २०३४ ॥
पवित्रारोहणे हीने लब्धमाने तु बुद्धिमान् ।
कृत्तिका दीपहीनम् ।
कृत्तिका दीपहीने तु अनावृष्टिर्भविष्यति ॥ २०३५ ॥
शान्ति होमं ततः कृत्वा स्नपनं कारये प्रभोः ।
अर्च्चनोक्तं समभ्यर्च्य प्रभूतहविषं ददेत् ॥ २०३६ ॥
लब्धमासेऽग्निनक्षत्रे कृत्तिका दीपमाचरेत् ।
कृष्णं शैलाधिता हेमा * * प्रशस्त शोभना ॥ २०३७ ॥
कृष्ण शैले रक्त बिन्दु कृष्णे कृष्णं सर्वदोषा ।
करं तत् ॥ कृष्णशैले रक्तपीतं श्वेतं पीतं तथैव च ॥ २०३७ ॥
श्वेते शैलं श्वेतपीतं श्वेते श्वेते सुखं भवेत् ।
वृद्धमयमतं-
हरिका कृष्णशैले तु - स्तिवर्णं विशेषतः ॥ २०३८ ॥
खर्झूरपत्र सदृशं पूर्णस्तं भाकृतिं शुभम् ।
लिङ्गनाहसम्पीठ विस्तृतं विस्तृतस्यशरवेग ॥ २०३९ ॥
तुङ्गकम् । विस्तृतार्थ-
मथ गोमुखायतं गोमुखान्तमथकर्णना- ॥ २०४० ॥
हकम् । लिङ्गस्य नाहवाष्टविधं भजित्वा-
एकं विना राल स तन्तुलिङ्गात् । भोगं- ॥ २०४१ ॥
वरं तत्स्वयमेव सिद्धं समं तु लिङ्गात्सममेव-
मोक्षम् । हुत्पत्ति कर्णिकामध्ये अस्मारोपरिस्थितम् ॥ २०४२ ॥
प्। १४०)
चतुर्भुजं त्रिणेत्रं च सहस्रादित्य सन्निभम् ।
व्याघ्र चर्माम्बरधरं भस्माभ्यक्तं तथैव च ॥ २०४३ ॥
पुञ्जपिञ्ज जटायुक्तं सक * क्षोभशोभितम् ।
धुद्धूरं चार्कपुष्पं च लक्ष्मपुष्पं तथैव च ॥ २०४४ ॥
शश्वद्धत्र पथं चैव दक्षगङ्गाधरं हरम् ।
करो * तु शिरो मध्ये ललाटे वहबन्धनम् ॥ २०४५ ॥
हारकेयूरकटकं कर्णिका कुण्डलैरपि ।
पादयोर्नूपुरैः हृष्यैः नानापुष्पोपशोभितम् ॥ २०४६ ॥
यज्ञसूत्रोत्तरीयं च भस्मधारसमन्वितम् ।
डमरुकं दक्षिणे हस्ते वामहस्तेऽनलं तथा ॥ २०४७ ॥
अभयं दक्षिणे हस्ते दोर्दण्डं वामहस्तके ।
सितं वै दक्षिणं पादं वामपादं तथोद्धृतम् ॥ २०४८ ॥
समाधिगुणसम्पन्नैः योगिभिस्तत्वपारगैः ।
ध्यातव्यं सर्वदा देवं परमानन्दविग्रहम् ॥ २०४९ ॥
शतसहस्रके-
पराभवं परानन्तं परताण्डवविग्रहम् ।
अद्भुतं चामृतं सत्यम् अतिगुह्यं शिवं शुभम् ॥ २०५० ॥
पराभवं परानन्तं परताण्डवविग्रहम् ।
अद्भुतं चामृतं सत्यम् अतिगुह्यं शिवं शुभम् ॥ २०५१ ॥
सर्वं नमः सन्ध्यायां वासमुत्त - ति हृतिः ।
इत्येवं पूजयेद्देवं राजाराष्ट्रं सुशोभनम् ॥ २०५२ ॥
इति गुह्यमथ स्नानं सर्वदेवेषु निश्चितम् ।
प्रसन्न चेतसे देवं धार्मिकाय हुताग्नये ॥ २०५३ ॥
ईश्वराधारचक्रं च लिङ्गं सादाख्य ।
शक्तीनामुपत्नीनाद उच्यते । आनन्दकर- ॥ २०५४ ॥
ताण्डवं नाम शिवात्सञ्जात इत्यपि ॥ २०५५ ॥
श्रीमद्विश्वासकारिकायां-
आरोहणे यदा काले आशाधिमभिमुखं फलम् ॥ २०५६ ॥
आरोहणे निरुद्धं चेत् पदे देशिक दोषभाक् ॥ २०५७ ॥
प्। १४१)
पत्रं ब्रह्माफलं विष्णुः चूर्णेदेयो महेश्वर ।
तुष्यते तत्र ते देव ताम्बूलं दानमुत्तमम् ॥ २०५८ ॥
ब्रह्मचारी तपस्वी च वानप्रस्थो अमङ्गली ।
ताम्बूल दक्षिणां चैव तुल्यं गोमांसभक्षणम् ॥ २०५९ ॥
ईशकर्ण समाश्रित्य वासुकी पवनाशनम् ।
देवस्य विमुखं पूर्वम् ऐशान्यां क्षेत्रपालकम् ॥ २०६० ॥
दक्षिणाभिमुखं देवं क्षेत्रे वा वायुदेशके ।
देवस्य पश्चिमे द्वारम् आग्नेय्यां क्षेत्रपालकम् ॥ २०६१ ॥
उत्तराभिमुखो देवा क्षेत्रेशानं तु नैर्-ऋते ।
एतत्स्थानं प्रकर्तव्यम् अन्येषां स्थान नाशनम् ॥ २०६२ ॥
प्रमादादिक्षु संस्थाप्य यजमानं राजराष्ट्रनाशनम् ।
इति कामिके- ॥ २०६३ ॥
लिङ्गरूपे च चैतन्ये देवांश्चावाहितो यदि ।
तस्यान्त तस्य देवस्य किं प्रवेशः प्रवेशने ॥ २०६४ ॥
विदग्धवो हव्यवीणं च अरणीमथनोग्निवत् ।
देशिकस्य मनोभावात् देवता तत्र तिष्टति ॥ २०६५ ॥
पटेन दारुदण्डेना रज्जुनादर्भमालया ।
पीठस्योर्ध्वे पठेकद्वारोपयेत् किं प्रयोजनम् ॥ २०६६ ॥
विंशैविंशति भाजितं युगधिक षष्ट्रंशकैः ।
पङ्कजम् । बाह्ये वीथि चतुष्टयं दिशि दिशि- ॥ २०६७ ॥
द्वारांशवस्वंशके । तत्पार्श्वे वसुलिङ्गकं-
गिरिपदं गिरिपदं वेदैर्युता ॥ कोणकैषो- ॥ २०६८ ॥
परिलोप्य लतिका कुर्यात्सुशोभनम् ।
यथा श्रीमच्छ्वेतपुरे विप्र द्विशतं विप्रसत्तमम् ॥ २०६९ ॥
एते वै दशसङ्ख्यातां शिवाय यजमात्मनः ।
गोघ्रासभिक्षार्पण सालरक्षा शकुन्तशाखा- ॥ २०७० ॥
मृगपोषणं च । नक्ता न बालान्न समीहि-
तान्न दृचान्ननिक्षेप धनावनञ्च । प्रसूति- ॥ २०७१ ॥
रक्षाकुल पोषवैद्य शल्यत्कि चैम्य निवारणं च ।
प्रसक्तबाधा परिहारहेम ही कप्पट तैलदानम् ॥ २०७२ ॥
अनाथदीनान्ध विपन्नरक्षा कुमारशिक्षा- ।
समयप्रतिष्ठा । पुराणधर्मार्थविचारशास्त्र ॥ २०७३ ॥
व्याख्यान वेदाध्ययनं च धर्मम् । एते-
द्वात्रिंश धर्मं सर्वलोकमयं विदुः - ॥ २०७४ ॥
प्। १४२)
श्रीमद्व्याघ्र पुराणयोः शिरपुरे श्रीमत्कुमारापुरे ।
श्रीमद्ब्रह्मपुर स्थितेऽर्जुनवने श्वेतावनौ कुन्तके ॥ २०७५ ॥
श्रीमत्सख्यै पुण्डरीकपुरात्पूर्वमाहृत द्विसत्तमः ।
पञ्चविंशति सङ्ख्यातान् परसङ्ख्यान्वयात्ततः ॥ २०७६ ॥
त्रींशत् सङ्ख्यातान् ब्राह्मणान् ब्रह्मसंहितान् ।
पञ्चाशत्सङ्ख्यया युक्ता कुम्भनाथ समाह्वया ॥ २०७७ ॥
कुमार सुभगाख्याता चत्वारिंशद्विजोत्तमः ।
सर्वशास्त्रार्थ तत्वज्ञ श्वेताकारं षडाधिकम् ॥ २०७८ ॥
यस्मिन् देशे हरस्साक्षात् शिवस्य परमात्मनः ।
अष्टाविंशति सङ्ख्यातान् विप्राणान् सस्समसतः ॥ २०७९ ॥
विमानं रुचिरं देवं स्वलोकादि परालयम् ।
तस्मादशीत सङ्ख्यातान् प्रतीतिर्गुणैः ॥ २०८० ॥
विप्रान् ब्रह्मपुरी जातान् स्वषट्विप्रान् ससत्तमः ।
सदाशिवाख्यस्य शिववक्त्रे दीक्षिताः कौशिक- ॥ २०८१ ॥
कान्यपाद्यः । तेषां मुनीनां विधिवत्क्रमेण जाताः ।
शिवब्राह्मण नामधेयाः । वृद्धाद्रये कमलालये- ॥ २०८२ ॥
सितवनेछायावने मन्दरे । सैव मधुनापुरो-
र्जनवने पट्टीश्वरे हीश्वरे ॥ - ॥ २०८३ ॥
ललाग्रे तु शिवं विद्यात् ऊर्ध्वनृत्तं विचिन्तयेत् ।
आधारे लिङ्गनाभौ हृदय शिरसिजे तालु- ॥ २०८४ ॥
मूले ललाटे द्वे पत्रे षोडशारे द्विदशदले द्वाद-
शार्द्धे चतुष्के । वासान्ते बालमध्ये सफकढ- ॥ २०८५ ॥
सहितेहं वलर्क्षे मध्ये हंसस्सुदीप्तं सकलकल-
युतं वर्णरूपं नमामि ॥ आधार धाममणि- ॥ २०८६ ॥
सन्निभमात्मलिङ्ग मायापुरे हृदय पङ्कज-
सन्निविष्टम् । श्रद्धा नदी विमलचित्त जलाभिषेके- ॥ २०८७ ॥
नित्यं समाधिकुसुमैः अपुनर्भवाय- ।
ओङ्कारं बिन्दु संयुक्तं नित्यं ध्यायन्ति योगिनः ॥ २०८८ ॥
कामदं मोक्षदं चैव ओङ्काराय नमो नमः ।
नमन्ति ऋषयो देवं नमन्ति सुरसाङ्गणाः ॥ २०८९ ॥
नरा नमन्ति देवेशं न कराय नमो नमः ।
महादेवं महात्मानं महानुग्रहकारकम् ॥ २०९० ॥
प्। १४३)
महापापहरं देवं मकाराय नमो नमः ।
शिवं शान्तं जगन्नाथं लोकानुग्रहकारणम् ॥ २०९१ ॥
शिवमेकपरं देवं शिकाराय नमो नमः ।
वाहनम् ऋषभं चैव वासवारि सुरर्पितम् ॥ २०९२ ॥
वामशक्तिधरं देवं वकाराय नमो नमः ।
यत्र तत्र स्थितं देवं सर्वव्यापिनमीश्वरम् ॥ २०९३ ॥
इयमेकपरं देवं यकाराय नमो नमः ।
लोहजं दारुजं चैव मृण्मयं तु शिलामयम् ॥ २०९४ ॥
अङ्गुली कर्णनासाग्रं पुनसन्धानमाचरेत् ।
सन्धानयोग्यं सन्देहम् अयोग्यं न प्रयोजयेत् ॥ २०९५ ॥
अङ्गोपाङ्गविच्छिन्नं स्यात्सन्धानं विधीयते ।
क्रुद्धान्यः पञ्चवक्त्रान्यथ हृदयगलं भ्रंस- ॥ २०९६ ॥
नाभी च कुक्षिः । पृष्टोरः पायुशिश्नौर्युग-
वं * * * * तथा जानुयुग्मं च युग्मे । द्विस्फिक्- ॥ २०९७ ॥
कट्या च पार्श्वौपदयुगल करघ्राणमौली-
श्च बाहुस्थानं निस्युः कलानां शिवतनु- ॥ २०९८ ॥
करणे त्रिंशविद्याष्टकानाम् । * * * * * पत्-
पश्चाद्यथा शक्तिर्विशेषतः ॥ २०९९ ।
हर्म्यस्य पूर्वदिग्भागे जपेदायुष्यवर्धनम् ।
वह्नौ कलहं विद्यात् दक्षिणे जानुसिद्धिदम् ॥ २१०० ॥
राक्षसे * * * * * * * * मोक्षकारणम् ।
आकर्षणं तु वायव्ये उत्तरे श्रीप्रदायकम् ॥ २१०१ ॥
उच्चाटनं करोमीशे मध्यमेऽर्थ सिद्धिदम् ।
शिवाग्रे सर्वसिध्यर्थम् इत्येते जप * * * ॥ २१०२ ॥
लिङ्गद्वयं समाख्यातं चरं वा चरमेव च ।
चरः प्रतीति विख्यातम् अचरं पार्थिवान्वितम् ॥ २१०३ ॥
चरे सदा वसत्येव प्रीतियुक्तो महेश्वरः ।
आचरेन्मन्त्रसङ्कारान् वर्धत्येव * * * * त् ॥ २१०४ ॥
अङ्गभेदमिति प्रोक्तं तच्चतुर्विधमुच्यते ।
अङ्गप्रत्यङ्ग साङ्गं च * * * चतुरो भवेत् ॥ २१०५ ॥
शिरो वक्त्रं च हृदयम् अङ्गं चेति प्रकीर्तितम् ।
अष्टौ कर्णौ स्तनौ बाहौ नाभिगुह्योदरस्तथा ॥ २१०६ ॥
नेत्रं नास्य कर्णौ च पाणिपादौ तलाङ्गुलिः ।
ऊरु च जानु जङ्घौ च प्रत्यङ्गं चेति कीर्तितम् ॥ २१०७ ॥
प्। १४४)
वस्त्रोपवीतमाला च आयुधा भरणं तथा ।
आवरावरणं चैव साङ्गं चेति प्रकीर्तितम् ॥ २१०८ ॥
अभयवरदपात्रं दर्वीचापशरान् पाणि पङ्कजे-
दधते । अनवरतमन्नपूर्णेदेवीं हरसार- ॥ २१०९ ॥
पाण्डरां वन्दे ॥
अथातस्सम्प्रवक्ष्यामि चन्द्रचक्रमसदुर्लभम् ।
वसुवृत्तं लिखेच्चक्रम् अन्तः खण्डद्वयान्वितम् ॥ २११० ॥
कलारुकर्णिका मध्ये पिण्डरूपं महाननम् ।
टान्तं च वरुणं बीजं बिन्दुयुक्तं ततः परम् ॥ २१११ ॥
षान्तं च तृतीयं च वान्तं वह्निसमन्वितम् ।
चतुर्दशस्वरोपेतं बिन्दुनादयुतं पिबत् ॥ २११२ ॥
चतुर्यार्णव मध्ये तु भुवनेशं तु विन्यसेत् ।
एतं पिण्डं महामन्त्रं कर्णिका मध्यमे लिखेत् ॥ २११३ ॥
कलास्तु विन्यसेत् पूर्वं षोडशादरलेष्वपि ।
द्वितीयं दल पङ्क्तौ तु च तृतीय दलं प्रति ॥ २११४ ॥
चतुरीयं तृतीयं तु चतुर्थं दलपक्षके ।
दान्तं च पञ्चमे वृत्ते वारुणं बीजमालिखेत् ॥ २११५ ॥
षष्टे तु षान्तं विन्यस्य सप्तमेऽपि यदण्डकम् ।
कलास्थं बिन्दुकान्यस्य तद्बहिषृक्षराण्यपि ॥ २११६ ॥
षोडशस्वरसंयुक्तं बिन्दुयुक्तानि विन्यसेत् ।
दलेष्वष्टमष्टकं भुवनाधिपतिं लिखेत् ॥ २११७ ॥
करेग्रेषु शशिज्वाला स्वधाबीज समन्विता ।
उक्तमं चन्द्रवक्त्रेषु दिव्यमेतमुदीरितम् ॥ २११८ ॥
एतत् काल विशेषेण सर्वाभीष्ट फलप्रदम् ।
ह्रीङ्कारं चन्द्रमध्ये तु उपरिलये षोडशावर्ण- ॥ २११९ ॥
पूर्णे बाह्ये पद्माकृतिस्स्यात् दिनकरसहितं
सान्तयान्तापि युक्तम् । तद्बाह्ये भानुवेष्टं- ॥ २१२० ॥
हरिहर सहितं मूलमन्त्रेण युक्तम् । साक्षात्- ।
त्रैलोक्य वश्यं सकल विषहरं यन्त्रराजाधि- ॥ २१२१ ॥
राजम् । शतांश विंशत्य नवाष्टपात्रं मध्येषु बीजं तदनन्तरं च ।
स्वरां च ज झं वसहं ह्री मध्ये न्यसेदिन्दुमतीं च
चक्रम बाहुस्त वलितां कीलजीवर्गा बन्धूकपा- ।
कतिकुसुमारुण देहकान्ति । पीनस्तनीमद- ॥ २१२२ ॥
प्। १४५)
विघूर्णित नेत्रपद्मा लक्ष्मीशपाश निखिल-
देवदेयम् । काकुनासनि शिताङ्कुश कुल तेन- ॥ २१२४ ॥
ताम्म्रेण जीवनकरेण समीक्ष्यमानम् । दिव्यां-
कुशस्थिति नयनत्रयाढ्यां शक्ती हरेरिति मुने- ॥ २१२५ ॥
मनसापि चिन्ते ॥ पाद्यं पादतले न्यस्य-
आचमनं तु हस्तयोः । अर्घ्यं शिरसि विन्यस्य- ॥ २१२६ ॥
गन्धकार्यानुलेपनम् । पुष्पमूर्ध्नि धूपं नासा-
पुटं द्वयोः । दीपं नेत्रेषु विन्यस्य अन्नादीन्- ॥ २१२७ ॥
करतले न्यसेत् । पाद्यं पाप विनाशं स्यात् आच-
मनं तु श्रियावहम् । अर्घ्यं देवप्रियार्थं स्यात् ॥ २१२८ ॥
गन्धं ब्रह्मप्रियावहम् । पुष्पम् ऋषिप्रियं चैव
ज्ञेयम् आरार्तिकं जये प्रियम् । दर्पणं ज्ञानदं
ज्ञेयं छत्रमाज्ञाप? कल्पनम् । चामरं च?त्रुनाशम् ॥ २१३० ॥
स्यात् गेय * * * * * * * * * * ॥ समृद्धि-
स्यात् पानीयं प्राणलक्षणम् ॥ २१३१ ॥
वन्दे नादपदुद्वन्द्वं वामनातीत गोचरम् ।
श्वेतरक्तप्रभाभिन्नं शिवशक्त्यात्मकं परम् ॥ २१३२ ॥
इत्येव मुक्तं भगवान् कृष्ण * * * * श्वर ।
भक्तस्या व्यानदा च मालोक्य मुनयः करुणानिधिः ॥ २१३३ ॥
तृष्णीकामुपदेष्टारं तृष्णी भावसमाहितः ।
तृष्णी ध्यान समाधिश्चेत् अत्र सोऽर्थ प्रसीदति ॥ २१३४ ॥
तारं खं षां तु कूटं भरल भररयून्तार पूर्व-
सबिन्दुनादं हुं फड् तडङ्गौ वर्षड्पि सहित- ॥ २१३५ ॥
तद्घातयेनापि वौषट् । वाक् शुर्कन्दु ध्वनि-
शिवर्ष क्लीन्दुनाद द्वयं तु प्रोक्तं शक्त्यौ च बिन्दु- ॥ २१३६ ॥
ध्वनिरपि मनु वै शालिकाया विसर्गम् ।
वान्तं खं वार्चबिन्दु ध्वनीरमनुवै शुकन्ति- ॥ २१३७ ॥
स्सकामं हृम्बिन्दुन्नाद बिन्दुध्वनिषं रमौ
बिन्दुनादं हि मेवम् ॥ २१३८ ॥
श्यामवर्णसमायुक्तं कम्बुग्रीवं महोदरी ।
रक्तवस्त्रधराशान्ता आयुर्ध्वज संयुता ॥ २१३९ ॥
प्। १४६)
सर्वाभरणसंयुक्ता कन्या पुत्रसमायुता ।
तस्य बाहु समं कुर्यात् कन्यका पुत्रकौ क्रमात् ॥ २१४० ॥
सोमधारी शिञ्चतीय मुमया सह तृतीयं-
तु वृषारूदं चतुर्थं नृत्तरूपकम् । वै वाह्य- ॥ २१४१ ॥
कं पञ्चमं विद्वान् षष्टं भिक्षाटनं भवेत् ।
कारि सप्तमं विद्यात् कालकालाष्टमं भवेत् ॥ २१४२ ॥
नवमं त्रिपुरारिं स्यात् जलन्धरमिति दशा ।
एकादशं गजारि स्यात् द्वादशं वीरभद्रकम् ॥ २१४३ ॥
त्रयोदशं हरिरर्धं स्यादर्धनारीं ततः परम् ।
पञ्चादशं किरातं स्यात् कङ्कालं षोडशं भवेत् ॥ २१४४ ॥
चण्डेशानुग्रहं चैव ततस्सप्तदशो भवेत् ।
विषापहरणं चैव अष्टादशमिति स्मृतम् ॥ २१४५ ॥
चक्रतान स्वरूपं तु एकोन विंशति स्मृतम् ।
विघ्नप्रसादं विंशच्च उमास्कन्दमतः परम् ॥ २१४६ ॥
द्वाविंशदेकपादं स्यात् त्रयोविंशत्सुखासनम् ।
दक्षिणामूर्ति रूपं च चतुर्विंशत्प्रकीर्तितम् ॥ २१४७ ॥
इन्द्र धारादिवस्त्रं तु वर्माख्या तु समुद्भवा ।
पञ्चविंशत्प्रकारेण कूपश्चेति पृथक् पृथक् ॥ २१४८ ॥
सृष्टिलिङ्गं तु गङ्गार्थं व्याख्या सङ्गेय मूर्तिनम् ।
शश्वत्थशेखरं कान्तिग्रहं कालाग्रहम् ॥ २१४९ ॥
गौरीश्वरं तु वाराह्यम् उमयानि ग्रहं परम् ।
उमया सहितं गौरी संवादं च सुखावहम् ॥ २१५० ॥
गुह्येमा सहितं चार्थ-रूपं पुरान्तकम् ।
किरातार्जुनकं कालम् उमार्ध हरिरर्धकम् ॥ २१५१ ॥
नृत्तमूर्तित्रयं पश्चात् दहं चा विधरं भवेत् ।
चण्डेशानुग्रहं पश्चात् मुखलिङ्गमतः परम् ॥ २१५२ ॥
विघ्नस्कन्दं च चण्डेशं क्षेत्रेशं कमलोद्भवम् ।
चक्रपाणिश्च मातण्डि नागेशं वीरभद्रकम् ॥ २१५३ ॥
गौरी दुर्गां तथा श्रेष्ठं महाकोटि सरस्वति ।
जाह्नवी भद्रकाली च लक्ष्मी पृथ्वीमातरः ॥ २१५४ ॥
तच्छास्त्रोक्तमार्गेण चत्वारिंशत्तु विग्रहम् ।
वैवं शक्त्य सदाशिवेत् शुचितमीन् कालस्य- ॥ २१५५ ॥
प्। १४७)
यथा कला विद्या राग प्रधान गुणद्वितीयं स्मरेत् ।
गर्भान् मनछ शृतिं त्वक् तालु सनाडि वाक् कर- ॥ २१५६ ॥
पदमपायच्च लिङ्गं रवं स्पर्श रूपरसौ च-
गन्ध कमूस्तेजोम्बु प्रासिंस्मरेत् । इडया- ॥ २१५७ ॥
बिम्बो षोडशभिर्पवनं च तु रथाष्षष्टि-
यधिकोदधिकम् । त्यजपिङ्गलशयं न केशन- ॥ २१५८ ॥
कैर्दशदेशभिर्द्विदधिकम् । ओङ्कार ध्वनिनादेन-
वाय्वर्थं हृदिनान्तकम् । निलारम्भं समुद्धृत्य- ॥ २१५९ ॥
तत्र नादोलयं कृतम् । वर्णोद्भवम् । शिवतत्वे-
परे सूक्ष्मे बिन्दुरुत्पद्यते तदाम् । बिन्दोर्नादं- ॥ २१६० ॥
समुत्पन्नं नादाच्छक्तिरजायत । अङ्गुरं नाद-
मित्युक्तं बिन्दुबीजमिति स्मृतम् ॥ २१६१ ॥
तद्बीजं कष्टमित्युक्तं सर्वशक्तिमयं शुभम् ।
शक्तेस्तु वाग्भवे जातं वाग्भवात्षोडशाः कलाः ॥ २१६२ ॥
कलाद्यैर्व्यञ्जनं जातं व्यञ्जनात्सर्वशास्त्रकम् ।
तद्बीजाङ्कुर काले तु अकारम् आस्य सम्भवम् ॥ २१६३ ॥
अकारादि क्षकारान्तम् आस्य बीजानि चोद्भवम् ।
कपादि वर्णान् उभयानुदादिकान् ।
पयादि कामाक्षरजाश्च बिन्दुजाः । क्रमाद- ॥ २१६५ ॥
नन्नावधिकास्तुषाधिकान् । तिलानचम् ।
विवस्वादीन् विनिक्षिप्य दधिपूजाश्चमित्रके ॥ २१६६ ॥
महीधरे भवेद्धुग्धम् अवमन्त बलि स्मृतम् ।
पर्जन्यास्याज्य मैन्द्रैस्तु नवनीतण्डु पुष्पकम् ॥ २१६७ ॥
इन्द्रे कोष्टञ्च पुष्पं च मधुगन्धाश्च भास्करे ।
सद्यं मधुकं दद्यात् भूशाय नवनीतकम् ॥ २१६८ ॥
दग्धाज्यान्तकरं वह्ने शम्बानां पूर्णिपायसम् ।
क्वतपन्नं विधते शीतु राक्षसे बलिरिष्यते ॥ २१६९ ॥
शिवान्नं तु सुरान्नं वा गन्धर्वेऽखिलगन्धकम् ।
भृङ्गराजविमुख्यं स्यात् झषे मत्स्योदनं विदुः ॥ २१७० ॥
नृत्तौ च तिल पुण्याहं बीज दौवारिके बलि ।
सुग्रीवो मोदकं पुष्टं गन्धपुष्पं ततोयकम् ॥ २१७१ ॥
वरुणे पायसं न्यस्य शोणितानां सुरैरपि ।
सतिलं तण्डुलैश्शोष्य रागास्यान्तु क मत्स्यकम् ॥ २१७२ ॥
प्। १४८)
सुविन्नं वारेनात्मेद्य * * * ञ्च तुलाज्वकम् ।
शान्तिपूजा हि मूलस्य दधिमस्तु च संस्मृतम् ॥ २१७३ ॥
गुलोदनं च भल्लाभे सोमो * * दनं ददेत् ।
शुक्लमासे मृगे दद्यात् देवमातरि मोदकैः ॥ २१७४ ॥
उदितो तिल भक्ष्येण क्षुरान्तं सर्वशीरिते ।
लाज धान्य सविन्द्रस्य साविन्द्रे गन्धतोयकम् ॥ २१७५ ॥
रुद्रे रुद्रजये मासे मासस्विन्नम् अपापवत्सयोः ॥ २१७६ ॥
कुमुदं मत्स्य मांसं च शङ्खं च खं च पद्मकम् ।
माद्य * * * * ग्रे तु ईन्द्रे या दक्षिणे बलिः ॥ २१७७ ॥
पूतनायाः स्मिलं बिष्ट मान्यामुत्सारिरीयकम् ।
साधारणबलिं शुद्धभोजनं सघृतं दधि ॥ २१७८ ॥
सर्वेषामपि देवानां गन्धादीनि ददेत् * * ।
कन्यार्कमुत वेश्या च बलि धारणयोग्यकाः ॥ २१७९ ॥
अङ्गन्यास करन्यास चूतश्चेता यथा क्रमम् ।
ओङ्कारादि नमोऽन्तेन देवानामभयामि च ॥ २१८० ॥
दत्वा तु पूजनं पश्चात् साधार बलिं ददेत् ।
तत्तत्योग्यं बलिं पश्चात् तदिदं तोयदेद्बुधः ॥ २१८१ ॥
ग्रामादीनां च मण्डूके पदे परम शाधिके ।
सन्तप्य देवा बाह्येवं पूर्वोक्त विधिना क्रमात् ॥ २१८२ ॥
विसर्जयेत्ततो देवा स विन्यास्थन्तु तत्रवत् ।
ब्राह्मणान् बाह्यदेवांश्च तत्तदुक्त पदे न्यसेत् ॥ २१८३ ॥
देवालय विधानार्थं द्वारार्थं न प्रकीर्तिताः ।
एवं ग्रामादिति प्रोक्तं रहस्यन्यमितीरितम् ॥ २१८४ ॥
कूपोपवासस्थं गतिः ।
प्रसन्नो विशुद्धदेहोपि कलागृहीत्वा ॥ २१८५ ॥
विशेष सामान्य बलिं नराणां यथोक्त नित्यं-
विधीत सम्यक् ॥ मयमते ॥ २१८६ ॥
सदाशिवस्य हृदयं शक्तिं शिवहृदं शिवम् ।
उभयोरन्तरं नास्ति वायुरम्बरयोरपि ॥ २१८७ ॥
शिवशक्ति समायोगात् माताशक्ति पितामहम् ।
तस्मात्सर्व प्रयत्नेन अग्निरुद्भवमुच्यते ॥ २१८८ ॥
अथ वक्ष्ये विशेषेण शिवरात्रिं स पूजयेत् ।
नक्षत्राणि तिथीनां च उदये तीर्थसङ्ग्रहे ॥ २१८९ ॥
माघे कृष्णचतुर्दश्यां शिवरात्रिं प्रपूजयेत् ।
त्रयोदशि तिथि प्रोक्तं ततन्त्रा तु चतुर्दशी ॥ २१९० ॥
प्। १४९)
दीपकाले चतुर्दश्यां रात्रौ हुं फट् प्रशस्यते ।
उभे घोरौ प्रयोक्तस्यं पूजयेत्साधदाञ्जनम् ॥ २१९१ ॥
चतुर्णां तु दशाता यत् पूरणं तु चतुर्दशी ।
तत्तच्चतुर्दशीयुक्तं तत्तद्रात्री वृतं पतिः ॥ २१९२ ॥
लैङ्गपुराणे-
त्रयोदश्याममावास्यां युक्ता चेत् चतुर्दशी ।
चतुर्दश्याधिकारात्री शिवरात्रिरिति स्मृतम् ॥ २१९३ ॥
वायुपुराणे- कालदर्शे-
त्रयोदश्यास्तमये सूर्ये चतुस्त्रीष्वेव नासिषु ।
भूति विधातु या तत्र शिवरात्रि वृतं चरेत् ॥ २१९४ ॥
सर्वेष्वेव सर्वेषु दीपावारणमिष्यति ।
अन्यथा पुण्य हानिस्स्यात् ऋते पारण पारणा ॥ २१९५ ॥
भवेदद्य त्रयोदश्यां भूतव्याप्ता महानिशा ।
शिवरात्री व्रतं तत्र कुर्याज्जागरणं तथा ॥ २१९६ ॥
सूर्यास्ते नव नाडीषु भूतवित्ता त्रयोदशी ।
शिवरात्री व्रतं कुर्यात् तदा जागरणं तथा ॥ २१९७ ॥
पूर्वे कृतगव्यं स्यात् द्विसन्धिपञ्चामृतं तथा ।
त्रिसन्ध्यं मधुनापूज्य इक्षुसारं चतुर्थकम् ॥ २१९८ ॥
आचार्यं पिण्डितं पूज्या जनार्दनं विशेषतः ।
पट्टवस्त्रं तद्दिने वापि दर्शनामेति तत्र ताः ॥ २१९९ ॥
राजाभिषेके शत्रुघ्ने दीक्षामध्येष्टिमेव च ।
अन्नं प्राशनं चैव प्रोक्षणं चाष्टबन्धनम् ॥ २२०० ॥
दक्षिणी प्रसवे जातिकापालेपन्नं कारयेत् ।
अथातः सम्प्रवक्ष्यामि वृषभवाहनलक्षणम् ॥ २२०१ ॥
वृषारूढं द्विधा प्रोक्तं बुक्तिदं वृद्धिदं तथा ।
भवानी सहितं देवं वृषभोर्ध्वे विन्यसेद्बुधः ॥ २२०२ ॥
वृषभं पृष्टतो न्यस्य पूर्ववद्दक्षिणान्वितम् ।
चतुर्भुजं त्रिणेत्रं च जटामकुटसमन्वितम् ॥ २२०३ ॥
दिव्याभरण मन्त्रैवं सर्वाभरण संयुतम् ।
शुक्लयज्ञोपवीतं च शान्तरूपं स्मिताननम् ॥ २२०४ ॥
परशुन्दक्षिणे हस्ते वरदं वामहस्तके ।
मेचकदरी चैव हरिणीतरमेव च ॥ २२०५ ॥
पूर्वहस्तं च योश्वाभिः अभयं दक्षिणे करम् ।
वामां प्रीणि शायये पीठ सव्यपाद प्रलम्भयेत् ॥ २२०६ ॥
वृषभवाहनमाख्यातं नृत्तं शान्तिमथोऽपि वा ॥ २२०७ ॥
भृङ्गारिरायसं भाव व्याघ्रचर्माम्बरान्विताम् ।
अण्डजं मुण्डजं चैव रो * * च मथन्तथा ॥ २२०८ ॥
प्। १५०)
आचामङ्गहीनेन च दोषं मन्त्ररूपकम् ।
साधकाचार्यसंयुक्ता सतिषेकान्त तिक्षकैः ॥ २२०९ ॥
नित्ये नैमित्तिके चैव सर्वकर्मसमाचरेत् ।
अयितिद्वारतिष्ठन्ति ये भुञ्जति द्विजोत्तमः ॥ २२१० ॥
आपोशनं सुरापानम् अन्नं गोमांस भक्षणम् ।
सदण्डकदलीपत्रं वामपार्श्वाग्रकेऽपि वा ॥ २२११ ॥
शैतल्यमासनं चैव भुक्त्वा चान्द्रायणं चरेत् ॥ २२१२ ॥
प्राङ्मुखं धोमुखं भूत्वा यजस्य दक्षिणामुखम् ।
श्रियं मुक्तिमुखे भुङ्क्ते न चा भुक्तमुदङ्मुखम् ॥ २२१३ ॥
वेदविद्याव्रतस्नाने श्रोत्रियो ग्रहमागते ।
क्रीडत्येषयियत्सर्वं यस्या मा परमा गतिः ॥ २२१४ ॥
तोयं शुद्धमशुद्धं वा अल्पं वाल्पमेव वा ।
शिवलिङ्गे तु विख्यातं यज्जलं शिवसन्निधौ ॥ २२१५ ॥
सूर्यादि सुर्यान्न्त्य दिनं नराणां तैलभियुक्तम् ।
कमसत्फलानि । हृत्वापि कीर्तिं मरणं सुखं- ॥ २२१६ ॥
च पुत्रस्य नाशं निधनत्वमायुः ॥ मृत्यु-
श्रियं व्याधिमतीव दुःखं धनक्षयं सम्पद- ॥ २२१७ ॥
मुद्वहानिम् । सूर्यादि वारः क्रमशः फलानि
दद्यात्कषाय हुतिं ब्रूयात् ॥ आशौ च मादाय- ॥ २२१८ ॥
विवर्जितानि कंसेषु भेजेषु सभानि मध्ये-
व्रतोपवासेषु न वेदपारकः ॥ २२१९ ॥
नीलवर्णं द्विनेत्रं च द्विभुजं च द्विपादकम् ।
अभयं वरदञ्चैव किरीटमकुटान्वितम् ॥ २२२० ॥
वायसावाहनं चैव नीलाम्बरधरान्वितम् ।
अया आभरणं चैव शान्तमूर्तिशनैश्वरम् ॥ २२२१ ॥
विशेष यजनार्थाय देवदेवस्य निर्मितम् ।
तण्डुले उपदंशार्थे अष्टांशं देशिकोत्तमः ॥ २२२२ ॥
सिंहे व्याघ्र वराहश्च गर्दभो गज एव च ।
महिषः कुक्कुटश्चैव एते सङ्क्रान्ति वाहनः ॥ २२२३ ॥
पक्षक्षोबं प्रवालं च वर्ककार्पास एव च ।
कम्बलं कम्बलं चैव एते सङ्क्रान्ति वस्त्रकम् ॥ २२२४ ॥
वीणाखड्गं च शूर्पं च उपदण्ड धनुर्धरः ।
सर्पदण्डायुधं चैव एते सङ्क्रान्ति आयुधम् ॥ २२२५ ॥
प्। १५१)
मुद्गान्नं पायसान्नं च गुलान्नं साङ्गमेव च ।
दभैर्मुष्टि निराहारम् एते सङ्क्रान्ति भोजनम् ॥ २२२६ ॥
सिह्मेति राज्यहानिस्स्यात् व्याघ्रे ब्रह्मद्विजोत्तमः ।
वराहे सस्य नाशं स्याद्गर्दभं वैश्य नाशनम् ॥ २२२७ ॥
गजेति राजहानिं स्यात् महिषे शूद्रनाशनम् ।
कुक्कुटस्सर्वनाशम् एते सङ्क्रान्ति लक्षणम् ॥ २२२८ ॥
यौ दौ शङ्खकपाल भूषितकरौ मालास्थि-
मालाधरौ देवौ द्वारवती श्मशान निलयौ- ॥ २२२९ ॥
नागारि गोवाहनौ । द्वित्र्य यक्षो बलिं दक्ष-
यज्ञमथनौ श्री शैलजावल्लभौ । पापं ते हरतां- ॥ २२३० ॥
सदा हरिहरौ श्रीवत्सगङ्गाधरौ । ये पद्मादि
पयस्समुद्रनिलया ॥ कल्याणमस्तु कमला- ॥ २२३१ ॥
भिमुखी सदास्तु दीर्घायुरस्तु धनदान्य
समुद्धिरस्तु ॥ आरोग्यमस्तु विजयोऽस्तु- ॥ २२३२ ॥
विभूतिरस्तु ॥ ब्रह्मायुश्चिरमातनोतु तनुतां
नारायणो रक्षणम् । शत्रून् संहरतां हरश्च- ॥ २२३३ ॥
विजयं कुर्याद्बलारिस्तव । आरो * * * तात्
सहस्रकिरणौ दद्यात् बलं मारुतौ । वक्रे नृत्य तु- ॥ २२३४ ॥
भारती च भवने लक्ष्म्या चिरं जीव तु ।
भारत्या विधिरीश्वरो गिरिजया * * * * ॥ २२३५ ॥
पद्मजा देवैर्देवपतिं पुलोमसुतया सार्धं
गणेशो गणैः । भूदेवी मरुदग्रवह्नि सलिलै- ॥ २२३६ ॥
व्योमादिभिर्वोचरैः । सूर्यं सन्ततमेन * * ।
क्षन्नु निक्षेपवत् । आरोग्यं भगवान् ददातु- ॥ २२३७ ॥
सविता कान्ति प्रसादौ शशि ॥ भूमिर्भूमि सुतो- ।
बुधो निपुणतां वाचस्तु वाचाम्पतिः । शुक्रो- ॥ २२३८ ॥
भूमिति धत्सम लतुष्काबदान कृनाञ्चनि ।
सर्वैरिष्ट गृहस्थितामपि दपित्येकादशो- ॥ २२३९ ॥
त्तमफलम् । कावेरी हृदयाभिरामपुलिने- ।
पुण्यैर्जगन्मङ्गले । चन्द्रां भोगवती तटे- ॥ २२४० ॥
परिसरे धात्रासमाराधिते । श्रीरङ्गे भु- ।
जगेन्द्र भोगशयने लक्ष्मीमही सेविते ॥ २२४१ ॥
सीते यः पुरुषोत्तमस्य भगवान् नारायणः- ।
पातु माम् । एक ध्याने मीलनामुकुलित चक्षुः ॥ २२४२ ॥
प्। १५२)
द्वितीयः पुनः । पार्वत्या नयनाम्बुजं स्तनतटे-
शृङ्गार भारारवम् । अन्यत्क्रूर विकृष्टचापमद- ॥ २२४३ ॥
न क्रोधेन लोष्टार्पितं शम्भोः गिरिरवं समाधि-
समये नेत्रत्रयं पातुवः । आकल्पं विजयीभ- ॥ २२४४ ॥
वत्वमनघत्वं सिद्धो भवेत् । पाणिग्रहं पर्वत-
राजपुत्र्याः पादाम्बोज पाणिसरोरुहम् । सारभौमौ- ॥ २२४५ ॥
भवत्वं क्षितिपालचरणत्वं चारविन्दो भव ।
किं चत्वं प्रतिपक्षसैन्य नलिनी गन्धद्विपेन्द्रो- ॥ २२४६ ॥
भवत्वं रक्ष्मिरमणो भव । त्वमचित्ररान्यसङ्कल्प-
सिद्धो भवतु । पाणिग्रहे पर्वतराजपुत्र्याः पादां- ॥ २२४७ ॥
बुजं पाणिसरोरुहाभ्याम् अश्मानमारोप्यति-
स्मरारे अन्तस्मितं मङ्गलमातनो तु । जयीश्च जय- ॥ २२४८ ॥
भुजमङ्गम शोधयांशुके न पल्हशोण शैल-
शिवशेखराम्भसि । इति शंसिते गिरिजया- ॥ २२४९ ॥
तथेति तद्वंशं भूक्षुरर्प्यतां हरः ॥ कर्पूरस्य-
फणीकृतस्य भसितं हारस्य काकोदरम् ॥ २२५० ॥
काकारस्य करारविन्द दहनश्चूडामणेः कर्परम् ।
कोशे यस्य करीन्द्र चर्म फणिकर्तुं प्रवृत्तौ ॥ २२५१ ॥
हरे शृते वीक्ष्यवत्नि खीडु मुखान्यवतु व्योम-
स्मिता पार्वती । कस्त्वं लोहित लोचनास्य चरणे ॥ २२५२ ॥
हंसः कुतो मारुत स्यात् किं तन्त्रादि सुपर्ण-
पङ्कज वनैः अम्भः सदा सन्निभम् ॥ तत्क्रीते- ॥ २२५३ ॥
नवरक्तखण्ड्यवतितैर्मन्दार वृक्षैर्धृते । चम्बु-
काकिमु सन्दिने कवकैराकर्य ही ही कृते ॥ २२५४ ॥
अन्नं ब्रह्मा रसो विष्णुः भोक्ता जिह्वो महेश्वरः ।
एवं ध्यात्वा तु यो भुङ्क्ते सोऽन्नदोषं न लिप्यते ॥ २२५५ ॥
पाकपङ्कज मृत्तिके च कनक शुक्ति न समौक्तिकम् ।
क्रीडकोमल पट्टसूत्र विलसन्कस्तूरिकाक्षामृगम् ॥ २२५६ ॥
काष्टादग्नि मलाश्च सम्भवमधू होम्यं च गोरोचना ।
मुत्पत्यं च महानुभाव गुणिनं प्राप्तं च किं जन्मना ॥ २२५७ ॥
पूर्वे शैव मुखोत्पन्नं दक्षे कालामुखं स्मृतम् ।
पश्चिमं पाशुपतं चैव उत्तरं तु महाव्रतम् ॥ २२५८ ॥
ऊर्ध्वं तु भैरवं चैव पातालं वाममुच्यते ।
आचारः कुलमाख्याति विद्यामाख्याति भाषणम् ॥ २२५९ ॥
प्। १५३)
ब्राह्मणानां धनं वेदं क्षत्रियाणं धनं बलम् ।
वैश्यानां धनमैश्वर्यं शूद्राणामाचारमेव च ॥ २२६० ॥
यथा सकृत् कनकं परीक्ष्यते निर्द्दोष * * ।
न तापन ताडने । तथा चतुर्भः पुरुषं परीक्ष्यते- ॥ २२६१ ॥
शृतेऽनलेन कुलेन कर्मणा ॥ चूर्णा शुष्कं स्त्रियो
वृद्धा बालार्कन्नरुणं दधि । प्रत्यु * * * * ॥ २२६२ ॥
रनं शाखं सद्यो बलहराऽनिशम् ॥ राजाराक्षस- ।
रूपेण व्याघ्ररूपेण मन्त्रिणा । परिवारान् ॥ २२६३ ॥
घातृरूपेण यथा राजा तथा प्रजाः । स्वर्ग- ।
च्युतानाम् इह जीवलोके चत्वारि नित्यं हृदये- ॥ २२६४ ॥
वसन्ति । दान प्रशंसा मधुरा च वाणी देवा- ।
र्चनं ब्राह्मणतर्पणं च । अनुकूलरसा भार्या- ॥ २२६५ ॥
मित्र * * चनं रसम् । पानीयस्य रसं शैत्यम् ।
भोजनस्यादरो रसम् । अज्ञानं * * * शुचि- ॥ २२६६ ॥
मापणगतं कारोः करं स्त्रीमुखम् । पक्षीणां- ।
गतं त्रिखण्डफलं भैक्षं गुली माक्षिकम् ॥ २२६७ ॥
धात्रायां कलहे पुरस्य दहने तीर्थे च देवो- ।
द्भवे । सङ्ग्रामेव विपन्नवस्त्रमखिलं भाण्डं- ॥ २२६८ ॥
च लोहं स्पृशेत् । तक्रं तैलाभियुक्तं भुजग- ।
मिमुखं मुक्तकेशीश्च नारी दुष्पूरितं च- ॥ २२६९ ॥
कुम्भं कलहमभिमुखं वानरं काष्टभारम् ।
कार्पासं छिन्ननासं कटधिरं रक्तवस्त्रादि- ॥ २२७० ॥
वासं प्रस्थाने प्रस्थितानां प्रविलदशनौ- ।
मृत्युरग्रेण सिद्धिम् । ध्यानम् । अरुण- ॥ २२७१ ॥
अरुणवासो माद्यतामङ्गरागं- स्वकरकलित ॥
चापं शाङ्कुशास्त्रेक्षुचापम् । मणिमयमकुटाद्यैः ॥ २२७२ ॥
दीप्तमाकल्प जातम् अरुण नलिन संस्थं चिन्त-
येदङ्गयोने ॥ नीलजीमूतवर्णं सकलशिव- ॥ २२७३ ॥
मयं भैरवं शूलपाणिम् । कापालं खड्गहस्तं डम-
रुक सहितं वामहस्ते कपालम् । चन्द्रार्कं केतु- ॥ २२७४ ॥
माला विकृत तनुशिरा नागयज्ञोपवीतम् ।
काला कालान्धकारं महरनुभयं क्षेत्रपालं- ॥ २२७५ ॥
नमामि-
प्। १५४)
करधरित कपालम् ॥
रक्तपङ्कजसन्निभकायं सत्रनेत्र भुजद्वययुक्तम् ।
पद्मपाणि समुण्डकयुक्तम् आपदुद्धरण रूपमिदं स्यात् ॥ २२७६ ॥
सत्यं ज्ञानं तपो मौनं स्मृति धर्म इति शृतिः ।
अज्ञान मोह निद्रा च आलस्यम् अम्बु हीनता ॥ २२७७ ॥
पापिष्टं परया धत्ते तामसं गुणलक्षणम् ।
उत्साहं च यदुक्तं सात्विकं गुणलक्षणम् ॥ २२७८ ॥
सर्वक्रोधमहङ्कार मैथुनं च तु लापनम् ।
उद्योगं डम्भमानं च राजसं गुणलक्षणम् ॥ २२७९ ॥
सर्वसत्वं प्रभुत्वं च जगदुपद्रवमेव च ।
निर्मलत्वं * * * * * * * * * * * * ॥ २२८० ॥
अस्य श्री मद्रका सरस्वती महामन्त्रस्य ब्रह्मा
ऋषिः । गायत्री छन्दः । सरस्वती देवता ॥ २२८२ ॥
हलोम्बीजं स्वरशक्तयः । कीलकम् । मातृकासे- ।
अ + न्द । आं + अङ्गु । इं चं श्रीं तर्जनी । ॐ टं- णं- ॥ २२८३ ॥
मध्यमा- ऐं तं नम् । अनामि । ॐ फं मं कनिष्टकाभ्यां- ।
अं यं क्षं करतल करपृष्टाभ्यां नमः ॥ २२८४ ॥
पञ्चाशद्वर्णभेदैर्विहित वदनदोः पादयुक् ।
अक्षिपक्षो देहा भास्यकपद्या शिशुकंलाम् ॥ २२८५ ॥
इन्दुकुन्दावदाताम् । अक्षासृक् कुम्भचिह्नां
लिखितवरकरां त्र्यक्षणां पद्मसंस्थां- अच्छ- ॥ २२८६ ॥
कल्पाम् उच्चस्तनजघनम्मरां भारती तां नमामि ।
अं नमः । आधारे लिङ्गनाभौ हृदय सरसिजे ॥ २२८७ ॥
तालु मूले ललाटे द्वेपत्रे षोडशारे द्विदशदश-
दले द्वादशोर्ध्वे चतुष्के । वासान्ते बालमध्ये ॥ २२८८ ॥
डककठ सहिते कर्णमध्ये स्वराणाम् । हं क्षं
तत्वार्थयुक्तं सकलदलयुतं वर्णकूपं नमामि ॥ २२८९ ॥
अस्य श्री अष्टत्रिंशत्कलान्यासमन्त्रस्य + ईशान
सद्योजात ऋषयः - गायत्र्य - सि - भूरि - ता- ॥ २२९० ॥
प्। १५५)
ॐ हां बीजम् । ॐ ह्रीं शक्तिः । ॐ सं शिवाय कीलकम् ।
विनियोगः । ॐ हां सर्व + हृदयाय नमः । ॐ ह्रीं- ॥ २२९१ ॥
अमृ - शिरसे स्वाहा । ॐ हं हुं ज्वलित शिखेषु +
ॐ हैं वज्रिणे । स्वतन्त्रायै । ॐ ह्राम् अलुप्त - ॐ पशुम् ॥ २२९२ ॥
फट् ॥ ध्यानम् ॥ भि भ्रं + नाम् ॥ * * * * * * * * * * * ।
पूगीफलं नागवल्ली वासनाद्रव्य संयुतम् ।
त्रिपुरायै निवेद्याथ नीराजनमथाचरेत् ॥ २२९४ ॥
अष्टपुष्पैस्समभ्यर्च्य प्रार्थयेत्परदेवताम् ।
कामेश्वरीमनुज्ञाप्य नवावरणमर्चयेत् ॥ २२९५ ॥
नालिकेरं घृतापूपं गुलविष्कसमन्वितम् ।
पानकम् इक्षुखण्डं च कदलीमधुलाजकम् ॥ २२९६ ॥
धारोष्णि क्षीरसंयुक्तं शिलावासनसंयुतम् ।
नवावरणपूजायां मध्ये मध्ये निवेदयेत् ॥ २२९७ ॥
पुष्पाञ्जलि त्रयं कृत्वा प्रार्थयेच्चण्डिकां हृदि ।
श्रीकण्ठमातृकां न्यस्त्वा जलान्तं पूजयेत्क्रमात् ।
पुष्पैरञ्जलिमापूर्य आवाह्यपरदेवताम् ॥ २२९९ ॥
आसनाद्युपचाराणि तत्तन्मन्त्रेण अर्चयेत् ।
धूपदीपं ततः कृत्वा नैवेद्यं सम्प्रदापयेत् ॥ २३०० ॥
क्षीरान्नं पायसान्नं च मुद्गमाषान्नमेव च ।
मरीच्यन्नं च नैवेद्यं वटकापूप संयुतम् ॥ २३०१ ॥
शष्कुली तिलमोदं च क्षीरलेह्यं निवेदयेत् ।
पानीयं पानकयुतं दधिक्षीरघृतं तथा ॥ २३०२ ॥
व्यञ्जनेन समायुक्तं चण्डिकायै निवेदयेत् ।
प्। १५६)
पिपासतो जक्षतश्च प्राङ्मुखं निरभिद्यत ।
मुखतस्तालु * * * जिह्वा तामुपजायते ॥ २३०४ ॥
ततो नानारसो जज्ञे जिह्वाया योधिगम्यते ।
अथेति अन्तश्शरीरे आकाश तस्मिन् क्रिया- ॥ २३०५ ॥
तत्र विविधं चेष्टमानस्य सतः ओजा इन्द्रिय- ।
शक्तिः ततः शक्त्यात्मकत्वात् सूक्ष्मरूपत्वात् ॥ २३०६ ॥
प्रणस्सुत्राख्यः महामुख्यः असुः प्राणास्सर्वेषां-
महत्वं दर्शयति प्राणाः इन्द्रियाणि यम्प्राणान्तं- ॥ २३०७ ॥
चेषां कुर्वन्तः । अनुपश्चात् प्राणन्ति चेष्टां कुर्वन्ति-
अपानं तं चेष्टां व्यजन्तः अपानन्ति चेष्टां त्यजन्ति- ॥ २३०८ ॥
राजानमनुगता भृत्या इव क्षिपता चाल-
यता निम्नोक्ते नक्षत्रे सादिकं च विराट् जीवा- ॥ २३०९ ॥
भेदेनोपासनार्थम् उक्तं जायते यस्सः जक्षतं
भक्षितुम् इच्छथ इत्यर्थः । प्राक् प्रथमं निर- ॥ २३१० ॥
भिद्यत विभक्तमभूत्ताल्वधिष्ठानम् ॥ जिह्वा-
इन्द्रियं नानारसो विषय वरुणो देवता ज्ञात- ॥ २३११ ॥
व्यानेव सर्वत्राधिष्टानम् इयं देवता विषय-
इत्येतच्चतुष्टयम् अनुक्तमप्यूहम् । विवक्षोमुखतो- ॥ २३१२ ॥
भूम्नो वह्निवाय्वाहृतं तयोः । जज्ञे च तस्य
सुषिरं निरोधस्समजायत । नासिके निरभि- ॥ २३१३ ॥
द्येतां दोस्सूयति न भस्यति । तत्र वायुर्गन्ध
वह्नो घ्राणो न नसिजिघ्रक्षति । यदात्मनि नि- ॥ २३१४ ॥
रालोकम् आत्मानं च मिदृक्षता । निर्भिण्णे तस्य
ज्योतिश्चक्षुर्गुणग्रहम् । बोध्यमानस्य ऋषिभिः ॥ २३१५ ॥
आत्मनस्तज्जिघृक्षत । कर्णौ च निरभिद्येतां
दिशश्रोत्रं गुणग्रहम् । विवक्षोः वक्तुमिच्छातः ॥ २३१५ ॥
मुखत एव वह्निर्देवता । वागिन्द्रियं व्याहृतम् ।
भाषणं तयोरिति इन्द्रिय देवताधीनत्वकम् ॥ २३१६ ॥
मणिदर्शयति । नभस्यति प्राणवायौ दोधूय-
मानेऽत्यन्तं प्रलपति तत्र नसि नासिकायां- ॥ २३१७ ॥
वायुर्देवता गन्धं बिभ्रतीति तथा अनेन-
न गन्धो विषयी दर्शितः घ्राण इन्द्रियं जिघृ- ॥ २३१८ ॥
क्षतः । गन्धगृहीतु मिच्छतः निरालोकं प्रकाश-
शून्यमासीदिति शेषः निर्मक्षिकमितिवत्- ॥ २३१९ ॥
प्। १५७)
एकवद्भावः । तदा आत्मानं देहं चकारान्यच्च- ।
वसतु दिदृक्षता अक्षिणी स्थानं ज्योतिरादित्यो- ॥ २३२० ॥
देवता चक्षुरिन्द्रियं ततो गुणस्य रूपस्य गृहः ।
ग्रहणम् अनेन रूपं विषयो दर्शितः । ऋषिभिः- ॥ २३२१ ॥
र्वेदैः बोध्यमानस्य तत् आत्मनः प्रबोधनं-
गृहीतुमिच्छतः ततो गुणगृहं शब्दग्रहणम् ॥ २३२२ ॥
वस्तुनो मृदुकाठिन्ये लघुगुर्वोष्ण शीतताम् ।
जिघृक्षत स्त्वङ्निर्भिर्णा तस्यां रोममहीरुहा ॥ २३२३ ॥
तत्र चान्तर्हितो वातस्त्वचिलब्ध गुणावृतः ।
हस्तौ रुहतुस्तस्य नानाकर्मचिकीर्षया ॥ २३२४ ॥
तयोस्तु बलवानिन्द्र आदानमुभयाश्रयम् ।
गतिञ्चिकीर्षः पादौ रुरुहाते हि कामिकाम् ॥ २३२५ ॥
पद्भयां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः ।
वस्तुनाधर्मान् मृदुञ्च काठिन्यं च गुरुत्वं च- ॥ २३२६ ॥
ओष्णमीषत् वृष्णत्वं च शीतत्वं चेत्यर्थः ।
यद्यपि अनुष्णत्वमपि इन्द्रिय विषय एव- ॥ २३२७ ॥
तथापि तस्य जिघृक्षा भावादोष्णमित्युक्तम् ।
वृष्णेति पाठेयणादिशश्यान्दसः । पूर्वोक्तान् वस्तून् ॥ २३२८ ॥
एतान् धर्मान् जिघृक्षतः । त्वङ्निर्भिण्णा ।
त्वगिन्द्रियाधिष्टानं चर्मजातम् इत्यर्थः ॥ २३२९ ॥
तस्यां लोमाणि इन्द्रियमहीरुहांश्च देवता-
वस्तूनि हस्तेन आन्दोलिते लघुगुरुत्वयोः ॥ २३३० ॥
ज्ञानात्तयोरपि त्वगिन्द्रिय विषयत्वमिति-
पौराणिकाः । तत्र तस्य क्वचिदन्तर्बहिश्च ॥ २३३१ ॥
वातो वृतः आवृत्यं * * * * * * * * * ।
प्। १५८)
घृतकं च रौद्र घृत कम्बलं च सुगन्धमेषादिनि-
मास पूजा । चन्दनादिषु गन्धेषु पुष्पमासादि- ॥ २३३२ ॥
पूजयेत् । दान्तारि चैत्रमासस्य वैशाखे-
अन्न पूजयेत् । ज्येष्ट फाल्गुन्यां पुष्पं पूजयेत् ॥ २३३३ ॥
दान्तारि चैत्रमासस्य वैशाखे अन्नपूजयेत् ।
ज्येष्टमासादिषु फलं पक्वफलानि वै । आषाढादि- ॥ २३३४ ॥
पवित्रस्य श्रावणे तिलपूजयेत् । पूर्वाषाढे तुला-
जाया अश्वमासे कृतानि वै । कृत्तिका दीप- ॥ २३३५ ॥
मासे तु मार्गशीर्षं च कुङ्कुमे । पुष्यमासादि-
सर्वाणि पूजयेत्तु विशेषतः । मधुलुब्ध- ॥ २३३६ ॥
तथा शृङ्गं पुष्पा पुष्पवनान्तरे । ज्ञानलुब्धः
तथा शिष्यं गुरोर्गुरुतरं व्रजेत् ॥ २३३७ ॥
कुण्ड गोलकमित्युक्तं लिङ्गपीठमुदाहृतम् ।
पीठं कुण्डमिति प्रोक्तं कोलकं लिङ्गमुच्यते ॥ २३३८ ॥
गोलकाकुण्डमुत्पन्नं गोलकाशैवमुद्भवम् ।
अदीक्षित चतुर्वेदी यस्य लिङ्गार्चन क्रिया ॥ २३३९ ॥
कल्पकोटि सहस्राणि जायते ब्रह्मराक्षसा ।
देवालये सभामध्ये श्मशाने राजसं ययौ ॥ २३४० ॥
मन्त्रमुच्चारणं कृत्वा * * दोषं न विद्यते ।
कुन्डिकां किंशुकापत्रं निर्गुण्डी च कपित्थकम् ॥ २३४१ ॥
एतेषु शूलपात्राणि पञ्चैते बिल्वमेव च ॥ २३४२ ॥
पुष्पालाभे तु पत्रेषु पत्रालाभे तथैव च ।
सर्वबीजाङ्कुरैः पत्रैः अर्चनोक्तं महोदरम् ॥ २३४३ ॥