नमस्कृत्य जगन्नाथं ब्रह्मा पृच्छति शङ्करम् ।
बालस्थानं कथं देव ! तत्सर्वं ब्रूहि मे प्रभो ! ॥ १ ॥
प्। ४०१)
ईश्वरः ॥
बालस्थानमहं वक्ष्ये शृणुष्व कमलासन ! ।
द्वारमानेन वा कु * भित्तिमानेन वा पुनः ॥ २ ॥
लिङ्गमानेन वा कु * तालमानेन वा पुनः ।
शैलजं दारुजं वापि बाललिङ्गं करोति हि ॥ ३ ॥
द्वारोच्चं नव चाभय एकैकं प्रतिमाच्छ्रयम्? ।
पूजांशोच्चं नव कुर्याद्विष्व? मागान्वितं तु ? ॥ ४ ॥
त्रितालं मध्यमोक्तम् अधमं तु द्विताल * * ? ॥ ५ ॥
एवमेव प्रकारेण बाललिङ्गं तु कारयेत् ।
तेन मानेन कर्तव्यं लिङ्गस्य भागमुत्तमम् ॥ ६ ॥
लिङ्गतार त्रिभागस्तु पीठादिस्तार? उच्यते ।
अधमो ब्रह्मभागः स्यान् मध्यमो * णु? उच्यते ॥ ७ ॥
ऊर्ध्वे तु शिवभागः स्याच्छत्राकार शिवो भवेत्? ।
लिङ्गसूत्रं तु कर्तव्यं नालं चैव तु कल्प * ? ॥ ८ ॥
अश्वत्थोदुम्बरं वापि बिल्वं चैव शमी तथा ।
बाललिङ्गं प्रकर्तव्यम् एवमेव क्रमेण तु ॥ ९ ॥
प्रासादस्ये शदिग्भागे आग्नेय्यां पुरतोऽपि वा ।
वारुणे वापि कर्तव्यं बालस्थानमिहोच्यते ॥ १० ॥
कूटं वा मण्टपं वापि प्रासादं वाथ कारयेत् ।
त्रिहस्तं पञ्चहस्तं वा सप्तहस्तमथापि वा ॥ ११ ॥
प्। ४०२)
समत्रिपादमधं वा मुख * * * * * * ।?
बालस्थानस्य वामे तु प्रपालित्वा * * * *? ॥ १२ ॥
मध्यमे वेदिकां कुर्यात् परितः मुण्डमुच्यते ।?
वृत्तं वा चतुरर्थं वा अ * *?नि * * * *? ॥ १३ ॥
मूल प्रासाद पूर्वं तु स्थापनं कारयेत् ततः ।
स्था *?लोपरि विन्यस्य शिवकुम्भं च वर्धनीम् ॥ १४ ॥
सवस्त्रं सहिरण्यं? च सकूर्चं सापिधानकम् ।
आवाह्य देवदेवेशं गन्धपुष्पादिनार्चयेत् ॥ १५ ॥
व्योमव्यापि समुच्चार्य ब्रह्माङ्गेन समायुतम् ।
पूर्ववत् स्थण्डिले विप्र ! अत्राह्येव? तु कारयेत् ॥ १६ ॥
अग्निमुखं च सन्धाय शिवाग्नेय हूयते क्रमात् ।
प्। १)
मण्टपं कारयेत् सम्यक् प्रासादस्याग्रके ततः ।
दक्षिणे चोत्तरे वापि कारयेल्लक्षणान्वितम् ॥
कूटं वापि प्रपां वापि कारयेद् अथवा पुनः ।
ततो मण्टपसंस्कारं विभवेन समन्वितम् ।
वास्तुहोमं निशाकुर्याल्लक्षणेन समन्वितम् ॥
दर्भमालाभिरावेष्ट्य चतुस्तोरण भूषितम् ।
अष्टदिक्षु ध्वजा न्यस्य वितानैरुपशोभितम् ॥
मुक्तादामैरलङ्कृत्य पुष्पमालोपशोभितम् ।
वेदिकारत्निकोत्सेधा दर्पणोदरवत् कृता ॥
अष्टद्रोणमितान् शालीन् तन्मध्ये विन्यसेत् ततः ।
शाल्यर्ध तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् ॥
पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् ।
शयनं कल्पयेत् तत्र अण्डजाद्यैस्ततो बुधः ॥
जलादुत्तीर्य देवेशं शुद्धिं कृत्वा विशेषतः ।
प्रासादं प्रविशेत् तत्र पुष्पदन्त पदे स्थितः ॥
आचार्यश्च शुचिर्भूत्वा नववस्त्रेण वेष्टितः ।
सोष्णीषस्सोत्तरीयश्च सर्वाभरणभूषितः ॥
बीजमुख्येन मन्त्रेण सर्वाङ्गेषु च विन्यसेत् ।
उपदेष्ट्टसमायुक्तम् आचार्यद्वयमुच्यते ॥
उपदेष्टा शरीरं च आचार्यो जीव उच्यते ।
सहितस्तु भवेद्विप्र सर्वसम्पत्कराय च ॥
प्। २)
मन्त्रन्यासं प्रकर्तव्यं लक्षणेन समन्वितम् ।
हस्ताभ्यां स्पर्शयेत् तत्र कादिपादान्तमेव च ॥
अङ्गुष्ठादि कनिष्ठान्तं पञ्चब्रह्म क्रमान् न्यसेत् ।
मध्यमादि तर्जन्यन्तं षडङ्गं विन्यसेत् क्रमात् ॥
अस्त्रं करतलं चैव विन्यसेत् तु विशेषतः ।
ईशानं मूर्ध्नि विन्यस्य मुखे तत् पुरुषं न्यसेत् ॥
अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् ।
पादयोस्सद्यमन्त्रं तु विन्यसेत् तु विशेषतः ॥
अष्टत्रिंशत् कलान्यासं विन्यसेद् देशिकोत्तमः ।
प्राकृतं भावमुत्सृज्य शिवोऽहमिति भावयेत् ॥
प्रतिमां पञ्चगव्येन स्थापयेच्छिवमन्त्रतः ।
सुवर्णसूत्रसम्युक्तं कौतुकं बन्धयेद् धृदा ॥
फलत्रयं च कर्पूरम् उशीरं चन्दनेन तु ।
तामालोड्य च सर्वं च लेपयेत् तु समन्ततः ॥
सुमुहूर्ते सुलग्ने च शयने शाययेच्छिवम् ।
प्रतिमां नववस्त्रेण पिधाय सकलाङ्गकान् ॥
प्रासादेन तु मन्त्रेण गन्धपुष्पादिनार्चयेत् ।
नवकुम्भान् समादाय त्रिसूत्रेणैव वेष्टयेत् ।
शुद्धोदकेन सम्पूर्य स कूर्चं सापिधानकम् ॥
सवस्त्रं सहिरण्यं च पञ्चरत्न समायुतम् ।
द्रव्येणैव समायुक्तं वीणिकादीनि विन्यसेत् ॥
प्रतिमायाश्चेशदिशि स्थापयेच्छिवकुम्भकम् ।
शिवकुम्भे शिवं पूज्य पञ्चब्रह्म षडङ्गकैः ॥
वर्धनीं तस्य वामे तु गौरीबीजेन स्थापयेत् ।
पूर्वादीशान पर्यन्तमष्टविद्येश्वरैर्युतम् ॥
प्। ३)
तस्य बाह्ये तु परितो लोकपालं च कुम्भकम् ।
स्थापयेत् स्वस्वमन्त्रेण पूजयेद्गन्धपुष्पकैः ॥
सुवर्णेनायुधं कृत्वा कुम्भमध्ये विनिक्षिपेत् ।
विद्येश्वराणां कुम्भानां स्वर्णं विन्यस्य देशिकः ॥
नैवेद्यं दापयेत् पश्चात् ताम्बूलेन समन्वितम् ।
ततो होमं प्रकुर्वीत भ्रंशमध्यपदे तथा ॥
पलाशाश्वत्थबिल्वं च उदुम्बरं प्लक्षमेव च ।
खादिरं च शमी चैवापामार्गं तथैव च ॥
पूर्वादीनि क्रमान्येतान् मध्ये पालाशमेव च ।
सर्वेषां चैव होमानाम् इध्मं पालाशमेव च ॥
समिदाज्य चरूल्लाजान् सर्षपाश्च यवान्तिलान् ।
मुद्गमाषं च विप्रेन्द्र नवद्रव्यमिहोच्यते ॥
समिधो हृदये नैवाज्यं च शिर उच्यते ।
चरुहोमं च शिखया लाजान्वै कवचेन तु ॥
नेत्रेण सर्षपं चैव अस्त्रेणैव यवांस्तथा ।
ईशानेन तिलं हुत्वा मुद्गं सद्येन हूयते ॥
माषं वामेन होतव्यम् एवमेव क्रमेण तु ।
सहस्रं वा तदर्धं वा तदर्धार्धमथापि वा ॥
अष्टोत्तरशतं वापि पञ्चाशत् पञ्चविंशतिः ।
षोडशद्वादशं वापि दशसङ्ख्या विशेषतः ॥
द्रव्यान्ते चैव द्रव्यान्ते व्याहृतिं जुहुयात् ततः ।
भवश्शर्वः पशुपतिः ईशानो विजयस्तथा ॥
प्। ४)
उग्रो रुद्रस्तथा भीमो एते होमस्य देवताः ।
वामा ज्येष्ठा च रौद्री च काली च कलविकरणी ॥
बलविकरणी बलप्रमथिनी सर्वभूतमनोन्मनी ।
क्रमात् कुण्डेषु विप्रेन्द्र शक्तयश्चाधिधेवताः ॥
द्रव्यान्ते प्रतिमां स्पृष्ट्वा पञ्चब्रह्म षडङ्गकैः ।
चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः ॥
व्योमप्रासादमन्त्रं च ब्रह्माङ्गं च ततः शृणु ।
मण्टपस्येशदिग्भागे स्नानवेदिं प्रकल्पयेत् ॥
उत्थाप्य शयनाद्देवं स्नानवेद्युपरि न्यसेत् ।
प्। १)
॥ श्रीः ॥
कुमार स्थापनविधिः (तिरुवाडुदुरैकोशे) अस्मिन् पटले तत्र तत्र केचन श्लोकाः अधिका दृश्यन्ते ।
आहत्य विंशति श्लोकाः अधिकतया विद्यन्ते ॥ अतः सम्पूर्णोऽयं पटलः अधोलिख्यते ।
ब्रह्मोवाच-
प्रणिपत्य जगन्नाथं ब्रह्मा वचनमब्रवीत् ।
कुमारस्थापनं किं वा तत्सर्वं ब्रूहि मे प्रभो ॥
ईश्वर उवाच-
तत् सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ।
पूजा भागसमोत्सेधं प्रतिमस्योच्छ्रयं भवेत् ॥
गर्भं तु नवधा भज्य एकैकं प्रतिमोच्छ्रयम् ।
चत्वारः पञ्चतालं वा षट्तालं वापि कारयेत् ॥
त्र्यक्षं चतुर्भुजं शान्तं मकुटेन समन्वितम् ।
वरदाभयहस्तं च अक्षमालाकमण्डलुम् ॥
सुस्थितं पद्ममध्ये तु पूर्वाभिमुखमेव च ।
जया च विजया चैव देव्यौ पार्श्वस्थिते सदा ॥
शिखिनं कुक्कुटं वापि गजं वा स्थापयेत् पुरः ।
एभिस्तु लक्षणैर्युक्तं प्रतिमां कारयेद् बुधः ॥
अष्टवर्गात् तृतीयं तु सप्तवर्गात् तृतीयकम् ।
प्रथमस्य चतुर्थं तु बिन्दुनादसमन्वितम् ॥
मूलमन्त्रमिदं प्रोक्तं त्रिदशानां तु दुर्लभम् ।
ह्रस्वा ब्रह्मसमाख्याता दीर्घाह्यङ्गानि चोच्यते ॥
प्। २)
रत्नन्यासं प्रकर्तव्यं पूर्वादिषु क्रमाद् बुधैः ।
वज्रं मरकतं चैव वैडूर्यं च प्रवालकम् ॥
चतुर्दिक्षु च विन्यस्य इन्द्रनीलं तु मध्यमम् ।
सुस्निग्धं कारयेत् तत्र नयनोन्मीलनं कुरु ॥
सुवर्णसूचिना चैव सौम्यं दृष्टिं लिखेत् ततः ।
अक्षिहोमं ततः कृत्वा नेत्रेणैव शताहुतिः ॥
प्रच्छन्नपटसंयुक्तं मधुवातेति तर्पयेत् ।
घृतं मिमिक्ष सन्तर्प्य सवत्सां गां प्रदर्शयेत् ॥
जयाया विजयाश्च मूलमन्त्रेण कारयेत् ।
द्वितीयस्य तृतीयं तु मायानल समन्वितम् ॥
बिन्दुनाद समायुक्तं जयाबीजमनुत्तमम् ।
सप्तवर्गाच्चतुर्थं तु मायातत्व समन्वितम् ॥
बिन्दुनाद समायुक्तं विजयाबीजमुच्यते ।
ब्राह्मणान् दर्शयेत् तत्र पुण्याहं वाचयेत् ततः ॥
स्नापयेत् पञ्चगव्येन प्रतिमां क्षालयेद्धृदा ।
नववस्त्रपरीधानं कुर्याद्ग्रामप्रदक्षिणम् ॥
जलाधिवासनं कुर्यात् त्रिरात्रं पञ्चरात्रकम् ।
यामं वा मूलमन्त्रेण प्रच्छन्नपटसंयुतम् ॥
अभितः कलशानष्टौ लोकपालाधिदेवान् ।
जलादुत्तीर्य पूर्वे तु स्नापयेत् पञ्चगव्यकैः ॥
वास्तुहोमं ततः कृत्वा मण्टपं कारयेत् ततः ।
प्रासादस्याग्रतः कुर्यात् पूर्वोक्तेन विधानतः ॥
प्। ३)
मध्यमे वेदिकां कुर्यात् परितः कुण्डमुच्यते ।
चतुरश्रं चतुर्दिक्षु आग्नेयादिषु वृत्तकम् ॥
इन्द्र ईशानयोर्मध्ये कुर्यात् कुण्ड त्रिकोणकम् ।
सोमेशाने च योर्मध्ये पञ्चाश्रं विजयाय च ॥
अथवान्य प्रकारेण षट्कोणं च प्रकल्पयेत् ।
त्रिकोणं कल्पयेत् कुण्डं शक्तिद्वयं कारयेत् ॥
शालिभिर्विकिरेद् वेदीं तण्डुलं च तिलं न्यसेत् ।
शयनं कल्पयेत् पञ्च चर्मचाद्यैरनुक्रमात् ॥
शाययेद् वेदिकामध्ये प्राक्शिरश्चोर्ध्ववक्तकम् ।
जयां च विजयां चैव पार्श्वयोरुभयोर्न्यसेत् ॥
कौतुकं बन्धयेत् पूर्वं हृदयेन तु मन्त्रतः ।
प्रतिमायेश दिग्भागे स्थापयेत् स्कन्दकुम्भकम् ॥
सवस्त्रं सहिरण्यं च सकूर्चं सापिधानकम् ।
पूर्वादीशानपर्यन्तम् अष्टकुम्भान् प्रविन्यसेत् ॥
कुमारं च गुहं चैव सुब्रह्मण्यं तथैव च ।
सेनापतिं सुराग्रं च हरसूनुं तथैव च ॥
शरवणोद्बवं चैव कार्तिकेयं च विन्यसेत् ।
गन्धपुष्पादिनाभ्यर्च्य स्वस्वनाम्ना च मन्त्रतः ॥
नैवेद्यं दापयेत् पश्चात् ताम्बूलं दापयेत् ततः ।
ततो होमं प्रकुर्वीत अग्निकार्योक्तवर्त्मना ॥
समिदाज्य चरूल्लाजान् सर्षपां च यवां तिलान् ।
शालिनीवारगोधूम मुद्गं चैव समन्वितम् ॥
प्। ४)
पञ्चब्रह्मषडङ्गैश्च क्रमाद्धुत्वा विशेषतः ।
स्कन्दमूलेन होतव्यम् आज्ये नैव शताहुतिः ॥
ऋत्विग्भिस्सह होतव्यं तत् तद्दशांशतोऽशनम् ।
षडक्षरेण मन्त्रेण होमयेत् तु सहस्रकम् ॥
अघोरेण तु मन्त्रेण प्रायश्चितं शताहुतिः ।
जया च विजयायाश्च प्रत्येकं तु शताहुतिः ॥
जयादिरभ्याधानं च राष्ट्रभृच्च हुनेत् क्रमात् ।
ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः ॥
ततोऽवसानहोमं तु समिदाज्यचरूयुतम् ।
मूलमन्त्रेण विप्रेन्द्र पञ्चदशाहुतिं हुनेत् ॥
चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः ।
सर्वद्रव्य समायुक्तं हव्यवाहं समुच्चरन् ॥
स्विष्टमग्नेति मन्त्रेण जुहुयात् तदनन्तरम् ।
पूर्णाहुतिं यदस्येति जुहुयाद् देशिकोत्तमः ॥
अर्चनाविधिवद्धुत्वा चतुर्द्वारादिकुम्भयोः ।
शिवलिङ्गप्रतिष्ठोक्तमार्गेणैव समाचरेत् ॥
उत्थाप्य शयनाद् देवं सृष्टिन्यासं तु कारयेत् ।
गर्भन्यासं ततः कुर्यात् सप्तमे च पदे न्यसेत् ॥
सुदृढं बन्धयित्वा तु शिल्पिनं च विसर्जयेत् ।
आचार्यदक्षिणां दद्यात् पञ्चाङ्गभूषणैर्युतम् ॥
स्नापयेत् स्कन्दमूलेन स्कन्दकुम्भं विशेषतः ।
जयां च विजयां चैव तत् तन्मूलेन स्नापयेत् ॥
प्। ६)
प्राणप्रतिष्ठामन्त्रेण स्कन्दशक्तिं च कारयेत् ।
हविर्निवेदयेत् पश्चात् ताम्बूलं दापयेत् ततः ॥
ब्राह्मणान् भोजयेत् तत्र शैवान् सम्भोजयेत् ततः ।
अर्चयेद् विधिना चैव सृष्टिन्यासं च कारयेत् ॥
आवाहयेत् तु सद्येन वामदेवेन स्थापयेत् ।
ईशानेन तु मन्त्रेण अभिषेकं तु कारयेत् ॥
गन्धं दद्याद्धृदा चैव पुष्पं तु शिरसा तथा ।
वस्त्रधूपादि सर्वाणि हृदयेन तु दापयेत् ॥
नैवेद्यं हृदये नैव नित्योत्सवं तु कारयेत् ।
स्थलिके तण्डुला न्यस्य अर्चयेद् गन्धपुष्पकैः ॥
प्रतिमा पूर्वतो गच्छेत् पश्चात् तु क्षणिकं व्यजेत् ।
आलयं प्रविशेत् तत्र नैमित्तिकमिहोच्यते ॥
उत्सवं कारयेत् तत्र एकाहे वा त्र्यहेऽपि वा ।
पञ्चाहं वाथ सप्ताहे नवाहमुत्सवं क्रमात् ॥
ध्वजारोहणकं कुर्यात् क्रमुकं वेणुमेव च ।
यष्टिकात्रय संयुक्तं तदग्रेवेणु संयुतम् ॥
पटं तु पञ्चसप्तैर्वा हस्तयुक्तं समन्ततः ।
शिखरेण समायुक्तं मयूरं मध्यमे लिखेत् ॥
स्थापयेत् कलशान् पञ्च ध्वजं चैव तु रोपयेत् ।
भेरीं तु ताडयेत् तत्र अङ्कुरार्पणमुच्यते ॥
ऐशान्यां पावके वाथ यागशालां प्रकल्पयेत् ।
मध्यमे वेदिकां कुर्यात् पञ्चचूर्णैस्तु वृत्तकम् ॥
प्। ७)
स्थापयेत् कलशांस्तत्र पूर्वोक्तविधिना सह ।
प्रथमं भूतरात्रं तु द्वितीयं गणरात्रकम् ॥
तृतीयमृषिरात्रं तु चतुर्थं गान्धर्वमुच्यते ।
पञ्चमं ब्रह्मरात्रं तु षष्ठं वै विष्णुरात्रकम् ॥
सप्तमं स्कन्दरात्रं तु इत्येते रात्रिदेवताः ।
सायङ्कालं समारभ्य प्रातस्तीर्थं समाचरेत् ॥
प्रतिमया च समायुक्तम् अन्नलिङ्ग समन्वितम् ।
बलिं दद्याद् विशेषेण शुद्धान्नेन समन्वितम् ॥
चूर्णोत्सवं ततः कृत्वा तीर्थकाले तु स्नापयेत् ।
स्नपनं कारयेत् तत्र अष्टोत्तरशतं क्रमात् ॥
ध्वजावरोहणं पश्चात् सन्धिदेवान् विसर्जयेत् ।
मौनोत्सवं ततः कुर्यात् शक्तिमात्रं समाचरेत् ॥
पश्चात् सुमित्रभागं तु कारयेत् तु विशेषतः ।
आचार्यं पूजयेत् पश्चाद् वस्त्रहेमाङ्गुलीयकैः ॥
भक्तानां परिचाराणां यथा वित्तानुसारतः ।
उत्सवोक्तं तथा कुर्यात् तीर्थान्तं सर्वमाचरेत् ॥
स्नपनं कारयेत् तत्र लक्षणेन समन्वितम् ।
स्कन्द स्थापनमेवोक्तं मानुषस्थापनं शृणु ॥
इति श्री वीरतन्त्रे षट्सहस्रसंहितायां गुहस्थापनविधिपटलः