प्रणम्य शिरसा देवं पर्यपृच्छत् पितामहः ।
अग्राशनं कथं देव ! तत्सर्वं ब्रूहि मे प्रभो ! ॥ १ ॥
ईश्वरः ॥
तत् सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! ।
शुभे मुहूर्ते मङ्गल्ये भूमि सङ्ग्रहणं भवेत् ॥ २ ॥
उत्तरे च मघायां तु स्वातौ पुण्यानुराधयोः ।
चैत्रे चार्यापभरणी कुर्यात् भूमिप्रवेशनम् ॥ ३ ॥
अयुग्मास्तिथयो ज्ञेया नवमी अथ वर्जिता ।
द्वितीया दशमी ग्राह्या वृषवृश्चिक कर्कटाः ॥ ४ ॥
वारमङ्गारकं श्रेष्ठं बुधजीवौ तु मध्यमौ ।
भूमिप्रवेशनं प्रोक्तं कृषिकर्म त्वथोच्यते ॥ ५ ॥
पुण्याहं वाचयेत् तत्र गन्धपुष्पादिनार्चयेत् ।
मूला पुनर्वसुश्चैव रोहिणी चोत्तरत्रयम् ॥ ६ ॥
रेवती पुष्यहस्ताश्च कृषिकर्मसु पूजिताः ।
नवमीं चैव विप्रेन्द्र ! वर्जयेत् कृषि कर्मसु ॥ ७ ॥
शुक्रार्कबुधजीवानां बुधवारं प्रशस्यते ।
वृषभे कर्कटे मीने मिथुने सिंहलग्नके ॥ ८ ॥
प्। ३९८)
कृष्यारम्भस्त्वयं प्रोक्तो नक्षत्राणां विशेषतः ।
श्वेतौ रक्तौ च कपिलौ नागच्छिन्नौ वृषौ तथा ॥ ९ ॥
युग्मेन सह बध्वा च बलवान् मध्यमेव वा ।
गोचर्मरज्जुना चैव हलं चैव तु बन्धयेत् ॥ १० ॥
हृदयेन तु मन्त्रेण सर्वकर्म समाचरेत् ।
प्रागुक्त वसयेद्भूमिं सद्योजातेन मन्त्रतः ॥ ११ ॥
बीजानां वापनं कुर्याच्छुभनक्षत्र संयुते ।
मूलानुराधा हस्ता च मघारौहिणि रेवती ॥ १२ ॥
विशाखा त्र्युत्तरा स्वाती चैत्र श्रवणमेव च ।
शतभिषक् च नक्षत्रं प्रशस्तं बीजकर्मसु ॥१३ ॥
पञ्चमी सप्तमी चैव पौर्णमासी त्रयोदशी ।
एकादशी तृतीया च प्रशस्ता बीजकर्मणि ॥ १४ ॥
नागसिंहार्कमीनाश्च मकरश्चैव पूजिताः ।
यमकुम्भ तुला मध्याः शेषांस्तु परिवर्जयेत् ॥ १५ ॥
शुक्रेन्दु जीव सौम्यानां द्रेक्काणादि च सा शुभा ।
एवमेव प्रकारेण बीजावापनमुच्यते ॥ १६ ॥
प्रतिमां शिबिकोर्ध्वे वा हस्त्यश्वरथ एव वा ।
भूमि प्रवेशनं कृत्वा पूर्वाभिमुखमास्थितः ॥ १७ ॥
तस्याग्रे तु समं कृत्वा दिग्देवानां बलिं क्षिपेत् ।
मृदेन भूमिरूपं तु प्राक्शिरः कारयेद् बुधः ॥ १८ ॥
प्। ३९९)
द्विहस्तां च द्विपादां च सुस्तनां च सुयौवनाम् ।
पुण्याहं वाचयेत् तत्र ताम्बूलं दापयेज्जनान् ॥ १९ ॥
षष्ठवर्गाच्चतुर्थं तु प्रथमात्षष्ठसंयुतम् ।
बिन्दुनाद समायुक्तं मूलमन्त्रमिहोच्यते ॥ २० ॥
एतन्मन्त्रं समुच्चार्य गन्धपुष्पादिनार्चयेत् ।
नैवेद्यं पायसं दद्याल्लाजापूप समन्वितम् ॥ २१ ॥
ताम्बूलं दापयेत् पश्चात् सर्वातोद्य समायुतम् ।
अञ्जलिं शालिचूर्णं तु मूलमन्त्र समन्वितम् ॥ २२ ॥
वसुन्धरेति श्रीदेवी पद्मपुष्पाञ्जले पिता ।
नमोऽस्तु सुभगे ! नित्यं कृषिकर्मेध्यतामिह ॥ २३ ॥
एतन्मन्त्रं समुच्चार्य कर्तव्यं बीजवापनम् ।
आचार्यं पूजयेत् पश्चाद् दैवज्ञं पूजयेत् ततः ॥ २४ ॥
बीजानि दापयेत् तत्र जनान् सर्वान् विशेषतः ।
ततो भक्तजनैस्सार्धं प्रविशेदालयं प्रति ॥ २५ ॥
बीजस्य वापनं प्रोक्तम् अग्राशनमिहोच्यते ।
चण्डेश प्रतिमायुक्तं सर्वातोद्य समन्वितम् ॥ २६ ॥
धान्यक्षेत्रमनुप्राप्य धान्यच्छेदनमारभेत् ।
हस्तत्रयोत्तरायां च रोहिण्यां च विशेषतः ॥ २७ ॥
वृश्चिके कर्कटे वापि * * ल्ववं कुर्याद् बुधः ।
शुकं ग्राह्यास्त्रमन्त्रेण शिरसा धारयेत् ततः ॥ २८ ॥
प्। ४००)
ग्रामप्रदक्षिणं कुर्यात् सर्वातोद्य समन्वितम् ।
रविरश्मिसुसन्तप्तं प्रभिन्नं क्षिपलूखले ॥ २९ ॥
हृदयेन तु मन्त्रेण सर्वकर्म समाचरेत् ।
हस्तं च श्रवणं चैव रेवत्यश्वतिरेव च ॥ ३० ॥
मूलं च रोहिणी स्वाती विशाखा च पुनर्वसू ।
श्रविष्ठा शतभिषक् चैव अनूराधा त्रिरुत्तरा ॥ ३१ ॥
मृगशीर्षं च पुष्यं च भोजने च प्रशस्यते ।
मेषवृश्चिकमीनास्तु वर्ज्याः शेषास्तु पूजिताः ॥ ३२ ॥
एवमेव प्रकारेण शिवे दद्याद् विशेषतः ।
तण्डुलं शर्करायुक्तं नालिकेरफलैर्युतम् ॥ ३३ ॥
व्योमव्यापिं समुच्चार्य शिवे दद्याद् विचक्षणः ।
प्रतिमानां च सर्वासाम् एवमेवाक्षमं ददेत् ॥ ३४ ॥
आचार्याय प्रदातव्यं पर्यष्टिपरिचारकान् ।
एवं निवेदयेत् पश्चात् ताम्बूलं दापयेत् ततः ॥ ३५ ॥
आचार्य दक्षिणां दद्याद् वस्त्रहेमाङ्गुलीयकैः ।
अग्राशनमिदं प्रोक्तं बालस्थापनमतः शृणु ॥ ३६ ॥
इति वीरतन्त्रे अग्राशनविधिरेकोननवतितमः पटलः ॥ ८९ ॥