८८

प्रणिपत्य जगन्नाथं पर्यपृच्छत् पितामहः ।
को वा तु कृत्तिकादीपः तत्सर्वं ब्रूहि मे प्रभो ! ॥ १ ॥

ईश्वरः ॥

तत् सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! ।
कार्तिके तु तथा मासे नक्षत्रे कृत्तिकायुते ॥ २ ॥

कृत्तिका दीपकर्माथ कारयेद् देशिकोत्तमः ।
कृत्तिकादीपहीने तु ज्वरमारी प्रवर्तते ॥ ३ ॥

अनावृष्टिर्भवेत् तत्र तस्माद्दीपः प्रयुज्यते ।
नववस्त्रेण कृत्वा तु वर्तिं कार्पास संयुतम् ॥ ४ ॥

एतानि याचितालोच्चं परिणाहं तु तद्वयम् ।
शिव प्रपूरिते पात्रे विन्यसेद् धृदयेन तु ॥ ५ ॥

गोघृतेन समायुक्तं शुद्धतैलेन वा पुनः ।
प्रासादमूर्ध्नि विन्यस्य हृदयेन तु मन्त्रतः ॥ ६ ॥

दीपदण्डं प्रवक्ष्यामि शृणुष्व चतुरानन ! ।
जाती वा चम्पकं वापि क्रमुकं वैणवं तु वा ॥ ७ ॥

कदली नालिकेरं वा आसनं बिल्वमेव वा ।
प्रासादसदृशं वापि गलान्तं वापि कारयेत् ॥ ८ ॥

प्। ३९६)

कपोतोत्सेधमानं वा पञ्चहस्तोच्चमेव वा ।
एतद्दीपेन संयोज्य पञ्चाशत्पञ्चविंशतिः ॥ ९ ॥

चत्वारि चाष्टपङ्क्तिर्वा कर्तव्या शिल्पिना सह ।
वस्त्रेण वेष्टयेत् तत्र घृतेन च परिप्लुतम् ॥ १० ॥

पुण्याहं वाचयेत् तत्र यथा विभवविस्तरम् ।
दीपं संयोज्य विप्रेन्द्र ! सद्योजातेन मन्त्रतः ॥ ११ ॥

वामदेवेन शिरसा धारयेत् तु विशेषतः ।
विमान प्रदक्षिणं कुर्याद्गर्भगेहं प्रवेशयेत् ॥ १२ ॥

पूर्ववन्मण्डले स्थाप्य प्रोक्षयेदम्भसा ततः ।
आचार्य दक्षिणां दद्याद् वस्त्रहेमाङ्गुलीयकैः ॥ १३ ॥

प्रासादमूर्ध्नि विप्रेन्द्र ! शिवं दीपेन योजयेत् ।
दीपदण्डं तु विप्रेन्द्र ! विष्णुदीपेन योजयेत् ॥ १४ ॥

गर्भगेहादि दीपानां ब्रह्मदीपेन योजयेत् ।
प्रासादेन तु मन्त्रेण दीपान् सर्वत्र योजयेत् ॥ १५ ॥

नैवेद्यं दापयेद् देवे ताम्बूलं दापयेत् ततः ।
नानादीप समायुक्तं रात्रौ महोत्सवं कुरु ॥ १६ ॥

नृत्तगेय समायुक्तं नानापिञ्छ समायुतम् ।
अनादिवेश्या संयुक्तं गणिकादासिभिस्सह ॥ १७ ॥

आलयं प्रविशेत् तत्र परिवेषक्रमं ततः ।
एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् ॥ १८ ॥

प्। ३९७)

वृक्षतैलेन कर्तव्यम् उत्सवादौ विशेषतः ।
कृत्तिकादीप एवोक्तः अग्राशनमतः शृणु ॥ १९ ॥

इति वीरतन्त्रे कृत्तिकादीपविधिः अष्टाशीतितमः पटलः ॥ ८८ ॥