८७

नमस्कृत्य जगन्नाथं पर्यपृच्छत् पितामहः ।
अद्भुतानां विधिः को वा तत् सर्वं ब्रूहि मे प्रभो ॥ १ ॥

ईशवरः ॥

तत् सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! ।
भूमिकम्पे दिशादाहे धूमकेतानुपस्थिते ॥ २ ॥

सहस्रकलशं स्नात्वा तद्दोषशमनाय च ।
अनावृष्ट्यादिकाले तु ग्रहशान्तिं समाचरेत् ॥ ३ ॥

शिवाग्रे मण्टपं कुर्यात् पूर्वोक्तविधिना सह ।
शालिना स्थण्डिलं कृत्वा तण्डुलान् विन्यसेत् ततः ॥ ४ ॥

तालमात्रोच्च मानेन कुशैर्वा कूर्चमेव वा ।
स्थापयेच्चैव विप्रेन्द्र ! त्रयं चैव तु मध्यमे ॥ ५ ॥

पूर्वादीशान पर्यन्तं त्रयाणां कूर्चमुच्यते ।
त्रयाणां मध्यमे चैव ग्रहाणां चैव विन्यसेत् ॥ ६ ॥

आदित्यं मध्यमे स्थाप्य शुक्रं पूर्वे तु विन्यसेत् ।
चन्द्रमाग्नेय दिग्भागे अङ्गारकं तु दक्षिणे ॥ ७ ॥

राहुं च नैर्-ऋते न्यस्य वारुण्यां च शनैश्चरम् ।
केतुं च वायुदिग्भागे उत्तरे तु बृहस्पतिम् ॥ ८ ॥

प्। ३९१)

ऐशान्यां च बुधं चैव विन्यसेद् देशिकोत्तमः ।
भास्करस्येश्वरो देवः पूर्वाभिमुख एव च ॥ ९ ॥

उमाचन्द्रस्य देवस्तु स्कन्दश्चाङ्गारकस्य तु ।
राहोः कालिङ्ग देवस्तु यमोदेवश्शनेस्तथा ॥ १० ॥

केतोश्च चित्रगुप्तश्च ब्रह्मदेवो बृहस्पतिः ।
बुधश्च विष्णुदैवत्य इत्येता ग्रहदेवताः ॥ ११ ॥

अग्निरापश्च भूमिश्च विष्णुरिन्द्रश्च देवता ।
इन्द्राणी च प्रजापत्यः सर्पा ब्रह्माधिदेवताः ॥ १२ ॥

सद्येन भूर्भुवैर्युक्तम् आवाह्य देवतां ततः ।
तेषां पूर्वे तु विप्रेन्द्र ! सिकतैः स्थण्डिलं कुरु ॥ १३ ॥

अग्निमुखं तु सङ्कल्प्य गन्धपुष्पादिनार्चयेत् ।
आदित्यस्य च वृत्तं स्याशुक्रस्य पञ्चकोणकम् ॥ १४ ॥

सोमे तु चतुरश्रं तु अङ्गारके त्रिकोणकम् ।
राहोः शूर्पाकृतिश्चैव धनुश्चैव शनैश्चरे ॥ १५ ॥

ध्वजवत् केतुरश्रं तु चतुरश्रं तु दैर्घ्यकम् ।
बृहस्पतेस्तु विज्ञेयं बुधस्य भगवान् भवेत् ॥ १६ ॥

एवमेव प्रकारेण कुण्डं वा स्थण्डिलं कुरु ।
तत्तद्वर्णानि पुष्पाणि पूजयेद् देशिकोत्तमः ॥ १७ ॥

आदित्येऽर्कं बिजानीयात् पलाशं सोम एव च ।
अङ्गारकस्य खदिरम् अपामार्गं बुधस्य च ॥ १८ ॥

प्। ३९२)

बृहस्पतेस्तु चाश्वत्थं शुक्रस्यौदुम्बरं भवेत् ।
शमीं शनैश्चरे विद्याद् राहोः दूर्वाहुतिर्भवेत् ॥ १९ ॥

केतोः कुश समिद्भिस्तु अलाभे पलाशमेव च ।
अष्टोत्तरशतं वापि अष्टाविंशतिरेव वा ॥ २० ॥

प्रत्येकं चैव विप्रेन्द्र ! हूयते क्रमशोऽधुना ।
एवं लक्षण संयुक्तं होमयेच्छिवदीक्षितः ॥ २१ ॥

प्रासादेन तु मन्त्रेण आसत्येन समन्वितम् ।
एषामीशेति मन्त्रेण आदित्यस्यैव हूयते ॥ २२ ॥

मिन्दाहो विश्वतस्थश्चा इन्द्र नैर्-ऋतिस्ततः ।
शुक्रहोममिति प्रोक्तम् आप्यायस्सोममब्रवीत् ॥ २३ ॥

गौरीमिमाय मन्त्रेण सोमहोमं प्रकीर्तितम् ।
अग्निर्मूर्धा च सोमेता अङ्गारकस्य हूयते ॥ २४ ॥

गौरी यत्ते देवि नृत्तिरापद्य चैव राहु च ।
शन्नो देवी प्रजापते शनिहोमं प्रकीर्तितम् ॥ २५ ॥

केतुं च ब्रह्मजज्ञानं होमं केतोरिहोच्यते ।
आदियस्यो बृहत्सामज्ञानमाचार्यं होममुच्यते ॥ २६ ॥

उद्बुध्यस्वेति विष्णोश्च बुधस्याहुतिरुच्यते ।
पञ्चब्रह्मषडङ्गेन प्रासादेन समन्वितम् ॥ २७ ॥

शिवबीजेन होमं तु ग्रहशान्तिरिहोच्यते ।
क्षीरस्नानं प्रकर्तव्यं श्रीरुद्रेण विशेषतः ॥ २८ ॥

प्। ३९३)

आचार्यं पूजयेत् पश्चाद् ग्रहदोषो विमुञ्चति ।
अतिवृष्टिर्भवेत् तत्र सुभिक्षं कुरुते ततः ॥ २९ ॥

पुच्छनक्षत्र सन्दर्शे रात्राविन्द्रधनुर्युते ।
महामारी प्रवृत्ते तु स्नपनं तु सहस्रकम् ॥ ३० ॥

ज्वरादि पवने मारी शीतकुम्भं च कारयेत् ।
रक्तकन्या समुत्पन्ने शृणु तत्वं पितामह ॥ ३१ ॥

पिण्डिका लिङ्गमध्ये तु रक्तकन्यासमुद्भवे ।
राज्ञां ग्रामं क्षेत्रं वा विनाशं व्रजति ध्रुवम् ॥ ३२ ॥

प्राणिनाशो भवेदैन्द्रे अग्नौ धान्यक्षयं भवेत् ।
वाहनानां क्षयो याम्ये भार्यानाशस्तु नैर्-ऋते ॥ ३३ ॥

वारुण्यां तु पदे चैव चतुष्पान्नाशनं भवेत् ।
ज्वरापस्मारं वायव्यां सौम्ये व्याधिमवाप्नुयात् ॥ ३४ ॥

राजमन्त्रिक्षयं कुर्याद् ऐशान्यां तु विशेषतः ।
निर्माल्यकुण्डे दृश्येत राजराष्ट्रविनाशनम् ॥ ३५ ॥

पचनालये चाग्निशालां यामाचार्यायव दोषकृत् ।
धान्यशालाय नाशः स्याद्वारे द्वेश्मगृन्यकम् ॥ ३६ ॥

एवमेव प्रकारेण पञ्चप्राकारमुच्यते ।
ब्राह्मणक्षत्रियाणां च अन्तर्मण्डलके भवेत् ॥ ३७ ॥

वैश्यनाशकरं चैव अन्तर्हारेऽपि दृश्यते ।
मध्यहारेऽपि दृश्यन्ते शूद्राणां क्षयमाप्नुयात् ॥ ३८ ॥

प्। ३९४)

चतुष्पान्नाशनं चैव मर्यादिभित्तिके ततः ।
अग्निजादिक्षयं चैव महामर्यादिभित्तिके ॥ ३९ ॥

शय्यादेशे समुत्पन्ने मरणं तद्विनिर्दिशेत् ।
एवमेव प्रकारेण अद्भुतं दृश्यते भयम् ॥ ४० ॥

तद्दोषशमनार्थाय खानयेत् तत् प्रदेशतः ।
व्यपोह्य सकलं तत्र पञ्चगव्येन प्रोक्षयेत् ॥ ४१ ॥

कपिलादोषहये तत्र पुण्याहं वाचयेत् ततः ।
घनं कृत्वा तु तद्देशे शान्तिहोमं तदूर्ध्वतः ॥ ४२ ॥

क्षीरस्नानं प्रकर्तव्यं श्रीरुद्रेण विशेषतः ।
पूर्ववद्विधिना युक्तं होमं कुर्यात् तु देशिकः ॥ ४३ ॥

पञ्चाहे सप्तरात्रे वा नवाहे वापि तारकः ।
एवं कृत्वा महाशान्तिं सर्वदोषहराय च ॥ ४४ ॥

वल्मीके तु समुत्पन्ने प्रासादे मधुकृद्भवे ।
व्यपोह्य सकलं तत्र दिशाहोमं तु कारयेत् ॥ ४५ ॥

दिवानक्षत्रदर्शे तु सहस्रकलशं ततः ।
स्नापयेद् देवदेवेशं महाहविर्निवेदयेत् ॥ ४६ ॥

विमानोर्ध्वे उलूकादि दृश्यते वापि तत्र च ।
पुण्याहं कारयेत् तत्र पवमानेन प्रोक्षयेत् ॥ ४७ ॥

स्नपनं तत्र कर्तव्यं शान्तिहोमं तु कारयेत् ।
अन्येवाचाद्भुतोत्पन्ने स्नपनं कारयेत् ततः ॥ ४८ ॥

प्। ३९५)

                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                       शान्तिहोमं प्रकर्तव्यं तद्दोषशमनाय च ।  

अद्भुतानां विधिः प्रोक्तः कृत्तिकादीप उच्यते ॥ ४९ ॥

इति वीरतन्त्रे अद्भुतशान्तिविधिः सप्ताशीतितमः पटलः ॥ ८७ ॥