८६

पितामहः ॥

शीतकुम्भं कथं देव ! तस्य साधनमेव च ।
एतत् सर्वं समासेन भगवन्वक्तुमर्हसि ॥ १ ॥

ईश्वरः ॥

तत् सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! ।
ज्वरमारी विनाशाय सर्वारिष्टविनाशनम् ॥ २ ॥

द्वात्रिंशत्प्रस्थ सम्पूर्णम् उत्तमं कुम्भमुच्यते ।
त्रिंशत् तन्मध्यमं प्रोक्तम् अष्टाविंशति चाधमम् ॥ ३ ॥

अष्टाङ्गुलं तु विप्रेन्द्र ! वक्त्रविस्तार उच्यते ।
बिम्बप्रभान्वभायुक्तं भिन्नं कालं च वर्जयेत् ॥ ४ ॥

त्रिगुणी कृतसूत्रेण वेष्टयेत् कुञ्जराक्षवत् ।
क्षालयेद् धृदये नैव दर्भैरुपरि विन्यसेत् ॥ ५ ॥

शिवाग्रे स्थण्डिलं कृत्वा अष्टद्रोणेन शालिना ।
शाल्यर्धतण्डुलान् न्यस्य तण्डुलार्ध तिलान् न्यसेत् ॥ ६ ॥

प्। ३८८)

पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् ।
वस्त्रपूतेन तोयेन पूरयेद्घटमेव च ॥ ७ ॥

एलालवङ्ग तक्कोलतिम्बुजाति फलैर्युतम् ।
उशीरं चन्दनं चैव कुम्भमध्ये हृदा न्यसेत् ॥ ८ ॥

वस्त्रयुग्मेन संवेष्ट्य विणिकाभिरलङ्कृतम् ।
वज्रं च पद्मरागं च वैडूर्यं मौक्तिकं तथा ॥ ९ ॥

प्रवालेन समायुक्तं कुम्भमध्ये विनिक्षिपेत् ।
सकूर्चं सापिधानं च पुष्पमाला समन्वितम् ॥ १० ॥

शाल्योपरि न्यसेत् कुम्भं व्योमव्यापि समुच्चरन् ।
पञ्चब्रह्मषडङ्गेन अर्चयेद् गन्धपुष्पकैः ॥ ११ ॥

कुम्भस्थमुदकं चैव अमृतं च चिन्तयेत् ।
पूर्वरात्रेऽधिवास्याथ नृत्तगेय समन्वितम् ॥ १२ ॥

हविर्निवेदयेत् पश्चात् ताम्बूलं दापयेत् ततः ।
एवमेव न्यसेत् कुम्भं शिवस्तत्राधिदेवता ॥ १३ ॥

वास्तुहोमं दिवा कुर्याल्लक्षणेन समन्वितम् ।
कुम्भस्य सन्निधौ विप्र ! शान्ति होमं तु कारयेत् ॥ १४ ॥

चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं द्विजः ।
एवमेव प्रकारेण उपकुम्भं च विन्यसेत् ॥ १५ ॥

ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः ।
मन्त्रन्यासोक्तमार्गेण सृष्टिन्यासं तु कारयेत् ॥ १६ ॥

प्। ३८९)

त्रिपादीं तत्र सङ्कल्प्य याज्ञिकैर्वृक्षसम्भवैः ।
लिङ्गस्योपरि विप्रेन्द्र ! हस्तमात्रोच्चमुच्यते ॥ १७ ॥

द्वादशाङ्गुलनाहं स्यान् मात्राङ्गुलेन कारयेत् ।
अबक्रं निर्व्रणं कृत्वा विष्ठरत्रयसंयुतम् ॥ १८ ॥

तालमात्रेण तन्मध्ये सुषिरं कुर्यात् तु देशिकः ।
द्वौ पार्श्वौ पृष्ठतश्चैव विन्यसेत् तु त्रिपादिकान् ॥ १९ ॥

कुम्भस्यैव तु पृष्ठे तु सुषिरं कारयेत् ततः ।
नालं तत्रैव विन्यस्य चतुरङ्गुलदैर्घ्यकम् ॥ २० ॥

स्वर्णे नैव तु कर्तव्यं घटाधस्तात् तु योजयेत् ।
व्योमव्यापिं समुच्चार्य कुम्भमारोपयेत् ततः ॥ २१ ॥

त्रियहे वापि पञ्चाहे सप्ताहे वापि कारयेत् ।
अहो रात्रं स्रवन् मूर्ध्नि सर्वदोषनिकृन्तनम् ॥ २२ ॥

महाहविर्ददेत् पश्चात् ताम्बूलं दापयेत् ततः ।
सन्ध्यायां पूजयेत् पश्चात् पूर्वोक्तविधिना सह ॥ २३ ॥

उपकुम्भाज्जलं विप्र ! शीतकुम्भे विनिक्षिपेत् ।
दिनान्तेऽपि च विप्रेन्द्र ! कुम्भावरोहणं कुरु ॥ २४ ॥

स्नपनं तत्र कर्तव्यं पूर्वोक्तविधिना सह ।
आचार्य दक्षिणां दद्याद् वस्त्रहेमाङ्गुलीयकैः ॥ २५ ॥

ब्राह्मणान् भोजयेत् तत्र पर्यष्टि परिचारकान् ।
शैवान् सम्भोजयेत् तत्र समयान् भोजयेत् ततः ॥ २६ ॥

प्। ३९०)

शीतकुम्भविधिः प्रोक्त अद्भुतानां विधिं शृणु ॥ २६ � ॥

इति वीरतन्त्रे शीतकुम्भविधिः षडशीतितमः पटलः ॥ ८६ ॥