८५

पितामहः ॥

प्रणम्य भगवन्तं हि परिपृच्छति शङ्करम् ।
नवकुम्भाः कथं देव ! ब्रूहि मे परमेश्वर ! ॥ १ ॥

ईश्वरः ॥

तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! ।
प्रासादस्याग्रतः कुर्यान्मण्टपं चतुरश्रकम् ॥ २ ॥

चतुर्द्वार समायुक्तं चतुस्तोरण भूषितम् ।
वितानोपरिसञ्छन्नं दिग्ध्वजैश्च प्रलम्बितम् ॥ ३ ॥

दर्भमालाभिरावेष्ट्य मुक्तादामैरलङ्कृतम् ।
सर्वालङ्कार संयुक्तं गोमयेनोपलेपयेत् ॥ ४ ॥

पुण्याहं वाचयेत् तत्र स्वस्ति सूक्तं च वाचयेत् ।
सूत्रपातः प्रकर्तव्यः षट्सूत्रं प्राक्शिरो भवेत् ॥ ५ ॥

प्। ३८६)

उदगग्रं तथैव स्याद् अष्टद्वार समन्वितम् ।
शालिना विकिरेत् तत्र आढकं कलशं प्रति ॥ ६ ॥

शाल्यर्ध तण्डुलान् न्यस्य तण्डुलार्धांस्तिलान् न्यसेत् ।
परिस्तरेत् तु दर्भैश्च पद्ममष्टदलं लिखेत् ॥ ७ ॥

शिवकुम्भं न्यसेन् मध्ये प्रासादेन तु मन्त्रतः ।
सवस्त्रं पञ्चरत्नं च सकूर्चं सापिधानकम् ॥ ८ ॥

वर्धनीं गौरी बीजेन विन्यसेद् देशिकोत्तमः ।
सवस्त्रान्सहिरण्यांश्च गन्धोदकेन पूरितान् ॥ ९ ॥

पूर्वादीशान पर्यन्तं विन्यसेदष्टकुम्भकान् ।
पूर्वे गोमूत्रकं चैव गोमयं चाग्निदेशके ॥ १० ॥

क्षीरं दक्षिणतो न्यस्य पश्चिमे दधि विन्यसेत् ।
आज्यं चोत्तरतः स्थाप्य नैर्-ऋते च कुशाम्बुजम् ॥ ११ ॥

वायव्यां फलतोयं च ऐशान्यां रोचना भवेत् ।
पूर्वादीशान पर्यन्तम् अष्टविद्येश्वरान् न्यसेत् ॥ १२ ॥

गन्धपुष्पादिना चैव स्वस्वमन्त्रेण पूजयेत् ।
ततो होमं प्रकुर्वीत पलाशसमिधा सह ॥ १३ ॥

समिदाज्य चरून्लाजान् सर्षपांश्च यवांस्तिलान् ।
सप्तद्रव्येण संयुक्तं पञ्चब्रह्मसमायुतम् ॥ १४ ॥

हृदयं च शिरोयुक्तं क्रमेण परिहूयते ।
हुत्वान्ते तु यदस्येति स्विष्टकृद्धूयते क्रमात् ॥ १५ ॥

प्। ३८७)

अष्टमङ्गलरूपाणि परितो विन्यसेत् ततः ।
आचार्य दक्षिणां दद्याद् वस्त्रहेमाङ्गुलीयकैः ॥ १६ ॥

व्योमव्यापिं जपित्वा तु स्नापयेच्छिवकुम्भकैः ।
गौरीबीजेन वर्धन्यामनन्तादि स्वमन्त्रकैः ॥ १७ ॥

हविर्निवेदयेत् पश्चात् ताम्बूलं दापयेत् ततः ।
अधमस्याधमं प्रोक्तं शीतकुम्भं ततः शृणु ॥ १८ ॥

इति वीरतन्त्रे नवकुम्भ स्नपनविधिः पञ्चाशीतितमः पटलः ॥ ८५ ॥