पितामहः ॥
प्रणम्य भगवन्तं हि पर्यपृच्छत् पितामहः ।
कलशान् षोडशान् किं वा ब्रूहि मे परमेश्वर ॥ १ ॥
ईश्वरः ॥
तत् सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! ।
प्रासाद स्याग्रतः कुर्यान्मण्टपं चतुरश्रकम् ॥ २ ॥
प्। ३८४)
दर्भमालाभिरावेष्ट्य चतुस्तोरणभूषितम् ।
विताने नोर्ध्वमाच्छाद्य दिग्धजैश्च प्रलम्बितम् ॥ ३ ॥
वस्त्रैरावेष्टयेद् विद्वान् मुक्तादामैरलङ्कृतम् ।
सर्वालङ्कार संयुक्तं सूत्रपातं तु कारयेत् ॥ ४ ॥
प्रागग्रमष्टसूत्रं स्याद् उदगग्रं तथैव च ।
मध्ये नवपदं स्थित्वा तस्यावृत पदं त्यजेत् ॥ ५ ॥
अष्टवीथी समायुक्तं तद्बाह्येक पदं स्थितम् ।
शालिना विकिरेत् तत्र पूर्वोक्तविधिना सह ॥ ६ ॥
शाल्यर्धं तण्डुलं न्यस्य तस्यार्धं तु तिलं न्यसेत् ।
परिस्तरेच्च दर्भैश्च गन्धपुष्पादिनार्चयेत् ॥ ७ ॥
मध्यमे शिवकुम्भं तु प्रासादेन तु विन्यसेत् ।
गौरी बीजेन वर्धन्यां स्थापयेद् देशिकोत्तमः ॥ ८ ॥
त्रयाणां कलशानां तु चतुर्दिक्षु च विन्यसेत् ।
आग्नेयादिषु कोणेषु चतुरः कलशान् न्यसेत् ॥ ९ ॥
शिवकुम्भे शिवं पूज्य चतूरत्न समन्वितम् ।
वस्त्रयुग्मेन संवेष्ट्य विणिकाभिरलङ्कृतम् ॥ १० ॥
गौरीं च वर्धनीं न्यस्य सवस्त्रं सहिरण्यकम् ।
गोमूत्रं गोमयं चैव क्षीरं दधिघृतं तथा ॥ ११ ॥
उशीरं चन्दनं चैव कुष्ठेनैव समन्वितम् ।
सद्यादीशानपर्यन्तं यथा क्रमेण विन्यसेत् ॥ १२ ॥
प्। ३८५)
हुत्वान्ते तु यदस्येति पूर्णाहुति मथाचरेत् ।
स्नापयेच्छिवकुम्भं तु व्योमव्यापि समुच्चरन् ॥ १३ ॥
गौरीबीजेन वर्धन्यां स्नापयेत् तु विशेषतः ।
पञ्चब्रह्मषडङ्गेन स्थापयेत् कलशांस्ततः ॥ १४ ॥
नैवेद्यं पायसं दद्यात् ताम्बूलं तु निवेदयेत् ।
आचार्यदक्षिणां दद्याद् वस्त्रहेमाङ्गुलीयकैः ॥ १५ ॥
अधमे मध्यमं प्रोक्तं नवकुम्भं ततः शृणु ।
इति वीरतन्त्रे षोडशस्नपनविधिः चतुरशीतितमः पटलः ॥ ८४ ॥