पितामहः ॥
देवदेवं प्रणम्यादौ पर्यपृच्छत् पितामहः ।
स्नपनं पञ्चविंशच्च ब्रूहि मे परमेश्वर ! ॥ १ ॥
ईश्वरः ॥
तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! ।
प्रासादस्याग्रतः कुर्यान्मण्टपं चतुरश्रकम् ॥ २ ॥
चतुस्तोरण संयुक्तं दर्भमाला विभूषितम् ।
वितानोपरि सञ्छन्नं दिग्ध्वजैश्च प्रलम्बितम् ॥ ३ ॥
सर्वालङ्कारसंयुक्तं मण्टपं कारयेत् ततः ।
गोमयालेपनं कृत्वा सूत्रपातं तु कारयेत् ॥ ४ ॥
प्रागग्रमष्टसूत्रं स्याद् उदगग्रं तथैव च ।
मध्ये नवपदं स्थित्वा तद्बाह्येक पदं त्यजेत् ॥ ५ ॥
अष्टवीथी समायुक्तं शालिना विकिरेत् ततः ।
आढकं वा तदर्धं वा प्रस्थं वा शालि विन्यसेत् ॥ ६ ॥
कलशान्प्रति विप्रेन्द्र तस्योर्ध्वे तण्डुलं न्यसेत् ।
तण्डुलार्धं तिलं न्यस्य दर्भांश्चैव परिस्तरेत् ॥ ७ ॥
प्। ३८२)
शिवकुम्भं न्यसेन्मध्ये वस्त्रयुग्मेन वेष्टयेत् ।
पञ्चरत्न समायुक्तं स कूर्चं सापिधानकम् ॥ ८ ॥
गौरी बीजेन वर्धन्यां सवस्त्रं सहिरण्यकम् ।
पूर्वादीशानपर्यन्तम् अष्टकुम्भांश्च विन्यसेत् ॥ ९ ॥
स्वर्णं तत्र विनिक्षिप्य विद्येश्वर समन्वितम् ।
पञ्चगव्य समायुक्तं सवस्त्रं सापिधानकम् ॥ १० ॥
चतुर्दिक्षु च विप्रेन्द्र ! द्वादशान्कलशं न्यसेत् ।
आग्नेयादिषु कोणेषु चत्वारः कुम्भ उच्यते ॥ ११ ॥
चन्दनं कुङ्कुमं चैव उशीरं मुद्गमेव च ।
एलालवङ्ग तक्कोलं तिम्बुजातिफलङ्गुलम् ॥ १२ ॥
लघुमाञ्चीरं चैव षष्ठं कुङ्कुममेव वा
दान्ता दूर्वा च तक्कोलं पुन्नागं जातिपाटली ॥ १३ ॥
लोघ्रं चैव प्रियङ्गुं च नालिकेर समन्वितम् ।
यथा क्रमेण विन्यस्य पूर्वादीशानमन्तकम् ॥ १३ ॥
अजः कपाली बुद्धिश्च वज्रदेहः प्रमर्दनः ।
विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ॥ १४ ॥
अग्नीरुद्रो हुताशश्च पिङ्गलः खातको हरः ।
ज्वलनो दहनो बभ्रुः भस्मान्तकः क्षयान्तकः ॥ १५ ॥
याम्यो मृत्युहरो धाता विधाता कर्तृकारकौ ।
कालरुद्रश्च विप्रेन्द्र ! कलशस्याधिदेवताः ॥ १६ ॥
प्। ३८३)
गन्धपुष्पादिनाभ्यर्च्य स्वस्वनाम्नैव मन्त्रतः ।
ततो होमं प्रकर्तव्यं पालाशसमिधा सह ॥ १७ ॥
स्थलिकं कारयेत् तत्र लक्षणेन समन्वितम् ।
समिदाज्यचरून्लाजान् सर्षपांश्च यवांस्तिलान् ॥ १८ ॥
शालिनी वारगोधूमयववेणु समन्वितम् ।
पञ्चब्रह्म षडङ्गेन यथा क्रमेण हूयते ॥ १९ ॥
हुत्वान्ते तु यदस्येति पूर्णाहुतिमथाचरेत् ।
आचार्य दक्षिणां दद्याद् वस्त्रहेमाङ्गुलीयकैः ॥ २० ॥
प्रासादेन तु मन्त्रेण स्नापयेच्छिवकुम्भकम् ।
गौरीबीजेन वर्धन्यां स्नापयेत् तु विशेषतः ॥ २१ ॥
व्योमव्यापिं समुच्चार्य स्नापयेत् कलशांस्ततः ।
पञ्चवर्ण हविर्दद्यात् ताम्बूलं दापयेत् ततः ॥ २२ ॥
एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् ।
पञ्चविंशतिरेवोक्ता षोडशं च ततः शृणु ॥ २३ ॥
इति वीरतन्त्रे पञ्चविंशति स्नपनविधिः त्र्यशीतितमः पटलः ॥ ८३ ॥