पितामहः ॥
प्रणम्य म् शिरसा देवं ब्रह्मा पृच्छति शङ्करम् ।
एकोन पञ्चाशत्कोवा तत् सर्वं ब्रूहि मे प्रभो ! ॥ १ ॥
ईश्वरः ॥
तत् सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! ।
प्रासादस्याग्रतः कुर्यान्मण्टपं चतुरश्रकम् ॥ २ ॥
चतुस्तोरण संयुक्तं चतुर्द्वार विभूषितम् ।
दर्भमालाभिरावेष्ट्य वितानो परिसोभितम् ॥ ३ ॥
दिग्ध्वजैश्च समायुक्तं मुक्तादामैरलङ्कृतम् ।
गोमयालेपनं कृत्वा सूत्रपातं तु कारयेत् ॥ ४ ॥
प्रागग्रं दश सूत्राणि उदगग्रं तथैव च ।
मध्ये नवपदं स्थित्वा तद्बाह्येकं तु वीथिका ॥ ५ ॥
प्। ३७९)
अष्टद्वार समायुक्तं कर्तव्यं लक्षणान्वितम् ।
शालिना स्थण्डिलं कृत्वा पूर्वोक्तेन विधानतः ॥ ६ ॥
शाल्यर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं तथा ।
मध्यमेऽष्ट पदं कृत्वा गन्धपुष्पादिनार्चयेत् ॥ ७ ॥
शिवकुम्भं न्यसेन्मध्ये पञ्चरत्न समन्वितम् ।
वस्त्रद्वय समायुक्तं स कूर्चं सापिधानकम् ॥ ८ ॥
दिक्षु षट्कलशान् न्यस्य चत्वारि च विदिक्षु वै ।
कलशान् विन्यसेत् तत्र सवस्त्रं सापिधानकम् ॥ ९ ॥
गोमूत्रं गोमयं सर्पिर्दधि क्षीरं तथैव च ।
चन्दनं कुङ्कुमं चैव मेव माञ्जी मुरङ्गुलम् ॥ १० ॥
लाजं च गिरिवेरं च तृणकच्चोल जम्बुकम् ।
शतपुष्पं तथा व्याघ्री धात्री पूर्वा हरीतकी ॥ ११ ॥
हिता च सहदेवी च मातुलुङ्गं च दाडिमी ।
हंसपुष्पा गन्धपुष्पा महाद्रोणी समन्वितम् ॥ १२ ॥
कलशेषु न्यसेद् विद्वान् मुद्गं माषं च सर्षपम् ।
अजः कपालीं बुद्धिश्च वज्रदेहः प्रमर्दनः ॥ १३ ॥
विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ।
अग्नीरुद्रो हुताशी च पिङ्गलः पादको हरिः ॥ १४ ॥
ज्वलनो दहनो भद्रो भस्मान्तकक्षयान्तकौ ।
याम्यो मृत्युहरो धाता (विधाता) कर्णकारिका ॥ १५ ॥
प्। ३८०)
कालरुद्रश्च सङ्ख्यातो धर्माधर्मपतिस्तथा ।
संयोक्ता च वियोक्ता च नियोक्ता च प्रकीर्तितः ॥ १६ ॥
अग्रगण्यः सदाचारः शर्वः शम्भुर्महेश्वरः ।
कालरुद्रश्च विख्यातो धाता धर्मपतिस्तथा ॥ १७ ॥
हन्ता च क्रूरदृष्टिश्च ऊर्ध्वकेशो महाभुजः ।
विरूपाक्षो धूम्रवर्णो लोहितो दंष्ट्र वा बुधः ॥ १८ ॥
पाशहस्तो महाबोधः कालकण्ठश्चतुर्भुजः ।
भूतपालो लोकपालः क्षेत्रपालस्तथैव च ॥ १९ ॥
सुखदुःखकरश्चैव * * * * * चिस्तथा ।
एतेपि दैवताः प्रोक्ताः कलशेषूदके न्यसेत् ॥ २० ॥
ततो होमः प्रकर्तव्यः चतुर्दिक्षु विदिक्षु च ।
ऐशान्यामेक होमं वा पलाशसमिधा सह ॥ २१ ॥
समिदाज्य चरून्लाजान् सर्षपांश्च यवांस्तिलान् ।
शालिनी वारगोधूम मुद्गे नैव समन्वितम् ॥ २२ ॥
पञ्चब्रह्म षडङ्गेन हुत्वा तु क्रमशो बुधः ।
हुत्वान्ते तु यदस्येति पूर्णाहुतिमथाचरेत् ॥ २३ ॥
व्योमव्यापिं जपित्वा तु स्नापयेच्छिवकुम्भकम् ।
गौरीबीजेन वर्धन्यां स्नापयेच्छिवकुम्भकम् ॥ २४ ॥
गौरीबीजेन वर्धन्यां स्नापयेत् पीठकोपरि ।
पञ्चब्रह्मषडङ्गेन स्नापयेत् सर्वकुम्भकम् ॥ २५ ॥
प्। ३८१)
हविर्निवेदयेत् पश्चात् ताम्बूलं दापयेत् ततः ।
एवं यः कुरुते मर्त्यः शिवलोके महीयते ॥ २६ ॥
प्रोक्तमेकोनपञ्चाशच्छृणुष्व पञ्चविंशतिम् ।
इति वीरतन्त्रे एकोनपञ्चाशत् स्नपनविधिः द्वयशीतितमः पटलः ॥ ८२ ॥