८१

लोकनाथ नमस्कृत्य पर्यपृच्छत् पितामहः ।
एकाशीतिः कथं देव ! तत्सर्वं ब्रूहि मे प्रभो ! ॥ १ ॥

ईश्वरः ॥

साधु साधु महाप्राज्ञ ! यत्त्वया परिचोदितम् ।
तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! ॥ २ ॥

प्रासादस्याग्रतः कुर्यान्मण्टपं चतुरश्रकम् ।
पूर्वोक्ते नैव मार्गेण कारयेद् देशिकोत्तमः ॥ ३ ॥

प्। ३७६)

कलशान्ग्राह्य यत्नेन सूत्रेणैव तु वेष्टयेत् ।
शुद्धोदकेन सम्पूर्य शरावेण विधायते ॥ ४ ॥

शालिनां विकिरेत् तत्र प्रत्येकमाढकैर्युतम् ।
शाल्यर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् ॥ ५ ॥

परिस्तरेत् तु दर्भैश्च स्थापयेच्छिव कुम्भकम् ।
प्रासादेन तु मन्त्रेण गौरीबीजेन वर्धनीम् ॥ ६ ॥

विन्यसेच्चैव विप्रेन्द्र ! अभितः कलशैर्युतम् ॥ ७ ॥

विद्येश्वर समायुक्तं सवस्त्रं सहिरण्यकम् ।
अधमं त्वष्टहस्तं स्यान् मध्यमं नवहस्तकम् ॥ ८ ॥

उत्तमं दशहस्तं च चतुस्तालं तु विस्तृतम् ।
पुराणं पुत्रनाशः स्यात् केशयुक्तं धनक्षयः ॥ ९ ॥

श्वेतं वा रक्तं पीतं वा सम्मिश्रं तु न कारयेत् ।
पूर्वे तु नव कुम्भं तु आग्नेय्यां नवकुम्भकम् ॥ १० ॥

याम्ये तु नव कुम्भं च नैर्-ऋत्यां नवकं न्यसेत् ।
वारुण्यां नवकं विद्वान् वायव्यां नवकं न्यसेत् ॥ ११ ॥

सोमे तु नवकं न्यस्य ऐशान्यां नवकं न्यसेत् ।
स वस्त्रान् सापिधानांश्च सकूर्चान् वारिपूरितान् ॥ १२ ॥

विन्यसेद् धृदये नैव शाल्योपरि विशेषतः ।
लोहं प्रियङ्गुपुष्पं च लवङ्गं फलमल्लिका ॥ १३ ॥

प्। ३७७)

दान्ता दूर्वा च तक्कोलं पुन्नागं जातिपाटली ।
पर्णका शतपत्रं च तैलं कस्तूरि रोचना ॥ १४ ॥

व्याघ्रनखी शतावेरी मञ्जिष्ठा नागकेसरम् ।
रजनी भद्रकोष्ठं च सरलं कृष्णमालिका ॥ १५ ॥

भीता च सहदेवी च विष्णुक्रान्तिः सुवर्चला ।
सिंही च शङ्खपुष्पी च लक्ष्मी स्थलारविन्दकम् ॥ १६ ॥

बलभद्री महाभद्री अपामार्गेन्दुवल्लिका ।
रुद्रपर्णी महालक्ष्मीर्धूर्धूरेण समन्वितम् ॥ १७ ॥

एतेषां द्रव्यसंयुक्तं कलशेषु च विन्यसेत् ।
नद्यास्तीरे च गोष्ठे च बल्मीके वृषशृङ्गके ॥ १८ ॥

वराहगजदन्ते च पद्ममूले मृदा गृहेत् ।
विद्येशकुम्भे निक्षिप्य पञ्चगव्येन संयुतम् ॥ १९ ॥

पूर्वायां नवके विप्र ! अमेव स्थापयेत् क्रमात् ।
वारुण्यां नवके चैव * * सं विन्यसेत् क्रमात् ॥ २० ॥

वायव्यं नवके चैव कुमारं विप्र ! विन्यसेत् ।
सौम्यायां विष्णुमावाह्य * * चण्डीशगोचरे ॥ २१ ॥

गन्धपुष्पादिनाभ्यर्च्य ततो होमं चतुर्दशी ।
समिदाज्य चरून्लाजान्सर्षपेन समन्वितम् ॥ २२ ॥

सद्यादीशानपर्यन्तम् अष्टोत्तरशतं पृथक् ।
व्योमव्यापिं जपित्वा तु आज्येन पञ्चविंशतिः ॥ २३ ॥

प्। ३७८)

हुत्वान्ते तु यदस्येति जुहुयात् तदनन्तरे ।
स्नापयेच्छिवकुम्भं तु व्योमव्यापिं समुच्चरन् ॥ २४ ॥

गौरीबीजेन वर्धन्यां स्नापयेद् देशिकोत्तमः ।
पञ्चब्रह्मषडङ्गेन स्नापयेत् कलशान् बुधः ॥ २५ ॥

पञ्चवर्ण हविर्दद्यात् ताम्बूलं दापयेत् ततः ।
आचार्य दक्षिणां दद्यात् पदार्थीन् पूजयेत् ततः ॥ २६ ॥

एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् ।
एकाशीतिरिति प्रोक्ता एकोनपञ्चाशत् शृणु ॥ २७ ॥

इति वीरतन्त्रे एकाशीतिस्नपनविधिः एकाशीतितमः पटलः ॥ ८१ ॥