८०

प्। ३७०)

पितामहः ॥

मध्यमस्योत्तमं देव ! कीदृशं स्नपनं प्रभो ! ।
एतत् सर्वं समासेन अष्टोत्तरशतं त्वथ ॥ १ ॥

तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! ।
प्रासादस्याग्रतः कुर्यान्मण्डपं चतुरश्रकम् ॥ २ ॥

पूर्वोक्तमण्टपे रम्ये विमानोपरिशोभिते ।
चतुस्तोरणसंयुक्तं दर्भमालाभिरावृतम् ॥ ३ ॥

अष्टदिक्षु ध्वजान् न्यस्य पुष्पमालावलम्बितम् ।
स्तम्भानि वेष्टयेत् तत्र गोमयेनानु लेपयेत् ॥ ४ ॥

सूत्रपादं प्रकर्तव्यं तालमात्रेण चान्तरम् ।
द्विविधं सूत्रपादं तु शान्तिकं पौष्टिकं तथा ॥ ५ ॥

चतुर्दशानि सूत्राणि पूर्वाग्रं चैव विन्यसेत् ।
उत्तराग्रं तथैव स्याद् सूत्रस्यैतानि निर्दिशेत् ॥ ६ ॥

मध्ये नवपदं स्थित्वा परिच्छेदपदं न्यसेत् ।
चतुर्दिक्षु च विप्रेन्द्र ! द्वारार्थं तु पदं ततः ॥ ७ ॥

तद्बाह्यावरणाद्वाह्ये परितो विधिरुच्यते ।
तस्य बाह्ये तु परितः पदद्वय स्थितानि तु ॥ ८ ॥

एवमेव क्रमेणैव शान्तिकं प्रविधीयते ।
इदमन्यत् प्रवक्ष्यामि चक्रस्थापनमुच्यते ॥ ९ ॥

पूर्वाग्रे चैव विप्रेन्द्र ! युग्मसूत्रं प्रदापयेत् ।
उत्तराग्रं तथैव स्यात् तालमात्रेण चान्तरम् ॥ १० ॥

प्। ३७१)

तालत्रय प्रमाणेन भ्रामयेत् पूर्णचन्द्रवत् ।
तासां पूर्वे दिशो विप्र ! तालमात्रेण चान्तरम् ॥ ११ ॥

अष्टवृत्तं ततो भ्राम्य वीथी चत्वार एव च ।
चतुर्भिः कलशान्न्यस्य पौष्टिकं त्विह चोच्यते ॥ १२ ॥

द्वारार्थं च चतुर्दिक्षु ह्रासयेत् तु विशेषतः ।
शालिना विकिरेत् तत्र अधिकं कलशान्प्रति ॥ १३ ॥

शाल्यर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् ।
परिस्तरेच्च दर्भैश्च पुण्याहं वाचयेत् ततः ॥ १४ ॥

कलशान् ग्राहयेत् तत्र शुद्धदेशे मृदं ततः ।
अस्त्रमन्त्रेण कृत्वा तु वामेन शोषणं भवेत् ॥ १५ ॥

ईशानेन दहेद्विद्वान् सर्वलक्षण संयुतम् ।
आढकेन तु सम्पूर्णान् अधमं तु विधीयते ॥ १६ ॥

मध्यमं शिवसम्पूर्णम् उत्तमं द्रोणपूरितम् ।
भिन्नं कालं च सुषिरं भेदच्छेदं च वर्जयेत् ॥ १७ ॥

सूत्रेण वेष्टयेत् कुम्भान् कुञ्जरस्याक्षिवद्भवेत् ।
शरावं चैव विप्रेन्द्र सूत्रेण वेष्टयेत् ततः ॥ १८ ॥

क्षालयेदुदके नैव दर्भस्योपरि विन्यसेत् ।
प्रधान कलशं विप्र ! शुद्धोदकेन पूरयेत् ॥ १९ ॥

पञ्चरत्नं क्षिपेत् तत्र वस्त्रयुग्मेन वेष्टयेत् ।
कलशस्य मुखे रुद्रं विष्णुं मध्यमके न्यसेत् ॥ २० ॥

प्। ३७२)

पृष्ठे प्रजापतिः ख्यातो तीर्थानि कुक्षिरुच्यते ।
मध्यमे शिवकुम्भं तु प्रासादेन तु विन्यसेत् ॥ २१ ॥

वर्धनीं तस्य वामे तु गौरीबीजेन विन्यसेत् ।
शिवकुम्भे शिवं पूज्य वर्धन्यां गौरिमेव च ॥ २२ ॥

गन्धपुष्पादिनाभ्यर्च्य विद्येशकलशान् न्यसेत् ।
पूर्वादीशानपर्यन्तम् अष्टकुम्भांश्च विन्यसेत् ॥ २३ ॥

सवस्त्रान्सहिरण्यांश्च सकूर्चान्वारिपूरितान् ।
प्रथमावरणं ह्येतद् द्वितीयावरणं शृणु ॥ २४ ॥

द्वादशान् कलशान् न्यस्य द्रव्याणां च ततः शृणु ।
पाद्यमाचमनं चार्घ्यं गोमूत्रं गोमयं पयः ॥ २५ ॥

दध्याज्यमष्टमं प्रोक्तं द्वितीयावरणे न्यसेत् ।
तृतीयावरणे चैव चतुर्विंशत् कला न्यसेत् ॥ २६ ॥

चन्दनं कुङ्कुमं कुष्ठं लघुमाञ्चीमुरङ्गुलम् ।
लाजाचूर्ण शमी चैव नीवारं नालिकेरकम् ॥ २७ ॥

मधुरिक्षुरसं बिल्वं फलं कुशयवं तिलम् ।
कर्पूरं हरिबेरं च विंशतिं कलशान् न्यसेत् ॥ २८ ॥

विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ।
अग्नीरुद्रो हुताशश्च पिङ्गलः खातको हरः ॥ २९ ॥

ज्वलनो दहनो बभ्रुर्भस्मान्तकक्षयान्तकौ ।
एतेऽपि दैवताः प्रोक्ताः कलशेषूदके न्यसेत् ॥ ३० ॥

प्। ३७३)

तृतीयावरणं प्रोक्तं चतुर्थावरणं शृणु ।
चतुश्चत्वारि कलशान् चतुर्थावरणे न्यसेत् ॥ ३१ ॥

लोहं प्रियङ्गु पुष्पं च लवङ्गं फलमल्लिका ।
दान्तदूर्वा च तक्कोलं पुन्नागं जाति पाटली ॥ ३२ ॥

पर्णका शतपत्री च तैलं कस्तूरिरोचना ।
व्याघ्रनखीशतावेरी मञ्जिष्ठा नागकेसरम् ॥ ३३ ॥

नवनीतं द्राविलं सा गन्धपत्रं च धातकीइ ।
भीता च सहदेवी च विष्णुक्रान्तिः सुवर्चला ॥ ३४ ॥

बलभद्री महाभद्री अपामार्गेन्दु वल्लिका ॥ ३५ ॥

रुद्रपर्णी महालक्ष्मी धूर्धूरेण समन्वितम् ।
चतुर्थावरणे चैव विन्यसेद् देशिकोत्तमः ॥ ३६ ॥

याम्यो मृत्युहरो धाता विधाता कर्त्ररेव च ।
कालरुद्रश्च विख्यातो धर्माधर्मपतिस्तथा ॥ ३७ ॥

संयोक्ता च वियोक्ता च नैर्-ऋते वारुणे तथा ।
हन्ता च क्रूरदृष्टिश्च ऊर्ध्वशेफो महाभुजः ॥ ३८ ॥

विरूपाक्षो धूम्रकर्णो लोहितो दंष्ट्रबाहुलः ।
अतिश्चलः पाशहस्तो महाबल एव च ॥ ३९ ॥

जयभद्रो महाबाहुर्बालान्तो बडवामुखः ।
विभीषणो महावेगो लघुवेगस्तथैव च ॥ ४० ॥

प्। ३७४)

सूक्ष्मस्तीक्ष्णः क्षयान्तश्च पश्चाच्छान्तः पञ्चशेखरः ।
कपर्दी मेघवाहश्च जटामकुटधारकः ॥ ४१ ॥

नानारूपधरश्चैव निधीशोरूपवांस्तथा ।
धनुश्चैव तु विप्रेन्द्र ! कलशेषूदके न्यसेत् ॥ ४२ ॥

शिवस्य वर्धनीं चैव पूर्वाभिमुखमेव च ।
इतरेषां तु देवानां शिवाभिमुखमेव च ॥ ४३ ॥

एतच्छान्तिकमुद्दिष्टं पौष्टिकं च ततः शृणु ।
प्रथमावरणे चाष्टौ द्वितीये द्वादश न्यसेत् ॥ ४४ ॥

पूर्वोक्तेन तु मार्गेण यथा क्रमेण विन्यसेत् ।
देवतानां च विप्रेन्द्र ! चत्वारिंशद्घटान् न्यसेत् ॥ ४५ ॥

विन्यसेच्चैव विप्रेन्द्र ! पञ्चमावरणे बुधः ।
ततो होमं प्रकर्तव्यं चतुर्दिक्षु पलाशकैः ॥ ४६ ॥

समिदाज्यं चरुश्चैव सर्षपश्चैव हूयते ।
सद्यादीशानपर्यन्तं क्रमाद् हुत्वा शिवव्रतैः ॥ ४७ ॥

व्योमव्यापिं समुच्चार्य प्रत्येकं पञ्चविंशतिः ।
प्रासादेन तु मन्त्रेण पञ्चाशद्धूयते क्रमात् ॥ ४८ ॥

चित्तादिभिर्जयादिभिर्हूयते क्रमशस्ततः ।
हुत्वान्ते तु यदस्येति जुहुयात् तदनन्तरे ॥ ४९ ॥

एकैकं कलशान्सर्वान् वस्त्रयुग्मेन वेष्टयेत् ।
आचार्यदक्षिणां दद्यात् पदार्थीन् पूजयेत् ततः ॥ ५० ॥

प्। ३७५)

गर्भगेहमनुप्राप्य निर्माल्यं च विसर्जयेत् ।
पश्चात् पञ्चासनं कल्प्य सृष्टिन्यासं प्रकल्पयेत् ॥ ५१ ॥

उत्थाप्य शिवकुम्भं तु स्नापयेल्लिङ्गमूर्धनि ।
वर्धनीं तस्य वामे तु स्नापयेद् गौरि मन्त्रतः ॥ ५२ ॥

व्योमव्यापिं जपेत् तत्र शिवकुम्भं तु स्थापयेत् ।
पञ्चब्रह्म षडङ्गेन स्नापयेत् कलशं ततः ॥ ५३ ॥

प्रथमावरणं स्नात्वा द्वितीयं च तृतीयकम् ।
चतुर्थं पञ्चमं स्नात्वा एवमेवं क्रमेण तु ॥ ५४ ॥

पञ्चवर्ण हविर्दद्यात् ताम्बूलं तु निवेदयेत् ।
एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् ॥ ५५ ॥

मध्यमोत्तममेवं तु एकाशीतिं शृणुष्वथ ।

इति वीरतन्त्रे अष्टोत्तरशत स्नपनविधिः अशीतितमः पटलः ॥ ८० ॥