पितामहः ॥
पञ्चाशदधिकं चैव शतद्वयेन संयुतम् ।
स्नपनं कीदृशं देव ! तत्सर्वं ब्रूहि मे प्रभो ! ॥ १ ॥
प्। ३६७)
ईश्वरः ॥
तत् सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! ।
प्रासादस्याग्रतश्चैव मण्डपं चतुरश्रकम् ॥ २ ॥
सर्वालङ्कारसंयुक्तं सूत्रपादं तु कारयेत् ।
द्वाविंशतिश्च सूत्राणि पूर्वाभिमुखमेव च ॥ ३ ॥
उत्तराभिमुखं तद्वत् तालमात्रेण चान्तरम् ।
नवपादेषु पद्मं स्याद् अष्टपत्रं सकर्णिकम् ॥ ४ ॥
पद्मबाह्ये तु परितो ह्रासयेच्च पदत्रयम् ।
यद्बाह्ये वरणाद्बाह्ये पदद्वयं च ह्रासयेत् ॥ ५ ॥
द्वारार्थं च चतुर्दिक्षु पदमेकं तु ह्रासयेत् ।
शतद्वयं च पञ्चाशत् पदान्यत्र स्थितानि तु ॥ ६ ॥
शालिना विकिरेत् तत्र तण्डुलैश्च तिलैस्सह ।
दर्भैः परिस्तरेत् तत्र गन्धपुष्पादिनार्चयेत् ॥ ७ ॥
कलशान् गृह्य यत्नेन सूत्रेणैव समन्वितान् ।
त्रिगुणी कृतसूत्रेण वेष्टयेत् कुञ्जराक्षवत् ॥ ८ ॥
पूर्वेद्युरधिवासं स्यात् प्रासादेन तु मन्त्रतः ।
जलभाण्डं समादाय सेचयेदुदकं हृदा ॥ ९ ॥
गन्धद्रव्य समायुक्तं वस्त्रपूतेन वारिणा ।
एलालवङ्ग तक्कोलैरुशीर चन्दनैर्युतम् ॥ १० ॥
पञ्चद्रव्येण संयुक्तं गन्धद्रव्यविमिश्रितम् ।
विन्यसेच्छिवकुम्भं तु व्योमव्यापिं समुच्चरन् ॥ ११ ॥
प्। ३६८)
वधनीं तस्य वामे तु गौरीबीजेन विन्यसेत् ।
अभितः कलशानष्टौ विद्येश्वर समन्वितम् ॥ १२ ॥
वस्त्र युग्मेन संवेष्ट्य विणिकादींश्तु वेष्टयेत् ।
वज्रं मरकतं चैव वैडूर्यं च प्रवालकम् ॥ १३ ॥
पुष्यरागं च गोमेधमिन्द्रनीलं च मौक्तिकम् ।
विन्यसेच्छिव कुम्भे तु वर्धन्यां पञ्चरत्नकम् ॥ १४ ॥
विद्येश कलशे विप्र ! स्वर्णकं तत्र निक्षिपेत् ।
बाह्यावरणकं तत्र षट्त्रिंशत्कलशान् न्यसेत् ॥ १५ ॥
सिद्धार्थं तिलमुद्गं च शिम्बं चैव तु विन्यसेत् ।
कपालीशो वज्रपाणिः पिनाकी त्रिदशाधिपः ॥ १६ ॥
एतेऽधि देवताः प्रोक्ता द्वितीयावरणे न्यसेत् ।
तृतीयावरणे चैव कलशान् षष्टि विन्यसेत् ॥ १७ ॥
एलालवङ्ग जाती च तक्कोलं चैव विन्यसेत् ।
पनसं कदली चैव मातुलुङ्गफलानि च ॥ १८ ॥
नारङ्गस्य द्वयं चैव विन्यसेत् तु फलोदकम् ।
याम्यं मृत्युहरं चैव धाता धर्मपतिस्तथा ॥ १९ ॥
एतेऽपि दैवताः प्रोक्ताश्चतुर्थावरणे न्यसेत् ।
पञ्चमावरणं चैव षट्सप्ततिं न्यसेत् ततः ॥ २० ॥
मुरं माञ्जीव कुष्ठं च तिम्बुं चैव तु विन्यसेत् ।
कालरुद्रो हुताशश्च ज्वलनो दहनस्तथा ॥ २१ ॥
प्। ३६९)
एतेऽपि दैवताः प्रोक्ताः पञ्चमावरणे न्यसेत् ।
द्रव्यं च देवता युक्तं कोणे कोणे च विन्यसेत् ॥ २२ ॥
ततो होमं प्रकर्तव्यं चतुर्दिक्ष्वष्टदिक्षु वा ।
हृदा च समिधो हुत्वा हृतं तु शिरसा तथा ॥ २३ ॥
शिखया च चरुं हुत्वा लाजान्कवच मन्त्रतः ।
सर्षपं * * * * * नेत्रमन्त्रेण चैव हि ॥ २४ ॥
प्रशान्तमनसो भूत्वा प्रत्येकं तु शताहुतिः ।
सर्वद्रव्य समायुक्तं हव्यवाहं समुच्चरन् ॥ २५ ॥
स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरे ।
दिशास्वध्ययनं कुर्यात् स्तोत्रमन्त्रं जपेत् ततः ॥ २६ ॥
आचार्य दक्षिणां दद्यात् पदार्थीन् पूजयेत् ततः ।
स्नापयेच्छिवकुम्भं तु प्रासादेन तु मन्त्रतः ॥ २७ ॥
प्रथमावरणे स्नात्वा द्वितीयावरणे पुनः ।
तृतीयावरणं पश्चात् चतुर्थावरणं पुनः ॥ २८ ॥
पञ्चमावरणं पश्चाद् पञ्चब्रह्मषडङ्गकैः ।
पञ्चवर्ण हविर्दद्यात् ताम्बूलं दापयेत् ततः ॥ २९ ॥
एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् ।
पञ्चाशद् द्विशतं प्रोक्तम् उत्तम त्रयमुच्यते ॥ ३० ॥
मध्यम त्रयके विप्र ! अष्टोत्तरशतं शृणु ॥ ३० � ॥
इति वीरतन्त्रे पञ्चाशद् द्विशतस्नपनविधिः एकोनाशीतितमः पटलः ॥ ७९ ॥