प्रणम्य भगवन्तं हि पर्यपृच्छत् पितामहः ।
को वा पञ्चशतं स्नानं ब्रूहि मे परमेश्वर ! ॥ १ ॥
ईश्वरः ॥
तत् सर्वमखिलं वक्ष्ये श्रूयतां चतुरानन ! ।
प्रासादस्याग्रतः कुर्यान् मण्डपं चतुरश्रकम् ॥ २ ॥
वितानोपरि सं * * दर्भमालोपशोभितम् ।
चतुस्तोरण संयुक्तं दर्भमालोपशोभितम् ॥ ३ ॥
अष्टमङ्गलसंयुक्तं दिग्ध्वजैश्च प्रलम्बितम् ।
मुक्तादामैरलङ्कृत्य मण्डपं मण्डयेत् ततः ॥ ४ ॥
गोमयालेपनं कृत्वा सूत्रपातं तु कारयेत् ।
त्रिंशत् सूत्र समायुक्तं प्रागग्राणि विन्यसेत् ॥ ५ ॥
उदगग्रं तथैव स्याद् विन्यसेद् देशिकोत्तमः ।
मध्ये नवपदं पद्मम् अष्टपत्रं सकर्णिकम् ॥ ६ ॥
प्। ३६४)
द्वारार्थं च चतुर्दिक्षु पदमेकं तु ह्रासयेत् ।
तद्बाह्ये तु परितः पदं पञ्च स्थितानि तु ॥ ७ ॥
एवमेव प्रकारेण कर्तव्यं लक्षणान्वितम् ।
शालिना विकिरेत् तत्र आढकं कलशं प्रति ॥ ८ ॥
शाल्यर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् ।
पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् ॥ ९ ॥
त्रिगुणीकृतसूत्रेण वेष्टयेत् कुञ्जराक्षवत् ।
शुद्धोदकेन सम्पूर्य कुम्भमादाय मण्डपे ॥ १० ॥
प्रासादेन तु मन्त्रेण स्थापयेच्छिवकुम्भकम् ।
वर्धनीं तस्य वामे तु गौरीबीजेन स्थापयेत् ॥ ११ ॥
वस्त्रयुग्मेन संवेष्ट्य वेष्टयेद् द्विगुणोपरि ।
कूर्चं तत्रैव निक्षिप्य नवरत्नानि विन्यसेत् ॥ १२ ॥
वर्धन्यां पञ्चरत्नं तु विन्यसेद् देशिकोत्तमः ।
शिवकुम्भे शिवं स्थाप्य वर्धन्यां च मनोन्मनीम् ॥ १३ ॥
अभितः कलशानष्टौ विद्येश्वर समन्वितम् ।
वस्त्रयुग्मेन संवेष्ट्य स्वर्णं तत्रैव विन्यसेत् ॥ १४ ॥
प्रथमावरणे ह्येवं द्वितीयावरणं शृणु ।
द्वितीयावरणे चैव षट्सप्तति च विन्यसेत् ॥ १५ ॥
पञ्चमावरणं चैव चत्वार्यधिकमेव च ।
अशीतिकलशं चैव विन्यसेद् देशिकोत्तमः ॥ १६ ॥
प्। ३६५)
षष्ठावरणके चैव कलशान् विन्यसेद् बुधः ।
तृतीयावरणे चैव अष्टाविंशति विन्यसेत् ॥ १७ ॥
चतुर्थावरणे चैव नवतिं द्व्यधिकं तथा ।
सप्तमावरणे चैव शतकुम्भांश्च विन्यसेत् ॥ १८ ॥
अष्टोत्तरशतं चैव अष्टमावरणे न्यसेत् ।
कूर्चान् कलश संयुक्तान् शुद्धोदकेन पूरितान् ॥ १९ ॥
शाल्योपरि न्यसेत् कुम्भान् हृदयेन तु मन्त्रतः ।
उत्कूर्चं पौष्टिकं चाहुरधः कूर्चं तु शान्तिकम् ॥ २० ॥
अतः कृत्वा तु सर्वेषाम् आभिचारिकमुच्यते ।
एलालवङ्गतक्कोल निम्बुजाती फलैर्युतम् ॥ २१ ॥
उशीरं चन्दनं चैव प्रथमावरणे न्यसेत् ।
गोमूत्रं गोमयं चैव दधिक्षीरं घृतं तथा ॥ २२ ॥
रोचनं चर्करं चैवमधुना च समन्वितम् ।
सर्षपं मुद्गमाषं च प्रियङ्गुं च समन्वितम् ॥ २३ ॥
द्वितीयावरणे न्यस्य देवतानां शृणुष्वथ ।
अजः कापालि बुद्धी च वज्रदेहः प्रमर्दनः ॥ २४ ॥
विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ।
अग्नीरुद्रो हुताशश्च द्वितीयावरणे न्यसेत् ॥ २५ ॥
कर्पूरं गिरिबेरं च तृणकच्चोलजम्बुकम् ।
तृतीयावरणे न्यस्य देवतानां शृणुष्वथ ॥ २६ ॥
प्। ३६६)
ज्वलनो दहनो बभ्रुः भस्मान्तक क्षयान्तकौ ।
आग्नेयादिषु कोणेषु क्रमाद्विन्यस्य देवताः ॥ २७ ॥
धाता पूर्वा च तक्कोलं पुन्नागं जातिपाटली ।
चतुर्थावरणे न्यस्य देवतानां शृणुष्वथ ॥ २८ ॥
कालरुद्रश्च विख्यात धर्माधर्म परिस्तथा ।
संयोक्ता च समायुक्तं पञ्चमावरणे न्यसेत् ॥ २९ ॥
पञ्चासनं तु सङ्कल्प्य स्नापयेच्छिवकुम्भकम् ।
व्योमव्यापिं जपेत् तत्र ब्रह्माङ्गैश्च समन्वितम् ॥ ३० ॥
वर्धन्यां गौरिबीजेन विन्यसेत् पीठके ततः ।
यथा स्थापितमार्गेण स्नापयेत् कलशांस्ततः ॥ ३१ ॥
पञ्चवर्णहविर्दद्यात् ताम्बूलं दापयेत् ततः ।
आचार्यदक्षिणां दद्यात् पञ्चाङ्गभूषणैस्सह ॥ ३२ ॥
स्नपनोपकरणं सर्वमाचार्याय प्रदापयेत् ।
एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् ॥ ३३ ॥
पञ्चशतस्नपनं प्रोक्तं पञ्चाशद् द्विशतं शृणु ।
इति वीरतन्त्रे पञ्चशतस्नपनविधिः अष्टसप्ततितमः पटलः ॥ ७८ ॥