लोकनाथं प्रणम्यादौ ब्रह्मा पृच्छति शङ्करम् ।
स्नपनं विविधं किं वा तत्सर्वं ब्रूहि मे प्रभो ! ॥ १ ॥
ईश्वरः ॥
तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! ।
ग्रहणे विषुवे चैव अयने व्यतिपादके ॥ २ ॥
षडशीति मुखे चैव प्रतिष्ठे चोत्सवान्तिके ।
अद्भुतानां समुत्पन्ने प्रायश्चित्तादि सम्भवे ॥ ३ ॥
एवमादिषु सर्वेषु स्नपनं तत्र कारयेत् ।
प्रासादस्याग्रतश्चैव मण्डपं चतुरश्रकम् ॥ ४ ॥
त्रिहस्तं पञ्चहस्तं वा षट्सप्ताष्टनवं तथा ।
एकादशकरं वाथ त्रयोदशकरं तु वा ॥ ५ ॥
प्। ३५६)
पञ्चादशकरं वाथ मण्टपं कारयेत् ततः ।
अधमं पूर्वत्रयं सिद्धं मध्यमं चापरं भवेत् ॥ ६ ॥
प्रोक्तं तु नवभेदेन चोच्यते तन्मया द्विज ! ।
ऋषिच्छन्दो देवता वक्ष्ये शृणुष्व कमलासन ! ॥ ७ ॥
अगस्त्येन समायुक्तं जगतीच्छन्दसा युतम् ।
आदित्येन समायुक्तम् उत्तमत्रयमुच्यते ॥ ८ ॥
वसिष्ठेन समायुक्तं शक्वरीच्छन्द उच्यते ।
विघ्नेशेन समायुक्तं मध्यमं त्रयमुच्यते ॥ ९ ॥
व्यासेन च समायुक्तम् अनुष्ठुभ्छन्दसा युतम् ।
छन्देनैव समायुक्तम् अधमत्रयमुच्यते ॥ १० ॥
चतुरश्रं समं कृत्वा प्रपां वा मण्टपं तु वा ।
मण्टपं नवषट्त्रिंशत् * * * गात्र संयुतम् ॥ ११ ॥
षोडशं द्वादशं वाथ पूर्वोक्तेन विधानतः ।
पूर्वोक्तेन विधानेन मण्टपं कारयेत् ततः ॥ १२ ॥
अधमत्रयं विद्धि मध्यममुत्तरं चापरं भवेत् ।
प्रोक्तं तु नवभेदेन प्रोच्यते तु मया द्विज ! ॥ १३ ॥
ऋषिच्छन्दो देवताश्च तव स्नेहात् प्रजापते ।
वितानेनोर्ध्वमाच्छाद्य मुक्तादामैरलङ्कृतम् ॥ १४ ॥
अष्टदिक्षु ध्वजान् न्यस्य लोकपालान् लिखेत् ततः ।
चतुर्द्वार समायुक्तं चतुस्तोरण संयुतम् ॥ १५ ॥
प्। ३५७)
दर्भमालाभिरावेष्ट्य नारिकेल फलैर्युतम् ।
सृक्पट्टदेवाङ्गैः नेत्रदीपैरलङ्कृतम् ॥ १६ ॥
पुष्पमाला समायुक्तं सर्वालङ्कार संयुतम् ।
सहस्रकलशं चैव उत्तमोत्तममुच्यते ॥ १७ ॥
पञ्चशतेन संयुक्तम् उत्तमं मध्यमं भवेत् ।
पञ्चाशदधिक द्विशतम् उत्तमाधममुच्यते ॥ १८ ॥
अष्टोत्तरशतं चैव मध्यमोत्तममुच्यते ।
एकाशीतिस्तु मध्यं स्यान् मध्यमस्य विशेषतः ॥ १९ ॥
एवं नवविधं प्रोक्तम् उत्तमोत्तमकं शृणु ।
सुमुहूर्ते च सुलग्ने च सूत्रपादं तु कारयेत् ॥ २० ॥
रजन्या शालिपिष्टेन कर्तव्यं लक्षणान्वितम् ।
अष्टाधिकं च विप्रेन्द्र ! चत्वारिंशच्च संयुतम् ॥ २१ ॥
सूत्रं पादं प्रकर्तव्यं प्रागग्राणि हविर्न्यसेत् ।
उत्तराग्रं तथैव स्यादेवमेव क्रमेण तु ॥ २२ ॥
मात्राङ्गुलेन विप्रेन्द्र ! अन्तरं ताल मात्रकम् ।
मध्यमे पञ्चविंशत्तु तद्द्वयावृत वीथिकान् ॥ २३ ॥
बाह्ये पञ्चदशं स्थित्वा पदद्वयं तु वीथिका ।
बाह्ये पदद्वयं न्यस्त्वा पञ्च पञ्च पदान्तरे ॥ २४ ॥
पूर्वं च दक्षिणं चैव पश्चिमं चोत्तरं तथा ।
एवमेव क्रमेणैव विधीनां लोपयेत् क्रमात् ॥ २५ ॥
प्। ३५८)
मध्यमात् परितो विप्र ! अष्टव्यूहान्व्यपोह्य च ।
व्यूहान्तरे प्रकर्तव्यं व्यूहस्थापनमाक्रमात् ॥ २६ ॥
तद्बाह्ये परितो विप्र ! कलशस्थानमुच्यते ।
पुण्याहं वाचयेत् तत्र पवमानेन प्रोक्षयेत् ॥ २७ ॥
शालिना विकिरेत् तत्र लक्षणेन समन्वितम् ।
कलशान्प्रति निक्षिप्य अर्धकं चोत्तमं भवेत् ॥ २८ ॥
द्विप्रस्थं मध्यमं प्रोक्तं प्रस्थं चाधममुच्यते ।
एवमेव प्रकारेण हीनं चापि न कारयेत् ॥ २९ ॥
हीनं चेच्छिव विप्रेन्द्र ! व्याधिरोगभयं ददेत् ।
शाल्यर्ध तण्डुलं न्यस्य तण्डुलार्धतिलं न्यसेत् ॥ ३० ॥
तिलतण्डुलहीने तु ज्वरादि पीडनं भवेत् ।
पद्ममष्टदलं चैव दर्भैश्चैव परिस्तरेत् ॥ ३१ ॥
पुण्याहं वाचयेत् तत्र शुद्धैरुत्थैरिति ब्रुवन् ।
कलशानां विधिं वक्ष्ये उत्तमं द्रोणपूरितम् ॥ ३२ ॥
शिवपूरितं मध्यमम् आढकेनाधमं भवेत् ।
अपक्वमति पक्वं च हीनं कालं च वर्जयेत् ॥ ३३ ॥
एवमेव प्रकारेण कलशान्गृह्य यत्नतः ।
त्रिगुणी कृतमोरं वा वेष्टयेत् कुञ्जराक्षवत् ॥ ३४ ॥
क्षालयेद्वारिणा विप्र ! दर्भोपरि न्यसेद्धृदा ।
शुद्धोदकेन सम्पूर्णं कूर्चमध्ये विनिक्षिपेत् ॥ ३५ ॥
प्। ३५९)
मध्यमे स्थापयेत् कुम्भं प्रासादेन तु मन्त्रतः ।
पञ्चासनोपरिष्टात् तु स्थापयेत् कुम्भमेव च ॥ ३६ ॥
वर्धनीं स्थापयेद् विद्वान् गौरीबीजेन मन्त्रतः ।
गन्धपुष्पादिनाभ्यर्च्य व्योमव्यापि समुच्चरन् ॥ ३७ ॥
शिवकुम्भं च वर्धन्यां पूजयेत् तु विशेषतः ।
पूर्वादीशान पर्यन्तम् अष्टकुम्भान् न्यसेत् क्रमात् ॥ ३८ ॥
विद्येश्वर समायुक्तान् गन्धपुष्पादिनार्चयेत् ।
विद्येशानां सुवर्णं च विन्यसेद्देशिकोत्तमः ॥ ३९ ॥
वस्त्रयुग्मेन संवेष्ट्य कलशानां प्रतिष्ठितम् ।
उत्तमं दशहस्तं तु मध्यमं चाष्टहस्तकम् ॥ ४० ॥
षट्सप्तमधमं प्रोक्तं वस्त्रदैर्घ्यमिहोच्यते ।
विस्तारं तु चतुस्तालं कलशान्वेष्टयेत् क्रमात् ॥ ४१ ॥
एलालवङ्ग कर्पूरं तीन् पूजातिलं मुरम् ।
चूर्णितं हृदये नैव विन्यसेदेशिकुम्भके ॥ ४२ ॥
पूर्वादि विन्यसेद् व्यूहात्कलशान्देशिकोत्तमः ।
वस्त्रैर्धूपैश्च दीपैश्च गन्धैश्चैव तु पूजयेत् ॥ ४३ ॥
एकैकं कलशान् सर्वान् हृदयेन तु विन्यसेत् ।
मध्य व्यूहं तु विन्यस्य बाह्य व्यूहं पदं न्यसेत् ॥ ४४ ॥
व्यूहं प्रति न्यसेत् कुम्भान् पञ्चविंशति सङ्ख्यया ।
आज्यं चैव तु पूर्वे तु आग्नेय्यां दधि विन्यसेत् ॥ ४५ ॥
प्। ३६०)
गोमूत्रं याम्यदेशे तु क्षीरं निर्-ऋतिगोचरे ।
वारुण्यां तु मधुन्यस्य वायव्यां तु नलं न्यसेत् ॥ ४६ ॥
गोमयं चोत्तरे भागे ईशे गोरोचनां न्यसेत् ।
एवमेव प्रकारेण व्यूहं प्रति न्यसेत् ततः ॥ ४७ ॥
मुद्गं माषं च शिम्बं च यववेणु प्रियङ्गवः ।
सर्षपं शालिना चैव विदिक्षु विन्यसेत् ततः ॥ ४८ ॥
अजङ्गपालिविबुधो वज्रदेहः प्रमर्दनः ।
विभूतिरव्ययः शास्ता पिनाकी प्रमथाधिपः ॥ ४९ ॥
याम्ये मृत्युर्हरोधाता विधाता कर्तृकारकः ।
पूर्वादि विन्यसेद् विद्वान् प्रदक्षिणक्रमेण तु ॥ ५० ॥
एतद् द्रव्यांश्च सर्वेषां कलशानां प्रपूरयेत् ।
अलाभे चैव विप्रेन्द्र ! यथालाभं विनिक्षिपेत् ॥ ५१ ॥
तद्बाह्ये व्यूहमेवं तु चतुर्विंशतिरेव च ।
कलशान्पञ्चविंशांस्तु व्यूहं प्रति न्यसेत् क्रमात् ॥ ५२ ॥
एलालवङ्ग तक्कोलनिम्बजातिफलं मुरम् ।
कुष्ठं च कुङ्कुमं चैव रघुमाञ्चि तथैव च ॥ ५३ ॥
पनसं कदलीयुक्तम् इक्षूदकं तथैव च ।
उशीरं चन्दनं चैव तृणकच्चोलजम्बकम् ॥ ५४ ॥
मनश्शिलाहरितालं च पुष्पोदकफलोदकम् ।
लोध्रं च कुङ्कुमं चैव चतुर्विंशति संयुतम् ॥ ५५ ॥
प्। ३६१)
यावत् साधितकलशं तावद्वैचान्तरोदकम् ।
अग्निरुद्रोद्भुताशी च पिङ्गलः खाततो हरः ॥ ५६ ॥
ज्वलनो दहनो बभ्रुर्भस्मान्तकक्षयान्तकः ।
शालिनीवारगोधूम प्रियङ्गुं चैव संयुतम् ॥ ५७ ॥
पञ्चब्रह्मषडङ्गेन यथा क्रमेण हूयते ।
त्रियम्बकेन मन्त्रेण * * * * * * * * ॥ ५८ ॥
लोहं च कुङ्कुमं चैव चतुर्विंशति संयुतम् ॥ ५९ ॥
यावद् ग्रथितकलशान्तां चैवान्तरोदकम् ।
कालरुद्रश्च विख्यातः सर्वधर्म पतिस्तथा ॥ ६० ॥
संयोक्ता च नियोक्ता च नियोक्ता च प्रकीर्तिता ।
लोकान्तरः स्फुटा लोकः त्र्यम्बको नागभूषणः ॥ ६१ ॥
विश्वक्लिन्नोदभासेन धर्मकृच्चैव कीर्तिताः ।
एतेषां देवतानां तु व्यूहे व्यूहे प्रकीर्तिताः ॥ ६२ ॥
द्रव्यं च देवतायुक्तं कलशेषूदकं न्यसेत् ।
पूर्वाभिमुखं संस्थाप्य शिवोमां चैव देशिकः ॥ ६३ ॥
इतरेषां तु देवानां शिवाभिमुखमेव च ।
गन्धपुष्पादिना चैव कलशान्प्रतिपूजयेत् ॥ ६४ ॥
वस्त्रेण वेष्टयेत् सर्वान् स्वर्णं तत्रैव निक्षिपेत् ।
ततो होमं प्रकुर्वीत लक्षणेन समन्वितम् ॥ ६५ ॥
प्। ३६२)
यावदश्रं भवेत् पीठं तावदश्रं तु स्थण्डिलम् ।
समिदाज्य चरून्लाजान् सर्वद्रव्य समायुतम् ॥ ६६ ॥
स्विष्टमग्नेति मन्त्रेण जुहुयात् तदनन्तरे ।
चित्तादीनि जयादीनि होमयेत् तु विशेषतः ॥ ६७ ॥
हुत्वान्ते तु यदस्येति जुहुयात् तदनन्तरे ।
गन्धपुष्पादिनाभ्यर्च्य शिवकुम्भं च वर्धनीम् ॥ ६८ ॥
सर्वदेवान् समाहूय स्तोत्रशब्द समन्वितम् ।
चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः ॥ ६९ ॥
सृष्टि न्यासक्रमेणैव स्वस्वदेहे न्यसेत् क्रमात् ।
मूलबेरमनुप्राप्य निर्माल्यं च विसर्जयेत् ॥ ७० ॥
नववस्त्रपरीधानः सोष्णीषः सोत्तरीयकः ।
पञ्चासनो परिष्टात् तु शिवं ध्यायेद् विचक्षणः ॥ ७१ ॥
शिरसा धारयेत् कुम्भं वर्धन्यां चैव कारयेत् ।
ततो गर्भगृहं गत्वा प्रासादेन समन्वितम् ॥ ७२ ॥
व्योमव्यापिं जपित्वा तु पञ्चब्रह्मषडङ्गकैः ।
स्थापयेच्छिवकुम्भं तु वर्धन्यां पीठकं न्यसेत् ॥ ७३ ॥
पूर्वादीशान पर्यन्तं स्नापयेद् अष्टकुम्भकैः ।
यथा स्थापनमार्गेण स्थापयेत् परमेश्वरम् ॥ ७४ ॥
नालिकेरोदकं स्नाप्य शुद्धिं कृत्वा तु भूतलम् ।
वस्त्रं दद्याद् हृदा चैव गन्धपुष्पं च दापयेत् ॥ ७५ ॥
प्। ३६३)
नैवेद्यं दापयेत् पश्चात् ताम्बूलं दापयेत् ततः ।
आचार्य दक्षिणां दद्यात् पदार्थीन् पूजयेत् ततः ॥ ७६ ॥
स्नपनोपकरणं सर्वम् आचार्याय प्रदापयेत् ।
एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् ॥ ७७ ॥
सहस्रकलशं प्रोक्तम् अथ पञ्चशतं शृणु ।
इति वीरतन्त्रे सहस्रकलशस्थापनविधिः सप्तसप्ततितमः पटलः ॥ ७७ ॥