प्रणिपत्य जगन्नाथं ब्रह्मा पृच्छति शङ्करम् ।
ज्येष्ठाया स्थापनं किं वा तत्सर्वं ब्रूहि मे प्रभो ! ॥ १ ॥
ईश्वरः ॥
तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! ।
पूजांशोच्च प्रमाणेन प्रतिमोत्सेधमुच्यते ॥ २ ॥
नवधा गर्भगृहं भित्वा एकैकं प्रतिमोच्छ्रयम् ।
चत्वारः पञ्चषट्तालं प्रतिमस्योच्छ्रयं भवेत् ॥ ३ ॥
द्विहस्तां च द्विनेत्रां च सौम्यवदन संयुताम् ।
मकुटेन समायुक्तां रक्तवस्त्र समन्विताम् ॥ ४ ॥
किञ्चित् कुञ्चित पादाभ्यां पद्मासनोपरि स्थिताम् ।
दक्षिणे पुत्रसंयुक्तां सूकराननसंयुताम् ॥ ५ ॥
प्। ३५२)
वामे पुत्रिसमायुक्तां तस्यां शिरसि हस्तयोः ।
एवं लक्षणसंयुक्तं देव्या रूपं प्रकल्पयेत् ॥ ६ ॥
काकध्वजसमायुक्तां पूर्वाभिमुखमेव च ।
मूलमन्त्रं प्रवक्ष्यामि द्वितीयस्य तृतीयकम् ॥ ७ ॥
सप्तमस्य द्वितीयं तु प्रथमस्य चतुर्थकम् ।
बिन्दुनादसमायुक्तं ज्येष्ठामूलमिति स्मृतम् ॥ ८ ॥
हृस्वा ब्रह्म समाख्याता दीर्घाभ्यङ्गानि चोच्यते ।
प्रथमस्यैकादशं युक्तं बिन्दुनाद समन्वितम् ॥ ९ ॥
पुत्रबीजमिति ज्ञेयं पुत्रीबीजमतः शृणु ।
पञ्चमात् पञ्चमं गृह्य बिन्दुनाद समन्वितम् ॥ १० ॥
पुत्रीबीजमिति ख्यातं स्थापनं शृणु तत्वतः ।
रत्नन्यासं तु कर्तव्यं पञ्चरत्नं तु मूलतः ॥ ११ ॥
नयनं मोक्षणं कुर्याद् पञ्चब्रह्म समन्वितम् ।
अक्षिहोमं ततः कुर्याद् आज्येनैव शताहुतिः ॥ १२ ॥
तर्पयेन्मधुसर्पिश्च सवत्साङ्गां प्रदर्शयेत् ।
जलाधिवासनं कुर्यान् मूलमन्त्रेण देशिकः ॥ १३ ॥
प्रच्छन्न पटसंयुक्तं कलशान्लोकपालकान् ।
एकरात्रं त्रिरात्रं वा पञ्चरात्रमथापि वा ॥ १४ ॥
जलादुत्तीर्य पूर्वेद्युः पञ्चगव्येन स्नापयेत् ।
पूर्वोक्तमण्डपे रम्ये मध्ये वेदिकया युतम् ॥ १५ ॥
प्। ३५३)
कुण्डानि कारयेत् तत्र नव वा पञ्च एव वा ।
वृत्तं वा चतुरश्रं वा सर्वकुण्डानि कारयेत् ॥ १६ ॥
आग्नेय्यां पुत्र कुण्डं तु नैर्-ऋत्यां पुत्रिकुण्डकम् ।
वास्तु होमं दिवा कुर्याल्लक्षणेन समन्वितम् ॥ १७ ॥
वेदिमध्ये न्यसेच्छालिं तण्डुलं च तिलं न्यसेत् ।
शयनं पञ्चभिः कल्प्य गन्धपुष्पादिनार्चयेत् ॥ १८ ॥
प्रतिमस्येश दिग्भागे ज्येष्ठा कुम्भं न्यसेत् क्रमात् ।
दक्षिणे वामपार्श्वे तु पुत्रं पुत्री समन्वितम् ॥ १९ ॥
पूर्वादीशानपर्यन्तम् अष्टकुम्भान् न्यसेत् क्रमात् ।
वामादि शक्ति संयुक्तं काकं च क्रमान् न्यसेत् ॥ २० ॥
वामादिशक्ति संयुक्तं काकं चाग्नेयकुम्भकम् ।
सवस्त्रां सापिधानां च सहिरण्यं स कूर्चकम् ॥ २१ ॥
गन्धपुष्पादिनाभ्यर्च्य पायसान्नं निवेदयेत् ।
ततो होमं प्रकुर्वीत पालाशसमिधा सह ॥ २२ ॥
समिदाज्य चरून्लाजान् सर्षपांश्च यवांस्तिलान् ।
शालिनीवारगोधूम मुद्गे नैव समन्वितम् ॥ २३ ॥
पञ्चब्रह्म षडङ्गैश्च हुत्वान्ते तु यथाक्रमम् ।
मूलमन्त्रेण विप्रेन्द्र ! अष्टोत्तरशताहुतिः ॥ २४ ॥
ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः ।
चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः ॥ २५ ॥
प्। ३५४)
ततो वासनहोमं तु समिदाज्यचरूयुतम् ।
मूलमन्त्रेण होतव्यं प्रत्येकं तु शताहुतिः ॥ २६ ॥
हुत्वान्ते तु यदस्येति हुत्वा पूर्णाहुतिं ततः ।
उत्थाप्य शयनाद्देवीं स्थापयेन् मानुषे पदे ॥ २७ ॥
प्रधानकुम्भमादाय मूलेन स्थापयेत् पुनः ।
पञ्चब्रह्म शिवाङ्गैश्च स्नापयेच्छक्ति कुम्भकान् ॥ २८ ॥
अर्चयेद् गन्धपुष्पाद्यैः पायसान्नं निवेदयेत् ।
ब्राह्मणान् भोजयेत् तत्र शैवान् सम्भोजयेत् ततः ॥ २९ ॥
नित्यार्चनविधिं वक्ष्ये शृणुष्व चतुरानन ! ।
अङ्गन्यासकरन्यासं पञ्चब्रह्मेण कारयेत् ॥ ३० ॥
पाद्यार्घ्याचमनीयं च हृदयेन तु दापयेत् ।
आवाहयेत् तु सद्येन वामेन स्थापनं भवेत् ॥ ३१ ॥
अभिषेकं तु मूलेन अर्चयेद् धृदयेन तु ।
हृदयेन चरुं दद्यान् नित्योत्सवं तु कारयेत् ॥ ३२ ॥
महोत्सवं प्रवक्ष्यामि ध्वजारोहणकं ततः ।
प्रासादस्य समोत्सेधं ध्वजदण्डं विधीयते ॥ ३३ ॥
भेरीताडनकं कृत्वा अङ्कुरार्पणमेव च ॥ ३४ ॥
शिवोत्सव क्रमेणैव उत्सवं कारयेत् ततः ।
ततो ग्रामबलिं दद्यात् शुद्धान्नं प्रतिसमायुतम् ॥ ३५ ॥
प्। ३५५)
प्रथमं भूतरात्रं तु द्वितीयं गणरात्रकम् ।
तृतीयमृषिरात्रं तु चतुर्थं गन्धमुच्यते ॥ ३६ ॥
पञ्चमं ब्रह्मरात्रं तु षष्ठं वा कलिरात्रकम् ।
ज्येष्ठांशं सप्तमं रात्रमित्येता रात्रिदेवताः ॥ ३७ ॥
चूर्णोत्सवं ततः कुर्यात् तीर्थं कृत्वा ततो बुधः ।
स्नपनं कारयेत् तत्र लक्षणेन समन्वितम् ॥ ३८ ॥
अष्टोत्तरशतं वापि पञ्चाशत् पञ्चविंशतिः ।
एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् ॥ ३९ ॥
इति वीरतन्त्रे ज्येष्ठा स्थापनविधिः षट्सप्ततितमः पटलः ॥ ७६ ॥