प्रणिपत्य जगन्नाथं ब्रह्मा वचनमब्रवीत् ।
कुमारस्थापनं किं वा तत्सर्वं ब्रूहि मे प्रभो ! ॥ १ ॥
ईश्वरः ॥
तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! ।
पूजाभागसमुत्सेधं प्रतिमं सोच्छ्रयं भवेत् ॥ २ ॥
गर्भं तु नवधा भज्य एकैकं प्रतिमोच्छ्रयम् ।
चत्वारः पञ्चतालं वा षट्तालं वापि कारयेत् ॥ ३ ॥
त्र्यक्षं चतुर्भुजं शान्तं मकुटेन समन्वितम् ।
वरदाभयहस्तं तु अक्षमालाकमण्डलुम् ॥ ४ ॥
स्वस्तिदं पद्ममध्ये तु पूर्वाभिमुखमेव च ।
जया च विजया चैव देव्यौ पार्श्व स्थिते सदा ॥ ५ ॥
शिखिनं कुक्कुटं वापि गजं वा स्थापयेत् ततः ।
एभिस्तु लक्षणैर्युक्तं प्रतिमां कारयेत् ततः ॥ ६ ॥
अष्टवर्गात् तृतीयं तु सप्तवर्गाद् द्वितीयकम् ।
प्रथमस्य चतुर्थं तु बिन्दुनाद समन्वितम् ॥ ७ ॥
प्। ३४८)
मूलमन्त्रमिति प्रोक्तं त्रिदशैरपि दुर्लभम् ।
हृस्वा ब्रह्म समाख्याता दीर्घाभ्यङ्गानि चोच्यते ॥ ८ ॥
रत्नन्यासं प्रकर्तव्यं पूर्वादीनि क्रमाद् बुधैः ।
वज्रं मरकतं चैव वैडूर्यं च प्रवालकम् ॥ ९ ॥
चतुर्दिक्षु च विन्यस्य इन्द्रनीलं तु मध्यमे ।
सुस्निग्धं कारयेत्तत्र नयनं मोक्षणं कुरु ॥ १० ॥
सुवर्ण सूचिना चैव सौम्य दृष्टिं लिखेत् ततः ।
अक्षिहोमं ततः कृत्वा नेत्रेणैव शताहुतिः ॥ ११ ॥
प्रच्छन्न पटसंयुक्तं मधुवातेति तर्पयेत् ।
घृतमिक्षेति सन्तर्प्य सवत्साङ्गां प्रदर्शयेत् ॥ १२ ॥
जया च विजया चैव मूलमन्त्रेण कारयेत् ।
बिन्दुनाद समायुक्तं जयाबीजमनुत्तमम् ।
सप्तवर्गाच्चतुर्थं तु मायातत्व समन्वितम् ॥ १४ ॥
बिन्दुनाद समायुक्तं विजयाबीजमुच्यते ।
ब्राह्मणान् दर्शयेत् तत्र पुण्याहं वाचयेत् ततः ॥ १५ ॥
स्नापयेत् पञ्चगव्येन प्रतिमां क्षालयेद्धृदा ।
नववस्त्रसमाधानः कुर्याद्ग्रामप्रदक्षिणम् ॥ १६ ॥
जलाधिवासनं कृत्वा त्रिरात्रं पञ्चरात्रकम् ।
मूलमन्त्रेण विप्रेन्द्र ! प्रच्छन्न पटसंयुतम् ॥ १७ ॥
प्। ३४९)
अभितः कलशानष्टौ लोकपालाधिदैवतान् ।
जलादुत्तीर्य पूर्वेद्युः स्नापयेत् पञ्चगव्यकैः ॥ १८ ॥
वास्तुहोमं दिवाकुर्यान् मण्डपं कारयेत् ततः ।
मध्यमे वेदिकां कुर्यात्परितः कुण्डमुच्यते ॥ १९ ॥
चतुरश्रं चतुदिक्षु आग्नेयादौ (त्रि)कोणकम् ।
इन्द्र ईशानयोर्मध्ये कुर्यात्कुण्डं त्रिकोणकम् ॥ २० ॥
सोम ईशानयोर्मध्ये पञ्चाश्रं बिन्दुमयं तथा ।
शालिना विकिरेद्वेदीं तण्डुलं च तिलं न्यसेत् ॥ २१ ॥
शयनं पञ्चभिः कल्प्य मूलमन्त्र समन्वितम् ।
शाययेद् वेदिकामध्ये प्राक्शिरस्का विधीयते ॥ २२ ॥
जया च विजया चैव द्वौ पार्श्वौ विन्यसेत् ततः ।
कौतुकं बन्धयेत् पूर्वे हृदयेन तु मन्त्रतः ॥ २३ ॥
प्रतिमस्येशदिग्भागे स्थापयेत् स्कन्दकुम्भकम् ।
जया च विजया चैव द्वौ पार्श्वौ स्थापयेत् क्रमात् ॥ २४ ॥
सवस्त्रं सहिरण्यं च सकूर्चं सापिधानकम् ।
पूर्वादीशान पर्यन्तम् अष्टकुम्भान् क्रमान्यसेत् ॥ २५ ॥
कुमारं च गुहं चैव सुब्रह्मण्यं तथैव च ।
सेनापतिं सुराग्रं च हरसूनुं तथैव च ॥ २६ ॥
शरवणोद्भवं चैव कार्तिकेयं च विन्यसेत् ।
गन्धपुष्पादिनाभ्यर्च्य स्वस्वनाम्ना च मन्त्रतः ॥ २७ ॥
प्। ३५०)
नैवेद्यं दापयेत् पश्चात् ताम्बूलं दापयेत् ततः ।
ततो होमं प्रकुर्वीत पालाशसमिधा सह ॥ २८ ॥
समिदाज्य चरून्लाजान् सर्षपांश्च यवांस्तिलान् ।
शालिनीवारगोधूम मुद्गैश्चैव समन्वितम् ॥ २९ ॥
पञ्चब्रह्मषडङ्गेन क्रमाद्धुत्वा विशेषतः ।
स्कन्दमूलेन होतव्यमाज्ये नैव शताहुतिः ॥ ३० ॥
ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः ।
ततो वासनहोमं तु समिदाज्यचरूयुतम् ॥ ३१ ॥
मूलमन्त्रेण विप्रेन्द्र ! पञ्चदशाहुतिं हुनेत् ।
चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः ॥ ३२ ॥
सर्वद्रव्यसमायुक्तं हव्यवाहं समुच्चरन् ।
स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरे ॥ ३३ ॥
पूर्णाहुतिं यदस्येति जुहुयाद्देशिकोत्तमः ।
उत्थाप्य शयनाद्देवीं सृष्टिन्यासं तु कारयेत् ॥ ३४ ॥
आचार्य दक्षिणां दद्यात् पञ्चाङ्गभूषणैर्युतम् ।
स्नापयेत् स्कन्दमूलेन स्कन्दकुम्भं विशेषतः ॥ ३५ ॥
जयां च विजयां चैव तत् तन्मूलेन स्थापयेत् ।
आवाहयेत् तु वामेन सद्येन स्थापनं भवेत् ॥ ३६ ॥
ईशानेनाभिषेकं तु * * * * * * * * ।
गन्धाद्या हृदया चैव पुष्पं तु शिरसा तथा ॥ ३७ ॥
प्। ३५१)
वस्त्रादीनि सर्वांश्च हृदये नैव दापयेत् ।
नैवेद्यं हृदये नैव नित्योत्सवं तु कारयेत् ॥ ३८ ॥
स्थलिके स्थण्डिलं न्यस्य अर्चयेद् गन्धपुष्पकैः ।
प्रतिमां पूर्वतो गत्वा पश्चात् तु क्षणिकं भवेत् ॥ ३९ ॥
आलयं प्रविशेत् तत्र नैमित्तिकमिहोच्यते ।
उत्सवं कारयेत् तत्र लक्षणेन समन्वितम् ॥ ४० ॥
स्कन्दस्थापनमेवोक्तं ज्येष्ठा स्थापनकं शृणु ॥ ४० � ॥
इति वीरतन्त्रे स्कन्दस्थापनविधिः पञ्चसप्ततितमः पटलः ॥ ७५ ॥