प्रणम्य शिरसा देवं ब्रह्मा पृच्छति शङ्करम् ।
मातॄणां स्थापनं किं वा तत्सर्वं ब्रूहि मे प्रभो ! ॥ १ ॥
ईश्वरः ॥
तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ २ ॥
वाराही च तथेन्द्राणी चामुण्डा वीरभद्रकम् ।
विघ्नेशं प्रतिमं कृत्वा स्थापयेद् विधिपूर्वकम् ॥ ३ ॥
हस्तं वा गर्भमानं * * * ग्निं कारयेद् बुधः ।
चतुर्भुजां द्विनेत्रां च पद्मासनोपरि स्थितम् ॥ ४ ॥
वामे च दक्षिणे हस्ते कृष्णापरशुधारिणम् ।
वीरभद्रं मया प्रोक्तं ब्राह्मी चैव शृणुष्वथ ॥ ५ ॥
प्। ३४४)
चतुर्भुजां त्रिणेत्रां च सुस्तनां च सुयौवनाम् ।
दक्षिणेऽदक्षिणे हस्ते अक्षसूत्रकमण्डलुम् ॥ ६ ॥
पद्मासनोपरिष्टात् तु ब्रह्माणीं चैव कारयेत् ।
त्रिनेत्रां चतुर्भुजां चैव जटामुकुट धारिणीम् ॥ ७ ॥
दक्षिणेऽदक्षिणे हस्ते कृष्णा परशुधारिणीम् ।
पद्मासनोपरिष्टात् तु माहेश्वरीं च कारयेत् ॥ ८ ॥
द्विनेत्रां द्विभुजां चैव सुस्तनां च सुयौवनाम् ।
दक्षिणेऽदक्षिणे हस्ते अक्षमालाकमण्डुलुम् ॥ ९ ॥
मकुटेन समायुक्तं कौमारीं चैव कारयेत् ।
द्विनेत्रां चतुर्भुजां देवीं शङ्खचक्रगदाधराम् ॥ १० ॥
करण्ड मकुटां देवीं सुस्तनां च सुयौवनाम् ।
कारयेद् वैष्णवीं देवीं वाराहीं च ततः शृणु ॥ ११ ॥
द्विनेत्रां चतुर्भुजां देवीं हलमुसलायुधाम् ।
मकुटेन समायुक्तां वराह मुख संयुताम् ॥ १२ ॥
दंष्ट्रया च समायुक्तां वाराहीं कारयेत् ततः ।
चतुर्भुजां द्विनेत्रां च श्यामवर्ण समायुताम् ॥ १३ ॥
वज्रतोमर संयुक्ताम् इन्द्राणीं कारयेत् ततः ।
चतुर्भुजं त्रिणेत्रं च विघ्नेशं कारयेत् ततः ॥ १४ ॥
यरलवशषसह गकारं गणपतिं तथा ।
मायानल समायुक्तं बिन्दुनाद समायुतम् ॥ १५ ॥
प्। ३४५)
मूलमन्त्रमिदं प्रोक्तं सर्वकामफलप्रदम् ।
हृस्वा ब्रह्म समाख्याता दीर्घाह्यङ्गानि चोच्यते ॥ १६ ॥
रत्नन्यासमिदं प्रोक्तं सर्वासां पञ्चरत्नकम् ।
नयनं मोक्षणं कुर्यात् पूर्वोक्ते नैव मार्गतः ॥ १७ ॥
अक्षिहोमं तु नेत्रेण आज्ये नैव शताहुतिः ।
जलाधिवासनं कुर्यात् पूर्वोक्तेन विधानतः ॥ १८ ॥
जलादुत्तीर्य पूर्वेद्युः प्रविशेदालयं प्रति ।
पूर्ववन्मण्डपं कुर्यात् पूर्वोक्ते नैव मार्गतः ॥ १९ ॥
तन्मध्ये वेदिकां कुर्यात् परितः कुण्डमुच्यते ।
चतुरश्रं योनिकुण्डम् अर्धचन्द्रं त्रिकोणकम् ॥ २० ॥
वर्तुलं पञ्चकोणं च पद्मं चैवाष्टकोणकम् ।
पूर्वादीनि क्रमान् न्यस्य कुण्डान्येतानि विन्यसेत् ॥ २१ ॥
इन्द्र ईशानयोर्मध्ये सप्ताग्रं तु गणाधिपम् ।
पुण्याहं वाचयेत्तत्र पवमानेन प्रोक्षयेत् ॥ २२ ॥
शालिना विकिरेद्वेदीं तण्डुलं च तिलं न्यसेत् ।
शयनं पञ्चभिः कुर्यात् तस्योपरि न्यसेत् ततः ॥ २३ ॥
ब्रह्माणीं मध्यमे स्थाप्य पूर्वे माहेश्वरीं न्यसेत् ।
कौमारीं वह्निदेशे तु वैष्णवीं दक्षिणे न्यसेत् ॥ २४ ॥
वाराहीं नैर्-ऋते चैव ऐन्द्राणीं पश्चिमे न्यसेत् ।
चामुण्डीं वायुदेशे तु उत्तरे वीरभद्रकम् ॥ २५ ॥
प्। ३४६)
ईशाने गणपतिं न्यस्य प्रच्छन्न पटसंयुतम् ।
तस्यैव वामभागे तु कुम्भान्विन्यस्य देशिकः ॥ २६ ॥
अर्चयेद् गन्धपुष्पाद्यैः स्वस्वमन्त्रेण देशिकः ।
वस्त्रेण वेष्टयेद् विद्वान् सुवर्णे नैव संयुतान् ॥ २७ ॥
हविर्निवेदयेत् पश्चात् ताम्बूलं दापयेत् ततः ।
ततो होमं प्रकुर्वीत लक्षणेन समन्वितम् ॥ २८ ॥
पलाशसमिधा युक्तं प्रत्येकं तु शताष्टकम् ।
समिदाज्य चरून्लाजान् सर्षपांश्च यवांस्तिलान् ॥ २९ ॥
मुद्गं माषं च बिल्वं च कदलीफलसंयुतम् ।
पञ्चब्रह्म षडङ्गैश्च प्रत्येकं तु शताहुतिः ॥ ३० ॥
घृतमिक्षेति मन्त्रेण पञ्चविंशति हूयते ।
चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः ॥ ३१ ॥
ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः ।
ततो वासनहोमं तु समिदाज्येन संयुतम् ॥ ३२ ॥
मूलमन्त्रेण विप्रेन्द्र ! प्रत्येकं तु शताहुतिः ।
हुत्वान्ते तु स्पृशेद्बिम्बं द्रव्यं प्रति विशेषतः ॥ ३३ ॥
स्थापयेत् प्रतिमां तत्र वीरपश्चिमतो मुखम् ।
उत्तराभिमुखीर्देवीः स्थापयेद् देशिकोत्तमः ॥ ३४ ॥
पूर्वाभिमुखमेवं तु विघ्नेशं स्थापयेत् ततः ।
प्रतिष्ठाकुम्भमादाय स्नापयेत् स्वस्वमन्त्रतः ॥ ३५ ॥
प्। ३४७)
हविर्दद्याद्विशेषेण ताम्बूलं दापयेत् ततः ।
ब्राह्मणान्भोजयेत् तत्र सप्तकन्याश्च भोजयेत् ॥ ३६ ॥
मातॄणां स्थापनं प्रोक्तं कुमारस्थापनं शृणु ॥ ३६ � ॥
इति वीरतन्त्रे मातृस्थापनविधिश्चतुः सप्ततितमः पटलः ॥ ७४ ॥