देवदेवं प्रणम्यादौ पर्यपृच्छत् पितामहः ।
अग्निप्रतिष्ठां देवेश ! तत् सर्वं ब्रूहि मे प्रभो ! ॥ १ ॥
ईश्वरः ॥
तत् सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! ।
प्रासादस्याग्नि दिग्भागे अग्निविमानमुच्यते ॥ २ ॥
मूलबेरस्य पूजांशं प्रतिमोत्सेधमुच्यते ।
अथवा गर्भमानं वा नवधा भाजिते तथा ॥ ३ ॥
एकैकं समं * * * कारयेद्देशिकोत्तमः ।
द्वितालमधमं ज्ञेयं त्रितालं मध्यमं भवेत् ॥ ४ ॥
उत्तमं तु चतुस्तालं प्रतिमोत्सेधमुच्यते ।
एक हृदयं त्रिपादं च चतुश्शृङ्गन्द्वयंशिरः ॥ ५ ॥
प्। ३४१)
सप्तजिह्वास्सप्तहस्ताश्चत्वारो नेत्रमुच्यते ।
पद्मासनसमारूढम् ऊर्ध्वकेश समन्वितम् ॥ ६ ॥
स्रुवं च शक्तिदण्डं च दक्षिणे तु करे ददेत् ।
स्रुवाक्षतोमरं चैवेत्येते वामकरेषु च ॥ ७ ॥
दक्षिणे तु करे चैकं देवानामाहुतिं ददेत् ।
एवं समासतः प्रोक्तं प्रतिष्ठालक्षणं शृणु ॥ ८ ॥
रत्नन्यासं तु कर्तव्यं पूर्वे वज्रं तथैव च ।
मरकतं दक्षिणे न्यस्य पश्चिमे तु प्रवालकम् ॥ ९ ॥
वैडूर्यमुत्तरे न्यस्य माणिक्यं मध्यमे न्यसेत् ।
नयनं मोक्षणं कुर्यान् नेत्रद्वययुते दिने ॥ १० ॥
यद्वर्गस्य तृतीयं तु प्रथमस्य चतुर्थकम् ।
बिन्दुनाद समायुक्तम् अग्निमूल मुदाहृतम् ॥ ११ ॥
ह्रस्वा ब्रह्मा समाख्याता दीर्घाभ्यङ्गानि चोच्यते ।
नयनं मोक्षणं कुर्यात् पूर्वोक्तविधिना सह ॥ १२ ॥
स्नापयेत् पञ्चगव्येन ततो ग्रामप्रदक्षिणम् ।
जलाधिवासनं कुर्यात् तस्य मूलेन मन्त्रतः ॥ १३ ॥
एकरात्रं त्रिरात्रं वा पञ्चरात्रमथापि वा ।
प्रासादस्याग्रतश्चैव पूर्वोक्तमण्डपं कुरु ॥ १४ ॥
मध्यमे वेदिकां कुर्यात् परितः कुण्डमुच्यते ।
चतुर्दिक्षु च ईशान्यां त्रिकोणं कुण्डमुच्यते ॥ १५ ॥
प्। ३४२)
जलादुत्तीर्य पूर्वेद्युः पञ्चगव्येन स्नापयेत् ।
प्रतिस्थैक दिग्भागे अग्निमूलेन विन्यसेत् ॥ १६ ॥
वेदिमध्ये न्यसेच्छालिं तण्डुलं च तिलं न्यसेत् ।
शयनं पञ्चभिः कल्प्यः प्रतिमां विन्यसेत् ततः ॥ १७ ॥
प्रच्छन्न पटसंयुक्तं कुम्भन्यासं तु कारयेत् ।
तस्यैव वामभागे तु स्वाहा बीजेन वर्धनम् ॥ १८ ॥
पूर्वादीशान पर्यन्तम् अष्टकुम्भान्क्रमान् न्यसेत् ।
हुताशनं पावकं च अनलं हव्यवाहनम् ॥ १९ ॥
ज्वलनं सप्तजिह्वं च तपनं तु महानसम् ।
पूर्वादीशान पर्यन्तं विन्यसेत् तु विशेषतः ॥ २० ॥
सवस्त्रान् सहिरण्यांश्च स कूर्चान् सापिधानकान् ।
ततो होमं प्रकर्तव्यं पलाशसमिधायुतम् ॥ २१ ॥
समिदाज्य चरून्लाजान्सर्षपांश्च यवांस्तिलान् ।
मुद्गमाषं च नीवारं बिल्वं चैकादशं भवेत् ॥ २२ ॥
पञ्चब्रह्मषडङ्गेन क्रमाद्धोतव्यमेव च ।
ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः ॥ २३ ॥
एतत् संहारमूर्तिस्तु संहार न्यासमुच्यते ।
ततो वासन होमं च समिदाज्य चरून् युतम् ॥ २४ ॥
मूलमन्त्रेण विप्रेन्द्र ! प्रत्येकं तु शताहुतिः ।
विमाने स्थापयेद्विद्वान् प्रतिमं पश्चिमं मुखम् ॥ २५ ॥
प्। ३४३)
स्नापयेन्मूलमन्त्रेण वर्धनीं स्थापयेत् ततः ।
स्वस्वनाम्नैव मन्त्रेण स्नापयेत् कुम्भमेव च ॥ २६ ॥
हविर्निवेदयेत् पश्चात् ताम्बूलं दापयेत् ततः ।
ब्राह्मणान् भोजयेत् तत्र पर्यष्टिपरिचारकान् ॥ २७ ॥
आचार्यं पूजयेत् पश्चात् पदार्थीन् पूजयेत् ततः ।
अग्निस्थापनमेवोक्तं मातॄणां स्थापनं शृणु ॥ २८ ॥
इति वीरतन्त्रे अग्निस्थापनविधिस्त्रिसप्ततितमः पटलः ॥ ७३ ॥