प्रणम्य भगवन्तं हि ब्रह्मा वचनमब्रवीत् ।
वृषभ स्थापनं किं वा तत्सर्वं ब्रूहि मे प्रभो ! ॥ १ ॥
ईश्वरः ॥
तत् सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! ।
पूजांशोच्च प्रमाणेन अधमं वृषभं भवेत् ॥ २ ॥
पूजांशं पञ्चधा भित्वा एकांशेन समन्वितम् ।
पूजांशेन समायुक्तं मध्यमं वृषभं भवेत् ॥ ३ ॥
द्व्यंशाधिकं तु पूजांशम् उत्तमं वृषभं भवेत् ।
अथवा गर्भमानेन यथावद् गर्भमुच्यते ॥ ४ ॥
एकादि नवभागान्तं लक्षणं वृषभस्य तु ।
अथवा तालमानेन त्रितालमधमं भवेत् ॥ ५ ॥
मध्यमं तु चतुस्तालमुत्तमं पञ्चतालकम् ।
सौवर्णं राजतं ताम्रं मृण्मयं वा शिला भवेत् ॥ ६ ॥
वृषोत्सेधं नवांशं तु द्व्यंशं (च) मुखदैर्घ्यकम् ।
गलमंशेन कर्तव्यं षडंशं पृष्ठदैर्घिकम् ॥ ७ ॥
अंशे नैव तु शृङ्गोच्चं बहिर्वक्र समन्वितम् ।
द्वन्द्वयोरधमांशं तु गोमुखाकृतिरेव च ॥ ८ ॥
प्। ३३८)
नासिका चाष्टसंयुक्त दन्तपङ्क्तिद्वयं तथा ।
कर्णद्वयसमायुक्तं किङ्किणीरुपशोभितम् ॥ ९ ॥
एकांशं पीठकोच्चं तु ताटीचार्धांशमुच्यते ।
पादाच्चत्वारमंशं तु चतुरंशं तु बालकम् ॥ १० ॥
खुरमर्धांशमेवं तु परिणाहं नवांशकम् ।
ऊरुमूलस्य विस्तारं द्वयंशमिति कथ्यते ॥ ११ ॥
एवं लक्षणसंयुक्तं वृषभं कारयेत् ततः ।
शैलजे मृण्मये लोहे रत्नन्यासं तु कारयेत् ॥ १२ ॥
वज्रं वैडूर्यकं चैव पद्मरागं तथैव च ।
इन्द्रनीलं च रत्नादि पूर्वादिक चतुर्दिशि ॥ १३ ॥
प्रबालं मध्यमे स्थाप्य सुस्निग्धं कारयेत् ततः ।
वृषभं क्षालयेद् विद्वान् पुण्याहं वाचयेत् ततः ॥ १४ ॥
नयनं मोक्षणं कुर्यान् नेत्रयुग्मयुते दिने ।
पूर्वोक्त विधिना कुर्याद् अक्षिहोमादिकारयेत् ॥ १५ ॥
जलाधिवासनं कुर्यान् नववस्त्रेण वेष्टयेत् ।
वृषगायत्रिमन्त्रेण जले चैवाधिवासयेत् ॥ १६ ॥
अभितः कलशानष्टौ लोकपाल समन्वितान् ।
जलादुत्तीर्य पूर्वेद्युः प्रविशेदालयं प्रति (ततः) ॥ १७ ॥
शिवाग्ने मण्डपं कुर्यात् पूर्वोक्तविधिना सह ।
मध्यमे वेदिकां कुर्यात् परितः कुण्डमुच्यते ॥ १८ ॥
प्। ३३९)
चतुर्दिक्षु च ईशान्यां वृत्तकुण्डमिहोच्यते ।
सप्तवर्गाच्चतुर्थं तु तद्वर्गात्तु तृतीयकम् ॥ १९ ॥
चतुर्दशाक्षरैर्युक्तं बिन्दुनाद समन्वितम् ।
वृषभमूलमिदं ज्ञेयं हुत्वा ब्रह्ममिहोच्यते ॥ २० ॥
वेदिमध्ये न्यसेच्छालिं तण्डुलं च तिलं न्यसेत् ।
तदूर्ध्वे विन्यसेद्विप्र पञ्चभिः कम्बलैर्युतम् ॥ २१ ॥
शयने शाययेद्विप्र मूलमन्त्रेण देशिकः ।
प्रच्छन्न पट संयुक्तम् अभितः कलशान् न्यसेत् ॥ २२ ॥
वृषभस्यैशदिग्भागे वृषकुम्भं प्रतिष्ठितम् ।
वृषगायत्रिमन्त्रेण विन्यसेद् देशिकोत्तमः ॥ २३ ॥
स वस्त्रं पञ्चरत्नं च वृषभस्तत्र देवता ।
अष्टविद्येश्वरान् बाह्य कलशस्याधि दैवतान् ॥ २४ ॥
अर्चयेद्गन्धपुष्पाद्यैः पायसान्नं निवेदयेत् ।
ततो होमं प्रकुर्वीत पलाशसमिधा सह ॥ २५ ॥
समिदाज्य चरून्लाजान् सर्षपेण समन्वितम् ।
ईशानादीनि सद्यान्तं क्रमान् मन्त्रमिहोच्यते ॥ २६ ॥
वृषगायत्रिमन्त्रेण आज्ये नैव शताहुतिः ।
वृषं स्पृष्ट्वा तु द्रव्यान्ते व्याहृतिं जुहुयात् ततः ॥ २७ ॥
गौर्धेनु भव्यमन्त्रेण चरुं हुत्वा शताहुतिम् ।
हव्यवाहादिमन्त्रेण पूर्णाहुतिमथाचरेत् ॥ २८ ॥
प्। ३४०)
वृषभं स्थापयेद्विप्र ! वृषमूलेन मन्त्रतः ।
गायत्र्या पञ्चब्रह्मं तु स्नापयेत् कुम्भमेव च ॥ २९ ॥
हविर्दद्याद् विशेषेण ताम्बूलं दापयेत् ततः ।
आचार्य दक्षिणां दद्यात् पदार्थीन् पूजयेत् ततः ॥ ३० ॥
ब्राह्मणान् भोजयेत् तत्र जनान् सर्वांश्च भोजयेत् ।
एवं यः कुरुते मर्त्यः शिवलोकं स गच्छति ॥ ३१ ॥
वृषभस्थापनं प्रोक्तम् अथाग्निस्थापनं शृणु ॥ ३१ � ॥
इति वीरतन्त्रे वृषभस्थापनविधिर्द्वासप्ततितमः पटलः ॥ ७२ ॥