७१

प्रणिपत्य जगन्नाथं ब्रह्मा पृच्छति शङ्करम् ।
जलसम्प्रोक्षणं किं वा ब्रूहि मे परमेश्वर ॥ १ ॥

ईश्वरः ॥

तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! ।
प्रासादकरणे चैव शिल्पिना स्पर्शयेत् ततः ॥ २ ॥

पीठबन्धविधौ चैव चण्डालादीनि संस्पृशेत् ।
पतने दूषिते स्पृष्टे पूजाहीने तथैव च ॥ ३ ॥

एवमादिषु कालेषु जलसम्प्रोक्षणं कुरु ।
त्रिरात्रे पञ्च सप्ताहे अङ्कुरार्पणमारभेत् ॥ ४ ॥

अष्टौ वा षोडशं वापि चतुर्विंशतिरेव वा ।
पालिका घटिका चैव शराबं च त्रिधा भवेत् ॥ ५ ॥

प्। ३३२)

बीजानि वापयेत् तत्र पूर्वोक्तविधिना सह ।
प्रासादस्याग्रतः कुर्यान्मण्डपं चतुरश्रकम् ॥ ६ ॥

नवहस्तं चाष्टहस्तं द्वादशं हस्तमेव वा ।
षोडशस्तम्भसंयुक्तं चतुर्द्वार विभूषितम् ॥ ७ ॥

ब्रह्मभागे तु वेदी स्यात् परितः कुण्डमुच्यते ।
समखण्डं वर्तमानं च शिवाधिक्यं तथैव च ॥ ८ ॥

त्रैराशिकं तदूर्ध्वे तु चतुर्वीर्येन चोच्यते ।
कुण्डानां लक्षणं लक्ष्ये समखण्डस्य पद्मज ! ॥ ९ ॥

दिशासु चतुरश्राणि वृत्तानि विदिशासु वै ।
इन्द्र ईशानयोर्मध्ये अष्टकोणं तु कारयेत् ॥ १० ॥

समखण्डमिदं प्रोक्तं शिवाधिकमथ शृणु ।
चतुरश्रं च योनिं च अर्धचन्द्रं त्रिकोणकम् ॥ ११ ॥

वृत्तं वै पञ्चकोणं तु पद्मं षट्कोणमेव च ।
पूर्वादीनि क्रमदृद्धिम् ईशाने सप्तकोणकम् ॥ १२ ॥

शिवाधिक्यस्य कुण्डानि प्रोच्यते सकलं ततः ।
त्रैराशिकस्य कुण्डानि श्रूयतां चतुरानन ! ॥ १३ ॥

दिग्विदिक्षु च विप्रेन्द्र ! वृत्तकुण्डं तु कारयेत् ।
स्वयमुद्भूतलिङ्गस्य स्थापितस्य महर्षिभिः ॥ १४ ॥

देवैर्वा स्थापितं लिङ्गं रूपमानं न विद्यते ।
एतेषां प्रोक्षणे काले तत् तत् पीठाकृतिं यथा ॥ १५ ॥

प्। ३३३)

तथा कुण्डा कृतिं प्रोक्तं प्रतिमानं शृणुष्वथ ।
पूर्वोक्तेन प्रमाणेन कुण्डं कुर्यात् तु देशिकः ॥ १६ ॥

एवमेव प्रकारेण मण्टपं कारयेत् ततः ।
गोमयेनोपलिप्याथ तोरण ध्वजसंयुतम् ॥ १७ ॥

दर्भमालासमायुक्तं मुक्तादामैरलङ्कृतम् ।
वेद्योपरि न्यसेच्छालिं भारद्वयसमन्वितम् ॥ १८ ॥

शाल्यर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् ।
पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् ॥ १९ ॥

एलालवङ्ग तक्कोलं निम्बजातिफलं मुरम् ।
चन्दनागरुकर्पूरम् उशीरं कुङ्कुमैर्युतम् ॥ २० ॥

आलोढ्यलेपयेल्लिङ्गं नववस्त्रेण वेष्टयेत् ।
पुण्याहं वाचयेत् तत्र पञ्चगव्येन स्नापयेत् ॥ २१ ॥

सौवर्णसूत्रकार्पासं तण्डुलोपरि विन्यसेत् ।
कौतुकं बन्धयेत् पश्चात् हृदयेन तु मन्त्रतः ॥ २२ ॥

बालस्थानं तथा गत्वा यात्राहोमं समाचरेत् ।
तस्याग्रे स्थण्डिलं कृत्वा शालिभिस्तण्डुलैस्तिलैः ॥ २३ ॥

पञ्चब्रह्मसमायुक्तं षडङ्गेन समन्वितम् ।
वर्धनीं तस्य वामे तु गौरीबीजेन स्थापयेत् ॥ २४ ॥

सवस्त्रं हेमसंयुक्तं स कूर्चं सापिधानकम् ।
तस्याग्रे स्थण्डिलं कृत्वा यात्राहोमं तु कारयेत् ॥ २५ ॥

प्। ३३४)

शिवाग्निं कल्पयेत् तत्र अग्निमुखं च हूयते ।
समिदाज्य चरूणां तु प्रत्येकं तु शताहुतिः ॥ २६ ॥

समिधः सद्यमन्त्रेण आज्यं वामेन हूयते ।
ईशानेन तिलं हुत्वा स्पृष्ट्वा लिङ्गं ततो बुधः ॥ २७ ॥

हुत्वा चित्तादि विरेन्द्र ! पूर्णाहुतिं यदस्य च ।
दशमुद्रा च दातव्यं लक्षणेन समन्वितम् ॥ २८ ॥

तस्याग्रे शिवकुम्भं तु शिरसा धारयेत् ततः ।
प्रविश्य मण्टपं विद्वान् - येद्वेदि मध्यमे ॥ २९ ॥

अभितः कलशानष्टौ विद्येश्वर समन्वितान् ।
बाले स्थाने कृते ह्येवं कर्तव्यं देशिकोत्तमः ॥ ३० ॥

इदमन्यत्प्रवक्ष्यामि शृणुष्व चतुरानन ! ।
नवकुम्भान्समादाय सूत्रेण परिवेष्टितान् ॥ ३१ ॥

शुद्धोदकेन सम्पूर्य कलशान् न्यस्य मण्डले ।
पञ्चरत्न समायुक्तं वस्त्रयुग्मेन वेष्टितम् ॥ ३२ ॥

स कूर्चान्सापिधानांश्च स्थापयेद्वेदि मध्यमे ।
पञ्चब्रह्मशिवाङ्गैश्च शिवमन्त्रेण स्थापयेत् ॥ ३३ ॥

वर्धनीं तस्य वामे तु गौरीबीजेन स्थापयेत् ।
स वस्त्रान् सहिरण्यांश्च सकूर्चान् सापिधानकान् ॥ ३४ ॥

पूर्वादीशान पर्यन्तम् अष्टकुम्भान् न्यसेत् क्रमात् ।
गन्धपुष्पादिनाभ्यर्च्य पायसान्नं निवेदयेत् ॥ ३५ ॥

प्। ३३५)

ततो होमं प्रकर्तव्यं समिदाज्यादि द्रव्यकैः ।
समिदाज्य चरून्लाजान्सर्षपांश्च यवांस्तिलान् ॥ ३६ ॥

मुद्गमाषक संयुक्तं नवद्रव्यमिहोच्यते ।
पलाशं पूर्वतो भागे उदुम्बरं चाग्निगोचरे ॥ ३७ ॥

अश्वत्थं दक्षिणे चैव शमी निर्-ऋतिगोचरे ।
खदिरं पश्चिमे न्यस्य वायव्ये बिल्वमेव च ॥ ३८ ॥

प्लक्षं चोत्तरदेशे तु अर्कमीशानगोचरे ।
पलाशसमिधा चैव प्रधानाग्नौ तु होमयेत् ॥ ३९ ॥

चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः ।
स्तोत्रमन्त्रं जपित्वा तु पवमानं जपेत् ततः ॥ ४० ॥

समिधं सद्य मन्त्रेण आज्यं वामेन हूयते ।
चरुं तत् पुरुषेणैव लाजान्घोरेण चैव हि ॥ ४१ ॥

सर्षपं हृदये नैव यवांस्तु शिरसा तथा ।
तिलान् हुत्वा तु शिखया मुद्गं तु कवचेन तु ॥ ४२ ॥

माषं तु नेत्र मन्त्रेण हूयते क्रमशस्तथा ।
द्रव्यान्ते व्याहृतिं हुत्वा स्पृष्ट्वा लिङ्गं तु सर्वशः ॥ ४३ ॥

सर्वद्रव्य समायुक्तं हव्यवाहं समुच्चरन् ।
स्विष्टमग्नेति मन्त्रेण जुहुयात् तदनन्तरे ॥ ४४ ॥

त्रियम्बकेन मन्त्रेण आज्यमष्टशतं हुनेत् ।
आपो राजा इदं विष्णोः प्रत्येकं चरु हूयते ॥ ४५ ॥

प्। ३३६)

ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः ।
मन्त्रन्यासोक्त मार्गेण स्वदेहे चैव विन्यसेत् ॥ ४६ ॥

ततो वासन होमं तु कर्तव्यं देशिकोत्तमः ।
सर्वद्रव्य समायुक्तं पूर्णाहुतिमथाचरेत् ॥ ४७ ॥

आचार्य दक्षिणां दद्यात् पादार्थीन्पूजयेत् ततः ।
पूजापर्युषितो लिङ्गं व्यपोह्य कलशं ततः ॥ ४८ ॥

स्नापयेत् पञ्चगव्येन पञ्चब्रह्म समुच्चरन् ।
पञ्चासनं तदाकल्प्य पूर्वोक्तविधिना सह ॥ ४९ ॥

पञ्चब्रह्मं न्यसेल्लिङ्गे षडङ्गं विन्यसेत् ततः ।
व्योमव्यापि महामन्त्रं विन्यस्य लिङ्गमूर्धनि ॥ ५० ॥

सुमुहूर्ते सुलग्ने च शिरसा धारयेद्घटम् ।
विमान प्रदक्षिणं कुर्याद् गर्भगेहं प्रवेशयेत् ॥ ५१ ॥

व्योमव्यापि समुच्चार्य ब्रह्माङ्गेन च संयुतम् ।
स्नापयेच्छिव कुम्भं तु गौरीबीजेन वर्धनीम् ॥ ५२ ॥

विद्येश कलशान् स्नाप्य स्वस्वमन्त्रेण देशिकः ।
स्नपनं तत्र कर्तव्यं यथा विभवविस्तरम् ॥ ५३ ॥

वस्त्रमाल्यैश्च विविधैः अर्चयेद् देवदेविकम् ।
पञ्चवर्णहविर्दद्यात् ताम्बूलं दापयेत् ततः ॥ ५४ ॥

ब्राह्मणान् भोजयेत् तत्र शैवान् सम्भोजयेत् ततः ।
विप्रादींश्च ददेच्छैवान् पर्यष्टि परिचारकान् ॥ ५५ ॥

प्। ३३७)

एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् ॥ ५५ � ॥

इति वीरतन्त्रे जलसम्प्रोक्षणविधिरेक सप्ततितमः पटलः ॥ ७१ ॥