७०

प्। ३२५)

शिवं प्रणम्य विधिवत् पर्यपृच्छत् पितामहः ।
पिण्डिका स्थापनं किञ्चित् तत्सर्वं मे वद प्रभो ! ॥ १ ॥

तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! ।
प्रासादस्याग्रतः कुर्यान् मण्टपं चतुरश्रकम् ॥ २ ॥

पञ्चसप्ताष्टहस्तं वा नवहस्तमथापि वा ।
स्तम्भैः षोडशभिर्युक्तं चतुर्द्वारसमन्वितम् ॥ ३ ॥

मध्यमे वेदिकां कुर्यात् तालमात्रसमुच्छ्रयम् ।
वितानध्वजमाच्छाद्य दिग्ध्वजैश्च प्रलम्बितम् ॥ ४ ॥

दर्भमालाभिरावेष्ट्य तोरणैरुपशोभितम् ।
शालिभिर्विकिरेत्तत्र तण्डुलैश्च तिलैस्तथा ॥ ५ ॥

पञ्चभिः कबलैर्युक्तं पीठं तस्योपरिन्यसेत् ।
पीठं प्रक्षालयेद्विप्र ! प्रासादेन तु मन्त्रतः ॥ ६ ॥

अष्टमृत्सलिले नैवं पीठं प्रक्षालयेद्धृदा ।
वल्मीके च तटाके च कुशमूले तथैव च ॥ ७ ॥

नदी पर्वतदेशे तु गोष्ठे च गजदन्ततः ।
शुद्धक्षेत्रे तु वै ब्रह्म मृद्भिस्सङ्क्षालयेद्बुधः ॥ ८ ॥

वस्त्रेण वेष्टयेत् पीठं शालिराशौ तु विन्यसेत् ।
पुण्याहं वाचयेत् तत्र स्वस्तिमङ्गलवाचकैः ॥ ९ ॥

वर्धनीश्च नवादाय त्रिसूत्रेणैव वेष्टयेत् ।
शुद्धोदकेन सम्पूर्य विन्यसेत् पीठबाह्यतः ॥ १० ॥

प्। ३२६)

रत्नानि नवचैलाल वङ्गतक्कोलमेव च ।
वर्धन्यां निक्षिपेत् तत्र पूर्वादीशान्तमेव च ॥ ११ ॥

पीठस्यैशान दिग्भागे प्रधानां वर्धनीं न्यसेत् ।
सकूर्चं च सुवर्णं च वस्त्रयुग्मं पृथक् पृथक् ॥ १२ ॥

वामीं पूर्वे तु विन्यस्य ज्येष्ठामाग्नेय देशतः ।
दक्षिणे चैव रौद्री च काली निर्-ऋति गोचरे ॥ १३ ॥

कलविकरिणीं वारुण्यां बलविकरणीं तु वायवे ।
बलप्रमथिनीं सौम्ये विन्यसेत् तु विशेषतः ॥ १४ ॥

सर्वभूतदमनीं विन्यसेदीशतः क्रमात् ।
मध्ये मनोन्मनीं देवीं न्यस्त्वा गन्धादिना यजेत् ॥ १५ ॥

पायसान्नं तु नैवेद्यं ताम्बूलं दापयेत् ततः ।
ततो होमं प्रकुर्वीत कुण्डे वा स्थण्डिलेऽपि वा ॥ १६ ॥

यावदश्रं भवेत् पीठं तावदश्रं तु कुण्डकम् ।
वृत्तपीठस्य हे ब्रह्मन् वृत्तकुण्डमिहोच्यते ॥ १७ ॥

समिदाज्य चरून्लाजान्वेणुमुद्गं च सर्षपान् ।
समिधस्सद्यमन्त्रेण आज्यं वामेन चैव हि ॥ १८ ॥

अघोरेण चरुं हुत्वा लाजं हृदयमन्त्रतः ।
वेणुमीशानमन्त्रेण मुद्गं च शिरसा तथा ॥ १९ ॥

शिखामन्त्रेण सर्षपम् अष्टोत्तरशतं पृथक् ।
गौरीबीजेन मन्त्रेण प्रत्येकं तु शताहुतिः ॥ २० ॥

प्। ३२७)

सर्वद्रव्यसमायुक्तं हव्यवाहं समुच्चरन् ।
स्विष्टमग्नेति मन्त्रेण जुहुयात् तदनन्तरे ॥ २१ ॥

हुत्वा हुत्वा तदङ्गानि स्पृशेत् प्रसृतिमुद्रया ।
उपानं पादमित्युक्तं जगती जङ्घोनुजं तथा ॥ २२ ॥

कुमुदं तु कटिं प्रोक्तं नाभिमेव तु पट्टिका ।
कण्ठश्च हृदयं प्रोक्तं नाभिश्चैव तु पट्टिका ॥ २३ ॥

कर्णश्च हृदयं प्रोक्तं नाभिश्चैव तु पट्टिका ।
कण्ठश्च हृदयं प्रोक्तं बाहूचैवोर्ध्व वामनम् ॥ २४ ॥

पट्टिका कण्ठं मुखं पट्टिका हृदधारी च मूर्धजा ।
एवं वै पद्मपीठे तु तेषां रूपं प्रकल्पयेत् ॥ २५ ॥

हुत्वान्ते तु यदस्येति जुहुयात् तदनन्तरे ।
ततः प्रभाते (विमले) सुमुहूर्ते सुलग्नके ॥ २६ ॥

आचार्यं पूजयित्वा तु शिल्पिनं पूजयेत् ततः ।
पश्चाद्गर्भगृहं गत्वा आचार्यः शिल्पिभिस्सह ॥ २७ ॥

मृण्मयं वृषभं कुर्यात् सुवर्णखुरशृङ्गकौ ।
वृषगायत्रिमन्त्रेण प्रासादेन समन्वितम् ॥ २८ ॥

वृषभस्य तु शृङ्गेण कर्षयेत् पीठमेव च ।
पीठं विसर्जयेत् तत्र जलमध्ये तु निक्षिपेत् ॥ २९ ॥

शैव पीठकमुत्सृज्य प्रासादेन तु मन्त्रतः ।
षण्णवत्यक्षरैर्युक्तं व्योमव्यापि समुच्चरन् ॥ ३० ॥

प्। ३२८)

लिङ्गपीठं समायोज्य सुस्निग्धं कारयेत् ततः ।
अष्टबन्धं प्रकर्तव्यं लक्षणेन समन्वितम् ॥ ३१ ॥

लाक्षा चैव मधूच्छिष्टं शर्करासर्जनं तथा ।
वायुके नेष्टका चूर्णं सदृशं घनतैलकम् ॥ ३२ ॥

समं कृत्वा तु विप्रेन्द्र ! तैलमर्धं विधीयते ।
ताम्रपात्रे विशेषेण पाचयेच्छिल्पिना सह ॥ ३३ ॥

लिङ्गपिठकयोर्मध्ये पक्वद्रव्यं विनिक्षिपेत् ।
एवं यः कुरुते मर्त्यः शिवलोके महीयते ॥ ३४ ॥

क्षालयित्वा तु विप्रेन्द्र ! तैलमर्धं विधीयते ।
पुण्याहं वाचयेत् तत्र प्रोक्षयेत् पवमानतः ।
तत् तदंशानि विन्यस्य सूत्राग्रमुपकल्पनम् ॥ ३५ ॥

वेदिका स्थापितस्सर्वे वर्धन्यां स्थापयेत् ततः ।
तन्मध्ये वेदिकां कुर्यादरत्निमात्रमुच्छ्रिताम् ॥ ३६ ॥

दर्भमाला समायुक्तं चतुस्तोरणसंयुतम् ।
गात्रसंवेष्टनं कुर्याद् वितानेनोर्ध्वं वेष्टयेत् ॥ ३७ ॥

अष्टदिक्षु ध्वजान्न्यस्य अष्टमङ्गल संयुतम् ।
वेदिबाह्ये तु परितो नवकुण्डानि कारयेत् ॥ ३८ ॥

स्थण्डिलं चाथ कर्तव्यं लक्षणेन समन्वितम् ।
तत् तत् पीठाकृतिं ब्रह्मन् तत् तत् कुण्डमिहोच्यते ॥ ३९ ॥

शालिभिर्विकिरेद्विद्वान् अष्टद्रोणैर्विशेषतः ।
तदर्धं तण्डुलान् न्यस्य तण्डुलार्धतिलान् न्यसेत् ॥ ४० ॥

प्। ३२९)

पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् ।
बालस्थानस्य चाग्रे तु यात्राहोमं तु कारयेत् ॥ ४१ ॥

तदग्रे स्थापयेद् विद्वान् शिवकुम्भं च वर्धनीम् ।
स सूत्रं सापिधानं च सवस्त्रं हेम संयुतम् ॥ ४२ ॥

नवरत्नं क्षिपेन्मध्ये सर्वद्रव्य समायुतम् ।
अभितः कलशानष्टौ विद्येश्वर समन्वितान् ॥ ४३ ॥

तत् तन्मन्त्रमनुस्मृत्य गन्धपुष्पादिनार्चयेत् ।
आचार्यश्च शुचिर्भूत्वा शिरसा धारयेद् घटम् ॥ ४४ ॥

नववस्त्र परीधानः सोष्णीषस्सोत्तरीयकः ।
विमान प्रदक्षिणं कुर्यान्वेदिमध्ये न्यसेत् ततः ॥ ४५ ॥

पूर्वादीशान पर्यन्तं विद्येश्वरांश्च विन्यसेत् ।
गन्धपुष्पादिना पूज्य पायसान्नं निवेदयेत् ॥ ४६ ॥

एलालवङ्गतक्कोलम् उशीरं चन्दनं तथा ।
समालोढ्य विशेषेण लिङ्गमालोड्ययेत् ततः ॥ ४७ ॥

नववस्त्रेण संवेष्ट्य लिङ्गपीठं च देशिकः ।
ततो होमं प्रकुर्वीत लक्षणेन समन्वितम् ॥ ४८ ॥

पालाशखदिराश्वत्थ प्लक्षन्यग्रोध एव च ।
उदुम्बरमपामार्गं खदिरं च विशेषतः ॥ ४९ ॥

पूर्वादीशान पर्यन्तं क्रमेण परिकीर्तितम् ।
ईशान इन्द्रयोर्मध्ये शमीं चैव तु विन्यसेत् ॥ ५० ॥

प्। ३३०)

अष्टोत्तरशतं चैव पञ्चाशत् पञ्चविंशतिः ।
सर्वेषां चैव होमानां पलाशेध्यमिहोच्यते ॥ ५१ ॥

समिदाज्य चरूंलाजान् मुद्गमाषांश्च सर्षपान् ।
समिधं सद्यमन्त्रेण वक्त्रेणाज्यं तथैव च ॥ ५२ ॥

अघोरेण चरुं हुत्वा लाजान्वामेन होमयेत् ।
नेत्रेणैव तु मुद्गं स्यान् माषं हृदयमुच्यते ॥ ५३ ॥

ईशानेन तु मन्त्रेण सर्षपं चैव हूयते ।
प्रासादेन तु मन्त्रेण प्रत्येकं पञ्चविंशतिः ॥ ५४ ॥

गौरीबीजेन मन्त्रेण प्रत्येकं पञ्चविंशतिः ।
सर्वद्रव्य समायुक्तं हव्यवाहं समुच्चरन् ॥ ५५ ॥

स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरे ।
जयादिरभ्यधानं च राष्ट्रभृच्चैव हूयते ॥ ५६ ॥

हुत्वान्ते तु यदस्येति स्विष्टकृद्धूयते क्रमात् ।
चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः ॥ ५७ ॥

श्रीरुद्रं चैव जप्येत पवमानं जपेत्ततः ।
पुरुषसूक्तं जपित्वा च स्तोत्रेणैव समन्वितम् ॥ ५८ ॥

ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः ।
नववस्त्रपरीधानः सोष्णीषस्सोत्तरीयकः ॥ ५९ ॥

कुण्डलैः कर्णिकैर्हारैः अर्घ्याङ्गुलीयकमेव च ।
प्रशान्तमानसो भूत्वा स्नापयेल्लिङ्ग मूर्धनि ॥ ६० ॥

प्। ३३१)

गौरीबीजेन वर्धन्यां स्नापयेत् पिण्डिकोपरि ।
पूर्वादीशान पर्यन्तं विद्येशान् स्नापयेत् ततः ॥ ६१ ॥

अष्टोत्तरशते नैव पञ्चाशत् पञ्चविंशतिः ।
स्नपनं कारयेत् तत्र यथाविभवविस्तरम् ॥ ६२ ॥

गन्धैः पुष्पैश्च धूपैश्च दीपैश्चैव सुपूजयेत् ।
हविर्निवेदयेत् पश्चात् ताम्बूलं दपयेत् ततः ॥ ६३ ॥

ब्राह्मणान्भोजयेत् तत्र शैवान्सम्भोजयेत् ततः ।
पीठस्थापनमेवोक्तं जलसम्प्रोक्षणं शृणु ॥ ६४ ॥

इति वीरतन्त्रे पिण्डिकास्थापनविधिः सप्ततितमः पटलः ॥ ७० ॥