६९

पितामहः ॥

लोकनाथ नमस्कृत्वा पर्यपृच्छत्पितामहः ।
मानुषस्थापनं को वा शिवज्ञानाभिपूरितान् ॥ १ ॥

ऋषीणां च नृपाणां च स्थापनं ब्रूहि मे प्रभो ! ।

ईश्वरः ॥

तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! ॥ २ ॥

चातुर्वर्ण्यानुलोमांश्च प्रतिलोमांश्च सर्वशः ।
शिवप्रसाद सिद्धांश्च प्रतिमादीनि कारयेत् ॥ ३ ॥

सौवर्णै राजतैर्वापि ताम्रं पित्तलजं तु वा ।
शैलजं दारुजं वापि मृण्मयं चित्रमेव च ॥ ४ ॥

द्वारं तु नवधा भज्य भागैकं प्रतिमोच्छ्रयम् ।
चत्वारि पञ्चषट्तालं मात्राङ्गुलेन कारयेत् ॥ ५ ॥

सप्ताष्टनव तालं वा कर्तव्यं लक्षणैर्युतम् ।
शिवप्रसादकाले तु यद्रूपं सम्भवन्ति वै ॥ ६ ॥

प्। ३२१)

तद्रूपं कारयेद्विप्र ! स्थितं चासीनमेव च ।
ऋषीणामृषिरूपं तु नृपाणां नृपवद्भवेत् ॥ ७ ॥

एवं कृत्वा विधानेन स्थापयेद् विधिपूर्वकम् ।
इला च पिङ्गला चैव सुषुम्ना च तथैव च ॥ ८ ॥

गान्धारी हस्ति जिह्वा च पूषा चैव यशस्विनी ।
अलम्पुरुषा रुह्री च शङ्खिनी दशमः स्मृतः ॥ ९ ॥

दशप्राणावहा एता नाडयः परिकीर्तिताः ।
विमला घोषणी चैव पृथिवी आविनी तथा ॥ १० ॥

तेजोवती वायुवेगी गगनी मर्दनी तथा ।
शोधनी व्याधिनी चैव रसावती च मुद्वती ॥ ११ ॥

स्रंसनी * * * शब्द स्पर्शा च नकुला तथा ।
सर्वगा चैव नाड्यस्ता विंशतिस्सहिताष्टभिः ॥ १२ ॥

प्रधान नाडयश्चैव तद्रूपे विन्यसेत् ततः ।
तस्य मन्त्रं प्रवक्ष्यामि शृणुष्व कमलासन ! ॥ १३ ॥

स्वनामाद्येन संयुक्तं द्वितीयं वापि गृह्यताम् ।
सप्तमस्य द्वितीयं तु प्रथमस्य चतुर्दश ॥ १४ ॥

बिन्दुनाद समायुक्तं मानुषं बीजमुच्यते ।
हृस्वा ब्रह्म समाख्याता दीर्घाह्यङ्गानि विन्यसेत् ॥ १५ ॥

राक्षसानां पिशाचानाम् असुराणां च सिद्धकान् ।
देवतानां वाहनानां स्थापयेदेवमेव तु ॥ १६ ॥

प्। ३२२)

रत्नन्यासं प्रकर्तव्यं पद्मस्योपरि संस्थितः ।
नवरत्नं पञ्चरत्नं वा विन्यसेद्देशितोत्तमः ॥ १७ ॥

पूर्ववन् मण्टपं कृत्वा लक्षणेन समन्वितम् ।
मध्यमे कल्पयेद्देवीं परितः कुण्डमुच्यते ॥ १८ ॥

चतुरश्रं धनुर्वृत्तं त्रिकोणं चाष्टकोणकम् ।
पूर्वादिषु चतुर्दिक्षु ईशान्याद्यष्टकोणकम् ॥ १९ ॥

वेदिमध्ये न्यसेच्छालीं प्रतिमां विन्यसेत्ततः ।
नयनं मोक्षणं कुर्यात् पूर्वोक्तेन विधानतः ॥ २० ॥

ग्रामप्रदक्षिणं कृत्वा जले चैवाधिवासयेत् ।
एकरात्रं त्रिरात्रं वा अधिवास्य ततो बुधः ॥ २१ ॥

जलादुत्तीर्य पूर्वेद्युः स्नापयेत् पञ्चगव्यकैः ।
वास्तु होमं ततः कुर्याल्लक्षणेन समन्वितम् ॥ २२ ॥

शालिना विकिरेद् बेदीं तण्डुलार्ध तिलं न्यसेत् ।
शयनं पञ्चभिः कल्प्य कार्पासैर्वस्त्रवेष्टितम् ॥ २३ ॥

शयने शाययेद् बिम्बं प्रच्छन्नपटसंयुतम् ।
काये तु विन्यसेद्विप्र ! पञ्चविंशतिकं तथा ॥ २४ ॥

पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
शब्दः स्पर्शश्च रूपं च रसोगन्धश्च पञ्चमः ॥ २५ ॥

वाक्पाणिपादपायू च उपस्थं चैव पञ्चमम् ।
श्रोत्रत्वक्चक्षुर्जिह्वा च घ्राणं चैव तु पञ्चमम् ॥ २६ ॥

प्। ३२३)

मनोहङ्कार बुद्धिश्च प्रकृतिः पुरुषस्तथा ।
पञ्चविंशति तत्वानि शरीरे विन्यसेत् ततः ॥ २७ ॥

मन्त्रन्यासोक्त मार्गेण सृष्टिन्यासं तु विन्यसेत् ।
गन्धपुष्पादिनाभ्यर्च्य पश्चात्कुम्भानि विन्यसेत् ॥ २८ ॥

सवस्त्रान् सापिधानांश्च स हिरण्यान् सकूर्चकान् ।
प्रतिमा दक्षिणे भागे कुम्भं मूलेन स्थापयेत् ॥ २९ ॥

प्रतिमस्योत्तरे भागे कुम्भमेकं प्रतिष्ठितम् ।
पूर्वादीशान पर्यन्तं स्थापयेत् कुम्भमष्टकम् ॥ ३० ॥

प्राणोऽपानश्च व्यानश्चो दानस्समान एव च ।
नागः कूर्मश्च कृकरो कुम्भे पूर्वादि विन्यसेत् ॥ ३१ ॥

प्रतिमा दक्षिणे कुम्भे देवदत्तं तु विन्यसेत् ।
धनञ्जयोत्तरे न्यस्य गन्धपुष्पादिनार्चयेत् ॥ ३२ ॥

नैवेद्यं पायसं दद्यात् ताम्बूलं दापयेत्ततः ।
ततो होमं प्रकुर्वीत पलाशसमिधा सह ॥ ३३ ॥

शिवाग्निं कल्पयेत् तत्र युक्तो वहति हूयते ।
समिदाज्य चरून्लाजान्सर्षपांश्च यवांस्तिलान् ॥ ३४ ॥

शालिनी वारगो धूमचम्पकेन समन्वितम् ।
पञ्चब्रह्म षडङ्गेन प्रत्येकं तु शताहुतिः ॥ ३५ ॥

सर्व(द्रव्य)समायुक्तं मूलमन्त्रेण होमयेत् ।
चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः ॥ ३६ ॥

प्। ३२४)

चित्तादीनि जयादीनि हुत्वा हुत्वा स्पृशेत् ततः ।
ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः ॥ ३७ ॥

मन्त्रन्यासोक्त मार्गेण सृष्टिन्यासं तु कारयेत् ।
ततो वासनहोमं तु समिदाज्य चरून्सह ॥ ३८ ॥

मूलमन्त्रेण विप्रेन्द्र ! एकैकं तु शताहुतिः ।
हुत्वान्ते तु यदस्येति स्विष्टकृद्धूयते क्रमात् ॥ ३९ ॥

आचार्य दक्षिणां दद्यात् पदार्थीन् पूजयेत् ततः ।
उपदेष्टारं सम्पूज्य यथा शास्त्रोक्त मार्गतः ॥ ४० ॥

उत्थाप्य प्रतिमां तत्र स्नानवेद्युपरि न्यसेत् ।
मन्त्रन्यासोक्त मार्गेण सृष्टि न्यासं तु कारयेत् ॥ ४१ ॥

देवदत्तस्य कुम्भं तु स्नापयेन् मूलमन्त्रतः ।
पञ्चब्रह्मषडङ्गेन प्राणादत्यय कुम्भकान् ॥ ४२ ॥

स्नापयेत् तु ततो विद्वान् आचम्येन विशुद्ध्यति ।
नैवेद्यं पायसं दद्यात् ताम्बूलं दापयेत् ततः ॥ ४३ ॥

ब्राह्मणान् भोजयेत् तत्र पर्यष्टीन् शैवमेव तु ।
हाटकं वस्त्र संयुक्तं सर्वेषां दापयेत् ततः ॥ ४४ ॥

मानुषं स्थापनं प्रोक्तं पिण्डिका स्थापनं शृणु ॥ ४४ � ॥

इति वीरतन्त्रे मानुषस्थापनविधिः एकोन सप्ततितमः पटलः ॥ ६९ ॥