६८

देवदेवं प्रणम्यादौ पृच्छतिस्म पितामहः ।
विमानस्थापनं किं वा ब्रूहि मे परमेश्वर ! ॥ १ ॥

ईश्वरः ।

तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! ।
रोहिणी च पुनवस्वा पुष्यो मृगशिरस्तथा ॥ २ ॥

प्। ३१६)

हस्तं च रेवती चैव स्वाती चैव त्रिरुत्तरा ।
द्वितीया पञ्चमी चैव द्वादशी वा त्रयोदशी ॥ ३ ॥

स्थिरराशौ तु कर्तव्यम् अष्टमे ग्रहवर्जिताः ।
एवमादिषु कालेषु विमानस्थापनं कुरु ॥ ४ ॥

पञ्चाहे सप्तरात्रे वा अङ्कुरार्पणमुच्यते ।
प्रासादस्यैव पुरतः प्रपां कृत्वा विशेषतः ॥ ५ ॥

पूर्वोक्तेन प्रकारेण मण्टपं कारयेत् ततः ।
मध्यमे वेदिकां कुर्याद् हस्तमात्रोच्छ्रयं भवेत् ॥ ६ ॥

स्वबाह्ये तु परितो मानुष्ये कुण्डमुच्यते ।
नागरं द्राविडं चैव वेसरं तु शृणुष्वथ ॥ ७ ॥

चतुरश्रं तु योन्याश्च अर्धचन्द्रं त्रिकोणकम् ।
वृत्तं च पञ्चकोणं च पद्मं चैवाष्टकोणकम् ॥ ८ ॥

वेसरं प्रोच्यते विप्र अथा पञ्चमकुण्डकम् ।
चतुर्दिक्षु च ईशान्यां यथोक्तं कुण्डमुच्यते ॥ ९ ॥

चतुस्तोरणसंयुक्तं दर्भमालाव भूषितम् ।
वितानध्वजसंयुक्तं पुष्पमाल्यैरलङ्कृतम् ॥ १० ॥

प्रासादस्य चतुर्दिक्षु चतुरश्रं तु कुण्डकम् ।
कुबेरस्य विधिः प्रोक्तो द्राविडस्य तु वृत्तकम् ॥ ११ ॥

बेरस्यार्धचन्द्राभं कुण्डानि कारयेत् ततः ।
तस्य पूर्वे जलावर्तं वस्त्रमाल्यैरलङ्कृतम् ॥ १२ ॥

प्। ३१७)

शुद्धोदकेन सम्पूर्य शाल्योपरि च संस्थिताः ।
चतुर्दिक्षु न्यसेत्तत्र हृदयेन तु मन्त्रतः ॥ १३ ॥

वास्तुहोमं दिवा कुर्याल्लक्षणेन समन्वितम् ।
आचार्यश्च शुचिर्भूत्वा नववस्त्रेण वेष्टितः ॥ १४ ॥

सोष्णीषस्सोत्तरीयश्च गन्धद्रव्येण लेपयेत् ।
प्रासादं दर्भमालाभिर्वेष्टयेत् तु विशेषतः ॥ १५ ॥

पुण्याहं वाचयेत् तत्र पवमानेन प्रोक्षयेत् ।
वास्तुदेवबलिं दद्यात् पूर्वोक्त विधिना सह ॥ १६ ॥

प्रासादं नववस्त्रेण वेष्टयेद्धृदयेन तु ।
लम्बयेन्नववस्त्रेण प्रासादेन तु मन्त्रतः ॥ १७ ॥

दर्भमाल्येन पुष्पेण वेष्टयेत्स्थूपिमेव च ।
प्रासादहोमं कर्तव्यं गर्भगेहे विशेषतः ॥ १८ ॥

मम आप्येति मन्त्रेण आज्येनैव शताहुतिः ।
समिधामीशमन्त्रेण आज्यं वामेन हूयते ॥ १९ ॥

चरुं हृदयमन्त्रेण हुत्वा चैव शताहुतिः ।
शान्तिहोमक्रमेणैव चतुर्दिक्षु च होमयेत् ॥ २० ॥

चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः ।
प्रासादमेव होमेन शिवासनमथ शृणु ॥ २१ ॥

पूर्वोक्तमण्डपे वेद्यां गोमयेनानुलेपयेत् ।
शालिना विकिरेत्तत्र भारद्वयेन संयुतम् ॥ २२ ॥

प्। ३१८)

शाल्यर्धतण्डुलान्न्यस्य तण्डुलार्धतिलान्न्यसेत् ।
पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् ॥ २३ ॥

नवकुम्भान् समादाय सूत्रेण परिवेष्टयेत् ।
शुद्धोदकेन सम्पूर्य वस्त्रकूर्चसमन्वितान् ॥ २४ ॥

प्रधानकलशं विप्र ! मध्यमे स्थापयेत्क्रमात् ।
नवकुम्भान् समादाय सूत्रेण परिवेष्टयेत् ॥ २५ ॥

सप्तमेवान्तवर्गैश्च * * * * द्वितीयकम् ।
चतुर्दशस्वरसंयुक्तं बिन्दुनादसमन्वितम् ॥ २६ ॥

विमानस्य तु विप्रेन्द्र ! मूलमन्त्र मिहोच्यते ।
प्रधानकलशे नैव * * * * * विन्यसेत् ॥ २७ ॥

विद्येश्वरसमायुक्तं मध्यमे शिवदैवतम् ।
पूर्वे तु विष्णुकुम्भास्यु दक्षिणामूर्तिदक्षिणे ॥ २८ ॥

लिङ्गोत्पत्तिं तु वारुण्याम् उत्तरे तु पितामहः ।
पूर्वादिषु चतुर्दिक्षु शिवविद्येश्वरस्य तु ॥ २९ ॥

मध्यमे स्थापयेद्विद्वान् विघ्नेशं चाग्निविन्यसेत् ।
उत्तरे चैव दुर्गायां विन्यसेत् तु विशेषतः ॥ ३० ॥

गन्धपुष्पादिनाभ्यर्च्य स्वस्वमूलेन देशिकः ।
हविर्निवेदयेत् पश्चात् ताम्बूलं दापयेत् ततः ॥ ३१ ॥

ततो होमं प्रकुर्वीत पलाशसमिधासह ।
समिदाज्य चरुं लाजान् सर्षपांश्च यवांस्तिलान् ॥ ३२ ॥

प्। ३१९)

वेणुं माषं च मुद्गं च शिम्बं चैकादशं युतम् ।
ईशान्यादीनि सद्यान्तं हृदयेन त्रयं युतम् ॥ ३३ ॥

अष्टोत्तरशतं वापि पञ्चाशद्वापि हूयते ।
विमानबीजं सर्वेषु हुत्वा चैव शताहुतिः ॥ ३४ ॥

प्रभाते विमले पूज्य आचार्यः स्नानमाचरेत् ।
मन्त्रन्यासोक्तमार्गेण न्यासं कृत्वा विशेषतः ॥ ३५ ॥

सृष्टिस्थितिं च संहार न्यासादीनि च विन्यसेत् ।
ततो वासन होमं च कर्तव्यं देशिकोत्तमः ॥ ३६ ॥

समिदाज्यचरूणां तु प्रासादेन शताहुतिः ।
विमानबीजसंयुक्तं पञ्चविंशतिरुच्यते ॥ ३७ ॥

सर्वद्रव्य समायुक्तं हव्यवाहं समुच्चरन् ।
स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरे ॥ ३८ ॥

चित्तादींश्च जयादींश्च राष्ट्रभृच्चैव हूयते ।
हुत्वान्ते तु यदस्येति पूर्णाहुतिमथाचरेत् ॥ ३९ ॥

आचार्य दक्षिणां दद्यात् पञ्चाङ्गभूषणैर्युतम् ।
शिरसोपरि विप्रेन्द्र ! कुम्भमुद्वाहयेत् ततः ॥ ४० ॥

विमान प्रदक्षिणं कुर्यात् प्रासादस्योपरि स्थितिः ।
विमानमूलसंयुक्तं व्योमव्यापि समुच्चरन् ॥ ४१ ॥

पञ्चब्रह्म षडङ्गेन स्नापयेत् कुम्भमेव च ।
पूर्वादीशानपर्यन्तं स्नापयेत् स्वस्वमन्त्रतः ॥ ४२ ॥

प्। ३२०)

दिशामूर्तिं च विप्रेन्द्र ! स्वस्वमन्त्रेण स्नापयेत् ।
गन्धपुष्पादिनाभ्यर्च्य हविर्दद्याद्विशेषतः ॥ ४३ ॥

ब्राह्मणान् भोजयेत् तत्र शिवभक्तांश्च भोजयेत् ।
सप्तकन्याश्च विप्रेन्द्र ! वस्त्रादीनि च दापयेत् ॥ ४४ ॥

विमानस्थापनं प्रोक्तं मानुषस्थापनं शृणु ॥ ४४ � ॥

इति वीरतन्त्रे विमानस्थापनविधिरष्टषष्टितमः पटलः ॥ ६८ ॥