सुरेशानं नमस्कृत्य पर्यपृच्छत्पितामहः ।
चित्रप्रतिष्ठा किं देवब्रूहि मे परमेश्वर ! ॥ १ ॥
ईश्वरः ॥
तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! ।
चित्रं च त्रिविधं ज्ञेयं तेषां भेदं शृणुष्वथ ॥ २ ॥
शिला प्रतिमेऽपि विप्रेन्द्र चित्रकर्म तु कारयेत् ।
मृण्मयं शूलसंयुक्तं भित्तिचित्रे पटेऽपि वा ॥ ३ ॥
प्। ३३)
एते त्रिविधमुच्यन्ते स्थापनं तु शृणुष्वथ ।
चित्रस्य सन्निधौ चैव प्रतिष्ठामण्टपं कुरु ॥ ४ ॥
शैलजे मृण्मये चैव रत्नन्यासं तु कारयेत् ।
रत्नन्यासं च कर्तव्यम् उमादेव्या विशेषतः ॥ ५ ॥
प्रतिष्ठा मण्डपं कृत्वा लक्षणेन समन्वितम् ।
वेदिका ब्रह्मभागे तु मानुषे कुण्डमुच्यते ॥ ६ ॥
वृत्तं वा चतुरश्रं वा सर्वकुण्डानि कारयेत् ।
देव्याश्चेद्दिक्षु विप्रेन्द्र ! योनिरश्वत्थ पत्रवत् ॥ ७ ॥
एकासनगता देव्याः चतुष्कोणेषु योनिकम् ।
नयनमोक्षणं कुर्यान् नेत्रयुग्मयुते दिने ॥ ८ ॥
पूर्वोक्तविधिना चैव नयनमोक्षणमारभेत् ।
जलाधिवासनं नोक्तं शयने शाययेत् ततः ॥ ९ ॥
वास्तु होमं दिवा कुर्याल्लक्षणेन समन्वितम् ।
भारशालि समायुक्तं वेदिमध्ये परिस्तरेत् ॥ १० ॥
शाल्यर्ध तण्डुलं न्यस्य तदर्धं तु तिलं न्यसेत् ।
परिस्तरेत् तु दर्भैश्च अष्टपत्रं सकर्णकम् ॥ ११ ॥
तत् तन्मन्त्रेण संस्मृत्य शयनं पञ्च कल्पयेत् ।
दर्पणं शाययेत्तत्र प्रच्छन्न पटसंयुतम् ॥ १२ ॥
पूर्वादीशान पर्यन्तं विद्येश्वर समन्वितम् ।
देव्याश्चैव तु वामादि विन्यसेत् तु विशेषतः ॥ १३ ॥
प्। ३१४)
स वस्त्रं सापिधानं च स हिरण्यं स कूर्चकम् ।
गन्धपुष्पादिनाऽभ्यर्च्य पायसान्नं निवेदयेत् ॥ १५ ॥
ततो होमं प्रकुर्वीत पालाशसमिधा सह ।
समिदाज्य चरुं लाजान् सर्षपा * गमेव च ॥ १६ ॥
माषं चैव तु विप्रेन्द्र ! सप्तद्रव्याणि हूयते ।
सद्येन समिधा हुत्वा हृदयेनाज्यमेव च ॥ १७ ॥
चरुं वामेन होतव्यं शिरो मन्त्रेण लाजकम् ।
सर्षर्पं नेत्रमन्त्रेण मुद्गमीशानमन्त्रतः ॥ १८ ॥
माषं नेत्रेण हुत्वा तु प्रत्येकं तु शताष्टकम् ।
सर्वद्रव्य समायुक्तं हव्यवाहं समुच्चरन् ॥ १९ ॥
स्विष्टमग्नेति मन्त्रेण जुहुयात् तदनन्तरम् ।
ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः ॥ २० ॥
मन्त्र न्यासोक्तमार्गेण स्वदेहे विन्यसेत् ततः ।
ततो वासान होमं तु आज्येन चरुणायुतम् ॥ २१ ॥
अष्टोत्तरशतं हुत्वा द्रव्यं प्रति विशेषतः ।
चतुर्दिक्षु चतुर्वेदैः कुर्याद् अध्ययनं ततः ॥ २२ ॥
प्रायश्चित्तं तु होतव्यं चित्तादिभिर्जयादिभिः ।
हुत्वान्ते तु यदस्येति जुहुयात् तदनन्तरम् ॥ २३ ॥
प्। ३१५)
आचार्य दक्षिणां दद्यात्पञ्चाङ्गभूषणैर्युतम् ।
होमीनां तु पदार्थीनां पूजयेत् तु विशेषतः ॥ २४ ॥
प्रतिमस्याग्रतश्चैव जलभाण्डं खनेत् ततः ।
तस्योर्ध्वे दर्पणं स्थाप्य मूलमन्त्रेण संयुतम् ॥ २५ ॥
प्रोक्षयेच्चित्र कर्मे तु दर्पणे स्नापयेत् ततः ।
प्रधान कलशं चैव स्नापयेत् तु विशेषतः ॥ २६ ॥
पूर्वादीशान पर्यन्तं स्नापयेत् स्वस्वमन्त्रतः ।
हविर्निवेदयेत् पश्चात् ताम्बूलं दापयेत् ततः ॥ २७ ॥
ब्राह्मणान्भोजयेत् तत्र शैवान् (सं)भोजयेत् ततः ।
सर्वासां देवतानां च स्थापन क्रममेव हि ॥ २८ ॥
तत्तन्मन्त्रेण कर्तव्यं क्रियाभेदं न विद्यते ।
प्रतिष्ठोपकरणं सर्वम् आचार्याय प्रदापयेत् ॥ २९ ॥
चित्रस्थापनमेवोक्तं शूलस्थापनकं शृणु ।
इति वीरतन्त्रे चित्रप्रतिष्ठाविधिः सप्तषष्ठितमः पटलः ॥ ६७ ॥