६६

पादुकास्थापनं वक्ष्ये शृणुष्व चतुरानन ! ।
सौवर्णं रजतं ताम्रं लोहजं वापि कारयेत् ॥ १ ॥

दन्तैर्वा दारुजैर्वापि कारयेत्तु विशेषतः ।
लक्षणं सम्प्रवक्ष्यामि यथा वदनुपूर्वशः ॥ २ ॥

उत्तमं द्वादशाङ्गुल्यं मध्यमं तु नवाङ्गुलम् ।
अधमं सप्ताङ्गुलं प्रोक्तं पादुकस्य तु दैर्घ्यकम् ॥ ३ ॥

विस्तारं तु तदर्धं स्यात् तस्य मध्ये तदर्धकम् ।
अङ्गुल्यादि त्रयाङ्गुल्यम् उत्सेधं * * * * * ॥ ४ ॥

पादाधारं तु कर्तव्यं तस्योर्ध्वे वृत्तमुच्यते ।
एवं लक्षण संयुक्तां पादुकां कारयेत् ततः ॥ ५ ॥

पर्यन्तशोभितं कृत्वा माणिक्यादि सरत्नकैः ।
रत्नानामप्य लाभे तु सुवर्णादीनि कारयेत् ॥ ६ ॥

प्रतिष्ठा विधिं प्रवक्ष्यामि पूर्वोक्तमण्टपे शुभम् ।
मण्टपस्य तु संस्कारं विभवेन समन्वितम् ॥ ७ ॥

वास्तु होमं दिशां कुर्याल्लक्षणेन समन्वितम् ।
दर्भमालाभिरावेष्ट्य चतुस्तोरण संयुतम् ॥ ८ ॥

प्। ३०७)

अष्टदिक्षु ध्वजान्न्यस्य वितानैरुपशोभितम् ।
मुक्तादामैरलङ्कृत्य पुष्पमालोपशोभितम् ॥ ९ ॥

वेदिका रत्निचोत्सेधं दर्पणोदरवत्कृतम् ।
अष्टद्रोणेन शालींश्च तन्मध्ये विन्यसेत्ततः ॥ १० ॥

शाल्यर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् ।
पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् ॥ ११ ॥

शयनं कल्पयेत् तत्र अण्डजाद्यैस्ततो बुधः ।
जलादुत्तीर्य देवेशं शुद्धिं कृत्वा विशेषतः ॥ १२ ॥

प्रासादं प्रविशेत् तत्र पुष्पदन्तपदे स्थितः ।
आचार्यश्च शुचिर्भूत्वा नववस्त्रेण वेष्टयेत् ॥ १३ ॥

सोष्णीषः सोत्तरीयश्च सर्वाभरणभूषितः ।
आचार्यस्य च बीजेन सर्वाङ्गेषु च विन्यसेत् ॥ १४ ॥

उपदेष्ट्रा समायुक्तम् आचार्यद्वयमुच्यते ।
उपदेष्टा शरीरं तद् आचार्यो जीव उच्यते ॥ १५ ॥

सहिनस्तु भवेद्विप्र सर्वसम्पत्कराय च ।
मन्त्रन्यासं प्रकर्तव्यं लक्षणेन समन्वितम् ॥ १६ ॥

हस्ताभ्यां संस्पृशेत्तत्र कादिपादान्तमेव च ।
अङ्गुष्ठादि कनिष्ठान्तं पञ्चब्रह्म न्यसेत् क्रमात् ॥ १७ ॥

मध्यमादि तर्जन्यन्तं षडङ्गं विन्यसेत्क्रमात् ।
अस्त्रं करतले चैव विन्यसेत् तु विशेषतः ॥ १८ ॥

प्। ३०८)

अष्टत्रिंशत्कलाश्चैव विन्यसेद्देशिकस्य तु ।
प्राकृतं भावमुत्सृज्य शिवोहमिति भावयेत् ॥ १९ ॥

प्रतिमां पञ्चगव्येन स्नापयेच्छिव मन्त्रतः ।
स्वर्णसूत्रेण संयुक्तं कौतुकं बन्धयेत् ततः ॥ २० ॥

पलद्वयं च कर्पूरं काश्मीरं चन्दनेन तु ।
समालोढ्य च सर्वं तु लेपयेत् तु समन्ततः ॥ २१ ॥

सुमुहूर्ते सुलग्ने च शयने शाययेच्छिवम् ।
प्रतिमं नववस्त्रेण पिधाय सकलं ततः ॥ २२ ॥

प्रासादेन तु मन्त्रेण गन्धपुष्पादिनाऽर्चयेत् ।
नवकुम्भं समादाय सूत्रेणावेष्टयेत् ततः ॥ २३ ॥

शुद्धोदकेन सम्पूर्य स कूर्चं सापिधानकम् ।
स वस्त्रं स हिरण्यं च पञ्चरत्न समन्वितम् ॥ २४ ॥

द्रव्येणैव समायुक्तं विणिकादीनि विन्यसेत् ।
प्रतिमस्यैश दिग्भागे स्थापयेच्छिव कुम्भकम् ॥ २५ ॥

शिवकुम्भे शिवं पूज्य पञ्चब्रह्म षडङ्गकैः ।
वर्धनीं तस्य वामे तु गौरी बीजेन स्थापयेत् ॥ २६ ॥

पूर्वादीशान पर्यन्तम् अष्टविद्येश्वरैर्युतम् ।

ततो होमं दिवा कुर्याद् भ्रंशमध्ये पदे तथा ।
ततो होमं प्रकर्तव्यं लक्षणेन समन्वितम् ॥ २८ ॥

प्। ३०९)

पलाशाश्वत्थ बिल्वं चोदुम्बर प्लक्षमेव च ।
खदिरं च शमी चैव अपामार्गं तथैव च ॥ २९ ॥

पूर्वादीनि क्रमाद् एता मध्ये पालाशमेव च ।
सर्वेषामेव होमानां मध्ये पालाशमुच्यते ॥ ३० ॥

समिदाज्य चरुं लाजान् सर्षपांश्च यवांस्तिलान् ।
मुद्गमाषं च विप्रेन्द्र ! नवद्रव्यमिहोच्यते ॥ ३१ ॥

समिधो हृदये नैव आज्यं च शिर उच्यते ।
चरुहोमं शिखा चैव लाजान्वै कवचेन तु ॥ ३२ ॥

नेत्रेण सर्षपं चैव अस्त्रेणैव यवांस्ततः ।
ईशानेन तिलं हुत्वा मुद्गं सद्येन हूयते ॥ ३३ ॥

माषं वामेन होतव्यम् एवमेव क्रमेण तु ।
सहस्रं वा तदर्धं वा तदर्धार्धमथापि वा ॥ ३४ ॥

शतमष्टोत्तरं वापि तिरीशे विजयस्तथा ।
उग्रोऽतिधाश्रीमो एते होमस्य दैवताः ॥ ३५ ॥

वामी ज्येष्ठी च काली च कलविकरणी तथा ।
बलविकरणी बलप्रमथिनी सर्वभूत मनोन्मनी ॥ ३६ ॥

क्रमात्कुण्डेषु विप्रेन्द्र ! शक्तीनां नाम उच्यते ।
द्रव्यान्ते प्रतिमां स्पृष्ट्वा पञ्चब्रह्म षडङ्गकैः ॥ ३७ ॥

चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः ।
व्योमं प्रासादमन्त्रं च ब्रह्ममङ्गं तथैव च ॥ ८८ ॥

प्। ३१०)

दीक्षितैर्ब्राह्मणैश्चैव चतुर्दिक्षु जपेत्ततः ।
त्राणि पर्वाणि ते यं नृत्त समाकुलैः ॥ ३९ ॥

सर्वद्रव्य समायुक्तं हव्यवाहं समुच्चरन् ।
स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरे ॥ ४० ॥

चित्तादीनि जयादींश्च राष्ट्रभृच्चादि हूयते ।
हूयते क्रमशो विप्र ! व्याहृतिं जुहुयात्ततः ॥ ४१ ॥

शिवदीक्षा प्रदातव्या लक्षणेन समन्विता ।
पर्यष्टि परिचारांश्च शिवदीक्षावहो विदुः ॥ ४२ ॥

एवं कृते तु विप्रेन्द्र ! राजराष्ट्र सुखावहम् ।
अथा वसानहोमं तु प्रधानाग्नौ तु हूयते ॥ ४३ ॥

यदस्य कर्मणेत्यादि स्विष्टकृद्धूयते क्रमात् ।
प्रभाते दक्षिणां दद्याद् आचार्यादि च सर्वशः ॥ ४४ ॥

आचार्यं पूजयेत् पूर्वं वस्त्राङ्गुलीयकादिभिः ।
पञ्चाङ्गभूषणं दद्याद् आचार्यस्य विशेषतः ॥ ४५ ॥

अधमं दशनिष्कं तु मध्यमं द्विगुणं भवेत् ।
उत्तमं त्रिगुणं प्रोक्तम् आचार्यस्य तु दक्षिणा ॥ ४६ ॥

दशभागैक भागं तु मूर्तिपानां तु दक्षिणा ।
स्तोत्रादध्वयीनादीनां तदर्धं दक्षिणा शुभे ॥ ४७ ॥

गोमया लेपनं कृत्वा पद्ममध्ये प्रकल्पयेत् ।
पद्मस्य पूर्वदिग्भागे वेदाश्रं कुण्डमुच्यते ॥ ४८ ॥

प्। ३११)

पुण्याहं वाचयेत्तत्र शुद्धिं कृत्वा तु पादुकौ ।
पवमानेन सम्प्रोक्ष्य शुद्धैरुत्थै ततो द्रुवत् ॥ ४९ ॥

शालिना विकिरेत् तत्र तदर्धं तण्डुलांस्तिलान् ।
पादुकौ विन्यसेन्मध्ये नववस्त्रस्य चोपरि ॥ ५० ॥

पिधाय नववस्त्रेण गन्धपुष्पादि नार्चयेत् ।
भूतवर्गान्त वर्गेषु अग्निं संयोजयेत् ततः ॥ ५१ ॥

तद्व्यक्षौ समायुक्त विषध्वर समायुतम् ।
शिवविष्णुसमारूढं पादुकाबीजमुच्यते ॥ ५२ ॥

इदं मन्त्रमनुस्मृत्य स्थापयेत् पूर्वतो मुखम् ।
श्रीभूमी दक्षिणा दिशि तथा देवौ प्रकीर्तितौ ॥ ५३ ॥

वर्धनीं नवमादाय सूत्रेण परिवेष्टिताम् ।
पूरयेच्छुद्धतो येन स कूर्चान्सापिधानकान् ॥ ५४ ॥

स वस्त्रान् हेमसंयुक्तान् पूर्वादीशान्तके न्यसेत् ।
पादुकादीश दिग्भागे वर्धनीं विन्यसेत्ततः ॥ ५५ ॥

पूर्वादीशान पर्यन्तं विन्यसेद्वादिशक्तितः ।
मनोन्मनीं प्रधानस्य विन्यसेत्तु विशेषतः ॥ ५६ ॥

गन्धैः पुष्पैश्च धूपैश्च दीपैश्च (च) रु विन्यसेत् ।
ततो होमं प्रकर्तव्यं पूर्वोक्तविधिना सह ॥ ५७ ॥

होमान्ते पञ्चगव्येन प्रोक्षयेत्सद्यमन्त्रतः ।
सुमुहूर्ते सुलग्ने च वर्धनीं विन्यसेत्ततः ॥ ५८ ॥

प्। ३१२)

पूर्वादीशान पर्यन्तं स्थापयेन् मूलमन्त्रतः ।
गन्धपुष्पादिनाऽऽपूज्य विन्यसेच्छिवमन्त्रतः ॥ ५९ ॥

नैवेद्यं दापयेत् पश्चात् ताम्बूलं दापयेत् ततः ।
आचार्यं पूजयेत्पूर्वं पर्यष्टि परिचारकान् ॥ ६० ॥

भोजयेच्छिव भक्तांश्च सवर्णांश्च दक्षिणाम् ।
नित्योत्सवं तु काले तु प्रदक्षिणमथाचरेत् ॥ ६१ ॥

अग्रतः पृष्ठतो वापि व्रजेत् सम्पत्कराय च ।
ब्रह्मचारी वहित्वा तु पादुकावर्चयेत् ततः ॥ ६२ ॥

पादुकस्योपरिष्टात् तु कल्पयेदस्त्र राजतः ।
एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् ॥ ६३ ॥

पादुका स्थापनं प्रोक्तं चित्रस्थापनकं शृणु ॥ ६३ � ॥

इति वीरतन्त्रे पादुकास्थापनविधिः षषष्टितमः पटलः ॥ ६६ ॥