६५

प्रणिपत्य पुनर्ब्रह्मा उवाच परमेश्वरम् ।
कथं गौरी प्रतिष्ठा च ब्रूहि मे परमेश्वर ! ॥ १ ॥

ईश्वरः ॥

एतत्सर्वं समासेन श्रूयतां चतुरानन ! ।
रोहिणी च पुनर्वस्वो पुष्ये मृगशिरस्तथा ॥ २ ॥

प्। ३००)

हस्तं च रेवती चैव स्वाती चैव त्रिरुत्तरा ।
स्थिरराशौ तु कर्तव्यम् अष्टमं ग्रहवर्जितम् ॥ ३ ॥

देव्या रूपमहं वक्ष्ये शृणुष्व कमलासन ! ।
द्विनेत्रां चारुवदनां सुस्तनां च सुयौवनाम् ॥ ४ ॥

द्विहस्तां च द्विपादां च नीलोत्पलयुतां कराम् ।
करण्डमकुटां चैव सर्वाभरणभूषितम् ॥ ५ ॥

दुकूलपट्टवसन छन्नवीर समन्विताम् ।
पादनूपुर संयुक्तां देव्या रूपमिहोच्यते ॥ ६ ॥

प्रासादस्याग्रतः कुर्यान्मण्डपं चतुरश्रकम् ।
पूर्वोक्तलक्षणैर्युक्तं मण्टपं कारयेत्ततः ॥ ७ ॥

एकाशीति पदं कृत्वा वेदिका नव मध्यमे ।
तस्या वृतपदं त्रीणि मध्यमे कुण्डमुच्यते ॥ ८ ॥

पूर्वादीशानपर्यन्तं योनिरश्वत्थ पत्रवत् ।
लक्षणेन प्रकर्तव्यं पूर्वोक्तविधिना सह ॥ ९ ॥

रत्न न्यासं न कर्तव्यम् उमा देव्या विशेषतः ।
हेमं तत्रैव निक्षिप्य अष्टदिक्षु क्रमेण तु ॥ १० ॥

सुस्निग्धं कारयेत्तत्र गौरीगायत्रिमन्त्रतः ।
द्वितीयवर्गे विप्रेन्द्र ! तृतीयाक्षर संयुतम् ॥ ११ ॥

सप्तमस्य तृतीयं तु प्रथमस्य चतुर्थकम् ।
बिन्दुनाद समायुक्तं मूलमन्त्रमिहोच्यते ॥ १२ ॥

प्। ३०१)

द्वितीयस्य तृतीयं तु ब्रह्ममुद्धारते क्रमात् ।
हृस्वा ब्रह्म समाख्याता दीर्घाह्यङ्गानि चोच्यते ॥ १३ ॥

नयनं मोक्षणं कुर्यान् नेत्रद्वययुते दिने ।
आदित्यस्य पदे चैव गोमयेनानुलेपयेत् ॥ १४ ॥

अष्टद्रोणेन शालिस्यात् स्थण्डिलं चतुरश्रकम् ।
तदर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् ॥ १५ ॥

पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् ।
नववस्त्रं न्यसेत्तत्र प्रतिमां विन्यसेत् ततः ॥ १६ ॥

वस्त्रेण वेष्टयेद् देवीं प्रच्छन्नपटसंयुताम् ।
अभितः कलशानष्टौ वामाद्यादीनि विन्यसेत् ॥ १७ ॥

हिरण्यसूचिकायुक्तं पक्ष्मरेखां लिखेत् ततः ।
कृष्णमण्डलमालिख्य ज्योतिर्मण्डलमालिखेत् ॥ १८ ॥

शिल्पिनं पूजयेत् पश्चात् तदस्त्राणां विसर्जयेत् ।
वस्त्रेणावेष्ट्य तद् देव्याः प्रच्छन्न पटसंयुतम् ॥ १९ ॥
अभितः कलशानष्टौ वामाद्यादीनि विन्यसेत् ॥ १९ ॥

अक्षिहोमं ततः कुर्याद् आज्येनैव विशेषतः ।
अग्निमुखं च सङ्कल्प्य पञ्चाशत्सङ्ख्यया हुनेत् ॥ २० ॥

नेत्रमन्त्रेण हुत्वा तु चरुं तत्रैव हूयते ।
ताम्रपात्रेऽथवा कांस्ये घृतं मधु च पूरयेत् ॥ २१ ॥

नेत्रमन्त्रशतं जप्त्वा हिरण्यनखसंयुतम् ।
मधुवाता ऋतायेति मधुना तर्पयेत्ततः ॥ २२ ॥

प्। ३०२)

घृतमिक्षे घृतं तर्प्य नेत्रमन्त्रं च विन्यसेत् ।
गौर्धेनु भव्यमन्त्रेण सवत्साङ्गां प्रदर्शयेत् ॥ २३ ॥

ब्राह्मणान्दर्शयेत् तत्र सप्तकन्याश्च दर्शयेत् ।
नेत्रमन्त्रसमायुक्तं धान्यराशीं च दर्शयेत् ॥ २४ ॥

प्रच्छन्न पटमावर्ज्य जनान्सर्वान्प्रदर्शयेत् ।
पञ्चगव्येन विप्रेन्द्र ! अभिषेकं समाचरेत् ॥ २५ ॥

अलङ्कृत्य च तां देवीं कुर्याद्ग्राम प्रदक्षिणम् ।
नदीतटाककतीरे वा गोमयेनानुलेपिते ॥ २६ ॥

पीठं तत्रैव निक्षिप्य गौरीं तत्रो परिन्यसेत्
स्नापयेत् पञ्चगव्येन जलाधिवासनं कुरु ॥ २७ ॥

नववस्त्रेण संवेष्ट्य कूर्चेनैव समन्वितम् ।
जलमध्ये न्यसेद् देवीं गौरीबीजेन देशिकः ॥ २८ ॥

पूर्वादीशानपर्यन्तं वर्धनीं विन्यसेत्ततः ।
सवस्त्रं सापिधानं च वामाद्याश्चैव विन्यसेत् ॥ २९ ॥

तस्योर्ध्वे च प्रपां कृत्वा दीपयुक्तो विधीयते ।
एकरात्रं त्रिरात्रं वा पञ्चरात्रमथापि वा ॥ ३० ॥

जलादुत्तीर्य पूर्वेद्युः प्रविशेदालयं प्रति ।
स्नापयेत् पञ्चगव्येन नववस्त्रेण वेष्टयेत् ॥ ३१ ॥

वेदिमध्ये न्यसेत् तत्र अष्टद्रोणेन शालिना ।
तदर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् ॥ ३२ ॥

प्। ३०३)

परिस्तरेच्च दर्भैश्च शयनं चाण्डजादिभिः ।
तस्यो परिन्यसेद्देवीं गौरीमूलेन देशिकः ॥ ३३ ॥

प्राक्शिरः पश्चिमे पादं विन्यसेच्च विशेषतः ।
प्रच्छन्न पटसंयुक्तं पुण्याहं वाचयेत् ततः ॥ ३४ ॥

वर्धनीं नवमादाय सूत्रेण परिवेष्टयेत् ।
शुद्धोदकेन सम्पूर्णाः प्रत्येकं वस्त्रवेष्टिताः ॥ ३५ ॥

दिव्यानामीश दिग्भागे प्रधानां वर्धनीं न्यसेत् ।
गौरीबीजेन मन्त्रेण स कूर्चं सापिधानकम् ॥ ३६ ॥

पूर्वादीशान पर्यन्तं वर्धनीरष्ट विन्यसेत् ।
प्रत्येकं वस्त्रसंयुक्तं प्रधाने हेम विन्यसेत् ॥ ३७ ॥

मध्ये गौरीं च सम्पूज्य नवशक्तीः सुपूजयेत् ।
पूर्वादीशान पर्यन्तं मनोन्मनीं त्वीशगोचरे ॥ ३८ ॥

वर्णानामस्त्ररूपं तु विन्यसेद्वर्धनीं ततः ।
गन्धपुष्पादिनाभ्यर्च्य गौरीमूलेन मन्त्रतः ॥ ३९ ॥

नैवेद्यं पायसं दद्यात् ताम्बूलं च निवेद्य च ।
ततो होमं प्रकुर्वीत नव वा पञ्च एव वा ॥ ४० ॥

समिदाज्यचरुं लाजान् मूद्गमाषयवांस्तथा ।
गौरीमूलेन मन्त्रेण समिधा हूयते क्रमात् ॥ ४१ ॥

आज्यं गायत्री मन्त्रेण हृदयेन चरुं तथा ।
शिरोमन्त्रेण लाजश्च मुद्गं वामेन हूयते ॥ ४२ ॥

प्। ३०४)

माषं सद्येन होतव्यं यवमीशानमन्त्रतः ।
एवमेव क्रमेणैव प्रत्येकं तु शताहुतिः ॥ ४३ ॥

घृतमिक्षेति मन्त्रेण घृतेनैव शताहुतिः ।
देवस्यत्वेति मन्त्रेण अन्नाहुतिमथाचरेत् ॥ ४४ ॥

द्रव्यान्ते व्याहृतिं हुत्वा स्पर्शयेत्प्रतिमां ततः ।
हव्यवाहेति मन्त्रेण सर्वद्रव्य समन्वितम् ॥ ४५ ॥

स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरे ।
नृत्तगेय समायुक्तं रात्रौ जागरमुच्यते ॥ ४६ ॥

चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः ।
गौरीमूलं जपेत्तत्र आग्नेयादि चतुर्दिशि ॥ ४७ ॥

ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः ।
मन्त्रन्यासोक्तमार्गेण सृष्टि न्यासं तु कारयेत् ॥ ४८ ॥

ततो वासनहोमं तु कारयेद्विधिना ततः ।
समिदाज्यचरूणां तु होमयेद् देशिकोत्तमः ॥ ४९ ॥

गौरी गायत्रीमूलेन हृदयेन पृथक् छतम् ।
हुत्वान्ते तु यदस्येति स्विष्टकृद्धूयते क्रमात् ॥ ५० ॥

आचार्यदक्षिणां दद्यात् पञ्चाङ्गभूषणादिकम् ।
वस्त्रैराभरणैर्युक्तं गोभूमीकाञ्चनादिभिः ॥ ५१ ॥

पदार्थीन्पूजयेत्तत्र उपदेष्टा च पूजयेत् ।
ततो मुहूर्तमुद्वीक्ष्य देवीमुत्थापयेत् क्रमात् ॥ ५२ ॥

प्। ३०५)

स्नानवेद्युपरिन्यस्य गन्धपुष्पादिनार्चयेत् ।
सृष्टिन्यास क्रमेणैव देव्या अङ्गेषु विन्यसेत् ॥ ५३ ॥

प्रधान वर्धनीं चैव विमान प्रदक्षिणं कुरु ।
स्नापयेत् तु विशेषेण गौरीमूलमनुस्मरन् ॥ ५४ ॥

पञ्चब्रह्म षडङ्गैश्च स्नापयेदष्टवर्धनीः ।
स्नपनं कारयेत्पश्चाद् यथा विभवविस्तरम् ॥ ५५ ॥

पञ्चवर्णहविर्दद्यात् ताम्बूलं दापयेत्ततः ।
ब्राह्मणान् भोजयेत्तत्र सप्तकन्याश्च भोजयेत् ॥ ५६ ॥

कल्याणं कारयेत् पश्चान्मण्डपे स विशेषतः ।
गोमयालेपनं कृत्वा शालिना विकिरेत्ततः ॥ ५७ ॥

शाल्योपरि सुसंस्थाप्य मानुषे तु पदे तथा ।
स्थण्डिले स्थापयेद्देवीं दिशि दक्षिणतो न्यसेत् ॥ ५८ ॥

तस्याग्रे स्थण्डिलं कृत्वा अग्निमुखं च कारयेत् ।
तत्र विष्णुं समाहूय दद्यादुदक पूर्वकम् ॥ ५९ ॥

गौरीबीजेन संयुक्तं ब्रह्माङ्गेन समायुतम् ।
हृदयेनातिष्ठ मन्त्रेण अश्मानं स्पर्शयेत् ततः ॥ ६० ॥

आचार्य हस्तं सम्पूर्य लाजान् हृदय मन्त्रतः ।
ईशानेन तु मन्त्रेण लाजहोमं तु कारयेत् ॥ ६१ ॥

प्रदक्षिणं ततः कृत्वा लाजहोमं पुनः पुनः ।
त्रिःकृत्वा तु विशेषेण हुत्वा चित्तादिभिस्तथा ॥ ६२ ॥

प्। ३०६)

हुत्वान्ते तु यदस्येति जुहुयात् तदनन्तरम् ।
भिन्नासनमिदं प्रोक्तं सहासनमतः शृणु ॥ ६३ ॥

इति वीरतन्त्रे गौरी स्थापनविधिः पञ्चषष्टितमः पटलः ॥ ६५ ॥