६४

प्रणम्य शिरसा देवं पर्यपृच्छत्पितामहः ।
किं वा संहारमूर्तीनां स्थापनं परमेश्वर ! ॥ १ ॥

ईश्वरः ॥

तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! ।
नृत्तं चैव तु कामारि कालदाहं तथैव च ॥ २ ॥

गजघ्नं त्रिपुरघ्नं च जलन्धरवधं तथा ।
षष्ठे संहारमूर्तीनां स्थापनं त्विह चोच्यते ॥ ३ ॥

प्। २९५)

रोहिणी च पुनवस्वो पुष्ये मृगशिरस्तथा ।
हस्ते च रेवती चैव स्वाती चैव त्रिरुत्तरा ॥ ४ ॥

स्थापयेत्स्थिरराशौ तु अष्टमे ग्रहवर्जिता ।
अङ्कुरानर्पयेत् पूर्वं नवाहे सप्तमेऽथवा ॥ ५ ॥

मण्टपं कारयेत्सम्यक् प्रासादस्याग्रके ततः ।
दक्षिणे चोत्तरे चापि कारयेल्लक्षणान्वितम् ॥ ६ ॥

कूटं वापि प्रपां वापि कारयेदथवा पुनः ।
मण्टपं चैव विप्रेन्द्र ! एकाशीतिपदं कुरु ॥ ७ ॥

मध्ये नवपदे चैव वेदिका रत्निरुच्छ्रयम् ।
तस्य बाह्ये तु परितो मानुषे कुण्डमुच्यते ॥ ८ ॥

चतुरश्रमग्निकुण्डं च अर्धचन्द्रं त्रिकोणकम् ।
वृत्तं चैव षडश्रं च पद्मं सप्ताश्रमेव च ॥ ९ ॥

पूर्वादिषु च विप्रेन्द्र ! अष्टदिक्षु क्रमान् न्यसेत् ।
ईशान इन्द्रयोर्मध्ये अष्टकोणं च कारयेत् ॥ १० ॥

एवं तु नृत्तरूपं स्यात् कामहारिं ततः शृणु ।
चतुरश्रं च षट्कोणं त्रिकोणं पञ्चकोणकम् ॥ ११ ॥

एतानि च महादिक्षु वृत्तं शेषं प्रकल्पयेत् ।
ईशान इन्द्रयोर्मध्ये सप्तकोणं तु कारयेत् ॥ १२ ॥

गजघ्नस्य चतुर्दिक्षु वेदाश्रं कुण्डमुच्यते ।
त्रिपुरघ्नं तथा दिक्षु चतुष्कोणं त्रिकोणकम् ॥ १३ ॥

प्। २९६)

जलन्धरवधाच्चैव एवमेव क्रमेण तु ।
ईशान इन्द्रयोर्मध्ये सप्ताश्रं कारयेत्ततः ॥ १४ ॥

एवमेव प्रकारेण कुण्डं कृत्वा तु देशिकः ।
सत्यकस्य पदे चैव रत्नन्यासं तु कारयेत् ॥ १५ ॥

शालिना विकिरेत्तत्र तण्डुलं च तिलं न्यसेत् ।
तस्योपरिन्यसेद्देवं षण्णवत्यं विशेषतः ॥ १६ ॥

वज्रं मरकतं चैव वैडूर्यं च प्रवालकम् ।
पुष्टिकं पद्मरागं च पुष्परागं तथैव च ॥ १७ ॥

इन्द्रनीलं च विप्रेन्द्र ! पूर्वादिषु च विन्यसेत् ।
माणिक्यं मध्यमे स्थाप्य शिवमन्त्रेण देशिकः ॥ १८ ॥

गन्धपुष्पादिनाभ्यर्च्य प्रतिमां तत्र विन्यसेत् ।
सुस्निग्धशालिना कुर्यात्पुण्याहं वाचयेत्ततः ॥ १९ ॥

आचार्यपूजनं कुर्यात् शिल्पिनं पूजयेत्ततः ।
रत्नन्यासमिदं प्रोक्तं नेत्रमोक्षणमुच्यते ॥ २० ॥

आदित्यस्य पदे चैव नेत्रमोक्षणमाचरेत् ।
नयनद्वययुक्ते तु दिने लग्ने शुभे तथा ॥ २१ ॥

शालिना स्थण्डिलं कुर्याद्दर्भैश्चैव परिस्तरेत् ।
नृत्तरूपं तदूर्ध्वे तु विन्यसेच्छिव मन्त्रकैः ॥ २२ ॥

प्रच्छन्नपटसंयुक्तं पूर्वाभिमुखमेव वा ।
स्थापयेत् कलशानष्टौ लोकपालाधिदेवतान् ॥ २३ ॥

प्। २९७)

स कूर्चान्सापिधानांश्च वस्त्रेणैव समावृतान् ।
सुवर्णसूचिना विप्र ! शिल्पिना प्रहरेत्ततः ॥ २४ ॥

पक्ष्मरेखा प्रकर्तव्या कृष्णमण्डलमेव च ।
ज्योतिर्मण्डलमालिख्य नेत्रमन्त्र समायुतम् ॥ २५ ॥

अक्षिहोमं ततः कुर्याद् आज्येन चरुणा सह ।
नेत्रमन्त्रेण विप्रेन्द्र ! अष्टोत्तरशतं पृथक् ॥ २६ ॥

तत् काले दक्षिणां दद्यात् पुण्याहं वाचयेत् ततः ।
सुवर्णदूर्वया विप्र ! मध्वाज्यं चैव तर्पयेत् ॥ २७ ॥

हिरण्यनख संयुक्तं प्रासादेन समन्वितम् ।
ताम्रपात्रेऽथवा कांस्ये आज्यं चैव तु विन्यसेत् ॥ २८ ॥

तर्पयेन्मधुना विप्र ! मधुवातेति मन्त्रतः ।
घृतमिक्षेति मन्त्रेण घृतं चैव तु तर्पयेत् ॥ २९ ॥

सवत्साङ्गां समानीय नृत्तरूपस्य सन्निधौ ।
गोर्धेनुर्भव्यमन्त्रेण दर्शयेद्गां विशेषतः ॥ ३० ॥

ब्राह्मणान्दर्शयेत्तत्र ब्रह्मजज्ञान मन्त्रतः ।
षण्णवत्येन मन्त्रेण प्रोक्षयेत् तु विशेषतः ॥ ३१ ॥

कुशेन चाक्षतं युक्तं प्रोक्षयेच्छिव मन्त्रतः ।
प्रच्छन्नपटमावर्ज्य दर्शयेन्मानुषांस्ततः ॥ ३२ ॥

पवमानेन मन्त्रेण पञ्चगव्याभिषेचनम् ।
शुद्धिं कृत्वा विशेषेण तन्त्रीणां च संयुतम् ॥ ३३ ॥

प्। २९८)

शुद्धैरुकेति मन्त्रेण पुण्याहं कारयेत्ततः ।
सर्वालङ्कार संयुक्तं कुर्याद्ग्राम प्रदक्षिणम् ॥ ३४ ॥

प्रतिमां कण्ठदघ्ने च जले चैवाधि वासयेत् ।
प्रपां कृत्वा विशेषेण कलशान् विन्यसेत् ततः ॥ ३५ ॥

स वस्त्रान्सापिधानांश्च स सूत्रानष्ट दिक्षु च ।
एकरात्रं त्रिरात्रं वा पञ्च वा सप्तरात्रकम् ॥ ३६ ॥

दैवज्ञं पूजयेत् पश्चाद् भक्तानां पूजयेत्ततः ।
मण्डपस्यैशदिग्भागे स्नानवेद्युपरि न्यसेत् ॥ ३७ ॥

निर्माल्यं च विसृज्याथ प्रोक्षयेच्छुद्धवारिणा ।
घृतं शिरोर्पणं कुर्यात् स्वर्णदूर्वाङ्कुराक्षतैः ॥ ३८ ॥

षण्णवत्येन मन्त्रेण शिवमन्त्रेण संयुतम् ।
क्षालयेच्छुद्धतोयेन * * * नन्तु कल्पयेत् ॥ ३९ ॥

मूर्धादि पादपर्यन्तं पञ्चब्रह्म न्यसेत् क्रमात् ।
अष्टत्रिंशत् कलान्यासं षडङ्गेनैव विन्यसेत् ॥ ४० ॥

सुमूहूर्ते सुलग्ने च नक्षत्रकरणान्विते ॥ ४१ ॥

शिवाख्यकलशांश्चैव शिवमन्त्रेण विन्यसेत् ।
षण्णवत्येन मन्त्रेण अभिषेकं तु कारयेत् ॥ ४२ ॥

उमाकुम्भं च विप्रेन्द्र ! पीठं चैव तु स्नापयेत् ।
पूर्वादीशान पर्यन्तं कलशे वा भिषेचयेत् ॥ ४३ ॥

प्। २९९)

पञ्चब्रह्मेण मन्त्रेण स्नपनं तु यथा विधि ।
पूर्वोक्त लक्षणैर्युक्तम् अर्चयेत् तु विशेषतः ॥ ४४ ॥

हविर्निवेदयेत् पश्चात् ताम्बूलं दापयेत् ततः ।
प्रतिष्ठोपकरणं सर्वम् आचार्याय प्रदापयेत् ॥ ४५ ॥

ब्राह्मणान् भोजयेत् तत्र पर्यष्टि परिचारकान् ।
शैवान् सम्भोजयेत् तत्र यथा शक्त्यादि दक्षिणा ॥ ४६ ॥

एवं यः कुरते मर्त्यः सर्वपापाद्विमुच्यते ।
यावद् रुद्रपुरं सर्वे दध्याक्षये नरः ॥ ४७ ॥

तद् दिनादि च विप्रेन्द्र ! उत्सवं कारयेत् ततः ।
आद्येषु त्रितयेष्वेषु न ध्वजारोहण क्रिया ॥ ४८ ॥

सप्ताहे वा न वाहे वा ध्वजारोहणमुच्यते ।
एवं कृते महाशान्ति राजराष्ट्रसुखावहम् ॥ ४९ ॥

एवं यः कुरुते मर्त्यः शिवलोकं स गच्छति ॥ ४९ � ॥

इति वीरतन्त्रे संहारमूर्तिप्रतिष्ठविधिः चतुष्षष्टितमः पटलः ॥ ६४ ॥