स्थिति मूर्तिप्रतिष्ठां च कीदृशानीह शास्त्रके ।
वक्तुमर्हसि देवेश अनुग्रहार्थं प्रभो ! मम ॥ १ ॥
ईश्वरः ॥
तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! ।
रोहिणी च पुनवस्वे तिष्ये मृगशिरस्तथा ॥ २ ॥
हस्तं च रेवती चैव स्वाती चैत्र त्रिरुत्तरा ।
स्थिरराशौ च कर्तव्यम् उभयोरपि कारयेत् ॥ ३ ॥
अष्टमे चेद्ग्रहास्सर्वे न कुर्वीत कदाचन ।
ऋषभं वाहनं चैव अर्धनारी तथैव च ॥ ४ ॥
किरातं चैव वीरेशं भिक्षाटनं तथैव च ।
एते तु पञ्चमूर्तिश्च स्थितिमूर्तिरुदाहृता ॥ ५ ॥
प्। २८८)
प्रासादस्याग्रतः कुर्यान् मण्टपं चतुरश्रकम् ।
पञ्चषट् सप्तहस्तं वा अष्टहस्तं नवं तथा ॥ ६ ॥
क्रमुकं वैणवं वापि केतकी नालिकेरकम् ।
अवक्रं निर्व्रणं कृत्वा पङ्क्तिमानमथोच्छ्रयम् ॥ ७ ॥
आम्रशाखाभिराच्छाद्य वितानध्वज संयुतम् ।
ध्वजमध्ये लिखेत्तत्र लोकपालस्य वाहनम् ॥ ८ ॥
यथा क्रमेण विन्यस्य तत्तद्देशेषु (देशि)कः ।
दर्भमालाभिराच्छाद्य मुक्तादामैरलङ्कृतम् ॥ ९ ॥
मध्यमे वेदिकां कुर्यात् परितः कुण्डमुच्यते ।
पूर्वे तु चतुरश्रं तु अग्नेरश्वत्थपत्रवत् ॥ १० ॥
याम्यायां चतुरश्रं च त्रिकोणं निर्-ऋतिगोचरे ।
वृत्तं तु वारुणे चैव वायव्यां पञ्चकोणकम् ॥ ११ ॥
पद्मं सोमे च विन्यस्य ऐशान्यां सप्तकोणकम् ।
इन्द्रईशानयोर्मध्ये अष्टकोणं तु कारयेत् ॥ १२ ॥
एकासने पद्मेन्धयो योनिः स्यात्तु विदिक्षु च ।
ईशान इन्द्रयोर्मध्ये षट्कोणं वृषभं न्यसेत् ॥ १३ ॥
ऋषभं वाहनं प्रोक्तम् अर्धनारीं शृणुष्वथ ।
पूर्वादिषु चतुर्दिक्षु कुण्डं स्याच्चतुरश्रकम् ॥ १४ ॥
आग्नेयादि चतुर्दिक्षु योन्याकारादि कारयेत् ।
अर्धनारीश्वरं प्रोक्तं किरातार्जुनमुच्यते ॥ १५ ॥
प्। २८९)
चतुरश्रं च योनिं च धनुश्चैव त्रिकोणकम् ।
वृत्तपञ्चाश्रपद्मं च सप्तकोणाष्टकोणकम् ॥ १६ ॥
पूर्वादीशानपर्यन्तम् अष्टकोणं तु मध्यमे ।
सहासने तु विप्रेन्द्र ! आग्नेयादिषु योनिकम् ॥ १७ ॥
(वृत्तपञ्चाश्र पद्मं च पद्मं च सप्तकोणकम्) ।
किरातार्जुनमेवोक्तं वीरेशं शृणु तत्वतः ॥ १८ ॥
चतुरश्रं धनुर्वृत्तं पद्मं चैव चतुर्दिशि ।
अश्वत्थं च त्रिकोणं च पञ्चाश्रं चाष्टकोणकम् ॥ १९ ॥
आग्नेयादि न्यसेदेतान् इन्द्र ईशानमध्यमे ।
सप्तकोणं भवेत्कुण्डं वीरेशमधुनोच्यते ॥ २० ॥
वीरेशवत्कृतं कुण्डं भिक्षाटनस्य चैव हि ।
सोम ईशानयोर्मध्ये हरिणां वृत्तकुण्डकम् ॥ २१ ॥
इन्द्र आग्नेययोर्मध्ये भूतकुण्डं त्रिकोणवत् ।
एवमेव क्रमेणैव कुण्डं कुर्याद्विचक्षणः ॥ २२ ॥
रत्नन्यासं प्रकर्तव्यम् आचार्यः शिल्पिभिस्सह ।
रत्नन्यासं प्रकर्तव्यं सत्यकस्य पदेऽथवा ॥ २३ ॥
शालिना विकिरेत्तत्र तण्डुलं च तिलं न्यसेत् ।
नववस्त्र समायुक्तां प्रतिमां तत्र विन्यसेत् ॥ २४ ॥
माणिक्यं मध्यमे स्थाप्य परितः स्थापयेत्क्रमात् ।
इन्द्रनीलं च वैडूर्यं स्फटिकं मरकतं तु वा ॥ २५ ॥
प्। २९०)
पद्मरागं प्रवालं च वज्रं मौक्तिकमुच्यते ।
पूर्वादिषु न्यसेदेतान् पञ्चब्रह्म समुच्चरन् ॥ २६ ॥
सिंहासनस्य देव्याश्च रत्नन्यासं च कारयेत् ।
अर्धनारीश्वरं चैव शिवभागे तु विन्यसेत् ॥ २७ ॥
सुस्निग्धं कारयेत् तत्र क्षालयेत् प्रतिमां ततः ।
नयनं मोक्षणं कुर्यान् नेत्रयुग्मयुते दिने ॥ २८ ॥
आदित्यस्य पदे चैव नेत्रमोक्षणमुच्यते ।
शाल्योपरि न्यसेद् देवं प्रच्छन्नपटसंयुतम् ॥ २९ ॥
सुवर्णसूचिना युक्तं शिल्पिना चक्षुर्मोक्षणम् ।
शिल्पिनं पूजयेत् तत्र शिल्पिनं तु विसर्जयेत् ॥ ३० ॥
अन्यवस्त्रं प्रकुर्याथ पुण्याहं वाचयेत् ततः ।
पूर्वादीशानपर्यन्तं कलशानष्ट विन्यसेत् ॥ ३१ ॥
सवस्त्रान् सापिधानांश्च सहिरण्यान् सकूर्चकान् ।
हिरण्य नखदूर्वा च घृतपात्रमपात्रकम् ॥ ३२ ॥
आचार्यश्च शुचिर्भूत्वा नववस्त्रसमन्वितः ।
पञ्चाङ्गभूषणैर्युक्तः प्रोक्षयेत् प्रतिमां ततः ॥ ३३ ॥
अक्षिहोमं ततः कृत्वा प्रतिमाग्रे विशेषतः ।
आज्येन चरुणा चैव नेत्रेणैव शताहुतिः ॥ ३४ ॥
हिरण्यनखदूर्वा च नेत्रस्पर्शं च वामतः ।
मध्वाज्यं तर्पयेद् धीमान् नेत्रमन्त्रसमन्वितम् ॥ ३५ ॥
प्। २९१)
मधुना पूरितं पात्रं मधुवातेति तर्पयेत् ।
घृतमिक्षे घृतं तर्प्य सवत्साङ्गां प्रदर्शयेत् ॥ ३६ ॥
ब्रह्मजज्ञानमन्त्रेण ब्राह्मणान् दर्शयेत् ततः ।
प्रच्छन्नपटमावर्ज्य जनान् सर्वान् प्रदर्शयेत् ॥ ३७ ॥
एकासनगते वापि तत् तन्मन्त्रेण दर्शयेत् ।
पवमानं समुच्चार्य पञ्चगव्याभिषेचनम् ॥ ३८ ॥
पञ्चब्रह्मेण संयुक्तं शुद्धतो येन स्नापयेत् ।
ग्रामप्रदक्षिणं कुर्याद् रथे वा शिबिकेऽपि वा ॥ ३९ ॥
सर्वचिह्नसमायुक्तं गेयनृत्तादिशोभितम् ।
नदीतटाकतीरे वा गोमयेनानुलेपयेत् ॥ ४० ॥
स्नापयेत् पञ्चगव्येन व्योमव्यापि समुच्चरन् ॥ ४१ ॥
गन्धपुष्पादिनाभ्यर्च्य जले चैवाधिवासयेत् ।
स वस्त्र परिधानेन कूर्चेनैवच्छादयेत् ॥ ४२ ॥
प्रतिमां कण्ठदघ्ने च जले चैवाधिवासयेत् ।
प्रपां कृत्वा तु विप्रेन्द्र ! कलशानष्ट विन्यसेत् ॥ ४३ ॥
स वस्त्रान्सहिरण्यांश्च विद्येश्वराधिदेवतान् ।
एकरात्रं त्रिरात्रं वा पञ्चरात्रमथापि वा ॥ ४४ ॥
जलादुत्तीर्य पूर्वेद्युः प्रविशेन्मण्टपं पुनः ।
वास्तुहोमं दिवा कुर्याल्लक्षणेन समन्वितम् ॥ ४५ ॥
प्। २९२)
पुष्पदन्तपदे स्थाप्य पञ्चगव्याभिषेचनम् ।
व्योमव्यापि समुच्चार्य स्नापयेद्गन्धतोयकैः ॥ ४६ ॥
स्वर्णसूत्रम संयुक्तं बन्धयेत् कौतुकं हृदा ।
सर्वगन्धं समालोढ्य लेपयेत् प्रतिमां ततः ॥ ४७ ॥
नववस्त्रेण सञ्छाद्य कूर्चेनैव समन्वितम् ।
शालिना विकिरेद्बेदिं भारद्वय समन्वितम् ॥ ४८ ॥
शाल्यर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् ।
लाजैर्दर्भैश्च विकिरेद् अण्डजादीनि कल्पयेत् ॥ ४९ ॥
शयने शाययेद्देवं प्राक्शिरश्चोर्ध्ववक्त्रकम् ।
वस्त्रेणैवोर्ध्वमाच्छाद्य व्योमव्यापि षडङ्गकैः ॥ ५० ॥
प्रतिमस्यैशदिग्भागे शिवकुम्भं च वर्धनीम् ।
स्थापयेच्छिवकुम्भं तु वर्धनीं स्थापयेच्छिवम् ॥ ५१ ॥
पूर्वोक्तेन तु मन्त्रेण सवस्त्रं पञ्चरत्नकम् ।
पूर्वादीशान पर्यन्तम् अष्टकुम्भान्न्यसेत्ततः ॥ ५२ ॥
स वस्त्रान्सापिधानांश्च विद्येश्वराधिदेवतान् ।
तस्य बाह्ये तु परितो लोकपाल घटान्न्यसेत् ॥ ५३ ॥
गन्धपुष्पादिनाभ्यर्च्य स्वस्वमूलेन देशिकः ।
एकासनस्थ देव्याश्च अन्तरालाश्च वर्धनी ॥ ५४ ॥
प्रतिमाद्दक्षिणे भागे प्रतिकुम्भं न्यसेत्ततः ।
अश्वत्थोदुम्बरप्लक्षवटं पूर्वादिदिक्षु च ॥ ५५ ॥
प्। २९३)
शमीखदिर बिल्वार्कं प्रधानाग्निं पलाशकम् ।
गौरी वृषभ कुण्डाभ्यां पलाशेनैव हूयते ॥ ५६ ॥
समिदाज्य चरूणां च सक्थुमाषतिलानि च ।
यवसर्षप संयुक्तं नवद्रव्यं च हूयते ॥ ५७ ॥
समिधानीशमन्त्रेण आज्यं वामेन हूयते ।
पुरुषेण चरुं हुत्वा लाजान्घोरेण चैव हि ॥ ५८ ॥
सक्तुं च सद्यमन्त्रेण माषं हृदयमेव च ।
तिलान्वै शिरोमन्त्रेण अष्टोत्तरशताहुतिः ॥ ५९ ॥
पञ्चब्रह्मषडङ्गैश्च स्वस्वमन्त्रेण हूयते ।
आद्याक्षरं तु हृस्वं च दीर्घं ब्रह्माङ्ग मुच्यते ॥ ६० ॥
त्र्यम्बकेन घृतं हुत्वा देवस्य त्वा चरुं हुनेत् ।
द्रव्यान्ते व्याहृतिं हुत्वा स्पर्शयेत्प्रतिमां ततः ॥ ६१ ॥
प्रभाते विमले चैव स्नानं कृत्वा तु देशिकः ।
स्थिति न्याय प्रकारेण न्यासं कुर्याद्विशेषतः ॥ ६२ ॥
उपदेष्ट्रा च संयुक्तो मूर्तिपैस्सह देशिकः ।
पूर्णाहुतिं ततो हुत्वा सर्वद्रव्य समन्वितम् ॥ ६३ ॥
हव्यवाहं समुच्चार्यं स्विष्टमग्नेति मन्त्रतः ।
ईशानेन तु मन्त्रेण कुर्यात् पूर्णाहुतिं ततः ॥ ६४ ॥
आचार्य दक्षिणां दद्यात् पूर्वोक्तविधिना ततः ।
उपदेष्टा मूर्तिपांश्चैव पदार्थीन् सर्वांश्च पूजयेत् ॥ ६५ ॥
प्। २९४)
उत्थापयेत्तु प्रतिमां स्नानवेद्युपरि न्यसेत् ।
स्थितिमार्ग प्रकारेण अष्टत्रिंशत्कलशान् न्यसेत् ॥ ६६ ॥
आसनं कल्पयेत् तत्र * * * * * * चकम् ।
गेयनृत्तादिसर्वांश्च प्रासादं च प्रदक्षिणम् ॥ ६७ ॥
पञ्चब्रह्म षडङ्गेन व्योमव्यापि समुच्चरेत् ।
प्रासादेन प्रतिष्ठाप्य गन्धपुष्पादिनार्चयेत् ॥ ६८ ॥
स्नापयेच्छिवकुम्भाद्यैः स्वस्वमूलेन मन्त्रतः ।
गन्धपुष्पादिनाभ्यर्च्य वस्त्रैराभरणैरपि ॥ ६९ ॥
पञ्चवर्णहविर्दद्यात् ताम्बूलं दापयेत्ततः ।
ब्राह्मणान्भोजयेत्तत्र शैवान्सम्भोजयेत्ततः ॥ ७० ॥
स्थितिमूर्तिरिदं प्रोक्तं संहारस्थापनं शृणु ॥ ७० � ॥
इति वीरतन्त्रे स्थितिमूर्तिप्रतिष्ठा त्रिषष्टितमः पटलः ॥ ६३ ॥