६२

शिवं प्रणम्य विधिवत् पर्यपृच्छत्पितामहः ।
सृष्टिमूर्तिप्रतिष्ठां तु ब्रूहि मे परमेश्वर ! ॥ १ ॥

प्। २७४)

ईश्वरः ॥

तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! ।
उमास्कन्दहितं चैव सुखासनं तथैव च ॥ २ ॥

कल्याणसुन्दरं चैव चन्द्रशेखरमेव च ।
गङ्गाधरं च पञ्चैते सृष्टिरूपमिहोच्यते ॥ ३ ॥

एतेषां स्थापनं वक्ष्ये लक्षणेन समन्वितम् ।
प्रतिरूपसर्गं पूजा च तिष्ठा गति निवृत्ति च ॥ ४ ॥

उमा पूजा ईश्वरो गृह्णाति यथा प्रतिष्ठा ।
यमरोहिण्यादित्य पुष्येन्दु हस्त पौष्ण त्रिरुत्तरा ॥ ५ ॥

स्वती च स्थापनेषूक्ता अष्टमे ग्रहवर्जिता ।
स्थिरराशौ प्रकर्तव्यम् उभराशावथापि वा ॥ ६ ॥

पूर्वोक्त विधिना चैव अङ्कुरार्पण मुच्यते ।
प्रतिष्ठा नक्षत्र पूर्वे तु अङ्कुरानर्पयेत्ततः ॥ ७ ॥

नवाहे चैव सप्ताहे पञ्चाहे वा विशेषतः ।
प्रासादस्याग्रतश्चैव मण्डपं कारयेत्ततः ॥ ८ ॥

पञ्चषट् सप्तहस्तं तु दशहस्तं तु मध्ययम् ।
एकादश द्वादशकरं त्रयोदशकरं तथा ॥ ९ ॥

दशपञ्चकरं वापि उत्तमत्रयमुच्यते ।
ऋषिच्छन्दो देवतानां वक्ष्यामि सुरसत्तम ! ॥ १० ॥

व्यासं चैव वसिष्ठं च जामदग्न्यं च काश्यपम् ।
भारद्वाजो भृगुश्चैव तथाङ्गिरसगौतमाः ॥ ११ ॥

प्। २७५)

मण्टपानां क्रमाद्विप्र छन्दसं शृणु सुव्रत ! ।
तृष्टुप् चानुष्टुप् च * * * * * प्रकृतिस्तथा ॥ १२ ॥

जगती चत्वरी चैव अतिचत्वरिरेवं च ।
उत्तमोत्तममेवं तु छन्दसानां विधीयते ॥ १३ ॥

इन्द्रश्चाथ कुबेरश्च सोमश्च वरुणस्तथा ।
विघ्नेशश्च कुबेरश्च ब्रह्मा विष्णुर्महेश्वरः ॥ १४ ॥

एतेषां देवतानां तु मण्डपस्याधिदेवताः ।
क्रमाद् ज्ञात्वा तु विप्रेन्द्र ! कारयेद्विधि पूर्वकम् ॥ १५ ॥

स्तम्भं कृष्णशिला चैव अथवान्यशिलान्यपि ।
दारुणा च प्रकर्तव्यं शिल्पिना लक्षणैर्युतम् ॥ १६ ॥

बकुलं च शिरीषं च याज्ञिकं वृक्षमेव वा ।
आसनं चापि वृक्षं वा क्रमुकं वैष्णवं तु वा ॥ १७ ॥

पनसं नालिकेरं वा केत * * * * * ।
अवक्रं निर्व्रणं चैव पुषकोटर वर्जितम् ॥ १८ ॥

गात्रात्सङ्गृह्य यत्नेन पङ्क्तिमानमथोच्छ्रयम् ।
कूटं वा मण्टपं वापि प्रपां वापि च कारयेत् ॥ १९ ॥

क्रमुकं नालिकेरं वा आर्द्रशाखेन पातयेत् ।
एवं वै मण्टपं कृत्वा मध्ये वेदिं तु कल्पयेत् ॥ २० ॥

तस्यैव परितः कुण्डान् कल्पयेत्तु विशेषतः ।
चतुरश्रार्धचन्द्रं च वृत्तं पद्मं तथैव च ॥ २१ ॥

प्। २७६)

पूर्वादीनि चतुर्दिक्षु कोणे योन्याकृतिर्भवेत् ।
ईशान इन्द्रयोर्मध्ये षट्कोणमिति कथ्यते ॥ २२ ॥

उमास्कन्दहितं प्रोक्तं स्कन्दकुण्डं विना कुरु ।
उमासहितमेवोक्तम् एकासनस्थितेऽपि च ॥ २३ ॥

सुखासीनस्य देवस्य कुण्डानां शृणु पद्मज ! ।
चतुरश्रं च योनिं च त्रिकोइणं वृत्तमेव वा ॥ २४ ॥

पञ्चाग्रं चैव पद्मं च अष्टाश्रं कल्पयेत्क्रमात् ।
ईशान इन्द्रयोर्मध्ये सप्तकोणं तु कारयेत् ॥ २५ ॥

सुखासनं मया प्रोक्तं कल्याणं च शृणुष्वथ ।
पूर्वादीशाच्चतुर्दिक्षु वेदाश्रं कुण्डमुच्यते ॥ २६ ॥

कोणेषु वृत्तकुण्डं च शिवाग्निं पञ्चकोणकम् ।
कल्याण सुन्दरं प्रोक्तं चन्द्रशेखरमुच्यते ॥ २७ ॥

चतुरश्रं धनुर्वृत्तं कुण्डं चैव चतुर्दिशि ।
कोणेषु वृत्तकुण्डं तु शिवाग्निं चाष्टकोणकम् ॥ २८ ॥

गङ्गाधरस्वरूपस्य कुण्डं वक्ष्यामि सुव्रत ! ।
सुखासनवद्दिक्ष्वष्टौ शिवाग्निं चाष्टकोणकम् ॥ २९ ॥

एतेषां देवतानां तु भिन्नासनमिहोच्यते ।
एकासनस्थितादेव्या योन्याकारं विदिक्षु वै ॥ ३० ॥

एवमेव क्रमेणैव कुण्डं कुर्यात्तु पद्मज ! ।
वितानैश्चोर्ध्वमाच्छाद्य अष्टदिक्षु ध्वजान्न्यसेत् ॥ ३१ ॥

प्। २७७)

गजाजमहिषाः सिंह मत्स्यकृष्णाश्व गोवृषाः ।
ध्वजमध्ये लिखित्वा तु अष्टदिक्षु च विन्यसेत् ॥ ३२ ॥

प्रथमं रत्नविन्यासं द्वितीयं नयनमोक्षणम् ।
तृतीयं प्रतिमाशुद्धिः चतुर्थं ग्रामप्रदक्षिणम् ॥ ३३ ॥

जलाधिवासनं पञ्च षष्ठं वै मण्टपं ततः ।
सप्तमं शयनं चैव अष्टमं होममेव च ॥ ३४ ॥

नवमं दक्षिणादानं दशमं स्थापनं भवेत् ।
दशरिमम्मिह प्रोक्तं तेषां भेदं शृणुष्वथ ॥ ३५ ॥

पूर्वोक्तमण्टपे चैव सत्यकस्य पदेऽथवा ।
गोमयालेपनं कृत्वा शालिना विकिरेत्ततः ॥ ३६ ॥

शाल्यर्धतण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् ।
परिस्तरेत्तु दर्भैश्च नववस्त्रेण छादितम् ॥ ३७ ॥

तस्योपरि न्यसेत्पीठम् अवटं नव कारयेत् ।
ब्राह्मिके तु न्यसेद्वज्रम् इन्द्रनीलं तु पूर्वतः ॥ ३८ ॥

मरकतं वह्निदेशे तु वैडूर्यं दक्षिणे ततः ।
नैर्-ऋत्यां पुष्परागं तु मौक्तिकं वारुणे न्यसेत् ॥ ३९ ॥

वायव्यां स्फटिकं प्रोक्तं प्रवालं सौम्यदेशतः ।
ईशान्यां तु महानीलम् एवं देवस्य विन्यसेत् ॥ ४० ॥

देवीं चैव न कर्तव्यं रत्नन्यासं विशेषतः ।
चतुर्दिक्षु च मध्ये च स्वर्णानि निक्षिपेत्ततः ॥ ४१ ॥

प्। २७८)

स्कन्दस्य हेमं विन्यस्य सुस्निग्धं कारयेत्ततः ।
प्रतिमां क्षालयेत्तत्र आम्वेनं वारिणा पुनः ॥ ४२ ॥

नयनं मोक्षणं कुर्यान् नेत्रद्वययुते दिने ।
आदित्यस्य पदे चैव नेत्रमोक्षणमुच्यते ॥ ४३ ॥

स्थण्डिलं कारयेत्तत्र अष्टद्रोणेन शालिना ।
तण्डुलं च तदर्धं च तदर्धं तिलमेव च ॥ ४४ ॥

तस्यो परिन्यसेद्वस्त्रं दर्भैश्चैव परिस्तरेत् ।
उमा स्कन्दसहितं न्यस्य तस्योपरि विशेषतः ॥ ४५ ॥

प्रच्छन्न पटसंयुक्तं पुण्याहं वाचयेत्ततः ।
ताम्रपात्रेऽथवा कांस्ये मध्वाज्यं चैव निक्षिपेत् ॥ ४६ ॥

स्वर्णेन सूचिना युक्तं प्रहरं तत्र विन्यसेत् ।
अभितः कलशानष्टौ पूर्वादीशान्तं विन्यसेत् ॥ ४७ ॥

शुद्धोदकेन सम्पूर्य ससूत्रान्वस्त्र संयुतान् ।
ससूत्रान्सापिधानांश्च लोकपालाधिदेवतान् ॥ ४८ ॥

शिल्पिना प्रहरेत्तत्र पक्ष्मरेखां विशेषतः ।
कृष्णमण्डलमालिख्य ज्योतिर्मण्डलमालिखेत् ॥ ४९ ॥

शिल्पिनं पूजयेत्तत्र पुण्याहं वाचयेत्तत्र ।
सुवर्णनख संयुक्तं हेमदूर्वा समन्वितम् ॥ ५० ॥

नेत्रमन्त्रमनु स्मृत्यं स्पर्शयेन्नेत्रमेव च ।
अक्षिहोमं ततः कुर्यात् तस्याग्रे तु विशेषतः ॥ ५१ ॥

प्। २७९)

प्रतिमस्याग्रतश्चैव स्थण्डिलं तु त्रिधा भवेत् ।
पूर्वोक्तेनैव मार्गेण अग्निमुखं च कारयेत् ॥ ५२ ॥

आज्येन चरुणा चैव नेत्रमन्त्रेण हूयते ।
अष्टोत्तरशतेनैव प्रत्येकं हूयते क्रमात् ॥ ५३ ॥

उत्तरे चैव विप्रेन्द्र ! गौरी नेत्रेण हूयते ।
मध्यमे स्कन्दमेवं तु स्कन्दमन्त्रेण हूयते ॥ ५४ ॥

तत्काले दक्षिणां दद्यात् पवमानेन प्रोक्षयेत् ।
स्वर्णेन नखदूर्वेणमध्वाज्यं तु तर्पयेत् ॥ ५५ ॥

मधुवाता ऋतायेति मधु चैव तु तर्पयेत् ।
घृतमिक्षेति मन्त्रेण घृतं चैवं तु तर्पयेत् ॥ ५६ ॥

दर्शयेत्तु सवत्साङ्गां गौर्धेनुर्भव्यमन्त्रतः ।
ब्राह्मणान्दर्शयेत्तत्र ब्रह्मजज्ञानमन्त्रतः ॥ ५७ ॥

दर्शयेत्सप्तकन्याश्च उमादेवीं विशेषतः ।
दर्शयेद्ब्रह्मचारींश्च स्कन्दस्यैव तु देशिकः ॥ ५८ ॥

ब्रह्मजज्ञान मन्त्रेण प्रासादेन तु दर्शयेत् ।
आपोहिष्ठेति सम्प्रोक्ष्य अर्घ्य संयुतमेव च ॥ ५९ ॥

प्रच्छन्नपटमावर्ज्य जनान्सर्वान्प्रदर्शयेत् ।
पञ्चगव्य समायुक्तम् अभिषेकं तु कारयेत् ॥ ६० ॥

सत्यकस्य पदे चैव प्रतिमास्थान मुच्यते ।
शुद्धैरुत्थेति मन्त्रेण शुद्धोदकेन स्नापयेत् ॥ ६१ ॥

प्। २८०)

पुण्याहं वाचयेत्तत्र पवमानेन प्रोक्षयेत् ।
ग्रामप्रदक्षिणं कुर्यात् सर्वालङ्कारसंयुतम् ॥ ६२ ॥

रङ्गे वा शिबिकायां वा आरोप्य प्रतिमां ततः ।
गीतवाद्य समायुक्तं शङ्खकाहल संयुतम् ॥ ६३ ॥

नानाध्वज समायुक्तं नानापिञ्छसमन्वितम् ।
नानाभक्तजनैस्सार्धं कुर्याद्ग्रामप्रदक्षिणम् ॥ ६४ ॥

नन्द्यादीन्प्रविशेत्तत्र जलाधिवासनं कुरु ।
नदीतटाकतीरे वा ह्रदे गत्वा विशेषतः ॥ ६५ ॥

तीरे समतलं कृत्वा गोमयेनानु लेपयेत् ।
शालिना स्थण्डिलं कृत्वा प्रतिमां तत्र विन्यसेत् ॥ ६६ ॥

अपनीय च निर्माल्यं प्रतिमां स्नापयेत्ततः ।
नववस्त्रेण संवेष्ट्य कूर्चेनैव समन्वितम् ॥ ६७ ॥

प्रतिमां चैव विप्रेन्द्र ! जले चैवाधिवासयेत् ।
चतुर्द्वार समायुक्तं प्रपां कृत्वा विशेषतः ॥ ६८ ॥

पूर्वादीशानपर्यन्तं कलशानष्ट विन्यसेत् ।
स वस्त्रान्सापिधानांश्च विद्येश्वर समन्वितान् ॥ ६९ ॥

लोकपालबलिं दद्याद् दिनं प्रति विशेषतः ।
एकरात्रं त्रितात्रं वा पञ्चरात्रमथापि वा ॥ ७० ॥

दीपहीनं भवेद् व्याधिः तस्माद्दीपं समाचरेत् ।
वास्तुहोमं दिवा कुर्याल्लक्षणेन समन्वितम् ॥ ७१ ॥

प्। २८१)

दिनान्ते चैव विप्रेन्द्र ! जलादुत्तीर्य देशिकः ।
आलयं प्रविशेत्तत्र पुष्पदन्तपदे स्थितः ॥ ७२ ॥

स्नापयेत्पञ्चगव्येन व्योमव्यापि समुच्चरन् ।
गौरीबीजेन देव्याथ गुहं वै स्कन्दबीजतः ॥ ७३ ॥

शुद्धोदकेन स्नात्वा तु स्नापयेद्गन्धपूर्वकम् ।
उशीरं चन्दनं चैव एलालवङ्ग संयुतम् ॥ ७४ ॥

सुवर्णसूत्रं कार्पासं बन्धयेत्कौतुकं पुनः ।
ततोऽधिवासनं कुर्याल्लक्षणेन समन्वितम् ॥ ७५ ॥

षोडशद्रोण संयुक्तं शालिना विकिरेत्ततः ।
तदर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् ॥ ७६ ॥

पद्ममष्टदलं लिव्य दर्भैश्चैव परिस्तरेत् ।
तोरणानर्चयेत्तत्र द्वारकुम्भांश्च विन्यसेत् ॥ ७७ ॥

वेदि बाह्ये तु परितो दशकुम्भांश्च विन्यसेत् ।
सवस्त्रान्सापिधानांश्च लोकपालाधिदेवतान् ॥ ७८ ॥

अर्चयेद्गन्धपुष्पाद्यैः नैवेद्यं दापयेत्ततः ।
शयनं पञ्चभिः कल्प्य अण्डजाद्यैरनुक्रमात् ॥ ७९ ॥

पक्षिणां पिञ्छसंयुक्तं रसज्ञं सम्प्रकीर्तितम् ।
क्षौमं कार्पासजं वायं मुण्डजस्येति कीर्तितम् ॥ ८० ॥

रत्नकम्बल संयुक्तं रोमजस्य प्रकीर्तितम् ।
वृक्षत्वचानुकर्तव्यं चर्मजं तद्विधीयते ॥ ८१ ॥

प्। २८२)

कौशेयं वामजं प्रोक्तं शयनं पञ्च उच्यते ।
पञ्चब्रह्मेण मन्त्रेण शयनं पञ्च कल्पयेत् ॥ ८२ ॥

नववस्त्रेण संवेष्ट्य प्रच्छादयेत्तु कौतुकम् ।
प्रच्छादनेन संयुक्तं शयने शाययेच्छिवम् ॥ ८३ ॥

गौरीबीजेन देव्यास्तु स्कन्दमूल गुहान्न्यसेत् ।
प्राक्शिरः पश्चिमे पादं विन्यसेद्देशिकोत्तमः ॥ ८४ ॥

पिधाय नववस्त्रेण गन्धपुष्पादिनार्चयेत् ।
नवकुम्भान्समादाय त्रिसूत्रैर्वेष्टयेत्ततः ॥ ८५ ॥

शुद्धोदकेन सम्पूर्य शरावेण पिधाय च ।
पञ्चरत्न समायुक्तं वस्त्रयुग्मेन वेष्टयेत् ॥ ८६ ॥

प्रतिमस्येशदिग्भागे प्रासादेन तु मन्त्रतः ।
पञ्चब्रह्मेण संयुक्तं शिवकुम्भं च विन्यसेत् ॥ ८७ ॥

वर्धनीं तस्य वामे तु गौरीबीजेन संयुतम् ।
स्कन्दकुम्भं न्यसेन्मध्ये स्कन्दमूलेन मन्त्रतः ॥ ८८ ॥

तत्तद्बीजं न्यसित्वा तु तदाचार्यं विशेषतः ।
स वस्त्रान्सापिधानांश्च सहिरण्यान्सकूर्चकान् ॥ ८९ ॥

अष्टविद्येश्वरांश्चैव पूर्वादिषु च विन्यसेत् ।
अम्बिकां च उमादेवीम् ईशपत्नीं तथैव च ॥ ९० ॥

गणाम्बिका च संयुक्तं स्कन्दमाता तथैव च ।
प्रज्ञां चागसुतां चैव पार्वती च तथैव च ॥ ९१ ॥

प्। २८३)

अन्तराले न्यसेद्देवान् वर्धन्यां च विशेषतः ।
कुमारं च गुहं चैव सुब्रह्मण्यं तथैव च ॥ ९२ ॥

सेनापतिं सुराग्रं च हरसूनुं तथैव च ।
शरवणोद्भवं चैव कार्तिकेयं च विन्यसेत् ॥ ९३ ॥

एवमेव कमान्न्यस्य तत्रादार्यकैस्सह ।
गन्धैः पुष्पैश्च धूपैश्च स्वस्वबीजेन पूजयेत् ॥ ९४ ॥

सुवर्णेनैव कर्तव्यम् आयुधानां च विन्यसेत् ।
एलालवङ्गकर्पूर तिम्बुजातीफलं मुरम् ॥ ९५ ॥

लघुमां चैव संयुक्तं कुम्भमध्ये विनिक्षिपेत् ।
वर्धन्यां सुदकुम्भेषु एवमेव क्रमान्न्यसेत् ॥ ९६ ॥

हविर्निवेदयेत्पश्चात् प्रत्येकं तु विधीयते ।
ततो होमं प्रकुर्वीत लक्षणेन समन्वितम् ॥ ९७ ॥

पलाशं पूर्वतो भागे अश्वत्थं दक्षिणे तथा ।
पश्चिमे चक्रवृक्षस्तु उदुम्बरं तु चोत्तरे ॥ ९८ ॥

ईशान इन्द्रयोर्मध्ये पलाशसमिधायुतम् ।
शमी चैव अपामार्गं बिल्ववृक्ष समन्वितम् ॥ ९९ ॥

प्लक्षं चैव समायुक्तम् आग्नेयादि त्रिकोणके ।
सोम ईशानयोर्मध्ये पलाश समिधा तथा ॥ १०० ॥

समिदाज्य चरुं लाजान् सर्षपांश्च यवांस्तिलान् ।
मुद्गं माषं च विप्रेन्द्र ! नवद्रव्यमिहोच्यते ॥ १०१ ॥

प्। २८४)

समिधः सद्यमन्त्रेण आज्यं वामेन हूयते ।
अघोरेण चरुं हुत्वा लाजं तत्पुरुषेण तु ॥ १०२ ॥

सर्षपं त्वीशमन्त्रेण यवं हृदयमन्त्रतः ।
शिरसा च तिलं हुत्वा शिवमन्त्रेण मुद्गकम् ॥ १०३ ॥

माषं तु कवचेनैव घृतमिक्षे घृतं तथा ।
त्रियम्बकेन मन्त्रेण चरुं चैव तु हूयते ॥ १०४ ॥

आपोराजेति मन्त्रेण लाजहोमं तु कारयेत् ।
एवं क्रमेण होतव्यं तत्तन्मन्त्रेण देशिकः ॥ १०५ ॥

अष्टोत्तरशतं वापि पञ्चाशत्पञ्चविंशतिः ।
द्रव्यं प्रति विशेषेण होतव्यं देशिकोत्तमः ॥ १०६ ॥

शैवाचार्येण संयुक्तं होमकर्म तु कारयेत् ।
द्रव्यान्ते चैव द्रव्यान्ते प्रतिमां संस्पृशेत्ततः ॥ १०७ ॥

द्रव्यान्ते व्याहृतिं हुत्वा देवानामांश्च हूयते ।
चतुर्दिक्षु चतुर्वेदं कुर्यादध्ययनं ततः ॥ १०८ ॥

श्रीरुद्रं पूर्वतो भागे होतारश्चैव दक्षिणे ।
पश्चिमे चमकं प्राच्यां पवमानं तथोत्तरे ॥ १०९ ॥

चतुर्दिक्षु च गेहस्य गणिका नृत्तसंयुतम् ।
माहेश्वर समायुक्तं नृत्तं कृत्वा तु भक्तितः ॥ ११० ॥

सर्वद्रव्य समायुक्तं हव्यवाहं समुच्चरन् ।
स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरे ॥ १११ ॥

प्। २८५)

एवमेव क्रमेणैव रात्रौ होमं तु कारयेत् ।
ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः ॥ ११२ ॥

मन्त्रन्यासोक्तमार्गेण न्यासं कृत्वा तु बुद्धिमान् ।
सृष्टिरूप प्रतिष्ठायां सृष्टिन्यासमुदाहृतम् ॥ ११३ ॥

ततो वासन होमं तु प्रधानाग्नौ च होमयेत् ।
समिदाज्यचरुं लाजान् दत्वा पञ्चदशाहुतिः ॥ ११४ ॥

ईशानेन तु मन्त्रेण समिदा हूयते क्रमात् ।
आज्यं सद्येन होतव्यं हृदयेन चरुं हुनेत् ॥ ११५॥

लाजान्वामेन होतव्यं क्रमात्पञ्चदशाहुतिः ।
अन्यैर्होमं न कर्तव्यम् आचार्येणैव हूयते ॥ ११६ ॥

चित्तादीनि च वर्गाणि हूयतेऽत्र क्रमात्ततः ।
हुत्वान्ते तु यदस्येति पूर्णाहुति मथाचरेत् ॥ ११७ ॥

शिवोमास्कन्दकुण्डेषु होमयेद्देशिकोदयः (त्तमः) ।
आचार्यदक्षिणां दद्याद्यथा शास्त्रोक्त मार्गतः ॥ ११८ ॥

नववस्त्रेण संयुक्तः सोष्णीषस्सोत्तरीयकः ।
पञ्चाङ्गभूषणं दद्यात् शिखाकर्णे गले तथा ॥ ११९ ॥

हस्ताभ्यां पादयोश्चैव एते पञ्चाङ्ग उच्यते ।
अधमं दशनिष्कं तु मध्यमं द्विगुणं भवेत् ॥ १२० ॥

त्रिगुणं चोत्तमं प्रोक्तम् आचार्यस्य तु दक्षिणा ।
तदर्धमुपदेष्टा च वास्तुहोमं तदर्धकम् ॥ १२१ ॥

प्। २८६)

मूर्तिपानां तु सर्वेषां तदर्धं दक्षिणां ददेत् ।
दैवज्ञद्विगुणं तस्य दक्षिणां दापयेत्ततः ॥ १२२ ॥

अध्येतृतन्त्रजप्तॄणां मूर्तिपार्धं तु दक्षिणा ।
पर्यष्टि परिवाराणां यथा शक्त्या तु दक्षिणा ॥ १२३ ॥

दीक्षितः शिवयोगी च समया चैव पूजयेत् ।
सुमुहूर्ते सुलग्ने च देवमुत्थापयेत्ततः ॥ १२४ ॥

स्नानवेदीमनुप्राप्य फलकोपरि विन्यसेत् ।
घृतं शिरोर्पणं कृत्वा हेमदूर्वाङ्कुराक्षतैः ॥ १२५ ॥

घृतयुक्तं च देवस्य पादयोर्मूर्ध्नि निक्षिपेत् ।
मन्त्रन्यासोक्तमार्गेण पञ्चब्रह्मेण संयुतम् ॥ १२६ ॥

व्योमव्यापि समुच्चार्य प्रासादेन तु मन्त्रतः ।
ब्रह्ममङ्गेन संयुक्तं स्नापयेच्छिव कुम्भकम् ॥ १२७ ॥

वर्धनीं गौरी बीजेन स्नापयेत्तु विशेषतः ।
स्कन्दमूलेन विप्रेन्द्र ! स्कन्दकुम्भाभिषेचयेत् ॥ १२८ ॥

पूर्वादीशान पर्यन्तं स्थापयेत् स्थापितान् ।
वर्धनीं स्थापयेद्देव्याः सहासनगते यदि ॥ १२९ ॥

देशिकानां त्रयाणां च स्नापयेदेककालतः ।
स्नपनं कारयेत्तत्र नैवेद्यं दापयेत्ततः ॥ १३० ॥

ताम्बूलं दापयेत्पश्चाद् ब्राह्मणान्भोजयेत्ततः ।
भोजयेत्सप्तकन्याश्च ब्रह्मचारींश्च भोजयेत् ॥ १३१ ॥

प्। २८७)

बौद्धं चैवार्हतं चैव शैवं पाशुपतं तथा ।
कापालं पाञ्चरात्रं च षडैते समयाः स्मृताः ॥ १३२ ॥

आचण्डालान्तमन्नाद्यम् अस्मिन्नहनि दापयेत् ।
शैवान्सम्भोजयेत्तत्र समयान्भोजयेत्ततः ॥ १३३ ॥

रात्रौ महोत्सवं कुर्यात् पञ्चाहे सप्त एव वा ।
एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् ॥ १३४ ॥

आदौ यतत्रमाश्रित्य तच्छिष्येणैव कारयेत् ।
प्रतिष्ठाकरणं सर्वम् आचार्याय प्रदापयेत् ॥ १३५ ॥

इति वीरतन्त्रे सृष्टिमूर्तिप्रतिष्ठाविधिः द्वाषष्ठितमः पटलः ॥ ६२ ॥