पितामहः ॥
लिङ्गस्य लक्षणं सम्यक् प्रतिष्ठाविधिमेव वा ।
तत्सर्वं ब्रूहि मे नाथ ! श्रोतुमिच्छाम्यहं प्रभो ॥ १ ॥
ईश्वरः ॥
अथ वक्ष्यामि ते ब्रह्मन् लिङ्गलक्षणमुत्तमम् ।
शैलजं रत्नजं चैव धातुजं दारुजं तथा ॥ २ ॥
मृण्मयं क्षणिकं चेति षड्विधं लिङ्गमुच्यते ।
चतुर्विधं तु शैलं स्यात्सप्तधा रत्नजं तथा ॥ ३ ॥
अष्टधा धातुजं प्रोक्तं दारुजं षोडशोच्यते ।
मृण्मयं द्विविधं प्रोक्तं क्षणिकं सप्तधोच्यते ॥ ४ ॥
प्। २६४)
श्वेतं रक्तं तथा पीतं कृष्णं चैव चतुर्विधम् ।
शैलजं लिङ्गमाख्यातं द्रव्यस्य लक्षणमुच्यते ॥ ५ ॥
गोक्षीरसन्निभं चैव शङ्खकुन्देन्दुसन्निभम् ।
सुश्वेतं च समाख्यातं जयदं लक्षणान्वितम् ॥ ६ ॥
पीतं सुवर्ण सदृशं रजनी चूर्णसन्निभम् ।
शिलालक्षण संयुक्तं धनधान्य सुखप्रदम् ॥ ७ ॥
माषगुग्गुलु सङ्काशं महिषाक्षनिभं तथा ।
भृङ्गमुद्गसमाकारं पूज * * करी स्मृता ॥ ८ ॥
शिला कृष्णा तु सर्वेषां सर्वसिद्धिप्रदायिका ।
विप्रक्षत्रियवैश्यानाम् अपि धान्यसमृद्धिदा ॥ ९ ॥
द्विजानां च नृपाणां च शिलारक्ता जयप्रदा ।
श्वेता प्रातिपदा प्रोक्ता ब्राह्मणानां विशेषतः ॥ १० ॥
माणिक्यं च प्रवालं च वैडूर्यं स्फटिकं तथा ।
मरकतं पुष्परागं च नीलं चैव तु रत्नजा ॥ ११ ॥
माणिक्यं श्रीप्रदं प्रोक्तं प्रवालं वश्यकारणम् ।
आकर्षणे तु वैडूर्यं स्फटिकं पुत्रवृद्धिदम् ॥ १२ ॥
विद्वेषं मरकतं कुर्यात् स्तम्भनं पुष्परागकम् ।
नी * * * रणे कार्ये रत्नजानां फलं भवेत् ॥ १३ ॥
हेमं च श्रीप्रदं प्रोक्तं रौप्यं राज्यप्रदायकम् ।
ताम्रं पुत्रसमृद्ध्यर्थं कांस्यं विद्वेषकारकम् ॥ १४ ॥
प्। २६५)
प्रोच्चाटने चारकूटम् आयसं क्षयकारकम् ।
सीसकं रोगकरणं * * मायुष्यवर्धनम् ॥ १५ ॥
एवं धातुमयं प्रोक्तं ततो दारुजमुच्यते ।
देवदारु शमीवृक्षं पिप्पलं चन्दनं तथा ॥ १६ ॥
आसनं खदिरं चैव बकुली शिंशुपा तथा ।
मधूकपद्मडुण्डूक कर्णिकारस्तथैव च ॥ १७ ॥
तिन्दुको * * का चैव प्लक्षोदुम्बरकस्तथा ।
एते वर्गास्तु चत्वारो द्विजातिक्रमयोगतः ॥ १८ ॥
मृण्मयं द्विविधं प्रोक्तं पक्वापक्वप्रभेदतः ।
सैकतं गोमयं चान्नं पैष्टं गौलं फलं तथा ॥ १९ ॥
नवनीतं च सप्तैते क्षणिकाः समुदाहृताः ।
सैकतं मोक्षकामानां गोमयं रोगनाशनम् ॥ २० ॥
अन्नमन्नाद्यकामस्य पैष्टं पुष्टि प्रदायकम् ।
गौलं प्रीतिप्रदं प्रोक्तं फलमिष्टार्थ सिद्धिदम् ॥ २१ ॥
ह्लादं तु नवनीतं च क्षणिकानां फलं भवेत् ।
क्षणिकानां तु लिङ्गानां न कुर्यात्पीठबन्धनम् ॥ २२ ॥
प्रयाणकाशक्र नानान्तु शुभाशुभपरीक्षकाः ॥ २२ � ॥
विप्रस्य कन्या गजचित्रमांसं
सम्पूर्णकुम्भं च फलं प्रदीपम् ।
सितं च पुष्पं दधि गो वृषाश्च
ध्वजं च भेरी मुरजं शुभानि ॥ २३ � ॥
प्। २६६)
रिक्तकुम्भशवकेशविकीणाऽमङ्गली च खर प्रेतकरूपम् ।
सर्वशत्रु पतिताक्षय पीडा यात्रगशुभं सतता ॥ २४ � ॥
सुनिमित्तं भवेद्गच्छेद् दुर्निमित्तमहे स्थितिः ॥ २५ ॥
आचार्यः शिल्पिभिश्चैव वस्त्राभरणभूषितः ।
यस्मिन्देशे तथा कृत्वा प्राङ्मुखः स पथि स्थितः ॥ २६ ॥
ततः प्रदक्षिणीकृत्य दोषादोषौ परीक्षयेत् ।
याततपास्थिगन्धांश्च सङ्क्षिन्नाक्षर वारिणि ॥ २७ ॥
दुस्थानस्थांश्च सुस्थांश्च क्रमान्तर नियोजिता ।
वक्राश्चर्कराप्यं च क इक्षां झर्झरीदरीम् ॥ २८ ॥
रेखा बिन्दुकलङ्कांश्च वर्जयेत्तु शिलां बुधः ।
सूत्र पादवदाकारो रेखामिव त्रिधा स्मृता ॥ २९ ॥
खर्जूर पत्र सदृशाद् ऊर्ध्वस्तं समन्वितम् ।
वेणुङ्करवदाकारं लूतापादसमायुता ॥ ३० ॥
इक्षोरग्रसमाकारा हिरिका पञ्चधा स्मृता ।
कलङ्क कृष्णरोगाभं कृष्णाभूक सन्निभम् ॥ ३१ ॥
शिखि पञ्च समाकारं कलिकं त्रिविधं भवेत् ।
त्रासं स्फटिकसङ्काशं शुक्तिभ्यान्नरसन्निभा ॥ ३२ ॥
त्रासोपविविधो ज्ञेयो चतुर्थं बिन्दुरुच्यते ।
जम्बूफलसमाकारा स्नानचूच्चकसन्निभा ॥ ३३ ॥
बिन्दुरेखा समाख्यातं विमलं त्रिविधमुच्यते ।
विमलं हेमसदृशं कांस्यं लोहस्य सन्निभम् ॥ ३४ ॥
प्। २६७)
दरी कूपासमाकारा सर्वदोषकरा भवेत् ।
कृष्णे कृष्णानि नश्यन्ति श्वेते कृष्ण सुगन्धिता ॥ ३५ ॥
भिरिका कृष्णशैले तु सितवर्णेन दर्शिता ।
खर्जूरपत्र * * * दूर्वास्तम्बाकृतिः शुभा ॥ ३६ ॥
कन्याकृत न गृह्णाति धान्यगोनाशनाय च ।
कालकं रोगदं ज्ञेयं त्रासरं राष्ट्रवर्धनम् ॥ ३७ ॥
बिन्दुना पुत्रनाशः स्याद् विमलाः सर्वदुःखिताः ।
दरी विनाशयोर्धान्यं हन्ति तन्मले * * * ॥ ३८ ॥
एवं परीक्ष्य बहुधा कर्तव्यं लक्षणान्वितम् ।
एकवर्णाशिला ग्राह्या भुक्तिमुक्तिप्रदायिका ॥ ३९ ॥
गृह्यते बहुवर्णा चेत् सर्वदोषकरा भवेत् ।
स्त्रीपुं नपुंसका शैला बाला वृद्धा तु मध्यमा ॥ ४० ॥
सुभेदै * * त्रिभेदैर्लक्षयित्वा तु लक्षणम् ।
घण्टाशब्दात्तु पुल्लिङ्गाः स्वरहीना नपुंसकाः ॥ ४१ ॥
तालशब्दः शिलायां तु या शिला युवति स्मृता ।
दीर्घशब्दत या वृद्धा हृस्वा बाला इति स्मृताः ॥ ४२ ॥
पुल्लिङ्गेन भवेल्लिङ्गं लिङ्गं पिण्डिका भवेत् ।
पादाधानशिलां कुर्यान्नपुंसकेन विशेषतः ॥ ४३ ॥
प्रासादस्य वशाल्लिङ्गं लिङ्गमानेन हर्म्यकम् ।
यस्यगर्भ गृहार्धं तु लिङ्गं कन्यसमुच्यते ॥ ४४ ॥
प्। ३६८)
नवभागं तु पञ्चांशं मध्यमं लिङ्गमुच्यते ।
पञ्चभागं त्रिभागं तु उत्तमं लिङ्गमुच्यते ॥ ४५ ॥
रत्नलोहं विशेषेण ब्राह्मणादिक्रमान्न्यसेत् ।
श्रीप्रदं चैव सौवर्णं राजतं राज्यदं भवेत् ॥ ४६ ॥
ताम्रं पुत्रप्रदं ज्ञेयं कांस्यं वै पुष्टिकारणम् ।
रोगनाशमिदं ज्ञेयं पैत्तलं लिङ्गमुच्यते ॥ ४७ ॥
श्वभ्रेणरंह्लितं कृत्वा कर्तव्या चेद्विनाशनम् ।
अङ्गुल्यादीव तस्यान्तं सर्वेषां जातिरुच्यते ॥ ४८ ॥
रत्नलिङ्गं प्रवक्ष्यामि शृणुष्व चतुरानन ! ।
स्फटिकं मरकतं चैव माणिक्यं पद्मरागकम् ॥ ४९ ॥
मौक्तिकं च तथानीलं वैडूर्यं च प्रवालकम् ।
इन्द्रनीलं पुष्परागं वज्रं चैव तु कारयेत् ॥ ५० ॥
(निर्दोषं रत्नसंयुक्तं तथा लाभं तु पूजितम्) ।
स्वयोनिं पौष्टिकं ज्ञेयम् अन्योक्तं मोक्षकामदम् ॥ ५१ ॥
वज्राणां चैव सर्वेषां स्वप्रमाणेन कारयेत् ।
रत्नानां चैव सर्वेषां धातुजं पीठमुच्यते ॥ ५२ ॥
गोपुरं च चतुर्भागं श्वभ्रमेकांशतत्समम् ।
लिङ्गतारत्रिभागं तु पीठविस्तारमुच्यते ॥ ५३ ॥
पीठतारत्रिभागैकं गोमुखस्य तु दीर्घकम् ।
वृत्तं वा चतुरश्रं वा षोडशांशेन भाजितम् ॥ ५४ ॥
प्। २६९)
घृतवारिं तु चैकांशम् अध्यर्धांशेन पट्टिका ।
पद्मतुण्डं चतुर्थांशं द्वयंशं वलयं भवेत् ॥ ५५ ॥
अधः पद्मं तु पञ्चांशम् अध्यर्धांशेन पट्टिका ।
एवं पीठं समाख्यातं स्त्वानां फलमुच्यते ॥ ५६ ॥
स्फटिकं पुत्रवृद्धिः स्यान्मरकतं पुष्टिदं भवेत् ।
माणिक्यं मुक्तिदं ज्ञेयं पद्मरागं धनार्थकम् ॥ ५७ ॥
मौक्तिकं धनलाभं तु सर्वसिद्धिस्तु नीलकम् ।
वैडूर्यमायुर्वृद्धिः स्याद्राष्ट्रवश्यं प्रवालकम् ॥ ५८ ॥
स्तम्भनं पुष्परागं च आकर्षणं तु वज्रकम् ।
एवमेव क्रमेणैव ज्ञेयं रत्नस्य लक्षणम् ॥ ५९ ॥
बाणलिङ्गस्य विप्रेन्द्र ! सुप्रमाणेन कारयेत् ।
एवं द्विविधमाख्यातं चलस्थापनकं शृणु ॥ ६० ॥
रोहिण्यां च पुनवस्वे पुष्ये मृगशिरस्यथ ।
हस्ता च रेवती चैव स्वाती चैव त्रिरुत्तरा ॥ ६१ ॥
स्थिरराशौ तु कर्तव्यम् उभयोर्वाथ कल्पयेत् ।
प्रासादस्याग्रतः कुर्यान्मण्डपं चतुरश्रकम् ॥ ६२ ॥
षोडश स्तम्भ संयुक्तं गोमयेनानु लेपयेत् ।
शालिनास्थण्डिलं कृत्वा तस्योर्ध्वे पालिका न्यसेत् ॥ ६३ ॥
चतुर्दिक्षु च विप्रेन्द्र ! पालिका विन्यसेत्क्रमात् ।
नवाहैर्वापि सप्ताहैः पञ्चाहैर्वा विशेषतः ॥ ६४ ॥
प्। २७०)
अङ्कुरार्ण्यर्पयेत् पूर्वं पूर्वोक्तविधिना सह ।
प्रतिष्ठा मण्टपं कृत्वा पूर्वकल्पं तु वित्तमः ॥ ६५ ॥
नदीतीरेऽथ काष्ठे वा पर्वते वा विशेषतः ।
उद्याने शुद्धदेशे तु गृहे वापि विशेषतः ॥ ६६ ॥
त्रिहस्तं पञ्चहस्तं वा सप्तहस्तमथापि वा ।
षोडशस्तम्भ संयुक्तं मध्यमे वेदिका भवेत् ॥ ६७ ॥
चतुर्दिक्षु च ईशान्यां कुण्डं कुर्यात्तु देशिकः ।
यावदश्रं भवेत्पीठं तावदश्रं तु कुण्डकम् ॥ ६८ ॥
वृत्तपीठस्य लिङ्गस्य वृत्तकुण्डमिहोच्यते ।
मण्टपं भूषयेद्विद्वान् पूर्वोक्तेन विधानतः ॥ ६९ ॥
प्रतिमां क्षालयेत्तत्रः पञ्चगव्येन देशिकः ।
पुष्पमाल्यैरलं कृत्य कुर्याद्ग्रामप्रदक्षिणम् ॥ ७० ॥
विमानप्रदक्षिणं वाथ कर्तव्यं देशिकोत्तमः ।
प्रविशेन्मण्टपं तत्र जले चैवाधिवासयेत् ॥ ७१ ॥
पूर्वादीशानपर्यन्तं कलशानष्ट विन्यसेत् ।
सवस्त्रान्सहिरण्यांश्च विद्येश्वर समन्वितान् ॥ ७२ ॥
लोकपालबलिं दद्यात् तत्तन्मन्त्रेण देशिकः ।
जलादुत्तीर्य पूर्वेद्युः लिङ्गं प्रक्षालयेत्ततः ॥ ७३ ॥
प्रविश्य मण्टपं तत्र पञ्चगव्येन स्नापयेत् ।
शुद्धिं कृत्वा विशेषेण पुण्याहं वाचयेत्ततः ॥ ७४ ॥
प्। २७१)
वेदि मध्ये न्यसेच्छालीन् अष्टद्रोण समन्वितम् ।
तदर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् ॥ ७५ ॥
पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् ।
शयनं पञ्चधा कल्प्य यथा पूर्वोक्तमार्गतः ॥ ७६ ॥
अण्डजं चैव विप्रेन्द्र ! पक्षिणां पिञ्छ सम्भवम् ।
मुण्डजं तु दुकूलं वा कार्पासिकमथापि वा ॥ ७७ ॥
रत्नकम्बलमेवोक्तं रोमजं तु विधीयते ।
वृक्षत्वचाच कर्तव्यं चर्मजं तु विधीयते ॥ ७८ ॥
वामजं चैवं विप्रेन्द्र ! कुशेनैव तु कारयेत् ।
शयने शाययेद्देवं प्रासादेन तु मन्त्रतः ॥ ७९ ॥
सर्वगन्धं समालोढ्य लेपयेल्लिङ्गमेव च ।
प्राकारं पश्चिमे पीठं शयने शाययेद्धृदा ॥ ८० ॥
नवकुम्भं समादाय सूत्रेण सह वेष्टयेत् ।
शुद्धोदकेन सम्पूर्य शरावेण पिधाय च ॥ ८१ ॥
लिङ्गाधिवासनात्पूर्वे तोरणानर्चयेद्धृदा ।
द्वारकलशं विन्यस्य द्वारपालान्समर्चयेत् ॥ ८२ ॥
इन्द्रादीशान पर्यन्तं लोकपालककुम्भकान् ।
स्थापयेद्विधिना विप्र ! स्वस्वनाम्ना विशेषतः ॥ ८३ ॥
ईशान्यां स्थापयेद्विप्र ! शिवकुम्भं च वर्धनीम् ।
वर्धनीं गौरिबीजेन विन्यसेद्देशिकोत्तमः ॥ ८४ ॥
प्। २७२)
पूर्वादीशानपर्यन्तं विन्यसेदष्ट कुम्भकान् ।
दशायुधं प्रकर्तव्यं स्वर्णेनैव तु देशिकः ॥ ८५ ॥
कुम्भमध्ये विनिक्षिप्य अस्त्रमन्त्र समन्वितम् ।
विद्येश्वरान्न्यसेत्तत्र स्वस्वनाम्ना च मन्त्रतः ॥ ८६ ॥
गन्धैः पुष्पैश्च धूपैश्च दीपैश्चैव सुपूजयेत् ।
नैवेद्यं पायसं दद्याद् हृदयेन तु मन्त्रतः ॥ ८७ ॥
ततो होमं प्रकुर्वीत लक्षणेन समन्वितम् ।
समिदाज्य चरुं लाजान्सर्षपांश्च यवांस्तिलान् ॥ ८८ ॥
मुद्गमाषं च विप्रेन्द्र ! क्रमशो हूयते पुनः ।
समिधो हीशमन्त्रेण पुरुषेणाज्यमेव च ॥ ८९ ॥
अघोरेण चरुं हुत्वा लाजान्वामेन चैव हि ।
सर्षपं सद्य मन्त्रेण हृदयेन यवं तथा ॥ ९० ॥
तिलांस्तु शिरसा हुत्वा मुद्गं तु शिखया सह ।
घृतमिक्षेतिं मन्त्रेण घृतं चैव तु हूयते ॥ ९१ ॥
आपो राजेति मन्त्रेण चरुं हुत्वा तु देशिकः ।
रात्रौ जागरणं तत्र स्वप्नानि च परीक्षयेत् ॥ ९२ ॥
ततः प्रभाते विमले पूर्णाहुतिमथाचरेत् ।
एकाग्निं वाथ पञ्चाग्निं कुर्याद्वै देशिकोत्तमः ॥ ९३ ॥
वृद्धाग्निं देशिकेनैव कर्तव्यं होमकर्मणि ।
होमं न कारयेद्विद्वान् समिदाज्य चरुं विना ॥ ९४ ॥
प्। २७३)
चित्तादींश्च जयादींश्च राष्ट्रभृच्चैव हूयते ।
सर्वद्रव्य समायुक्तं हव्यवाहं समुच्चरन् ॥ ९५ ॥
स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरम् ।
हुत्वान्ते तु यदस्येति जुहुयात्तु विशेषतः ॥ ९६ ॥
लिङ्गमुत्थापयेत् पश्चात् स्नानवेद्यां च विन्यसेत् ।
मन्त्रन्यासोक्तमार्गेण न्यासं कृत्वा ततो बुधः ॥ ९७ ॥
स्नापयेच्छिवकुम्भं तु वर्धनीमपि पिण्डिकाम् ॥ ९८ ॥
अनन्तादिशि खण्यन्तान्स्था पयेल्लिङ्गमूर्धनि ।
स्नपनं कारयेत्तत्र शताष्टं पञ्चाशदेव तु ॥ ९९ ॥
अभिषेकं क्रियाद्विद्वान्गन्ध पुष्पादिना ततः ।
पञ्चवर्णहविर्दद्यात् ताम्बूलं दापयेत्ततः ॥ १०० ॥
आचार्यं पूजयेत्पश्चान्मूर्तिपान्पूजयेत्ततः ।
एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् ॥ १०१ ॥
चललिङ्ग स्थापनं प्रोक्तमुमया सहितं शृणु ॥ १०१ � ॥
इति वीरतन्त्रे चललिङ्ग प्रतिष्ठांविधिः एक षष्टितमः पटलः ॥ ६१ ॥