प्रणम्य शिरसा देवं पृच्छति स्म पितामहः ।
विजयमण्डलमेवं तु ब्रूहि मे शशिभूषण ! ॥ १ ॥
ईश्वरः ॥
विजयं मण्डलं वक्ष्ये सर्वपापहरं परम् ।
सर्वपूजाफलं चैव सर्वयज्ञ पितामह ! ॥ २ ॥
जयदं सर्वदेवानां विजयं जयमण्डलम् ।
सृष्टुवनामनुष्ठाभिः ब्रह्मणः पददायिका ॥ ३ ॥
विष्णु द्वितीयमाश्रित्य विष्णुशक्तिसमन्विता ।
विजयापतिमनुषुभिः सर्वानिस्य साधनम् ॥ ४ ॥
तस्मात्सर्वप्रयत्नेन नराणां दापयेद्बुधः ।
विप्रक्षत्रियविट्छूद्रैरन्यजातिस्तु वर्जयेत् ॥ ५ ॥
आर्द्रायां चैव नक्षत्रे मण्डले तत्र निक्षिपेत् ।
पञ्चगव्येन संस्नाप्य महा हविर्निवेदयेत् ॥ ६ ॥
प्। २६०)
आचार्य स्यानुकूलं च ब्रह्म मण्डलकं लिखेत् ।
प्रासादस्य पुरोभागे गोमयेनानुलेपयेत् ॥ ७ ॥
ब्रह्मणो द्वादशाङ्गुल्यं क्षत्रियस्य दशाङ्गुलम् ।
वैश्यस्याष्टाङ्गुलं चैव शूद्राणां च षडङ्गुलम् ॥ ८ ॥
तत्तज्जातिस्त्रियां चैव अङ्गुलां गुलहीनकम् ।
मण्डलं तत्र मध्ये तु पदपुष्पं तु विन्यसेत् ॥ ९ ॥
प्रपां कृत्वा विशेषेण चन्द्रबिम्बं प्रभावतः ।
मण्डलं तत्र विन्यस्य सहस्रं वा तदर्धकम् ॥ १० ॥
आचार्यस्य जनानां च ताम्बूलं दापयेत् पृथक् ।
नित्यं त्रिंशपश्चतमा वाष्टोत्तरं शतम् ॥ ११ ॥
पूर्वेद्युर्लक्षणैर्युक्तं मण्डलं शिवसन्निधौ ।
एवं संवत्सरं कृत्वा पूर्वरुक्षं समुद्धरेत् ॥ १२ ॥
संवत्सरत्रयं वापि षञ्च षट्सप्त चाष्टधा ।
यथा श्रद्धानुकालस्य नित्यं मण्डलपूजनम् ॥ १३ ॥
कुण्डलान्तात्तदूर्ध्वे तु अङ्कुरार्पणमुत्तमम् ।
पालिका घटिका चैव शरावं च यथाक्रमम् ॥ १४ ॥
कुम्भवर्धनया युक्तं स्थण्डिलं तु तदूर्ध्वकम् ।
अष्टद्रोणेन शालीनां तदर्धं तण्डुलं भवेत् ॥ १५ ॥
तदर्धं तु तिलं कुर्यात्सप्तबीजं रसाङ्गुलम् ।
अङ्कुरानर्पयित्वा तु ज्वलद्भिर्दीपसंयुतम् ॥ १६ ॥
प्। २६१)
उत्तमं तु त्रिसन्ध्यायां मध्यमं तु द्विसन्धिकम् ।
अधमं चैकसन्ध्यायां नित्यं दीपसमायुतम् ॥ १७ ॥
एवं सोमार्क पूर्वं मूलबेरं तु चार्चयेत् ।
एवं सप्तदिनं कुर्याद् रात्रौ चैवाधिवासयेत् ॥ १८ ॥
प्रासादस्याग्रतः कुर्यान्मण्डपं चतुरश्रकम् ।
षोडशस्तम्भसंयुक्तं चतुर्द्वार समन्वितम् ॥ १९ ॥
पुण्याहं कारयेत्तत्र अधिवासनमारभेत् ।
उमा महेशकुम्भं तु मूल बिम्बं तु पूजयेत् ॥ २० ॥
कौतुकं बन्धयेत्तत्र अधिवासनमेव वा ।
स्थण्डिलं तु तदूर्ध्वे तु कुम्भं चैव तु विन्यसेत् ॥ २१ ॥
गन्धद्रव्य समायुक्तं माल्याढ्यं कुम्भपूरिते ।
उशीरं चन्दनं चैव कर्पूरं चैव कुङ्कुमम् ॥ २२ ॥
एलालवङ्गकोष्ठत्वक् एतैर्लोढ्य सुपूजयेत् ।
होमयेत्तु विशेषेण सर्वद्रव्य समायुतम् ॥ २३ ॥
स्थापयेत्कुम्भकांस्तत्र सवस्त्रान्सहिरण्यकान् ।
स सूत्र कूर्चसंयुक्तं पूजयेत्तु विशेषतः ॥ २४ ॥
पूजान्ते तु हविः कुर्यान्मूलबेरं तु चार्चनम् ।
प्रभाते विमले कुर्यात्स्नानं कृत्वा तु देशिकः ॥ २५ ॥
विशेषात्पूजनं कुर्यात्सर्वातोद्य समायुतम् ।
नृत्तगेयसमायुक्तं स्तोत्रमङ्गलवाचकैः ॥ २६ ॥
प्। २६२)
जयशब्दं समुच्चार्य हरशब्दसमाकुलैः ।
स्नपनं तु ततः कुर्याद्यथा शास्त्रोक्तमार्गतः ॥ २७ ॥
स्नपनान्ते हविः कुर्यान्महाहविर्निवेदयेत् ।
देवानां स्वर्णपट्टं तु उमाहे मत्स्य मङ्गलम् ॥ २८ ॥
पट्टगोलकसंयुक्तं मूलबिम्बं विशेषतः ।
स्थलिका दण्डिघण्टा च महाघण्टां तु दापयेत् ॥ २९ ॥
वस्त्रं नमनि संयुक्तं दापयेत्तु शिवं तथा ।
सप्तमण्डलमालिख्य सप्तलोकान्सुपूजयेत् ॥ ३० ॥
मण्डलाद्दर्शनं कृत्वा व्रतनारीं च नारिणाम् ।
मण्डलं तु पृथक्कुर्यात् प्रत्येकं प्रस्थशालिना ॥ ३१ ॥
व्रीहि पर्वतमेवं तु नीलपर्वतमेव वा ।
स्वर्णपर्वतमेवं तु लवणं पर्वमेव वा ॥ ३२ ॥
आर्हकं पर्वतं कुर्यान् माषपर्वतमेव वा ।
मुद्गपर्वतमेवं तु सप्तपर्वतमेव वा ॥ ३३ ॥
पर्वतानां तु दृष्ट्या तु पृतनारीत्वनामभिः ।
आचार्यं पूजयेत्पूर्वं वस्त्राङ्गुलीयकादिभिः ॥ ३४ ॥
अधमं त्वेकनिष्कं तु मध्यमं तु द्विनिष्ककम् ।
उत्तमं तु त्रिनिष्कं तु आचार्यस्य तु दक्षिणा ॥ ३५ ॥
परिचारकानां सर्वेषां वस्त्रदानं तु दापयेत् ।
सर्वं माहेश्वरैर्युक्तं बाहुजानां तु पूजयेत् ॥ ३६ ॥
प्। २६३)
चण्डेश्वरस्य दद्यात्तु पूजयेत्तु विशेषतः ।
वस्त्रं धान्यं च ताम्बूलं चन्दनं दापयेत्तदा ॥ ३७ ॥
तत्सन्निधौ जनान्सर्वान्नारी नाम तु दापये तु ।
सर्वानमावृतं कुर्यात्तद्गृहं प्रविशेत्ततः ॥ ३८ ॥
आचण्डालादि सर्वेषामन्न पानं च दापयेत् ।
आर्द्रायां चैव नक्षत्रे देवेशं पूजयेत्ततः ॥ ३९ ॥
एवं यः कुरुते नारी शिवलोकं स गच्छति ।
कुलैकविंशमुद्धृत्य शिवलोकं स गच्छति ॥ ४० ॥
इति वीरतन्त्रे विजयमण्डलविधिः षष्टितमः पटलः ॥ ६० ॥