अतः परं प्रवक्ष्यामि पञ्चब्रह्मोद्धृतं क्रमात् ।
गुरुवक्त्रात्तु विज्ञेयमन्यथा नैव कथ्यते ॥ १ ॥
मुक्तिदं भुक्तिदं नॄणां शृणुष्व चतुरानन ! ।
ईशादि सद्यपर्यन्तम् उद्धरेत्तु यथाक्रमम् ॥ २ ॥
सुसमे भूप्रदेशे तु निम्नोन्नत विवर्जिते ।
चक्रं त्रयोदशं ग्राह्य पञ्चादश समन्वितम् ॥ ३ ॥
प्रथममक्षरं प्रोक्तं द्वितीयं कथ्यते मया ।
वासवस्य चतुर्थं तु शूलाद्यं तु यथा तथा ॥ ४ ॥
प्। २५४)
वज्रान्तेन समायुक्तं वारुणस्यैव पञ्चमम् ।
वज्रान्तेन समायुक्तम् ईशानस्य तृतीयकम् ॥ ५ ॥
वज्रेण तु समायुक्तं धनदस्य चतुर्थकम् ।
तदेव पुनरुद्धृत्य अग्निबीजोर्ध्ववासवम् ॥ ६ ॥
रजनीका चतुर्थं तु वासवस्य तृतीयकम् ।
वरुणस्य तृतीयं तु वासवेन समन्वितम् ॥ ७ ॥
वज्राद्द्वितीयसंयुक्तं वरुणस्य तु पञ्चमम् ॥ ८ ॥
पुरुहूतद्वितीयं तु महेशस्य तु पञ्चमम् ।
वासवस्य चतुर्थं तु शङ्करान्यमतः परम् ॥ ९ ॥
गदायास्तु चतुर्थेन युतं वज्रेण संयुतम् ।
सोमस्यैव द्वितीयं तु षोडशेन समन्वितम् ॥ १० ॥
शूलात्तृतीयं वज्रं च सोमस्यैव चतुर्थकम् ।
पवनस्य चतुर्थं तु देवेन्द्रात्तु षडक्षरम् ।
वरुणापति सङ्ग्राह्य चक्रस्यान्तेन संयुतम् ॥ १२ ॥
मङ्ग्नास्य पञ्चमं ग्राह्य अनिलस्य तृतीयकम् ।
गदावायोस्तुकं द्वितीय स्थानेन समन्वितम् ॥ १३ ॥
ईशानस्य चतुर्थेन वायुपञ्चक्रयोजितम् ।
पुरुहूतद्वितीयं तु पूर्वोक्तेन समन्वितम् ॥ १४ ॥
प्। २५५)
पर्जन्यस्य चतुर्थं तु वासवस्य द्वितीयकम् ।
मारुताद्यं समुद्धृत्य चक्रामुद्रा * * * * ॥ १५ ॥
वरुणाद्यं समुद्धृत्य वासवत्रय संयुतम् ।
मारुतस्य द्वितीयान्तं वह्नावासव संयुतम् ॥ १६ ॥
अग्निबीजाद्यकं कुर्याच्छूलस्यैव चतुर्थकम् ।
अनिलस्य पञ्चमेनैव वासवस्य द्वितीयकम् ॥ १७ ॥
धनदस्य चतुर्थेन युक्तं चक्रत्रयोदशम् ॥ १८ ॥
मरुतः पञ्चमं ग्राह्य वासवैकादशेन तु ।
शङ्करस्य द्वितीयान्तं वरुणाद्येन संयुतम् ॥ १९ ॥
चक्रस्य पञ्चबीजेन युक्तं पूर्वोक्तमक्षरम् ।
द्वितीयान्तवासवस्यान्तं वासवस्य त्रयोदशम् ॥ २० ॥
चन्द्रान्तं प्रक्तहरयु * एवज्ञ समन्वितम् ।
सोमान्तं तु दशान्तेन पवनस्य चतुर्थकम् ॥ २१ ॥
सोमाद्येन समायुक्तं षोडशेन समन्वितम् ।
ईशानस्य तृतीयं तु वासवेन समन्वितम् ॥ २२ ॥
होमबीजाच्चतुर्थं तु तदेव पुनरुद्धरेत् ।
वह्निबीजोर्ध्व * * * द्वासवेन समन्वितम् ॥ २३ ॥
शि * * * नां चैवस्तद् * * * वह्निबीजकम् ।
एकादशेन संयुक्तं मारुतस्य चतुर्थकम् ॥ २४ ॥
प्। २५६)
कुबेरेण समायुक्तं द्वादशान्तेन संयुतम् ।
जलाधिप चतुर्थान्तं वासवेन्नं समन्वितम् ॥ २५ ॥
ईशानस्य तृतीयं तु वास * * * शान्तकम् ॥ २६ ॥
कुबेरान्तं वात् पञ्चवरुणान्तमुद्धरेत् ।
वह्निबीज समायुक्तं वासवेन समन्वितम् ॥ २७ ॥
कौबेरान्तं समुद्धृत्य वासवस्य तु षष्ठकम् ।
अनिलं तु समुद्धृत्य वासवैकादशेन तु ॥ २८ ॥
अनिल * * * हृत्य कुबेरं चाथ योजयेत् ।
षोडशेन समायुक्तं घोरं सर्वार्थकामदम् ॥ २९ ॥
द्वादशान्तं समुद्धृत्य पञ्चादश समन्वितम् ।
धनदस्य च चतुर्थं तु वज्रान्तेन समन्वितम् ॥ ३० ॥
अनिलात्पञ्चमं ग्राह्य वासवेन समन्वितम् ।
वरुणान्तं समुद्धृत्य वासवैकादशेन च ॥ ३१ ॥
इन्द्रस्यैव तु वज्रान्ते * * * न समन्वितम् ।
गदायुधं समुद्धृत्य वासवेन समन्वितम् ॥ ३२ ॥
वरुणात्पञ्चमं ग्राह्य वज्रेणैव समन्वितम् ।
पवनं गृह्य * * * * * न्ते नैव भूषितम् ॥ ३३ ॥
उपैशान्तं समुद्धृत्य गदादेकादशेन च ।
शूलस्यान्तं समुद्धृत्य खड्गान्तस्यादधस्ततः ॥ ३४ ॥
प्। २५७)
वज्रान्ते तु समं भिन्नं कुबेरं वासवान्वितम् ।
वरुणस्य पञ्चमं गृह्य वासवेन समन्वितम् ॥ ३५ ॥
पवनस्य पञ्चमं पश्चाद् वायव्यस्य त्रयोदश ।
गदान्तान्तां समुद्धृत्य वज्रपञ्चमभूषितम् ॥ ३६ ॥
पाशान्तान्तं समुद्धृत्य वह्नयस्तात्सुभूषितम् ।
वज्रान्तेन तु संयुक्तं गदावासव संयुतम् ॥ ३७ ॥
वरुणस्य पञ्चमं पश्चाद् वज्रेणैव समायुतम् ।
पवनस्य पञ्चमं ग्राह्य षोडशेन समायुतम् ॥ ३८ ॥
अग्नाद्यभि समुद्धृत्य वज्रान्तेन सुभूषितम् ।
सोमान्तान्तं समुद्धृत्य वज्रान्तेन समन्वितम् ॥ ३९ ॥
चन्द्राद्यं तु समुद्धृत्य वासवेन समन्वितम् ।
ईशस्य पञ्चमं ग्राह्य वज्रेणैव समन्वितम् ॥ ४० ॥
पवनस्य पञ्चमं ग्राह्य षोडशेन समायुतम् ।
वह्निं चैव समुद्धृत्य वासवेन समन्वितम् ॥ ४१ ॥
गदान्तं च समुद्धृत्य वज्रेणैव समायुतम् ।
कुबेरस्य चतुर्थं तु * व तस्य तृतीयकम् ॥ ४२ ॥
वह्निबीजं समुद्धृत्य वासवेन समन्वितम् ।
चन्द्रान्तं तु समुद्धृत्य चक्रेणैव समायुतम् ॥ ४३ ॥
प्। २५८)
निर्-ऋतेः पञ्चमं गृह्य वज्रान्तेन समायुतम् ।
कुबेरान्तं समुद्धृत्य इन्द्राद्येन समायुतम् ॥ ४४ ॥
पवनस्य पञ्चमं पश्चात् वासवस्य त्रयोदश ।
अङ्कुशस्य तृतीयं तु वज्रेणैव समायुतम् ॥ ४५ ॥
कुबेरान्तं समुद्धृत्य इन्द्राद्येन समायुतम् ।
चन्द्रस्यैव चतुर्थं तु वज्रान्तेन समायुतम् ॥ ४६ ॥
कृशानुं च समुद्धृत्य वज्रेणैव समायुतम् ।
कुबेरान्तं वासवेनैव खड्गं चैव तु पञ्चमम् ॥ ४७ ॥
वज्रान्तेन समायुक्तं गदा वासव संयुतम् ।
पाशस्य पञ्चमं ग्राह्य वासवेन समन्वितम् ॥ ४८ ॥
मारुतं तु समुद्धृत्य अग्निबीजमथोच्यते ।
वासवेन समायुक्तं वायुपञ्चममेव च ॥ ४९ ॥
वासवेन समायुक्तं पाशान्तं वज्रसंयुतम् ।
वरुणस्य पञ्चमं पश्चाद् वज्रेणैव समायुतम् ॥ ५० ॥
पवनस्य पञ्चमं प्रोक्तं षोडशेन समन्वितम् ।
ईशानान्तं समुद्धृत्य वज्रेणैव विभूषितम् ॥ ५१ ॥
धनदस्य चतुर्थं तु बीजं पुनरेव तु ।
अग्निबीजं ततोर्ध्वं तु वासवेन समायुतम् ॥ ५२ ॥
वायुपञ्चममुद्धृत्य द्वादशान्तेन संयुतम् ।
अनलस्य पञ्चमं पश्चाद् वज्रेणैव समायुतम् ॥ ५३ ॥
प्। २५९)
पाशस्य पञ्चमं प्रोक्तं द्वादशान्तेन संयुतम् ।
पवनस्य चतुर्थं तु वासवेन समन्वितम् ॥ ५४ ॥
धनदस्य चतुर्थं तु षोडशस्वरसंयुतम् ।
सद्यादीशानां च धर्मकामार्थमोक्षदम् ॥ ५५ ॥
ब्रह्मोद्धारमिदं प्रोक्तं विजयं मण्डलं शृणु ॥ ५५ � ॥
इति वीरतन्त्रे ब्रह्मोद्धारविधिरेकोनषष्टितमः पटलः ॥ ५९ ॥