प्। २३९)
अतः परं प्रवक्ष्यामि पञ्चब्रह्मोद्धृतं क्रमात् ।
गुरुवक्त्रात्तु विज्ञेयम् अन्यथा नैव कथ्यते ॥ १ ॥
मुक्तिदं भुक्तिदं नॄणां शृणुष्व चतुरानन ! ।
ईशादिसद्यपर्यन्तम् उद्धरेत्तु यथा क्रमम् ॥ २ ॥
सुसमे भूप्रदेशे तु निम्नोन्नत विवर्जिते ।
चक्रं त्रयोदशं ग्राह्य पञ्चदश समन्वितम् ॥ ३ ॥
प्रथममक्षरं प्रोक्तं द्वितीयं कथ्यते तथा ।
वासवस्य चतुर्थं च शूलाद्यं च ततः परम् ॥ ४ ॥
वज्रान्तर समायुक्तं वरुणस्यैव पञ्चमम् ।
वज्रं तेन समायुक्तम् ईशानस्य तृतीयकम् ॥ ५ ॥
वज्रेण तु समायुक्तं यदनस्य चतुर्थकम् ।
तदेव पुनरुद्धृत्य अग्निबीजेन वा युतम् ॥ ६ ॥
रजनीका चतुर्थं तु वासवस्य तृतीयकम् ।
वरुणस्य तृतीयं तु वासवेन समन्वितम् ॥ ७ ॥
वज्रद्वितीयसंयुक्तं वरुणस्य तु पञ्चमम् ॥ ८ ॥
पुरुहूत * * * * * * * * * * * * ।
प्। २४०)
पितामहः ॥
अस्मिन्तन्त्रे सुरेशान ! विघ्नेशस्थापनं कथम् ।
तत्सर्वं श्रोतुमिच्छामि भगवन्वक्तुमर्हसि ॥ १ ॥
ईश्वरः ॥
साधु साधु महाप्राज्ञ ! यत्त्वया परिचोदितम् ।
तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! ॥ २ ॥
भूताश्चैव पिशाचाश्च राक्षसाश्चासुरास्तथा ।
लोकद्रव्याद्बुभुक्षन्ते एतेषां विघ्नाय पूजयेत् ॥ ३ ॥
ग्रामे वा नगरे वापि पत्तने खेटकेऽपि वा ।
प्रासादं कारयेत्तत्र शास्त्रदष्टेन कर्मणा ॥ ४ ॥
भूमिं समतलं कृत्वा कर्षणं कारयेत्ततः ।
व्योमव्यापि जपित्वा तु कर्षयेद्देशिकोत्तमः ॥ ५ ॥
तस्मिन्देशेऽपि विप्रेन्द्र ! बीजानि वापयेत्ततः ।
पक्षे सन्ति च सर्वाणि गोगणानां निवेदयेत् ॥ ६ ॥
शल्यं विमोचयेत्तत्र पांसुना पूरयेत्ततः ।
दर्पणोदरवत्कृत्वा गोमयेनानुलेपयेत् ॥ ७ ॥
वास्तुदेवान्समभ्यर्च्य सर्वकर्माणि कारयेत् ।
पूर्वोक्ते चैव नक्षत्रे योगे च करणान्विते ॥ ८ ॥
प्रथमेष्टकां प्रकर्तव्यं स्थिरराशौ विशेषतः ।
द्वारस्य दक्षिणे पार्श्वे प्रथमेष्टां तु विन्यसेत् ॥ ९ ॥
प्। २४१)
दर्भासनं ततः कुर्याल्लक्षणेन समन्वितम् ।
शिलाभिरिष्टकाभिर्वा दारुमृद्भिरथापि वा ॥ १० ॥
प्रासादं च प्रकर्तव्यं लक्षणेन समन्वितम् ।
नवहस्तं पञ्चहस्तं वा त्रिहस्तं वापि कारयेत् ॥ ११ ॥
अर्धमण्टप संयुक्तं विमानं कारयेद्बुधः ।
प्रासादस्यवशाद्विद्वा प्राकारं कारयेत्ततः ॥ १२ ॥
प्रासादस्य चतुर्दिक्षु बलिपीठं प्रकल्पयेत् ।
पञ्चतालोत्तमं विद्धि चतुस्तालं तु मध्यमम् ॥ १३ ॥
त्रितालमधमं प्रोक्तं विस्तारोत्सेध तत्समम् ।
षोडशांशे विभज्यं तु उपानमेकभागिकम् ॥ १४ ॥
जगती स्याच्चतुर्भागं त्रिभागं कुम्भमुच्यते ।
एकेन पट्टिकां कुर्याद् ग्रीवा चैव त्रियंशकम् ॥ १५ ॥
द्व्यंशेन पट्टिकां कुर्यात् कम्पमेकेन कारयेत् ।
पीठोत्सेधं चतुर्भागं पद्ममूर्ध्वे प्रकल्पयेत् ॥ १६ ॥
प्रतिमा * * * वक्ष्ये शृणुष्व कमलासन ! ।
उत्तमं लोहजं प्रोक्तं मध्यमं तु शिलामयम् ॥ १७ ॥
अधमं दारुमृद्भिश्च * * * प्रतिमा शुभा ।
सौवर्णं चैव सौभाग्यं मोक्षार्थी रजतं भवेत् ॥ १८ ॥
ताम्रेण पुत्रकामी च आयसं चाभिचारकम् ।
चलितं लोहजं चैव रत्नजं दारुजं तु वा ॥ १९ ॥
प्। २४२) (अ)
पुनः प्रतिष्ठां कुर्वीत शास्त्रोक्तेन विधानतः ।
स्थापितं तु परार्थं स्यादन्यदात्यार्थमुच्यते ॥ २० ॥
बृहोदरं च विघ्नेशं नायकं वीरमेव च ।
गजाननं गजकर्णं लम्बोदरं तथैव च ॥ २१ ॥
भक्ष्य प्रियं च विप्रेन्द्र ! मूर्तयोष्टौ प्रकीर्तिताः ।
तेषां चैव तु मूर्तीनां स्वनामाद्यक्षरैर्युतम् ॥ २२ ॥
बिन्दुनादसमायुक्तं प्रणवाद्यमिहोच्यते ।
तस्य यन्त्रं वदामीह सर्वाशुभनिवारणम् ॥ २३ ॥
भूर्जैर्वा तालपत्रैर्वा शुभरक्षोक्तधातुना ।
लिखित्वाष्टदलं पद्मं केसरास्य सकर्णकम् ॥ २४ ॥
संलिखेत्कर्णिकामध्ये मूलमन्त्रं समाहितः ।
विन्यसेदष्टपत्रेषु अष्टमूर्त्यक्षरान्बुधः ॥ २५ ॥
लाक्षा वृत्ता तु गुलिकां काञ्चनेन समावृतम् ।
पूजयेत्तु विशेषेण मूलमन्त्रेण होमयेत् ॥ २६ ॥
गुलिकां धारयेत्पश्चा कण्ठे वा कर एव वा ।
सर्वरोग (हरं ह्येतत्) सिंहदृष्टगजं यथा ॥ २७ ॥
मन्त्रोद्धारं मया प्रोक्तं प्रतिष्ठाया विधिं शृणु ।
रोहिण्यादित्यपुष्येषु हस्तपौष्णत्रिरुत्तरा ॥ २८ ॥
स्वाती च स्थापने प्रोक्ता प्रतिष्ठाञ्जक्षमेव च ।
स्थिरराशौ तु कर्तव्यम् उभराशावथापि वा ॥ २९ ॥
प्। २४२ ) (ब्)
चतुर्भुजं त्रिणेत्रं च करण्ड मुकुटान्वितम् ।
आसीनं वा स्थितं वापि वाहनारूढमेव वा ॥ १ ॥
नृत्तं व्याख्यानरूपं तु सर्वाभरणभूषितम् ।
नानाभरण संयुक्तं नागयज्ञोपवीतिनम् ॥ २ ॥
किङ्किणीनूपुरोपेतं सर्वलक्षण संयुतम् ।
पञ्चतालेन कुर्यात्तु प्रतिमां कारयेच्छुभाम् ॥ ३ ॥
पञ्चांशेन विभज्यं तु ओष्ठार्धं तु त्रिभागिकम् ।
पादोच्चं तु द्विभागं तु कुर्यात्प्रतिममुत्तमम् ॥ ४ ॥
कचस्तं गजहस्ते तु दक्षिणे तु स्वदन्तकम् ।
वामे पाशसमायुक्तं दक्षिणे चाक्षसूत्रकम् ॥ ५ ॥
टङ्कः स्याद्वामहस्ते तु पद्मासनो परिस्थितम् ।
एवं लक्षण संयुक्तं प्रतिमां कारयेद्बुधः ॥ ६ ॥
श्वेतार्कमूले रिर्यात्म तत्र साध्यविशेषतः ।
षड्भुजेनैव कर्तव्यं परचक्र जयेच्छता ॥ ७ ॥
गर्भं तु नवधा कृत्वा पञ्चांशेनोत्तमं भवेत् ।
मध्यमं चतुरंशेन त्रयंशमधमं भवेत् ॥ ८ ॥
द्वियंशमेकमंशं वा प्रतिमां कारयेत्ततः ।
ताल सङ्ख्याक्रमं वक्ष्ये अधमं तालमुच्यते ॥ ९ ॥
द्वितालं मध्यमं प्रोक्तं त्रितालं चोत्तमं भवेत् ।
यजमानेच्छया युक्तं शिल्पिना कारयेत्ततः ॥ १० ॥
मन्त्रोद्धारमहं वक्ष्ये शृणुष्व कमलासन ! ।
कामदं मोक्षफलदं सर्वपापविनाशनम् ॥ ११ ॥
सुलग्ने सुमुहूर्ते च सुनक्षत्रे विशेषतः ।
शुद्धस्नानमनुप्राप्य शुद्धिं कृत्वा ततो बुधः ॥ १२ ॥
तत्रैव गुरुमावाह्य पूजयेत्तु विशेषतः ।
अकारादि क्षकारान्ता न्यक्षराणि विलेखयेत् ॥ १३ ॥
विनायकस्य बीजं तु तेषां मध्ये समुच्चरन् ।
द्विवर्गस्य तृतीयं तु प्रथमस्य चतुर्थकम् ॥ १४ ॥
सप्तवर्ग तृतीयं तु बिन्दुनाद समन्वितम् ।
मूलमन्त्रमिदं प्रोक्तं विघ्नेश्वरस्य पद्मज ! ॥ १५ ॥
ह्रस्वं ब्रह्म समाख्यातं दीघाहङ्गानि चोच्यते ।
प्। २४३)
अष्टमस्था ग्रहाः सर्वे नेष्टा वै स्थापनेषु च ।
एतेषां स्थापनेषूक्तं विभवस्यानुरूपतः ॥ २० ॥
पूर्वोक्त लक्षणैर्युक्तां प्रतिमां कारयेत्ततः ।
प्रासादस्याग्रतः कुर्यान्मण्टपं चतुरश्रकम् ॥ ३१ ॥
त्रिहस्तं पञ्चहस्तं वा षट्सप्ताष्टनवं तथा ।
स्तम्भैः षोडशभिर्युक्तं पङ्क्तिमानमथोच्छ्रयः ॥ ३२ ॥
आसनं खदिरं वापि जातिस्तम्बकमेव वा ।
क्रमुकं वेणुदण्डं वा अवक्रं निर्व्रणं तथा ॥ ३३ ॥
स्तम्भानि कारयेद्धीमान् प्रपां पूर्वोक्तवत्क्रमात् ।
मध्यमे वेदिकां कुर्यात् परितः कुण्डमुच्यते ॥ ३४ ॥
मण्टपस्य तु मध्ये तु रत्नन्यासं तु कारयेत् ।
वज्रं पूर्वे तु विन्यस्य आग्नेय्यां तु प्रवालकम् ॥ ३५ ॥
मरकतं दक्षिणे स्थाप्य नैर्-ऋत्यां मौक्तिकं न्यसेत् ।
वारुण्यां पद्मरागं तु वैडूर्यं वायुगोचरे ॥ ३६ ॥
इन्द्रनीलं तु सौम्यायाम् ऐशान्यां स्फटिकं न्यसेत् ।
मध्यमे चैव माणिक्यं विन्यसेत्तु विशेषतः ॥ ३७ ॥
रत्नानामप्यलाभे तु सुवर्णं विन्यसेत्ततः ।
ततो देवं समायोज्य हृदयेन तु मन्त्रतः ॥ ३८ ॥
सुस्निग्धं कारयेत्तत्र शिल्पिनं पूजयेत्ततः ।
एवमेव प्रकर्तव्यं लोहजानां विशेषतः ॥ ३९ ॥
प्। २४४)
अन्येषां स्थापनादौ तु विन्यसेत्तु विचक्षणः ।
नयनं मोक्षणं वक्ष्ये शृणुष्व कमलासन ! ॥ ४० ॥
सुमुहूर्ते सुनक्षत्रे नेत्रद्वययुते दिने ।
नयनं मोक्षणं कुर्यात् पूर्वोक्ते मण्टपे शुभे ॥ ४१ ॥
गोमयेनोपलिप्याथ शालिना स्थण्डिलं कुरु ।
अष्टद्रोणैश्च शालीभिः तदर्धैस्तण्डुलैरपि ॥ ४२ ॥
विकीर्य नववस्त्रेण दर्भैश्चैव परिस्तरेत् ।
तत्रैव प्रतिमां स्थाप्य पूर्वाभिमुखमेव वा ॥ ४३ ॥
प्रच्छादयेत्ततो बिम्बं नववस्त्रेण देशिकः ।
अभितः कलशानष्टौ विन्यसेत्तोयपूरितान् ॥ ४४ ॥
सवस्त्रान्सहिरण्याश्च अष्टमूर्तिसमायुतान् ।
गन्धपुष्पैश्च धूपैश्च हृदिना पूजयेत्ततः ॥ ४५ ॥
इन्द्रादीशानपर्यन्तान् लोकपालान्समर्चयेत् ।
अक्षिहोमं ततः कुर्यादाज्येनैव तु देशिकः ॥ ४६ ॥
अग्निमुखं च सङ्कल्प्य नेत्रमन्त्रेण हूयते ।
अष्टोत्तरशतं हुत्वा पूर्णाहुतिमथाचरेत् ॥ ४७ ॥
हेमसूच्याऽऽलिख्य नेत्रे आचार्यः शिल्पिभिस्सह ।
पद्मरेखां समालिख्य तन्मध्ये कृष्णमण्डलम् ॥ ४८ ॥
ज्योतिर्मण्डलमालिख्य नेत्रमन्त्र समन्वितम् ।
हेमपूर्वं तथा चैव मध्वाज्यं विन्यसेत्ततः ॥ ४९ ॥
प्। २४५)
ताम्रपात्रेऽथवा कांस्ये मधु चैव तु विन्यसेत् ।
मधुवातेति मन्त्रेणमधुना तर्पयेत्ततः ॥ ५० ॥
घृतमिक्षेति मन्त्रेण घृतं चैव तु तर्पयेत् ।
गणानां चेति मन्त्रेण सवत्साङ्गां प्रदर्शयेत् ॥ ५१ ॥
ततो ब्रह्म समुच्चार्य ब्राह्मणान्दर्शयेत्ततः ।
प्रोक्षयेद्ब्राह्मणास्तत्र साक्षतं सकुशोदकम् ॥ ५२ ॥
प्रच्छन्न पटमावर्ज्य जनान्सर्वान्प्रदर्शयेत् ।
प्रोक्षयेत्कलशान्विप्र ! पञ्चब्रह्मेण संयुतम् ॥ ५३ ॥
गीतवाद्य समायुक्तं वीणावेणुरवैस्सह ।
गेयनृत्तसमायुक्तं जयशब्दैस्समन्वितम् ॥ ५४ ॥
ततः प्रतिमुद्धृत्य शुद्धिं कृत्वा तु देशिकः ।
पञ्चमृत्पञ्चगव्यैश्च पञ्चाङ्गैश्च समन्वितम् ॥ ५५ ॥
पुण्याहं वाचयेत्तत्र पवमानेम प्रोक्षयेत् ।
रथेवा शिबिकायां वा प्रतिमां रोप्य भक्तितः ॥ ५६ ॥
ग्रामप्रदक्षिणं कृत्वा जले चैवाधि वासयेत् ।
प्रतिमां पञ्चगव्येन स्नापयेद्धृदयेन तु ॥ ५७ ॥
नववस्त्रेण संवेष्ट्य कूर्चेणास्त्रेण संयुतम् ।
मूलमन्त्रेण विप्रेन्द्र ! जले चैवाधिवासनम् ॥ ५८ ॥
चतुष्पाद समायुक्तं प्रपां कृत्वा तु देशिकः ।
अभितः कलशानष्टौ विद्येश्वर समन्वितान् ॥ ५९ ॥
प्। २४६)
सवस्त्रान्सहिरण्यांश्च विन्यसेत्तु विशेषतः ।
एकरात्रं त्रिरात्रं वा पञ्चरात्रमथापि वा ॥ ६० ॥
जलाधिवासनं कुर्यात् सर्वालङ्कार संयुतम् ।
जलादुत्तीर्य पूर्वेद्युः शुद्धिं कृत्वा तु देशिकः ॥ ६१ ॥
गन्धद्रव्यं समालोढ्य लेपयेत्प्रतिमां ततः ।
नववस्त्रेण संवेष्ट्य मूलमन्त्रेण देशिकः ॥ ६२ ॥
वेदिमध्ये न्यसेद्विप्र ! अष्टद्रोणेन शालिना ।
शाल्यर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् ॥ ६३ ॥
परिस्तरेत्तु दर्भैश्च शयनं पञ्च कल्पयेत् ।
अन्डजं मुण्डजं चैव रोमजं चर्मजं तथा ॥ ६४ ॥
पद्मजेन समायुक्तं कल्पयेत् कल्पवित्तमः ।
तस्योपरि न्यसेद्बीजं कूर्चेनैव समन्वितम् ॥ ६५ ॥
गन्धपुष्पादिना पूज्य हृदयेन तु मन्त्रतः ।
अभितः कलशानष्टौ विन्यसेन्मूर्तिसंयुतान् ॥ ६६ ॥
बृहोदरादीन्विप्रेन्द्र ! विन्यसेत्स्वस्वनामतः ।
सवस्त्रान्सापिधानांश्च सहिरण्यान्सकूर्चकान् ॥ ६७ ॥
ईशान इन्द्रयोर्मध्ये प्रधानकलशं न्यसेत् ।
विघ्नेशं तत्र संस्थाप्य मूलमन्त्रेण देशिकः ॥ ६८ ॥
गन्धपुष्पादिनाऽऽपूज्य पायसान्नं निवेदयेत् ।
लोकपालांश्च कुम्भानि विन्यसेत्पूर्वमेव च ॥ ६९ ॥
प्। २४७)
ततो होमं प्रकर्तव्यं नव वा पञ्च एव वा ।
वृत्तं वा चतुरश्रं वा सर्वकुण्डानि कारयेत् ॥ ७० ॥
ईशान इन्द्रयोर्मध्ये प्रधानाग्निर्विधीयते ।
प्लक्षाश्वत्थं च न्यग्रोधं बिल्वं चैव विशेषतः ॥ ७१ ॥
उदुम्बरं शमी चैव अपामार्गं च खादिरम् ।
पालाशं चैव विप्रेन्द्र ! नवकुण्डेषु होमयेत् ॥ ७२ ॥
चतुर्दिक्षु च ईशान्यां पञ्चकुण्डेषु होमयेत् ।
सर्वेषामप्यलाभे तु पलाशसमिधा युतम् ॥ ७३ ॥
समिदाज्यचरुं लाजान्सक्थुमाषयवांस्तथा ।
कदलीफलसंयुक्तं होमयेद्देशिकोत्तमः ॥ ७४ ॥
सद्योवाममघोरं च तत्पुरुषं तथैव च ।
हृदयं च शिरश्चैव शिखामन्त्रेण हूयते ॥ ७५ ॥
शतमर्धं तदर्धं वा होमयेदादिशैवकान् ।
हुत्वा हुत्वा स्पृशेद्बिम्बं द्रव्यं प्रति विशेषतः ॥ ७६ ॥
द्रव्यान्ते व्याहृतिं हुत्वा सम्प्रोक्ष्यंश्चैव हूयते ।
लड्डुकं नालिकेरं च मातुलुङ्गफलानि च ॥ ७७ ॥
सर्वभक्ष्यं च पनसं गणानां चैव होमयेत् ।
चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः ॥ ७८ ॥
ततः प्रभाते विमले पूर्णाहुतिमथाचरेत् ।
स्नानवेद्यां समानीय स्नापयेन्मूलमन्त्रतः ॥ ७९ ॥
प्। २४८)
गन्धपुष्पादिनाभ्यर्च्य पञ्चवर्णहविर्ददेत् ।
शिलादीन्स्थापयेद्विद्वान्देशेऽपि तु पदेऽपि च ॥ ८० ॥
किञ्चिन्मानुषमादृश्य स्थापयेद्विधिपूर्वकम् ।
यजनं सम्प्रवक्ष्यामि शृणुष्व चतुरानन ! ॥ ८१ ॥
स्नानं कृत्वा यथा विद्वान्प्रविश्य भवनं ततः ।
प्राणायामं चरेत्तत्र पश्चाद्ब्रह्माणि विन्यसेत् ॥ ८२ ॥
अङ्गुष्ठादिकनिष्ठान्तं सृष्टिन्यासमुदाहृतम् ।
हृदयात्पञ्च विन्यस्य विघ्नेशं हृदये न्यसेत् ॥ ८३ ॥
मधुश्च माधवश्चैव द्वारपालौ सु पूजयेत् ।
पाद्यमाचमनं चार्घ्यं गन्धपुष्पं च धूपकम् ॥ ८४ ॥
दीपं चैव निवेद्यं च प्रोक्षयेद्धृदयेन तु ।
ततो लोहजबेरं चेत् स्नात्वा पर्वणि पर्वणि ॥ ८५ ॥
शैलजं चेत्त्रिसन्ध्यायां स्नात्वा पर्वणि पर्वणि ।
मृण्मये भित्तिचित्रे वा पीठे कर्मार्चनं भवेत् ॥ ८६ ॥
पूर्वोक्तेनैव मार्गेण कल्पयेदासनत्रयम् ।
सिंहं पद्मं च विमलं यथा क्रमेण विन्यसेत् ॥ ८७ ॥
आवाहयेत्तु विघ्नेशं मूलमन्त्रेण देशिकः ।
चतुर्भुजं त्रिणेत्रं च प्रसन्नवदनान्वितम् ॥ ८८ ॥
गजवक्त्र समायुक्तं नानाभरणभूषितम् ।
निर्माल्यं च विसृज्याथ शिखामन्त्रेण देशिकः ॥ ८९ ॥
प्। २४९)
पाद्यादींश्च हृदा दद्याच्छिरसा चन्दनं ददेत् ।
पुष्पं वै शिखया चैव वामो धूपं च दीपकम् ॥ ९० ॥
हविश्चैवास्त्रमन्त्रेण ताम्बूलं सद्य मन्त्रतः ।
भक्ष्यं चैव गणानान्त्वा एवमेव क्रमेण तु ॥ ९१ ॥
पश्चादावरणं पूज्य गर्भावरणमेव च ।
पुरुषं पूर्वदेशे तु अघोरं दक्षिणेन तु ॥ ९२ ॥
सद्यं पश्चिमतो न्यस्य वामदेवं तथोत्तरे ।
ईशान्यामीशमन्त्रं तु आग्नेय्यां हृदयं न्यसेत् ॥ ९३ ॥
नैर्-ऋत्यां तु शिखां पूज्य वायव्यां कवचं यजेत् ।
ईशान्यां च शिरश्चैव नेत्रमस्त्रं दिशासु च ॥ ९४ ॥
परिवारांस्तथा पूज्य तस्याग्रे मूलकं यजेत् ।
शुक्रं बृहस्पतिं चैव अश्विन्यौ च तथैव च ॥ ९५ ॥
विश्वेदेवौ च विप्रेन्द्र ! ज्येष्ठायां च तथैव च ।
शास्ता चैव तु दुर्गा च प्रदक्षिणे क्रमेण तु ॥ ९६ ॥
विन्यसेत्तु विशेषेण पूजयेत् स्वस्वनामतः ।
विबुधमीशदिग्भागे निर्माल्यं धारकं न्यसेत् ॥ ९७ ॥
अग्निकार्यं ततः कुर्याच्छास्त्रदृष्टेन कर्मणा ।
पूर्वोक्तेन विधानेन अग्निमुखं च कल्पयेत् ॥ ९८ ॥
आज्येनान्न समायुक्तं पुष्पेणैव समन्वितम् ।
सप्ताहुतिं च विघ्नेशं मूलमन्त्रेण देशिकः ॥ ९९ ॥
प्। २५०)
परिवारांश्च सर्वेषां स्वनाम्ना चैकमाहुतिः ।
नित्योत्सवं ततः कुर्याद्विघ्नेश प्रतिमान्वितम् ॥ १०० ॥
प्रतिमां पात्रमध्ये तु विन्यसेद्धृदयेन तु ।
ब्रह्मचारी शुचिर्भूत्वा सोष्णीस्सोत्तरीयकः ॥ १०१ ॥
धारयेच्छिरसा चैव आलयं तु प्रदक्षिणम् ।
पादप्रक्षालनं कृत्वा आलयं तु प्रवेशयेत् ॥ १०२ ॥
विसर्जयेत्तु देवेशं स्वगृहं तु प्रवेशनम् ।
उत्सवं सम्प्रवक्ष्यामि शृणुष्व कमलासन ॥ १०३ ॥
पालिकाष्ट संयुक्तमङ्कुरानर्पयेत्ततः ।
प्रासादस्याग्रतः कुर्यान्मण्टपं कारयेत्ततः ॥ १०४ ॥
मण्टपं शालिनास्तीर्य पालिका मध्यमे न्यसेत् ।
मुद्गमाष समायुक्तं सर्षपेन समन्वितम् ॥ १०५ ॥
वापयेन्मूलमन्त्रेण तन्मध्ये सोमकुम्भकम् ।
सुगुप्ते स्थापयेत्तत्र ध्वजारोहणमारभेत् ॥ १०६ ॥
ध्वजपटं पञ्चहस्तं वा सप्तहस्तमथापि वा ।
विस्तारेण समं पुच्छं तदर्धं शिखरं भवेत् ॥ १०७ ॥
क्रमुकं वेणुदण्डं वा स्कन्धत्रय समन्वितम् ।
यष्टिना सङ्घटित्वा तु ध्वजमारोपयेत्ततः ॥ १०८ ॥
रात्रौ ग्रामबलिं दद्यादाभूत सर्वदैवतान् ।
यागस्य मण्टपं कृत्वा ईशे वा चाग्निगोचरे ॥ १०९ ॥
प्। २५१)
वारुण्यां सन्निधौ वापि कर्तव्यं यागमण्टपम् ।
पञ्चषट्सप्तहस्तैर्वा षोडशस्तम्भ संयुतम् ॥ ११० ॥
मध्यमे वेदिकां कुर्यात्तालमात्रोच्छ्रयं भवेत् ।
वेदिबाह्ये तु परितः पञ्चकुण्डानि कारयेत् ॥ १११ ॥
एकाग्निं वाथ कुर्वीत वृत्तकुण्डमिहोच्यते ।
वेदीमध्ये न्यसेच्छालीं दर्भैश्चैव परिस्तरेत् ॥ ११२ ॥
मध्यमे विघ्नकुम्भं तु मूलमन्त्रेण विन्यसेत् ।
अभितः कलशानष्टौ विन्यसेच्छालिमध्यमे ॥ ११३ ॥
दर्भैश्चैव पिधायाष्टौ बृहोदरादि विन्यसेत् ।
स वस्त्रान्सापिधानांश्च स हिरण्यान्सकूर्चकान् ॥ ११४ ॥
मूलमन्त्रेण चाभ्यर्च्य होमं कुर्यात्तु देशिकः ।
समिदाज्यचरुं लाजान् अपूपेन समन्वितम् ॥ ११५ ॥
विद्यादीशान्तकं हुत्वा प्रत्येकं पञ्चविंशतिः ।
गणानाञ्चेति हुत्वा तु पूर्णाहुतिं यदस्य च ॥ ११६ ॥
ततो ग्रामबलिं दद्याद् विघ्नेशप्रतिमान्वितम् ।
शूलं पर"ऽसुखड्गं च दण्डं पद्मं च संयुतम् ॥ ११७ ॥
पञ्चायुध समायुक्तं बलिं दद्याद्विशेषतः ।
प्रथमं भूतरात्रं तु द्वितीयं गन्धमुच्यते ॥ ११८ ॥
तृतीयमृषिरात्रं तु चतुर्थं मन्त्ररात्रकम् ।
सिद्धानां पञ्चमं प्रोक्तं षष्ठं राक्षसमुच्यते ॥ ११९ ॥
प्। २५२)
सप्तमं विघ्नरात्रं तु इत्येता रात्रिदेवताः ।
पञ्चाहम् ऋषिरात्रादि सिद्धादित्र्यहं भवेत् ॥ १२० ॥
आज्ययुक्तोदनं चैव ब्रह्मादीनां बलिं ददेत् ।
कौतुकं बलिदानान्ते कुर्याद्ग्राम प्रदक्षिणम् ॥ १२१ ॥
चूर्णोत्सवं ततः कुर्यात् ततस्तीर्थं समाचरेत् ।
स्नपयेत्कलशं तत्र हृदयेन तु देशिकः ॥ १२२ ॥
जलक्रियां पुनः कृत्वा प्रविशेदालयं प्रति ।
साधितैः कलशैस्तत्र स्नापयेन्मूलबेरकम् ॥ १२३ ॥
स्नपनं सम्प्रवक्ष्यामि शृणुष्व कमलासन ! ।
प्रागग्रं तु चतुस्सूत्रम् उदगग्रं तथैव च ॥ १२४ ॥
शालिना विकिरेत्तत्र मध्यमे स्थापयेद्घटम् ।
पूर्वादीशानपर्यन्तं कलशान्न्यस्य वित्तमः ॥ १२५ ॥
मध्यमे विन्यसेद्विप्र ! बृहोदरादि चाष्टधा ।
द्वितीयावरणे चैव विद्येश्वरांश्च दैवतान् ॥ १२६ ॥
तद्धृतेन च धर्मादीन् क्रमात्पूज्य विशेषतः ।
प्रधान कुम्भे स्वर्णस्य पाद्यं पूर्वे तु विन्यसेत् ॥ १२७ ॥
आचमनीयं चाग्नै तु अर्घ्यं वै दक्षिणे न्यसेत् ।
नैर्-ऋत्यां गन्धतोयं च वारुण्यां तु कुशोदकम् ॥ १२८ ॥
वायव्यां पञ्चगव्यं तु सोमे क्षीरं च विन्यसेत् ।
ईशान्यां दधि संयुक्तं प्रथमावरणान्विते ॥ १२९ ॥
प्। २५३)
घृतं लाजं च सक्तुं च पुष्पभस्म तथैव च ।
रजनी चूर्णं तु कदलीतिलसर्षप संयुतम् ॥ १३० ॥
पनसं नालिकेरं च दाडिमीमातुलुङ्गकम् ।
नारङ्गस्य द्वयं चैव द्वितीयावरणे तथा ॥ १३१ ॥
स कूर्चं वस्त्र संयुक्तं सद्रव्यं साधिदैवतम् ।
एवं वै स्नपनं कुर्यात् सर्वशान्तिकरं परम् ॥ १३२ ॥
कुलैकविंशमुद्धृत्य गणलोकं स गच्छति ।
स्थापने पञ्चनिष्कं तु उत्सवे तु द्विनिष्ककम् ॥ १३३ ॥
स्नपने निष्कमर्धं च आचार्यस्य तु दक्षिणा ।
मूर्तिपान्परिवाराणां यथा शक्त्या तु दक्षिणा ॥ १३४ ॥
इति वीरतन्त्रे विघ्नेशस्थापनार्चनस्नपनोत्सवविधिरष्टपञ्चाशः पटलः ॥ ५८ ॥