पितामहः ॥
शिवं प्रणम्य विधिवत् पर्यपृच्छत्पितामहः ।
सकलाराधनं किं वा तत्सर्वं ब्रूहि मे प्रभो ॥ १ ॥
ईश्वरः ॥
तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! ।
जलस्नानं पुरा कृत्वा भस्मस्नानं समाचरेत् ॥ २ ॥
प्। २३५)
प्रतिमस्याग्रतश्चैव गोमयेनानुलेपनम् ।
उत्तराभिमुखो भूत्वा पूर्वाभिमुख एव वा ॥ ३ ॥
कूर्चं तत्रैव निक्षिप्य आसीनश्चैव देशिकः ।
तस्यैव वामभागे तु दर्भैश्चैव परिस्तरेत् ॥ ४ ॥
गन्धपुष्पं च धूपं च दीपं चैव तु विन्यसेत् ।
पाद्यमाचमनं चार्घ्यं हृदयेन तु विन्यसेत् ॥ ५ ॥
दर्भैः प्रच्छादयेद्विद्वान् ईशमन्त्रेण देशिकः ।
त्रिपादमध्यमे चैव शङ्खं चैव तु विन्यसेत् ॥ ६ ॥
कूर्चेन वा कुशैर्वापि प्रोक्षयेदम्भसा ततः ।
रेचकं पूरकं चैव कुम्भकं च समाचरेत् ॥ ७ ॥
अङ्गुष्ठतर्जनीभ्यां तु हुङ्कारेण समन्वितम् ।
फट्कारेण समायुक्तं दशदिक्षु च शोधयेत् ॥ ८ ॥
हस्ताभ्यां संस्पृशेत्पूर्वं कादिपादान्तमेव च ।
ईशानमङ्गुष्ठे न्यस्य तर्जन्यां चैव देशिकः ॥ ९ ॥
शेषाङ्गुलाश्च विप्रेन्द्र अङ्गुष्ठेन तु विन्यसेत् ।
पुरुषं तर्जनीं न्यस्य अघोरं मध्यमे न्यसेत् ॥ १० ॥
अनामिकां वामदेवं तु सद्यं कनिष्ठिके न्यसेत् ।
षडङ्गं विन्यसेत्तत्र पूर्वोक्तेन विधानतः ॥ ११ ॥
हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत् ।
शिखायां तु शिखां न्यस्य कवचं स्तनमध्यतः ॥ १२ ॥
प्। २३६)
अस्त्रं हस्तप्रदेशे तु नेत्रं नेत्रे च विन्यसेत् ।
ईशानमूर्तिं विन्यस्य मुखे तत्पुरुषं न्यसेत् ॥ १३ ॥
अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् ।
सद्योजातं न्यसेत्पादे विन्यसेत्तु विशेषतः ॥ १४ ॥
ब्रह्माणं मूर्ध्नि विन्यस्य ललाटे चेश्वरं न्यसेत् ।
मुखे विष्णुं न्यसेद्विद्वान्कर्णयोरश्विनौ न्यसेत् ॥ १५ ॥
कण्ठे च पितरश्चैव इन्द्रश्च हृदये न्यसेत्
आदित्यं दक्षिणे बाहौ सोमं विन्यस्य वामके ॥ १६ ॥
कुक्षावग्निं न्यसेत्तत्र यमं मेढ्रे च विन्यसेत् ।
वरुणं दक्षिणे जानौ अपरे वायुरुच्यते ॥ १७ ॥
विश्वेदेवाश्च विप्रेन्द्र द्वौ पादौ विन्यसेत्ततः ।
विन्यसेत्सृष्टिमूर्तीनां सृष्टि न्यासमुदाहृतम् ॥ १८ ॥
स्थितिमूर्तेश्च विप्रेन्द्र ! स्थिति न्यासमुदाहृतम् ।
संहारमूर्तिनां चैव संहार न्यासमुच्यते ॥ १९ ॥
पूजकस्यादि देहे तु विन्यसेद्देहमेव तु ।
एवं न्यासविधानेन पश्चात्पूजनमारभेत् ॥ २० ॥
प्रतिमाश्चाग्रतश्चैव पीठलक्षणसंयुतम् ।
तालमात्रप्रविस्तारं तदर्धं चोच्छ्रयं भवेत् ॥ २१ ॥
त्रिमेखलासमायुक्तम् अथवा चैकमेखलम् ।
मात्राङ्गुलेन कर्तव्यं मेखलोच्चं द्वयाङ्गुलम् ॥ २२ ॥
प्। २३७)
वेशनं तद्वदेव स्याद् दर्पणोदरवत्कृतम् ।
प्रतिमानां च सर्वासां पीठे कर्मार्चनं यजेत् ॥ २३ ॥
प्रतिमे वार्चयेद्विप्र ! गन्धपुष्पान्त संयुतम् ।
चलं चैवाचलं चैव द्विविधं प्रतिमं भवेत् ॥ २४ ॥
चलं लोहमयं प्रोक्तम् अचलं च चतुर्विधम् ।
शिलाभिर्मृण्मयैर्वापि भित्तिचित्रे पटेऽपि वा ॥ २५ ॥
एवं चतुर्विधं प्रोक्तम् अचलं देशिकोत्तमः ।
शैलजं प्रतिमं चैव अभिषेकं तु कारयेत् ॥ २६ ॥
मृण्मयं भित्तिचित्रं च पटं चैव तु प्रोक्षयेत् ।
लोहजं प्रतिमं चैव स्नापयेत्प्रोक्षयेत्तु वा ॥ २७ ॥
प्रासादे प्रतिमं स्थाप्य भित्तिचित्रे पटेपि वा ।
पीठे सम्पूजयेत्तत्र परिवार समन्वितम् ॥ २८ ॥
नैवेद्यं दापयेत्तत्र नित्योत्सवं तु कारयेत् ।
केवलं स्थापित इदमन्यच्छृणुष्वथ ॥ २९ ॥
एवं लिङ्गस्य स्थाने तु स्थापितं प्रतिमं ततः ।
परिवारं न कर्तव्यं श्रीबिल्वं च न कारयेत् ॥ ३० ॥
केवलं स्थापिते चैव सिंहं पद्मं तथैव च ।
वीरासनं तदूर्ध्वे तु कल्पयेद्देशिकोत्तमः ॥ ३१ ॥
गर्भावरण संयुक्तं पूजयेत्तु विधानतः ।
निष्कलाश्रितं यत्तु आसनावरणायुतम् ॥ ३२ ॥
प्। २३८)
गन्धपुष्पादिना चैव अर्चयेत्तु विशेषतः ।
प्रतिमानां च सर्वासां तिष्ठन्तद्येनमेव वा ॥ ३३ ॥
स्नानादि सर्वकार्येषु आसीनश्चैव सर्पयेत् ।
आसीनस्तत्र सकलं पूजयेत्तु विशेषतः ॥ ३४ ॥
लिङ्गं वा प्रतिमां वापि स्वस्वरूपेण भावयेत् ।
अन्यरूपं न कर्तव्यं कर्तव्यं चेद्विनाशनम् ॥ ३५ ॥
पूजापर्युषितं सर्वं हृदयेन विसर्जयेत् ।
वस्त्रमाभरणं चैव क्षालयेच्छुद्धिरुच्यते ॥ ३६ ॥
आवाहयेत्तु सद्येन वामेन स्थापयेद्बुधः ।
पाद्यार्घ्याचमनीयं च दद्यात्पूर्ववदेव तु ॥ ३७ ।
पञ्चब्रह्मेण मन्त्रेण अभिषेकं तु कारयेत् ।
वस्त्रं दत्वा त्वघोरेण गन्धं वै शिरसा ददेत् ॥ ३८ ॥
पुष्पमीशान मन्त्रेण धूपं दद्यात्तु वा मतः ।
दीपं सद्येन दद्यात्तु हृदयेन हविर्ददेत् ॥ ३९ ॥
ताम्बूलं शिरसा दद्यादेवमेव क्रमेण तु ।
पूर्वोक्तेन क्रमेणैव गर्भावरणकं यजेत् ॥ ४० ॥
शिवद्विजेन कर्तव्यम् अन्यश्चैव न कारयेत् ।
एवं यः कुरुते मर्त्यः सर्वपापाद्विमुच्यते ॥ ४१ ॥
सकलाराधनं प्रोक्तं विघ्नेशस्थापनं शृणु ॥ ४१ � ॥
इति वीरतन्त्रे सकलाराधनविधिः सप्तपञ्चाशः पटलः ॥ ५७ ॥