प्। २३१)
अनुक्तं यद्भवेद्दोषं शान्तिहोमेन शाम्यति ।
दिशाहोमं प्रवक्ष्यामि शृणुष्व चतुरानन ! ॥ १ ॥
प्रासादस्य चतुर्दिक्षु दिशाहोमं तु कारयेत् ।
अग्निमुखं च सङ्कल्प्य पूर्वोक्तेन विधानतः ॥ २ ॥
हस्तमात्रेण विप्रेन्द्र ! स्थण्डिलं कारयेत्ततः ।
प्रासादस्य चतुर्दिक्षु पूर्वे तु चतुरश्रकम् ॥ ३ ॥
दक्षिणे चार्धचन्द्राभं वृत्तं चैव तु वारुणे ।
पद्मं चैव तु सौम्यायां कुण्डं वा स्थण्डिलं तु वा ॥ ४ ॥
प्लक्षं चैव तु पूर्वायाम् उदुम्बरं च दक्षिणे ।
अश्वत्थं वारुणे चैव वटं चैवोत्तरे दिशि ॥ ५ ॥
एवं विधैः समिद्भिश्च हूयते देशिकस्तथा ।
सहस्रं वा तदर्धं वा अष्टोत्तरशतं तु वा ॥ ६ ॥
सद्यादीशानपर्यन्तं जुहुयात्तु शताहुतिः
आज्येन चरुणा चैव जुहुयात्तु शताहुतिः ॥ ७ ॥
तण्डुलैस्तिलमिश्रैश्च ईशानेन शताहुतिः ।
द्रव्यान्ते चैव द्रव्यान्ते व्याहृतिं जुहुयात्ततः ॥ ८ ॥
दिशाहोममिदं प्रोक्तं मूर्तिहोमं ततः शृणु ।
शिवाग्रे मण्टपं कृत्वा स्थण्डिलं शालिभिः कुरु ॥ ९ ॥
मध्यमे स्थापयेत्कुम्भं स सूत्रं सापिधानकम् ।
स वस्त्रं स हिरण्यं च सकूर्चं वारिपूरितम् ॥ १० ॥
प्। २३२)
अभितः कलशानष्टौ अष्टमूर्तिं च विन्यसेत् ।
आदित्यश्च तथाचाग्निः सोमो धरणिरेव च ॥ ११ ॥
आकाशश्चैव वायुश्च वरुणो यजमानकम् ।
पूर्वादीशानपर्यन्तं पूजयेद्गन्धपुष्पकैः ॥ १२ ॥
पञ्चब्रह्मेण सम्पूज्य गन्धपुष्पादिना ततः ।
कलशान्बाह्यतो विप्र ! अष्टदिक्ष्वष्ट होमयेत् ॥ १३ ॥
समिदाज्यचरुक्षीरं यवने सह देशिकः ।
एकैकाष्टशतं चैव ईशानादीनि हूयते ॥ १४ ॥
पश्चात्तु स्थापयेत्तत्र मूलबेरे विशेषतः ।
हविर्निवेदयेत्पश्चात् शिवस्य परमेष्ठिनः ॥ १५ ॥
मूर्ति होममिति ख्यातं वास्तुहोममथ शृणु ।
प्रासादे मण्टपे चैव लिङ्गस्थापनकर्मणि ॥ १६ ॥
प्रतिमास्थापने चैव सभाकूपतटाकके ।
उद्याने वापि विप्रेन्द्र ! वास्तुहोमं तु कारयेत् ॥ १७ ॥
आदिशैवेन कर्तव्यम् अथवा दीक्षितेन वा ।
समरीय पदे कृत्वा स्थण्डिलं सिकतेन वा ॥ १८ ॥
स्थण्डिलस्य तु पूर्वे तु जलावर्तं तु विन्यसेत् ।
शुद्धतोयेन सम्पूर्य होमं तत्रैव निक्षिपेत् ॥ १९ ॥
पश्चात्पूर्वशाखैश्च तस्य मध्ये तु निक्षिपेत् ।
गन्धपुष्पादिनाभ्यर्च्य उल्लेखनं तु कारयेत् ॥ २० ॥
प्। २३३)
तिस्रः पूर्वमुखा रेखां तद्वदुत्तरमेव च ।
अघोरास्त्रेण चा लिख्य प्रोक्षयेत्पुरुषेण तु ॥ २१ ॥
हृदयेनाग्निं निक्षिप्य उपस्थानं तथैव च ।
परिस्तरेत दर्भैश्च पूर्वोक्तेन परिस्तरेत् ॥ २२ ॥
पात्राणि साधयेत्तत्र अग्नेरुत्तरतो बहिः ।
प्रणीतामुत्तरे स्थाप्य ब्रह्माणं दक्षिणे यजेत् ॥ २३ ॥
इन्द्रादिलोकपालांश्च पूरयेत्तु स्वदेशतः ।
आज्याधिश्रवणं कुर्यात् पूर्वोक्तेन विधानतः ॥ २४ ॥
स्रुवं चैव गृहीतव्यं संस्कारं पूर्ववत्कृतम् ।
दक्षिणे चोत्तरे चैव उत्तरे परिधीन्न्यसेत् ॥ २५ ॥
अघोरसमिधो न्यस्त्वा परिषेचनं ततः कुरु ।
तूष्णीमध्यं तु दद्यात्तु अघोरं चैव हूयते ॥ २६ ॥
सद्यादीशानपर्यन्तं दिक्षु मध्ये च होमयेत् ।
चरुं हुत्वार्थभस्मन्नाज्यं वास्तोष्पतेति च ॥ २७ ॥
वास्तु देवतानां तु अघोरं चैव हूयते ।
सद्यादीशानपर्यन्तं घृतेनैव तु होमयेत् ॥ २८ ॥
वास्तु दैवतनामानि स्वाहान्तं चैव हूयते ।
पायसान्नङ्गुलं युक्तं घृते नैव परिप्लुतम् ॥ २९ ॥
वास्तुदेवबलिं दत्वा लोकपालबलिं क्षिपेत् ।
जयादिरभ्यधानं च राष्ट्रभृच्चैव हूयते ॥ ३० ॥
प्। २३४)
आज्येन चरुणा चैव हव्यवाहं समुच्चरन् ।
स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरे ॥ ३१ ॥
आज्येनैव यदस्येति स्विष्टकृद्धूयते क्रमात् ।
परिषेचनं ततः कृत्वा परिधान्यानि धापयेत् ॥ ३२ ॥
विसर्जयेत्तु ब्रह्माणं दक्षिणां दापयेत्ततः ।
प्रणीतोदकेन सम्प्रोक्ष्य पवमानमुदीरयन् ॥ ३३ ॥
आचार्यं पूजयेत्तत्र वस्त्रधान्यादिकाञ्चनैः ।
सवत्साङ्गां प्रदद्यात्तु आचार्याय विशेषतः ॥ ३४ ॥
आचार्य दक्षिणाहीने क्रिया निष्फलतां व्रजेत् ।
क्रियाशरीरमित्युक्तं दक्षिणा जीव उच्यते ॥ ३५ ॥
क्रियायां दक्षिणाहीने निर्जीवं स्यात्तु निष्फला ।
तस्मात्सर्वप्रयत्नेन आचार्यं पूजयेत्सदा ॥ ३६ ॥
वास्तुहोममितिख्यातं सकलाराधनं शृणु ॥ ३६ � ॥
इति वीरतन्त्रे मूर्ति वास्तुहोमः षट्पञ्चाशः पटलः ॥ ५६ ॥