५५

शान्तिहोमं कथं देव ! दिशाहोमं कथं प्रभो ! ।
मूर्तिहोमं कथं शम्भो ! ब्रूहि मे परमेश्वर ! ॥ १ ॥

प्। २३०)

ईश्वरः ॥

शान्तिहोममहं वक्ष्ये शृणुष्व कमलासन ! ।
पूर्वोक्तमण्डपं वापि अग्निशालामथापि वा ॥ २ ॥

अग्निकुण्डेषु होतव्यं स्थण्डिले वापि कारयेत् ।
चतुरश्रं वाथ वृत्तम् अग्निकुण्डं तु कारयेत् ॥ ३ ॥

त्रिमेखलासमायुक्तम् अथवा एकमेखला ।
एवं तत्रैव सङ्कल्प्य दर्पणोदरवत्कृतम् ॥ ४ ॥

शोधनं क्षालनं चैव शोषणं पाचनं तथा ।
मथित्वा तु गृहीत्वा तु हृदयेन प्रतिष्ठितम् ॥ ५ ॥

काष्ठं तु शिरसा दद्याज्ज्वालयेदस्त्र मन्त्रतः ।
उपस्थानं शिरसा कृत्वा परिस्तरणमेव च ॥ ६ ॥

दशदर्भैः समायुक्तं पूर्वे चैव परिस्तरेत् ।
दक्षिणे पश्चिमे चैव उत्तरे च परिस्तरेत् ॥ ७ ॥

परिधीन्दक्षिणे न्यस्य पश्चिमे चोत्तरे न्यसेत् ।
पात्राणां साधनं चैव हूयते क्रमशस्ततः ॥ ८ ॥

समिधा पञ्चब्रह्मेण आज्यं चैव षडङ्गकैः ।
अघोरेण चरुं हुत्वा जुहुयात्तु शताहुतिः ॥ ९ ॥

द्रव्यं प्रति विशेषेण व्याहतिं जुहुयात्ततः ।
शान्तिहोममितिख्यातं दिशाहोमं ततः शृणु ॥ १० ॥

इति वीरतन्त्रे शान्तिहोमविधिः पञ्चः पञ्चाशः पटलः ॥ ५५ ॥