पितामहः ॥
देवदेवं प्रणम्यादौ पर्यपृच्छत्पितामहः ।
कुण्डानां लक्षणं किं च तत्सर्वं ब्रूहि मे प्रभो ! ॥ १ ॥
ईश्वरः ॥
प्। २२१)
एतेषां लक्षणं चैव आयुधानष्टमङ्गलान् ।
स्रुक्स्रुवाणां विधिं चैव शृणुष्व कमलासन ! ॥ २ ॥
कुटीदहनमाचष्टे यन्त्राग्निः समिदाहुतिः ।
दहत्यशेषभावेन तत्कुण्डमिह सञ्ज्ञितम् ॥ ३ ॥
प्रतिष्ठाद्युत्सवे काले जलसम्प्रोक्षणे तथा ।
स्नपने दीक्षाकाले तु पवित्रारोहणादिषु ॥ ४ ॥
एवमादिषु कालेषु वर्तयेत्कुण्डमेव च ।
त्रीणि सूत्राणि पूर्वाग्रम् उदगग्रं तथैव च ।
हस्तमात्र प्रमाणेन मात्राङ्गुल समन्वितम् ॥ ६ ॥
वर्तयेच्चतुरश्रं तु भावयेच्च क्रमेण तु ।
योन्यादि सर्वकुण्डानि चतुरश्रे प्रजायते ॥ ७ ॥
पूर्वे तु चतुरश्रं स्याद् अग्नावश्वत्थपत्रवत् ।
याम्यायामर्धचन्द्रं च नैर्-ऋत्यां तु त्रिकोणकम् ॥ ८ ॥
वारुण्यां वर्तुलं चैव वायव्यां पञ्चकोणकम् ।
सौम्यायां सप्तकोणं तु ऐशान्यामष्टकोणकम् ॥ ९ ॥
एवमेव क्रमेणैव कुण्डानि वर्तयेत्ततः ।
कर्णसूत्रस्य मोक्षांशं पश्चिमे विन्यसेत्ततः ॥ १० ॥
वर्तयेत्तेन मानेन कोणान्तं तु विशेषतः ।
दक्षिणे चोत्तरे वृत्तं कारयेद्देशिकोत्तमः ॥ ११ ॥
प्। २२२)
सप्तांशं विभजेत्कर्णम् इन्द्रेणैकांशकं न्यसेत् ।
कोणादि तत्र सूत्रं च विन्यसेद्देशिकोत्तमः ॥ १२ ॥
एवमेव क्रमेणैव कुण्डं योन्याकृतिर्भवेत् ।
चतुरश्रस्य कर्णं तु ग्राहयेत्तु द्विजोत्तमः ॥ १३ ॥
ततो विसृज्यक्षेत्रार्धं शेषं कुर्यात्त्रिभागिकम् ।
भागमेकं न्यसेत्पूर्वे मध्यात्पूर्वादि भ्रामयेत् ॥ १४ ॥
वर्तुलं कृतमेवं तु तत्रार्धं धनुरुच्यते ।
अष्टभागकृतं क्षेत्रम् एकभागं तु दक्षिणे ॥ १५ ॥
उत्तरे चैकभागं तु एकभागं तु पूर्वतः ।
विन्यसेच्चैव विप्रेन्द्र ! तेन मानेन सूत्रकम् ॥ १६ ॥
एवमेव क्रमेणैव त्रिकोणं प्रोच्यते क्रमात् ।
सप्तभागकृतं क्षेत्रं विन्यसेत्पूर्वमेकशः ॥ १७ ॥
तस्मान्मध्यं गृहीत्वा तु वृत्तं कृत्वा तु देशिकः ।
कर्णार्धमष्टधा भित्वा कर्णार्धेन समन्वितम् ॥ १८ ॥
तेन मानेन प्राच्यादि पञ्चकोणं करोति हि ।
लिकेशांशं तु क्षेत्रं स्यात्पूर्वमेकेन विन्यसेत् ॥ १९ ॥
तस्मान्मध्यं गृहीत्वा तु वृत्तकुण्डं करोति हि ।
क्षेत्रं द्वात्रिंशदंशं तु क्षेत्रार्धेन तु योजयेत् ॥ २० ॥
सप्ताश्रं कुण्डमित्युक्तं प्रागादि विन्यसेत्ततः ।
वसुभागकृतं क्षेत्रं दक्षिणे चार्धभागतः ॥ २१ ॥
प्। २२३)
उत्तरे चार्धभागं तु विन्यसेद्देशिकोत्तमः ।
तस्मान्मध्यं गृहीत्वा तु कृत्वा षट्कोणमेव च ॥ २२ ॥
पूर्वे च पश्चिमे चैव द्वौ द्वौ कर्णमिहोच्यते ।
दक्षिणे चोत्तरे चैकं कोणमित्यभिधीयते ॥ २३ ॥
पूर्ववद्वृत्तकुण्डं तु कुर्याद्वै देशिकोत्तमः ।
अष्टपत्रसमं कृत्वा पद्मकुण्डमिहोच्यते ॥ २४ ॥
क्षेत्रं चैवं चतुर्विंशद् भागं कृत्वा तु देशिकः ।
अभ्यन्तरे तु विन्यस्य चतुर्दिक्षु विशेषतः ॥ २५ ॥
मध्यात्कर्णं गृहीत्वा तु चतुर्दिक्षु च लाञ्छयेत् ।
लाञ्छनं कोणकं गृह्य एतदभ्यन्तरस्य तु ॥ २६ ॥
अष्टकोणं प्रकर्तव्यं सूत्रमानेन देशिकः ।
अथवान्यप्रकारेण कुण्डं कुर्यात्तु देशिकः ॥ २७ ॥
यावदश्रं भवेत्पीठं तावदश्रं तु कुण्डलम् ।
मेखलां च प्रकर्तव्यं विस्तारोत्सेधतत्समम् ॥ २८ ॥
ऊर्ध्वे तु चतुरङ्गुल्यं मध्यमं तु त्रियङ्गुलम् ।
अधस्तान्मेखला विप्र ! द्व्यङ्गुलं तदिहोच्यते ॥ २९ ॥
योनिं प्रकल्पयेद्विद्वान् मेखलोपरि देशिकः ।
विस्तारं चतुरङ्गुल्यं सप्ताङ्गुलं तु दैर्घ्यकम् ॥ ३० ॥
गजोष्ट्रसदृशाकारं मेखलां तन्तुनालकम् ।
हस्तमात्रं खनेद्भूमिं विस्तारं तलमेव तु ॥ ३१ ॥
प्। २२४)
निम्नोन्नतक्षयं कुर्याद् दर्पणोदरवत्कृतम् ।
मध्ये नाभिं प्रकल्प्याथ एकाङ्गुलं तु विष्ठरम् ॥ ३२ ॥
कुण्डानां लक्षणं प्रोक्तम् अस्त्राणां लक्षणं शृणु ।
वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् ॥ ३३ ॥
गदा शूलं च चक्रं च पद्मं चेति दशायुधम् ।
सौवर्णं राजतं ताम्रं याज्ञिकं वृक्षमेव वा ॥ ३४ ॥
प्लक्षोदुम्बरमश्वत्थं वटं चैव तु खादिरम् ।
वैकङ्कतमयं वापि कुर्यादस्त्रमनुत्तमम् ॥ ३५ ॥
द्वात्रिंशदङ्गुलं दैर्घ्यं मात्राङ्गुलं तु कारयेत् ।
विस्तारं च षडङ्गुल्यं घनं तस्यार्धमुच्यते ॥ ३६ ॥
षडङ्गुलप्रमाणेन शूलं कृत्वा तु देशिकः ।
मध्ये पद्ममृजुं कृत्वा बहिर्वक्रं तु पार्श्वयोः ॥ ३७ ॥
तदधो गण्डिका चैव अङ्गुलोच्चं तु कारयेत् ।
तदधो गण्डिकां कुर्यादर्धाङ्गुलेन कारयेत् ॥ ३८ ॥
षडङ्गुलपरीणाहं मध्ये दण्डं प्रकल्पयेत् ।
मध्यमे गण्डिकां कुर्यादङ्गुलद्व्यमानतः ॥ ३९ ॥
तदूर्ध्वे तदधश्चैव द्वाभ्यामङ्गुलिना कुरु ।
एवमेव क्रमेणैव द्वयोरग्रं तु शूलवत् ॥ ४० ॥
एवं वज्रं समाख्यातं शक्तिलक्षणमुच्यते ।
चतुरङ्गुलविस्तारं दीर्घं पूर्ववदेव तु ॥ ४१ ॥
प्। २२५)
द्वयोरग्रं तु विप्रेन्द्र ! शूलस्य मध्यपत्रवत् ।
तस्योच्छ्रयं षडङ्गुल्यम् एकाङ्गुलेन गण्डिका ॥ ४२ ॥
मध्यमे गण्डिकां कुर्यादङ्गुलद्वयमेव च ।
तदूर्ध्वे तदधश्चापि द्वाभ्यामङ्गुलिना भवेत् ॥ ४३ ॥
गण्डिका तत्र कर्तव्या शक्तिलक्षणमुच्यते ।
वज्रवत्फलका चैव तदूर्ध्वे गण्डिकाङ्गुलिः ॥ ४४ ॥
अष्टाङ्गुलं तु विस्तारं दण्डस्यैव विशेषतः ।
घटस्योच्चं षडङ्गुल्यं तदधो गण्डिकाङ्गुलिः ॥ ४५ ॥
षडङ्गुलप्रमाणेन दण्डनाहमिहोच्यते ।
पूर्ववद्दीर्घमेवं स्यान् मध्ये वक्रं तथैव च ॥ ४६ ॥
वक्रादूर्ध्व क्रमेणैव कृशं कुर्याद्विचक्षणः ।
मूले तु फलकां कृत्वा विस्तारं तु षडङ्गुलम् ॥ ४७ ॥
तदूर्ध्वे वर्तुलाकारां फलकां कारयेत्ततः ।
तद्दीर्घं फलकां कृत्वा मध्ये पाशं तु लेखयेत् ॥ ४८ ॥
अङ्कुशस्य प्रमाणं तु प्रवक्ष्याम्यनुपूर्वशः ।
दीर्घं तु पूर्ववत्कृत्वा अग्रे सूचीमुखं ततः ॥ ४९ ॥
अग्रात्षडङ्गुले चैव अधस्ताच्चक्र सूचिना ।
चतुरङ्गुलदैर्घ्यं तु नाहमेकाङ्गुलं भवेत् ॥ ५० ॥
एवमङ्कुशवक्रं च दण्डनाहं षडङ्गुलम् ।
गदां तु दण्डवत्कृत्वा अग्रे सूचिं तु कारयेत् ॥ ५१ ॥
प्। २२६)
त्रिशूलं पूर्ववत्कृत्वा त्रिपत्रं पालिकायुतम् ।
पालिका तु चतुष्कोणे वृषभं स्थापयेत्पुनः ॥ ५२ ॥
एवं शुलं समाख्यातं चक्रलक्षणमुच्यते ।
चक्रस्य शूलवन्मानं वृत्तरूपमिहोच्यते ॥ ५३ ॥
द्वादशार समायुक्तं मध्ये नाभिसमायुतम् ।
एवं चक्रं समाख्यातं पद्मं चैव शृणुष्वथ ॥ ५४ ॥
मुकुलं चाष्टाङ्गुलं प्रोक्तं तदधो गण्डिकाङ्गुलम् ।
पञ्चाङ्गुलं तु विप्रेन्द्र ! दण्डनाहमिहोच्यते ॥ ५५ ॥
एवं पद्मं समाख्यातम् अष्टमङ्गलमुच्यते ।
षोडशाङ्गुलदैर्घ्यं स्यादष्टाङ्गुलं तु विस्तरम् ॥ ५६ ॥
अधस्तात्तु षडङ्गुल्यं पद्मं चैव तु कारयेत् ।
दर्पणं पूर्णकुम्भं च वृषभं युग्मचामरम् ॥ ५७ ॥
श्रीवत्सं स्वस्तिकं शङ्खं दीपो देवाष्टमङ्गलम् ।
विन्यसेत्फलकामध्ये अष्टमङ्गलमुच्यते ॥ ५८ ॥
षड्विंशत्यङ्गुलं दैर्घ्यं विस्तारं तु दशाङ्गुलम् ।
वर्णेन लेखयित्वा तु लाञ्छयेच्छिल्पिना ततः ॥ ५९ ॥
तद्रूपमासनायुक्तं लेखयेदष्टमङ्गलम् ।
स्रुवस्य लक्षणं वक्ष्ये चतुर्विंशतिरङ्गुली ॥ ६० ॥
दीर्घमेवं समाख्यातं वृत्तं चैव षडङ्गुलम् ।
कर्णं त्रियङ्गुलं प्रोक्तं मानं पूज्याक्षयं भवेत् ॥ ६१ ॥
प्। २२७)
लेखयित्वा तु विप्रेन्द्र ! नाहं चैव षडङ्गुली ।
नासिकावद्बलिं कृत्वा स्रुवलक्षणमुच्यते ॥ ६२ ॥
स्रुग्लक्षणमथो वक्ष्ये विविधं चोच्यते मया ।
षट्त्रिंशदङ्गुलायामम् अष्टाङ्गुलसुविस्तरम् ॥ ६३ ॥
उत्सेधं तु षडङ्गुल्यं फलकां चैव कारयेत् ।
अग्रं चैव त्रिभागैकं सप्ताङ्गुलं तु दैर्घ्यकम् ॥ ६४ ॥
आनुपूर्व्यात्क्षयं कृत्वा निम्नोन्नत विवर्जितम् ।
रसाङ्गुल प्रविस्तारं कर्णं चैव समाहितः ॥ ६५ ॥
कर्णोच्चं तु द्व्याङ्गुल्यं तदधः फलका भवेत् ।
अष्टाङ्गुलेन वेदिः स्याद् विस्तार तावदेव तु ॥ ६६ ॥
वेदिबाह्ये तु परितः पट्टिकार्धाङ्गुलेन तु ।
मध्यमे चतुरङ्गल्यं बलिं चैव तु कारयेत् ॥ ६७ ॥
परितो बिलबाह्ये तु पट्टिकार्धाङ्गुलेन तु ।
द्वयोः पट्टिकयोर्मध्ये यवद्वयं तु निम्नकम् ॥ ६८ ॥
चतुरङ्गुलं बिलं निम्नं कृत्वा चैव तु देशिकः ।
बिलाच्चैव मुखान्तं स्यात्खातं कनिष्ठमानतः ॥ ६९ ॥
पद्मपृष्ठ समाकारम् अधः पद्मसमन्वितम् ।
गजोष्ट्र सदृशाकारं मत्स्यपृष्ठाकृतिर्भवेत् ॥ ७० ॥
गण्डिका चैव कर्तव्या अङ्गुलीत्रयमुच्यते ।
तदधो गण्डिका बाह्यां तदधो गण्डिकां शृणु ॥ ७१ ॥
प्। २२८)
दण्डं षडङ्गुलं नाहं दण्डमूले घटो भवेत् ।
द्वयाङ्गुलप्रमाणेन घटं कृत्वा तु देशिकः ॥ ७२ ॥
स्रुग्लक्षणमिदं प्रोक्तं तोरणानां शृणुष्वथ ।
पञ्चहस्तप्रमाणेन उत्तमं तोरणोच्छ्रयम् ॥ ७३ ॥
चतुर्हस्तं मध्यमं प्रोक्तं तालहीनं तु चाधमम् ।
उत्सेधार्धं तु विस्तारं फलकां चैव विन्यसेत् ॥ ७४ ॥
तदूर्ध्वे तु द्वयङ्गुल्यं विन्यसेद्देशिकोत्तमः ।
एवं तोरणमाख्यातं दर्भमालां शृणुष्वथ ॥ ७५ ॥
उत्तमं सप्तदर्भैश्च मध्यमं पञ्च उच्यते ।
अधमं त्रीणि दर्भाणि तदग्रे रज्जु रुच्यते ॥ ७६ ॥
हस्तं प्रलम्बयेद्धीमान् कारयेद्दर्भमालिकाः ।
परिधीलक्षणं वक्ष्ये अवक्रं निर्व्रणं शुभम् ॥ ७७ ॥
द्वात्रिंशदङ्गुलायामं तिस्रः परिधयो भवेत् ।
षट्त्रिंशदङ्गुलायामं त्रिधा दर्भैः परिस्तरेत् ॥ ७८ ॥
चतुरङ्गुलमानेन ग्रथितं तु प्रदक्षिणम् ।
चत्वारि विष्ठरं कुर्यादाज्यस्थाल्यादिकं शृणु ॥ ७९ ॥
आज्यस्थालीं प्रणीतां च प्रोक्षणीं च तथैव च ।
विस्तारं च षडङ्गुल्यम् उत्सेधं तु द्वयाङ्गुलम् ॥ ८० ॥
समिधो लक्षणं वक्ष्ये द्वादशाङ्गुलदैर्घ्यकम् ।
आज्यं स्रुवप्रपूर्णं च हस्तमात्रप्रमाणतः ॥ ८१ ॥
प्। २२९)
तदधश्च तदूर्ध्वं च तिलादीन्शुक्तिमात्रकम् ।
अन्नमक्ष प्रमाणेन गुलं वै तत्प्रमाणतः ॥ ८२ ॥
द्रवं स्रुवेण होमं तु अन्यं हस्तेन हूयते ।
स्थलिका चैव कर्तव्या हस्तमात्र प्रमाणतः ॥ ८३ ॥
तदधश्च तदूर्ध्वे तु कुर्याद्वित्तानुसारतः ।
पीठोच्चं तु त्रिपादींश्च कारयेद्देशिकोत्तमः ॥ ८४ ॥
कूर्चानां लक्षणं वक्ष्ये अधमं तु त्रिदर्भकैः ।
मध्यमं पञ्चदर्भैस्तु सप्तदर्भैस्तु चोत्तमम् ॥ ८५ ॥
दक्षिणावर्त संयुक्तं तदग्रे ग्रथितं भवेत् ।
कूर्चानां लक्षणं प्रोक्तं वस्त्राणां लक्षणं शृणु ॥ ८६ ॥
अधमं चाष्टहस्तं स्यान्मध्यमं दशहस्तकम् ।
उत्तमं द्वादश प्रोक्तं विस्तारं पञ्चतालकम् ॥ ८७ ॥
वस्त्रलक्षणमेवोक्तं वितानस्य विधिं शृणु ।
षट्सप्त चैव दीर्घं स्यादष्टतालं तु विस्तरम् ॥ ८८ ॥
वितानलक्षणं प्रोक्तम् एवमेव क्रमेण तु ।
कुण्डानां लक्षणं प्रोक्तं शान्तिहोमं शृणुष्वथ ॥ ८९ ॥
इति वीरतन्त्रे कुण्डादिलक्षणविधिश्चतुः पञ्चाशः पटलः ॥ ५४ ॥