पितामहः ॥
कीदृशानि विधानीह क्षीरस्नानविधिः परः ।
एतत्सर्वं समासेन वक्तुमर्हसि मे प्रभो ! ॥ १ ॥
ईश्वरः ॥
तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! ।
अनावृष्ट्यादिकालेषु ज्वरमारी प्रवर्तने ॥ २ ॥
महारोगसमुत्पन्ने युद्धारम्भे तथैव च ।
शत्रूणां पीडने काले क्षीरस्नानं विधीयते ॥ ३ ॥
उत्तमं कपिलाक्षीरं मध्यमं श्वेतजं भवेत् ।
अधमं रक्तजं प्रोक्तं स्नापयेद्देशिकोत्तमः ॥ ४ ॥
नन्दा भद्रा च सुरभिः सुशीला सुमनस्तथा ।
पञ्चगावसमुत्पन्ना लोकानुग्रहकाम्यया ॥ ५ ॥
तासां वर्गेषु जातानां क्षीरं सङ्गृह्य देशिकः ।
क्षीरस्नानं त्रिधा प्रोक्तः मुत्तमं मध्यमाधमम् ॥ ६ ॥
धारोष्णं पयसा चैव स्नपयेद् हृदयेन तु ।
अधमं चैतदुद्दिष्टं मध्यमं च ततः शृणु ॥ ७ ॥
प्। २१८)
गोक्षीरं गृह्य सर्वासाम् एकभाण्डे प्रपूरयेत् ।
शिवस्य पुरतो विप्र ! गोमयेनानुलेपयेत् ॥ ८ ॥
शालिना स्थण्डिलं कृत्वा पुण्याहं वाचयेत्ततः ।
सूत्रपातं प्रकर्तव्यं शास्त्रदृष्टेन तन्तुना ॥ ९ ॥
चतुर्दशानि सूत्राणि पूर्वाभिमुखमेव च ।
उत्तराग्रं तथा सूत्रं विन्यसेद्देशिकोत्तमः ॥ १० ॥
मध्ये नवपदं स्थित्वा तद्बाह्येकं परित्यजेत् ।
तद्बाह्यावरणाद्बाह्ये पदमेकन्तु ह्रासयेत् ॥ ११ ॥
द्वारार्थं च चतुर्दिक्षु पदमेकं तु ह्रासयेत् ।
मध्यमेन पदे चैवं शालिना विकिरेत्ततः ॥ १२ ॥
शाल्यर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् ।
परिस्तरेत्तु दर्भैश्च प्रोक्षयेद् हृदयेन तु ॥ १३ ॥
सुदृढान्निष्कलङ्कांश्च आढकेनैव पूरितान् ।
कलशान्ग्राहयेत्तेन सूत्रेण वेष्टयेत्ततः ॥ १४ ॥
क्षालयेद्वारिणा चैव ईशानेन तु प्रोक्षयेत् ।
मध्यमे शिवकुम्भं तु क्षीरेणैवाभिपूरयेत् ॥ १५ ॥
वर्धनीं तस्य वामे तु पूरयेत्क्षीरमेव च ।
शिवबीजेन मन्त्रेण स्थापयेच्छिवकुम्भकम् ॥ १६ ॥
गौरीबीजेन वर्धन्यां स्थापयेद्देशिकोत्तमः ।
सवस्त्रं स हिरण्यं च सकूर्चं सापिधानकम् ॥ १७ ॥
प्। २१९)
गन्धपुष्पादिनाभ्यर्च्य स्थापनं तु समारभेत् ।
प्रथमावरणे चैव कलशानष्ट विन्यसेत् ॥ १८ ॥
द्वितीयावरणे चैव विंशतिं कलशान्न्यसेत् ।
तृतीयावरणे चैव षट्त्रिंशत्कलशान्न्यसेत् ॥ १९ ॥
चतुर्थावरणे चैव चतुश्चत्वारिकं भवेत् ।
क्षीरेण पूरयेद्धीनं सवस्त्रं सापिधानकम् ॥ २० ॥
विन्यसेत्तु विशेषेण देवतानां शृणुष्वथ ।
प्रथमावरणे चैव विद्येश्वरांश्च विन्यसेत् ॥ २१ ॥
द्वितीयावरणे चैव विघ्नेशस्तत्र देवता ।
तृतीयावरणे चैव ब्रह्मा तत्राधिदेवता ॥ २२ ॥
गन्धैः पुष्पैश्च धूपैश्च दीपैश्चैव निवेदयेत् ।
ततो होमं प्रकर्तव्यं नवपञ्चैकमेव वा ॥ २३ ॥
कुण्डं वा स्थण्डिलं वापि चतुरश्रं वृत्तमेव वा ।
अग्निमुखं च सङ्कल्प्य पूर्वोक्तेन क्रमेण तु ॥ २४ ॥
समिदाज्यचरुं लाजान् सर्षपांश्च यवांस्तिलान् ।
मुद्गमाषसमायुक्तं नवद्रव्यमिहोच्यते ॥ २५ ॥
समिध ईशमन्त्रेण आज्यं च पुरुषेण तु ।
अघोरेण चरुं हुत्वा लाजान्वामेन चैव हि ॥ २६ ॥
सर्षपं सद्यमन्त्रेण यवान्हृदयमन्त्रतः ।
तिलान्वै शिरोमन्त्रेण मुद्गं तु शिखया युतम् ॥ २७ ॥
प्। २२०)
माषं नेत्रेण हुत्वाथ यथाक्रमेण हूयते ।
अष्टोत्तरशतं वापि पञ्चाशत्पञ्चविंशतिः ॥ २८ ॥
हुतंसङ्ख्या इति प्रोक्ता द्रव्यान्ते व्याहृतिं हुनेत् ।
घृतमिक्षेति मन्त्रेण जुहुयात्तदनन्तरम् ॥ २९ ॥
हुत्वान्ते च यदस्येति पूर्णाहुतिमथाचरेत् ।
आचार्यं पूजयेत्तत्र पदार्थीन्पूजयेत्ततः ॥ ३० ॥
प्रासादेन तु मन्त्रेण (जुहुयात्तदनन्तरम्) ।
गौरीबीजेन मन्त्रेण वर्धनीं स्नापयेत्ततः ॥ ३१ ॥
शेषांश्च कलशाश्चैव स्नापयेत्तु यथाक्रमम् ।
पञ्चाशद्भिः पञ्चविंशद्भिः स्नापयेत्स्नपनोक्तवत् ॥ ३२ ॥
पूर्वेण विधिनाऽनेन स्नापयेत्कलशं ततः ।
दधिस्नानं प्रकर्तव्यं घृतस्नानं तथैव च ॥ ३३ ॥
क्षीराभिषेकमेवोक्तं कुण्डानां लक्षणं शृणु । ३३ � ॥
इति वीरतन्त्रे क्षीराभिषेकविधिस्त्रिपञ्चाशः पटलः ॥ ५३ ॥