५२

प्। २०८)

पितामहः ॥

शिवं प्रणम्य विधिवद्ब्रह्मा वचनमब्रवीत् ।
प्रायश्चित्तं कथं देव तत्सर्वं ब्रूहि मे प्रभो ! ॥ १ ॥

ईश्वरः ॥

साधु साधु महाप्राज्ञ ! यत्वया परिचोदितम् ।
तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! ॥ २ ॥

प्रायो विनाश इत्यर्थः चित्तं सन्धानमुच्यते ।
विनाशस्य तु सन्धानं प्रायश्चित्तमिति स्मृतम् ॥ ३ ॥

प्रमादाद्बुद्धिवैषम्याद् द्रव्याणां च परिक्षये ।
अकृतानां विनष्टानां प्रायश्चित्तं विधीयते ॥ ४ ॥

प्रासादे पतिते भिन्ने बालस्थानं तु कारयेत् ।
(प्रासादं पूर्ववत्कृत्वा जलसम्प्रोक्षणं कुरु) ॥ ५ ॥

प्रासादं भिन्नमेव स्यात् पूर्वेण शिरं भवेत् ।
आग्नेय्यां वह्निना दग्धं दक्षिणे मरणं भवेत् ॥ ६ ॥

नैर्-ऋत्यां धनलाभं च वारुण्यां धान्यमेव च ।
वायव्यां बन्धुवृद्धिः स्याद् उत्तरे पुत्रवर्धनम् ॥ ७ ॥

ऐशान्यां शिवमाप्नोति एवमेव क्रमेण तु ।
रवात्वं व्यपोह्य सर्वं तु सकलिकेन्न बन्धयेत् ॥ ८ ॥

पुण्याहं वाचयेत्तत्र स्नपनं कारयेत्ततः ।
प्रासादं नष्टमेवं स्यात् प्रासादं चैव कारयेत् ॥ ९ ॥

स्थापयेल्लक्षणैर्युक्तमिदमन्यच्छृणुष्वथ ।
पूर्वस्थानगतं लिङ्गम् अन्यस्थानगतं भवेत् ॥ १० ॥

प्। २०९)

तल्लिङ्गं च विसृज्याथ नवलिङ्गं प्रतिष्ठितम् ।
पूर्वदेशे चलं लिङ्गं किञ्चिदेव तु संस्थितम् ॥ ११ ॥

स्वस्थाने स्थापयेद्विद्वाञ्जलसम्प्रोक्षणं कुरु ।
लिङ्गं वा पीठमेवं वा स्फुटिते दग्धमेव वा ॥ १२ ॥

बालस्थानं प्रकर्तव्यं पूजां कुर्वीत देशिकः ।
व्यपोह्यैव तु तल्लिङ्गं स्थापयेन्नवलिङ्गकम् ॥ १३ ॥

नद्यां वापि गजैर्वाथ उद्धरेच्छतदण्डकम् ।
तल्लिङ्गं स्थापयेदन्यद्देशिलक्षण संयुतम् ॥ १४ ॥

सूतकैः प्रेतकैश्चैव शवैर्वा स्पृश्यते ततः ।
जलसम्प्रोक्षणं कुर्याल्लक्षणनेन समन्वितम् ॥ १५ ॥

अष्टबन्धविहीनं तु कारयेदष्टबन्धनम् ।
गुलं साक्षान्मधूच्छिष्टं सज्जरसमन्वितम् ॥ १६ ॥

लिङ्गं चैवान्यजातीनां स्पर्शते * * * * * * ।
जलसम्प्रोक्षणं कुर्यात् समीपे स्नपनं भवेत् ॥ १७ ॥

गर्भगेहे सुधाहीने सुधाकर्म समाचरेत् ।

पुण्याहं वाचयेदेव स्नपनं तत्र कारयेत् ।
प्रतिमस्याङ्गहीनं तु शिल्पिना कारयेत्ततः ॥ १९ ॥

योजयेत्प्रतिमं विप्र स्नपनं तत्र कारयेत् ।
प्रतिमां चैव देवेशं परितो विश्वरैर्युतम् ॥ २० ॥

प्। २१०)

शयने शाययेद्बिम्बं परितो होममारभेत् ।
हुत्वा प्रतिष्ठामार्गेण स्थापयेत्तद्वदेव च ॥ २१ ॥

पीठं वापि प्रभाहीनं शिल्पिना कारयेत्ततः ।
योजयेत्प्रतिमां विप्रस्नपनं तत्र कारयेत् ॥ २२ ॥

आयुधानि मृगाद्यानि आभरणानि तु चैव हि ।
भिन्ने च स्फुटिते चैव प्रमादाच्छेदनेऽपि च ॥ २३ ॥

पूर्ववत्कारयेद्धीमान् शिल्पिना च तथैव च ।
जलसम्प्रोक्षणं कृत्वा शान्तिहोमं तु कारयेत् ॥ २४ ॥

उत्सवेषु च कालेषु प्रमादमेन्तु सम्भवेत् ।
सद्योगन्धादिनापूज्य शिवमष्टशतं जपेत् ॥ २५ ॥

शेषवीथीं ततो गत्वा आलयं प्रविशेत्ततः ।
पूर्ववत्परिमन्या वा सम्प्रोक्षणादि कारयेत् ॥ २६ ॥

पूरणलिङ्गे स्फुटिते भिन्नेच्छिन्ने तथैव च ।
ज्वरादिपीडनं कुर्याद् उपशान्तिं करोति च ॥ २७ ॥

दिशाहोमं ततः कुर्याल्लक्षणेन समन्वितम् ।
चतुदिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः ॥ २८ ॥

अष्टोत्तरशतप्रस्थैः क्षीराभिषेकमुच्यते ।
समिदाज्यचरुं लाजा सक्तुं चैव तु हूयते ॥ २९ ॥

ईशानं * * * * न्तम् ईशान्यां दिशि होमयेत् ।
अष्टोत्तरशतं चैवं होमयेद्देशिकोत्तमः ॥ ३० ॥

प्। २११)

स्नपनं कारयेत्तत्र अष्टोत्तरशतं ततः ।
एवमेव क्रमेणैव सप्ताहं कारयेद्द्विजः ॥ ३१ ॥

दिने दिने च विप्रेन्द्र ब्राह्मणान्भोजयेत्ततः ।
शैवांश्च भोजयेत्तत्र सव्यष्टिपरिचारकान् ॥ ३२ ॥

आचार्यं भोजयेत्तत्र वस्त्रधान्यादि काञ्चनैः ।
दिनान्ते चैव विप्रेन्द्र ! रात्रौ ग्रामबलिं ददेत् ॥ ३३ ॥

मुद्गान्नं दधिसंयुक्तं * * * पत्र संयुतम् ।
ब्रह्मादीशानपर्यन्तं स्वस्वनाम्ना विनिक्षिपेत् ॥ ३४ ॥

ईशानान्ते बलिं कुर्यादेवमेव क्रमेण तु ।
नित्यार्चना विहीने तु शान्तिहोमं तु कारयेत् ॥ ३५ ॥

सन्ध्यातिक्रमणे चैव द्विगुणं पूजयेत्ततः ।
सन्ध्यां च द्वित्रयो हीने पञ्चगव्याभिषेचनम् ॥ ३६ ॥

शान्तिहोमं ततः कुर्यात् सङ्ख्यया पूजयेच्छिवम् ।
एकाहे त्रितये वापि पञ्चाहे वापि हीनके ॥ ३७ ॥

शान्तिहोमं ततः कुर्यात् स्नपनं तत्र कारयेत् ।
दिशाहोमं चार्धमासे तु स्नपनं चैव कारयेत् ॥ ३८ ॥

इत ऊर्ध्वं तु मासंस्याज्जल सम्प्रोक्षणं कुरु ।
स्थितलिङ्गमिदं प्रोक्तं चललिङ्गमतः शृणु ॥ ३९ ॥

एकाहादि विहीने तु द्विगुणं पूजयेत्ततः ।
त्रिंशात्तु दिवसादूर्ध्वं स्नपनं कारयेत्ततः ॥ ४० ॥

प्। २१२)

षण्मासात्परतो विप्र ! जलसम्प्रोक्षणं कुरु ।
नित्याग्नौ च विहीने तु द्विगुणं होममुच्यते ॥ ४१ ॥

नैवेद्ये च विहीने तु द्विगुणं च निवेदयेत् ।
परिवारे तु विच्छिन्ने स्थापयेत्परिवारकान् ॥ ४२ ॥

तन्मन्त्रेण शतं हुत्वा स्नपनं कारयेत्ततः ।
गर्भगेहे दीपहीनं पुण्याहं तत्र कारयेत् ॥ ४३ ॥

दीपं संयोजयेत्तत्र प्रासादेन तु मन्त्रतः ।
नित्योत्सवे दीपहीने तु पुण्याहं तत्र कारयेत् ॥ ४४ ॥

पुनर्दीपं समायोज्य पुनर्नित्योत्सवं कुरु ।
शुद्धनृत्तविहीने तु स्नपनं तत्र कारयेत् ॥ ४५ ॥

नित्योत्सवे चान्नलिङ्गं पतितं हीनमेव वा ।
शान्तिहोमं ततः कुर्यान्नवलिङ्गं प्रकल्पयेत् ॥ ४६ ॥

स्नपनं तत्र कर्तव्यं नित्योत्सवं ततः शृणु ।
प्रतिमे पतिते वापि स्नपनं तत्र कारयेत् ॥ ४७ ॥

भिन्नं च स्फुटितं चैव * * * * * * * * ।
जलसम्प्रोक्षणं कृत्वा पश्चान्नित्योत्सवं कुरु ॥ ४८ ॥

वाद्यहीनं तु तत्काले शिवमष्टोत्तरं हुनेत् ।
श्वानकाकादिभिः स्पृष्टे लिङ्गे वा प्रतिमेऽपि वा ॥ ४९ ॥

पञ्चगव्येन सम्प्रोक्ष्य शान्तिहोमं तु कारयेत् ।
काले चोत्सवहीने तु स्नपनं तत्र कारयेत् ॥ ५० ॥

प्। २१३)

बलिकर्म विहीने तु स्नपनं दिवसे तथा ।
पञ्चाहे बलिहीने तु दिशाहोमं तु कारयेत् ॥ ५१ ॥

पुनर्बलिक्रमं कुर्यात् पूर्वोक्तविधिना सह ।
बलिद्रव्यविहीने तु द्विगुणं च प्रयोजयेत् ॥ ५२ ॥

ग्रामप्रदक्षिणे काले कौतुकं शूलमेव वा ।
पतिते चैव विप्रेन्द्र ! अस्त्रमन्त्रेण देशिकः ॥ ५३ ॥

शिवमष्टोत्तरं जप्त्वा प्रदक्षिणं ततः कुरु ।
भिन्ने वाङ्गविहीने तु प्रतिशूलं तथैव च ॥ ५४ ॥

अस्त्रं कृत्वा तु दर्भेण प्रोक्षयेदस्त्रमन्त्रतः ।
आवाह्य शूलं तत्रैव बलिशेषं समाचरेत् ॥ ५५ ॥

पूर्ववत्क्षालयेद्विप्र ! जलसम्प्रोक्षणं कुरु ।
अष्टमङ्गलरूपे वा आयुधे वा विहीनके ॥ ५६ ॥

तत्तन्मन्त्रेण होतव्यम् अष्टोत्तरशतं पृथक् ।
तत्स्वरूपं पुनः कृत्वा प्रोक्षयेत्पूर्ववत्क्रमात् ॥ ५७ ॥

ध्वजे वा पतिते भिन्ने छिन्ने नष्टेऽथवा पुनः ।
स्नपनं तत्र कुर्वीत चण्डयागं तु कारयेत् ॥ ५८ ॥

मूर्ति होमं तु कर्तव्यं ध्वजमुत्थापयेत्क्रमात् ।
चण्डयागविहीने तु स्नपनं तत्र कारयेत् ॥ ५९ ॥

स्नपने च तथा हीने द्विगुणं स्नपनं भवेत् ।
यागशालाविहीने तु शान्तिहोमं हुनेत्ततः ॥ ६० ॥

प्। २१४)

तद्देशे दीपहीने तु शान्तिहोमं समाचरेत् ।
दीपं तत्रैव संयोज्य तद्दोषशमनाय च ॥ ६१ ॥

द्विगुणं होमयेद्विप्र ! समिद्धीने विशेषतः ।
गन्धपुष्पविहीने तु धूपहीने तथैव च ॥ ६२ ॥

पुण्याहं कारयेत्तत्र द्विगुणं दापयेत्ततः ।
आचार्यस्तु विप्रेन्द्र ! प्रमादाव्याधिसम्भवे ॥ ६३ ॥

अन्यैः प्रमादमुत्पन्नैः स्नपनं कारयेद् बुधः ।
पुत्रपौत्रादिना चैतच्छिष्येणैव तु कारयेत् ॥ ६४ ॥

पुरतो वृषभं हीनं शान्तिहोमं तु कारयेत् ।
वृषभं तत्र संस्थाप्य स्थापयेद्विधिना सह ॥ ६५ ॥

बाह्यपीठे विहीने तु स्नपनं तत्र कारयेत् ।
शिल्पिना कारयेत्पीठं स्थापयेल्लक्षणैर्युतम् ॥ ६६ ॥

परिवारार्चनाहीने पुण्याहं कारयेत्ततः ।
पुनः पूजां समारभ्य तद्दोषशमनाय च ॥ ६७ ॥

नैमित्तिकं च नुक्तं तु विच्छेदं सम्भवेदिह ।
पुण्याहं वाचयेत्तत्र पुनः कर्मसमारभेत् ॥ ६८ ॥

वारोत्सवविहीने तु शान्तिहोमं तु कारयेत् ।
स्नपनं तत्र कुर्वीत पुनर्वारोत्सवं कुरु ॥ ६९ ॥

अमावास्या विहीने तु स्नपनं तत्र कारयेत् ।
शान्तिहोमं ततः कुर्यादमावास्यां पुनः कुरु ॥ ७० ॥

प्। २१५)

मासोत्सवविहीने तु शान्तिहोमं तु कारयेत् ।
स्नपनं तत्र कुर्वीत पुनर्मासोत्सवं कुरु ॥ ७१ ॥

सङ्क्रान्ति स्नपने हीने शान्तिहोमं तु कारयेत् ।
पुण्याहं वाचयेत्तत्र पुनः स्नपन माचरेत् ॥ ७२ ॥

प्रासादे वाथ गर्भे वा वल्मीकं दृश्यते ततः ।
खनित्वा चास्त्रमन्त्रेण वल्मीकैः पूरयेत्ततः ॥ ७३ ॥

शान्तिहोमं ततः कुर्यात् स्नपनं तत्र कारयेत् ।
प्राकारे मण्टपे वापि प्रासादस्य समीपके ॥ ७४ ॥

धाम्नश्चतुर्दशं दण्डं स्त्रीणां च ऋतु सम्भवे ।
तत्काले पञ्चहव्यं तु तदेवं प्रोक्षयेत्ततः ॥ ७५ ॥

पुण्याहं कारयेत्तत्र स्नपनं कारयेत्ततः ।
भूतवल्यं च विप्रेन्द्र ! दीपहीनं भवेत्ततः ॥ ७६ ॥

पुण्याहं वाचयित्वा तु पुनदीपं तु योजयेत् ।
अग्निकुण्डविहीने तु शान्तिहोमं तु कारयेत् ॥ ७७ ॥

पूर्ववद्विन्यसेदग्निं तद्दोषशमनाय च ।
होमगर्भे प्रतिष्ठायां प्रोक्षणे चोत्सवेऽपि वा ॥ ७८ ॥

अन्येषु सर्वकार्येषु दीक्षा सु विहितो द्विजः ।
शान्तिहोमं ततः कृत्वा स्नपनं तत्र कारयेत् ॥ ७९ ॥

पुनर्दीक्षाभियुक्तं तु कारयेत्सर्वकर्मसु ।
त्रैवर्णिककुले जाता स्त्रीणामार्तव संयुतम् ॥ ८० ॥

प्। २१६)

लिङ्गं वा कौतुकं वापि समीपे ऋतुसम्भवे ।
प्राकारे गोपुरे चैव पञ्चगव्येन शुध्यति ॥ ८१ ॥

पुण्याहं वाचयेत्तत्र शान्तिहोमं तु कारयेत् ।
स्नपनं तत्र कर्तव्यं तद्दोषशमनाय च ॥ ८२ ॥

स्पृशेद्वापि विप्रेन्द्र ! जलसम्प्रोक्षणं कुरु ।
मन्त्रहीने क्रियाहीने द्रव्यहीनस्य कालके ॥ ८३ ॥

पुण्याहं वाचयेत्तत्र पुनः कुर्यात्तथैव च ।
उपदंशादि विच्छिन्ने पुण्याहं वाचयेत्ततः ॥ ८४ ॥

उपदंशं पुनर्दद्याद् वस्त्रहीनं तथैव च ।
पीठपूजा विहीने तु पुण्याहं वाचयेत्ततः ॥ ८५ ॥

पुनः पूजा प्रकर्तव्या पूर्वोक्तविधिना सह ।
शुद्धनृत्तविहीने तु कुर्यात्स्नपनमुत्तमम् ॥ ८६ ॥

तत्काले गणिका चैव पतिते स्नपनं भवेत् ।
शान्तिहोमं ततः कुर्याच्छुद्धनृत्तं तु कारयेत् ॥ ८७ ॥

प्रासादे वान्तर्हारे वा मण्टपे वा तथैव च ।
गणिकाभृत्यवर्गे वा रजोदृष्टेन सम्भवे ॥ ८८ ॥

पुण्याहं कारयेत्तत्र स्नपनं कारयेत्ततः ।
दिशाहोमं ततः कुर्यान् महाहविर्निवेदयेत् ॥ ८९ ॥

बहिः प्रकारये चैव शावमुत्पाद्यते यदि ।
पुण्याहं कारयेत्तत्र शान्तिहोमं च कारयेत् ॥ ९० ॥

प्। २१७)

प्रायश्चित्तमिदं प्रोक्तं क्षीरस्नानं शृणुष्वथ । ९० � ।

इति वीरतन्त्रे प्रायश्चित्तविधिः द्विपञ्चाशः पटलः ॥ ५२ ॥