५१

ध्वजावरोहणं वक्ष्ये यथावदनुपूर्वशः ।
तीर्थाहे वा तृतीये वा पञ्चाहे सप्तमेऽपि वा ॥ १ ॥

ध्वजावरोहणं वक्ष्ये यथावदनुपूर्वशः ।
तीर्थाहे वा तृतीये वा पञ्चाहे सप्तमेऽपि वा ॥ १ ॥

ध्वजावरोहणं कुर्याच्चण्डयागसमन्वितम् ।
सप्ताहात्परमं चैव स्नपनं तत्र कारयेत् ॥ २ ॥

शान्तिहोमं ततः कुर्याद् ध्वजावरोहणं कुरु ।
चण्डेश्वराग्रतश्चैव गोमयेनानुलेपयेत् ॥ ३ ॥

प्। २०६)

शालिना विकिरेत्तत्र शाल्यर्धं तण्डुलैरपि ।
तिलान्विन्यस्य विप्रेन्द्र दर्भैश्चैव परिस्तरेत् ॥ ४ ॥

पद्ममष्टदलं लिख्य प्रोक्षयेद्धृदयेन तु ।
नवकुम्भान्समादाय सूत्रेण परिवेष्टयेत् ॥ ५ ॥

गन्धोदकेन सम्पूज्य चण्डमन्त्रमनुस्मरन् ।
स्नापयेच्चैव चण्डेशं चण्डमन्त्रेण बुद्धिमान् ॥ ६ ॥

नैवेद्यं दापयेत्पश्चात् ताम्बूलं दापयेत्ततः ।
चण्डेशस्याकृतिं कृत्वा ब्रह्मचारी शुचिर्भवेत् ॥ ७ ॥

नववस्त्रपरीधानः सोष्णीषः सोत्तरीयकः ।
पुष्पमाल्यैरलङ्कृत्य गन्धचन्दनकादिभिः ॥ ८ ॥

भोजयेच्चैव विप्रेन्द्र सर्वोपदंशसंयुतम् ।
टङ्कहस्तसमायुक्तं भस्मोद्धूलितविग्रहम् ॥ ९ ॥

चण्डमन्त्रं न्यसेत्तत्र ध्वजस्थाने प्रवेशयेत् ।
शिबिकोर्ध्वे न्यसेत्तत्र ध्वजस्थाने प्रवेशयेत् ॥ १० ॥

शिबिकोर्ध्वे न्यसेत्तत्र चण्डेशप्रतिमां ततः ।
ध्वजाग्रे स्थण्डिलं कृत्वा स्थापयेत्कलशान्नव ॥ ११ ॥

सवस्त्रान्सहिरण्यांश्च सकूर्चान्सापिधानकान् ।
वृषमन्त्रमनुस्मृत्य ध्वजं वै स्थापयेत्ततः ॥ १२ ॥

मुद्गान्नं दापयेत्पश्चाद् वृषबीजमनुस्मरन् ।
दिशां बलिं ततः कृत्वा ध्वजं चैव विसर्जयेत् ॥ १३ ॥

प्। २०७)

ध्वजावरोहणं कृत्वा हृदयेन तु मन्त्रतः ।
टङ्केन च्छेदयेत्तत्र ध्वजवेदीं विशेषतः ॥ १४ ॥

शूलदेवसमायुक्तं ततोग्रामबलिं ददेत् ।
लाजसक्थु समायुक्तं हरिद्रान्नं दधिसंयुतम् ॥ १५ ॥

सर्वोपदंश संयुक्तं बलिं दद्याद्विशेषतः ।
सन्धिस्थं पीठमुद्वास्य टङ्केनैव तु छेदयेत् ॥ १६ ॥

प्रविश्य भवनं पश्चाद् बलिपीठे बलिं क्षिपेत् ।
आचार्यश्चैवं विप्रेन्द्र ! पादप्रक्षालनं कुरु ॥ १७ ॥

स्नपनं कारयेत्तत्र लक्षणेन समन्वितम् ।
आचार्यं पूजयेत्तत्र वस्त्रधान्यादिकाञ्चनैः ॥ १८ ॥

भक्तानां परिचाराणां वस्त्रादीनि प्रदापयेत् ।
गणिकानां च दासीनां दक्षिणां दापयेत्ततः ॥ १९ ॥

एवं यः कुरुते मर्त्य उत्सवं विधिपूर्वकम् ।
कुलैकविंशमुद्धृत्य शिवलोकं स गच्छति ॥ २० ॥

सेवितांश्च मनुष्यांश्च गजाश्वादीनि सर्वशः ।
गच्छेच्छिवपुरं दिव्यं यावन्तो धृति सम्प्लवम् ॥ २१ ॥

शिववन्मोदते सर्वम् इति शास्त्रस्य निश्चयः ।
उत्सवस्य विधिः प्रोक्तः प्रायश्चित्तविधिं शृणु ॥ २२ ॥

इति वीरतन्त्रे उत्सवविधिरेकपञ्चाशः पटलः ॥ ५१ ॥