५०

तीर्थं चैव प्रवक्ष्यामि आलयाग्रे विशेषतः ।
स्थण्डिलं शालिनाकुर्यात् तण्डुलैस्तिलसंयुतम् ॥ १ ॥

नवकुम्भान्समादाय पूरयेद्गन्धतोयकैः ।
गौरीबीजेन मन्त्रेण वर्धनीं तस्य वामतः ॥ २ ॥

स्थापयित्वा तु विप्रेन्द्र विद्येश्वरसमन्वितम् ।
स्वस्वनाम्ना च मन्त्रेण पूजयेत्तु विशेषतः ॥ ३ ॥

कलशान्शिरसा धार्य अष्टमङ्गलचास्त्रकम् ।
कौतुकं शिवसंयुक्तं कुर्याद्ग्रामप्रदक्षिणम् ॥ ४ ॥

समुद्रे वा तटाके वा नद्यां वापि विशेषतः ।
तीरे समतलं कृत्वा शालिना स्थण्डिलं कुरु ॥ ५ ॥

प्रतिमां विन्यसेत्तत्र तस्याग्रे कलशं न्यसेत् ।
अर्चयित्वा तु गन्धाद्यैः शूलं कलशसंयुतम् ॥ ६ ॥

आहूय सर्वदेवांश्च तीर्थानाहूय सर्वशः ।
कौतुकं च विसृज्यैव प्रतिमां शूलमेव च ॥ ७ ॥

शूलं वै स्नापयेत्कुम्भैः जलक्रीडां च कारयेत् ।
सहस्नानं तु योमर्त्यः सर्वपापाद्विमुच्यते ॥ ८ ॥

प्। २०५)

गेहं प्रवेशयेत्तत्र यागशालां प्रवेशयेत् ।
पूर्णाहुतिं च कृत्वा तु अग्निं चैव विसर्जयेत् ॥ ९ ॥

वेद्यां स्थापित कुम्भैश्च स्नापयेच्छिवमादरात् ।
स्नपनं कारयेत्तत्र लक्षणेन समन्वितम् ॥ १० ॥

विशेषात्पूजनं कृत्वा शिवस्य पुरतोऽपि वा ।
तद्रात्रौ चैव विप्रेन्द्र बलिं दद्याद्विशेषतः ॥ ११ ॥

अस्त्रमन्त्रेण विप्रेन्द्र ! शूलेनैव तु च्छेदयेत् ।
वापयेत्सृतयेनापि पिण्याकेन समायुतम् ॥ १२ ॥

अपूपेन समायुक्तं बलिं दद्याद्विशेषतः ।
सन्धौ चतुष्पथे चैव देवालये श्मशानके ॥ १३ ॥

उद्याने चैव कूपे च वने चैराजस्वेश्मनि ।
बलिं दद्याद्विशेषेण राजराष्ट्रसुखावहम् ॥ १४ ॥

इति वीरतन्त्रे तीर्थविधिः पञ्चाशः पटलः ॥ ५० ॥