४९

चूर्णोत्सवं प्रवक्ष्यामि शृणुष्व कमलासन ! ।
कौतुकं बलिदानान्ते कुर्याद्ग्रामप्रदक्षिणम् ॥ १ ॥

पश्चाच्चूर्णोत्सवं कुर्यात् प्रासादाग्रे ततोपि वा ।
कौतुकस्याग्रतो वापि चूर्णमभ्युक्ष्य लूखले ॥ २ ॥

वायव्यां दिशि दिग्भागे याम्ये कौतुकयेपि वा ।
गोमयालेपनं कृत्वा स्थण्डिलं शालिना कुरु ॥ ३ ॥

प्। २०३)

अष्टद्रोणसमायुक्तं तदर्धं तण्डुलं न्यसेत् ।
पद्ममष्टदलं न्यस्य दर्भैश्चैव परिस्तरेत् ॥ ४ ॥

तस्याग्रे स्थण्डिलं कृत्वा लूखलं च विशेषतः ।
प्लक्षोदुम्बरमश्वत्थं पदंवै न तु लूखलम् ॥ ५ ॥

मुसलं दायसे * * * * * * न बन्धयेत् ।
क्षालयेदस्त्रमन्त्रेण स्थापयेद्धृदयेन तु ॥ ६ ॥

वस्त्रेणैव समाच्छाद्य गव्येनैव तु शोसितुम् ।
लूखले * * विन्यस्य मध्येन हृदयेन तु ॥ ७ ॥

व्योमव्यापि समुच्चार्य चूर्णयेद्देशिकोत्तमः ।

सर्वगन्धं प्रवक्ष्यामि एलालवङ्गसंयुतम् ।
तक्कोलं चैव जाती च गणिका चूर्णयेत्ततः ॥ ९ ॥

चूर्णं तु कलशे स्थाप्य सकूर्चं सापिधानकम् ।
सवस्त्र हेमसंयुक्तं गन्धपुष्पादिनार्चयेत् ॥ १० ॥

चूर्णं तु शिरसा धार्य विमानप्रदक्षिणं कुरु ।
मूलबिम्बे न्यसेत्तत्र चूर्णं चैव तु तैलकम् ॥ ११ ॥

कौतुकं चास्त्रराजानं हृदयेनैव दापयेत् ।
भक्तानां परिवाराणां चूर्णं दद्याद्विशेषतः ॥ १२ ॥

ग्रामप्रदक्षिणं कुर्याच्छूलचूर्णसमन्वितम् ।
इन्द्रादि लोकपालानां चूर्णं दद्यात्तु देशिकः ॥ १३ ॥

प्। २०४)

गेहं प्रवेशयेत्तत्र ततस्तीर्थं समाचरेत् ॥ १३ � ॥

इति वीरतन्त्रे चूणोत्सवविधिरेकोनपञ्चाशः पटलः ॥ ४९ ॥