४८

प्। २०१)

वैष्णवे दिवसे चैव नृत्तरूपं प्रदर्शयेत् ।
राक्षसानां तु दिवसे वनयात्रां समारभेत् ॥ १ ॥

पूर्वादीनि चतुर्दिक्षु गम्यतां वन * * * ।
त्रिपुरान्तकरूपं गच्छेदायुधकं धरेत् ॥ २ ॥

युद्धारम्भ प्रभावेन सर्वायुधधरा जनाः ।
केचिद्धनुर्धराश्चैव केचित्खड्गधरास्तथा ॥ ३ ॥

केचित्तोमरहस्ताश्च केचिच्चैव गदाधराः ।
एवमेव दिवा कुर्याद् रात्रौ कौतुकबन्धनम् ॥ ४ ॥

सौवर्णं राजतं वापि क्षौमं कार्पासमेव वा ।
कौतुकं चैव शूलं च वर्धयेत्कौतुकं हृदा ॥ ५ ॥

शिवाग्रे मण्टपे चैव * * नाविरिरेन्ततः ।
स्थलिकां विन्यसेत्तत्र तण्डुलानुपरि न्यसेत् ॥ ६ ॥

तस्योर्ध्वे कौतुकं न्यस्य प्रोक्षयेद्धृदयेन तु ।
गन्धपुष्पादिनाभ्यर्च्य प्रासादेन तु मन्त्रतः ॥ ७ ॥

शूले नैव समायुक्तं कुर्याद्ग्राम प्रदक्षिणम् ।
नानादीप समायुक्तं नानावाद्य समन्वितम् ॥ ८ ॥

प्रविशेदालयं तत्र कौतुकं बन्धयेद्धृदा ।
पूर्वोक्तेन तु मन्त्रेण शूलं वै बन्धयेत्ततः ॥ ९ ॥

तीर्थसङ्ग्रहणं कुर्याच्छिवाग्रे मण्टपं ततः ॥ १० ॥

प्। २०२)

शालिना स्थण्डिलं कृत्वा दर्भैश्चैव परिस्तरेत् ।
मध्यमे विन्यसेत्कुम्भं सवस्त्रं सापिधानकम् ॥ ११ ॥

पूर्वादीशानपर्यन्तं कलशानष्ट विन्यसेत् ।
हेमं तत्रैव निक्षिप्य गन्धपुष्पादिनार्चयेत् ॥ १२ ॥

समुद्रे वापि नद्यां वा तटाके वा विशेषतः ।
तीरे समतलं कृत्वा स्थापयेत् * * * ततः ॥ १३ ॥

अनन्तादि शिखण्ड्यन्तान्विद्येश्वरांश्च विन्यसेत् ।
दिग्बन्धनं तु कर्तव्यम् अस्त्रमन्त्रेण देशिकः ॥ १४ ॥

आवाहयेत्तु तीर्थांश्च पुण्यस्थानं तथैव च ।
साधितैः कलशैस्तत्र शूलं वै स्नापयेत्ततः ॥ १५ ॥

प्रविशेदालयं तत्र गन्धपुष्पादिनार्चयेत् ।

इति वीरतन्त्रे यात्रा कौतुकविधिरष्टचत्वारिंशः पटलः ॥ ४८ ॥