अधिवासविधिं वक्ष्ये सङ्क्षेपाच्छृणु पद्मज ! ।
उत्सवस्यादिरात्रो तु आरभेदधिवासनम् ॥ १ ॥
प्रासादस्याग्रतः कुर्याच्छालिना स्थण्डिलं तथा ।
विन्यसेत्पालिकादीनि मध्यमे सोमकुम्भकम् ॥ २ ॥
हृदयेन तु मन्त्रेण पालिकान्वापयेत्ततः ।
सुगुप्तदेशे संस्थाप्य पालिकादीन्यथाक्रमम् ॥ ३ ॥
कौतुकं बन्धयेत्पश्चाच्छिवाग्रे स्थण्डिलं कुरु ।
प्रतिमां विन्यसेत्तत्र अस्त्रं चैव तु विन्यसेत् ॥ ४ ॥
सौवर्णमूर्णासूत्रं वा स्थलिकोपरि विन्यसेत् ।
कार्पाससूत्रं वा कुर्यात् प्रोक्षयेद्धृदयेन तु ॥ ५ ॥
प्रतिमां प्रासादमन्त्रेण बन्धयेत्ततः कौतुकम् ।
ताम्बूलं दापयेत्पश्चाज्जनान्सर्वान्विशेषतः ॥ ६ ॥
प्। १९३)
मण्डलं वेदिमध्ये तु अष्टद्रोणेन शालिना ।
तण्डुलैस्तल संयुक्तं दर्भैश्चैव परिस्तरेत् ॥ ७ ॥
शिवकुम्भं प्रतिष्ठाप्य वर्धनीं तस्य वामतः ।
ससूत्रान्सापिधानांश्च सवस्त्रान्वारिपूरितान् ॥ ८ ॥
पञ्चरत्नसमायुक्तान् शिवमन्त्रेण स्थापयेत् ।
रत्नानि विन्यसेद्धेमं गौरीबीजेन विन्यसेत् ॥ ९ ॥
गन्धपुष्पादिना पूज्य धारयेच्छिरसोपरि ।
नाना वाद्यसमायुक्तं नानापिञ्छ समायुतम् ॥ १० ॥
नानागेयसमायुक्तं नानादीप समन्वितम् ।
विमानं प्रदक्षिणं कुर्यात् प्रविशेद्यागमण्टपम् ॥ ११ ॥
पुण्याहं वाचयेत्तत्र प्रोक्षयेदम्भसा ततः ।
आचार्यश्च शुचिर्भूत्वा मन्त्रदेहसमन्वितः ॥ १२ ॥
स्थण्डिलं कारयेत्तत्र पूर्वोक्तेन विधानतः ।
गन्धपुष्पादिनाभ्यर्च्य हृदयेन तु मन्त्रतः ॥ १३ ॥
वेदिमध्ये न्यसेत्कुम्भं व्योमव्यापि समुच्चरन् ।
यज्ञमूर्तिं प्रवक्ष्यामि एकवक्त्र समन्वितम् ॥ १४ ॥
चतुर्भुजं त्रिणेत्रं च सौम्यरूपसमन्वितम् ।
पद्ममध्ये सुखासीनं जटामकुट संयुतम् ॥ १५ ॥
सर्वाभरण संयुक्तं कृष्णापरशुधारिणम् ।
वरदाभयहस्तं च दिव्याम्बरधरं हरम् ॥ १६ ॥
प्। १९४)
हत्थंरूपं शिवं ध्यात्वा गौरीं वै ध्याययेत्ततः ।
द्विनेत्रां चारुवदनां द्विभुजां च सुयौवनाम् ॥ १७ ॥
प्रशान्तमानसां चैव किञ्चित्प्रहसिताननाम् ।
सर्वाभरण संयुक्तां वर्धनीमध्यमे न्यसेत् ॥ १८ ॥
प्रासादद्वारवत्कृत्वा यागमण्टपमेव च ।
द्वारस्याभिमुखं चैव विन्यसेद्यागमूर्तिनम् ॥ १९ ॥
वर्धनीं विन्यसेद्वामे गौरीबीजेन मन्त्रतः ।
पूर्वादीशानपर्यन्तम् अष्टकुम्भान्क्रमान्न्यसेत् ॥ २० ॥
सवस्त्रान्सापिधानांश्च स हिरण्यान्सकूर्चकान् ।
वेदिकाश्चैव दिग्भागे शूलं वै स्थापयेत्ततः ॥ २१ ॥
अनन्तादिशिखण्ड्यन्तान्विन्यसेद्घटमध्यमे ।
अर्चयेद्गन्धपुष्पाद्यैः स्वस्वनाम्ना विशेषतः ॥ २२ ॥
वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् ।
गदा त्रिशूलं पद्मं च चक्रं चेति दशायुधम् ॥ २३ ॥
पूर्वादीशान्तदिग्भागे पूजयेत्स्वस्वमन्त्रकैः ।
पद्मास्त्रं नैर्-ऋते भागे चक्रं चैशानगोचरे ॥ २४ ॥
दर्पणं पूर्णकुम्भं च वृषभं युग्मचामरम् ।
श्रीवत्सं स्वस्तिकं शङ्खं दीपो देवाष्ट मङ्गलम् ॥ २५ ॥
पूर्वादीशानपर्यन्तं विन्यसेद्देशिकोत्तमः ।
गन्धपुष्पादिनाभ्यर्च्य तत्तत्स्वनाममन्त्रतः ॥ २६ ॥
प्। १९५)
द्वारकुम्भान्न्यसेत्पश्चात् स्वस्वमन्त्रेण वा जपेत् ।
ततो होमं प्रकुर्वीत लक्षणेन तु देशिकः ॥ २७ ॥
सायं प्रातर्हुतं कुर्याद् होमद्रव्यसमायुतम् ।
समिदाज्य चरुं लाजान् सर्षपांश्च यवांस्तिलान् ॥ २८ ॥
वेणुं मुद्गं च शालिं च दशद्रव्यमिहोच्यते ।
समिधः सद्यमन्त्रेण आज्यं वामेन हूयते ॥ २९ ॥
अघोरेण चरुं हुत्वा लाजांश्च पुरुषेण तु ।
सर्षपानीशमन्त्रेण यवान्वा यममन्त्रतः ॥ ३० ॥
तिलान्वैशिखया हुत्वा वेणुं वा कवचेन तु ।
नेत्रेण मुद्गं हुत्वाथ शालीनस्त्रेण होमयेत् ॥ ३१ ॥
अष्टोत्तरशतं वापि पञ्चाशत्पञ्चविंशतिः ।
हुत्वा चैव विशेषेण द्रव्यं प्रति विशेषतः ॥ ३२ ॥
द्रव्यान्ते व्याहृतिं हुत्वा परिषेचन माचरेत् ।
सर्वद्रव्य समायुक्तं हव्यवाहं समुच्चरन् ॥ ३३ ॥
स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरे ।
जयादिरभ्यधानं च राष्ट्रभृच्च क्रमाद्धुनेत् ॥ ३४ ॥
यागेश्वरादिदेवानां नैवेद्यं दापयेत्ततः ।
कुर्यादध्ययनं तत्र चतुरोवेदपारगान् ॥ ३५ ॥
प्रासादमन्त्रं जप्त्वा तु स्तोत्रं जप्त्वा विशेषतः ।
सायं प्रातर्बलिं दद्याद् होमान्ते तु विशेषतः ॥ ३६ ॥
प्। १९६)
बलिक्रमविधिं वक्ष्ये शृणुष्व कमलासन ! ।
अन्नलिङ्गं प्रकर्तव्यं पूर्ववल्लक्षणान्वितम् ॥ ३७ ॥
चतुर्भुजं त्रिणेत्रं च दक्षिणे चैव शूलधृक् ।
पाशं वामकरे चैव अभयं दक्षिणे करे ॥ ३८ ॥
वरदं वामहस्ते तु रौद्ररूपसमन्वितम् ।
एवं पाशुपतं ध्यात्वा बलिलिङ्गं सुयोजयेत् ॥ ३९ ॥
बलिपात्रे न्यसेदन्नं सर्वद्रव्यसमायुतम् ।
प्रथमं विघ्नरात्रं तु द्वितीयं भूतरात्रकम् ॥ ४० ॥
तृतीयं ब्रह्मरात्रं तु चतुर्थं गरबमुच्यते ।
पञ्चमं त्विन्द्ररात्रं स्यात् षष्ठं वै ऋषिरात्रकम् ॥ ४१ ॥
सप्तमं वैष्णवं प्रोक्तम् अष्टमं राक्षसं तथा ।
नवमं शैवमित्याहु रित्येते रात्रिदेवताः ॥ ४२ ॥
सप्ताहे चैव विप्रेन्द्र ब्रह्मरात्राधिदैवतम् ।
पञ्चाहे तु प्रकर्तव्यम् इन्द्ररात्राधिवर्धयेत् ॥ ४३ ॥
त्र्यहं चैवोत्सवं तत्र कारयेद्वैष्णवादिकम् ।
एकाहमुत्सवे चैव शिवरात्रमिति स्मृतम् ॥ ४४ ॥
बलिद्रव्यमहं वक्ष्ये शृणुष्व कमलासन ।
शुद्धान्नं दधिसंयुक्तम् अपूपं लड्डुकान्वितम् ॥ ४५ ॥
प्रथमेहनि दातव्यं विष्णुमन्त्रं समुच्चरन् ।
पद्मपुष्पं च रजनी लाजपायससंयुतम् ॥ ४६ ॥
प्। १९७)
द्वितीयेहनि दातव्यं भूतमन्त्रं समुच्चरन् ।
पद्ममूलं कुशाग्रं च शाल्यन्नं घृतमिश्रकम् ॥ ४७ ॥
तृतीयेहनि दातव्यं ब्रह्ममन्त्रमनुस्मरन् ।
हरिद्रान्नं स सर्पिश्च नालिकेरफलैर्युतम् ॥ ४८ ॥
चतुर्थेहनि दातव्यं गन्धर्वमन्त्रमुच्चरन् ।
इन्द्रवल्ली हरिद्रान्नं प्रियङ्गुघृतसंयुतम् ॥ ४९ ॥
पञ्चमेहनि दातव्यम् इन्द्रमन्त्रमनुस्मरन् ।
गुलोदनं ससर्पिश्च कदलीपनसायुतम् ॥ ५० ॥
षष्ठेऽहनि प्रदातव्यम् ऋषीणां मन्त्रमुच्चरन् ।
गुलोदनं घृतं युक्तं बृहतीफलसंयुतम् ॥ ५१ ॥
सप्तमेहनि दातव्यं वैष्णवं मन्त्रमुच्चरन् ।
माषान्नं घृतसंयुक्तं मांसं चम्प समन्वितम् ॥ ५२ ॥
अष्टमेऽहनि दातव्यं राक्षसं मन्त्रमुच्चरन् ।
शुद्धान्नं दधिसंयुक्तं लाजापूपसमन्वितम् ॥ ५३ ॥
कदलीफलसंयुक्तं घृतेनैव परिप्लुतम् ।
नवमेऽहनि दातव्यं शिवमन्त्रमनुस्मरन् ॥ ५४ ॥
कुक्कुटाण्डप्रमाणेन बलिं दद्याद्विशेषतः ।
ब्रह्मादीशानपर्यन्तं बलिपीठे बलिं क्षिपेत् ॥ ५५ ॥
यन्त्रपीठं प्रकर्तव्यं तालमात्र प्रमाणतः ।
मात्राङ्गुलेन कर्तव्यं विस्तारायाम तत्समम् ॥ ५६ ॥
प्। १९८)
षडङ्गुलं तदुत्सेधं मेखलात्रयसंयुतम् ।
मेखलोच्चं द्वयाङ्गुल्यं वेशनं तावदेव तु ॥ ५७ ॥
यन्त्रपीठमिदं प्रोक्तम् इदमन्यच्छृणुष्वथ ।
हस्तमात्रं तु विस्तारम् उत्सेधं तालमात्रकम् ॥ ५८ ॥
त्रिमेखलासमं कृत्वा उत्सेधस्तु विधीयते ।
विस्तारं तु त्रिधा कृत्वा एकैकं द्विद्विहस्तकम् ॥ ५९ ॥
मृदैर्वा याज्ञिकैर्वापि कृत्वा पीठं विशेषतः ।
रङ्गेष्वारूढतो वापि रथेद्यामौ व्रजेत्ततः ॥ ६० ॥
बलिक्रममहं वक्ष्ये शृणुष्व कमलासन ! ।
प्रथमे तु पताकाश्च द्वितीये वाद्यकास्तथा ॥ ६१ ॥
तृतीये समयी प्रोक्तः चतुर्थे शूलमुच्यते ।
पञ्चमे वान्नलिङ्गं तु वितानवस्त्र संयुतम् ॥ ६२ ॥
दशायुधानि परितो धारयेच्छिरसोपरि ।
धूपदीपसमायुक्तं घण्टारव समन्वितम् ॥ ६३ ॥
एवमेव क्रमेणैव बलिं कृत्वा तु देशिकः ।
चण्डरुद्राय गोस्थाने व्याप्य * * दराय च ॥ ६४ ॥
कूपे तु शङ्कुकर्णः स्याद् गङ्गायां च नदी तथा ।
क्षेत्रेषु क्षेत्रपालं स्यात् सभास्थाने सरस्वती ॥ ६५ ॥
दुर्गा ज्येष्ठाबलिं दद्यात् सर्वलोकसुखावहम् ।
एवमेव बलिं कुर्याद् बलिपीठे विनिक्षिपेत् ॥ ६६ ॥
प्। १९९)
बलिपीठे तु विप्रेन्द्र अन्नलिङ्गं विशेषतः ।
कौतुकं बलिदानान्ते कुर्याद्ग्रामप्रदक्षिणम् ॥ ६७ ॥
यन्त्ररङ्गसमायुक्तं नानाविधैरनेकशः ।
नानाजनपदैर्युक्तं नानाध्वज समन्वितम् ॥ ६८ ॥
नानावाद्यसमायुक्तं नानापिञ्छ समन्वितम् ।
प्रथमे च पताकाश्च द्वितीये वाद्यकस्तथा ॥ ६९ ॥
तृतीये डोलयन्त्राश्च अश्वयन्त्राश्चतुर्थके ।
पञ्चमे नृतयन्त्राश्च तदा यष्टितटातकान् ॥ ७० ॥
सप्तमे तु सुखासीनम् अष्टमे गोलका ततः ।
नवमे तु * * * * वृषभं दशमे ततः ॥ ७१ ॥
गङ्गाधरं तथा चैव द्वादशं नृत्तरूपकम् ।
भिक्षाटनं तदन्ते तु अर्धनारीं चतुर्दश ॥ ७२ ॥
चन्द्रशेखरमेवोक्तं पञ्चदशं विशेषतः ।
षोडशे हरिरर्धं तु तदन्ते कालहा व्रजेत् ॥ ७३ ॥
तदन्ते त्रिपुरघ्नं तु अष्टादश विशेषतः ।
बिम्बकोर्ध्वे तु विप्रेन्द्र उमास्कन्दहितं व्रजेत् ॥ ७४ ॥
चण्डेश्वरं तु विंशच्च तदन्ते महेश्वरान्विदुः ।
ग्रामप्रदक्षिणं कृत्वा बलिदानस्य देशिकः ॥ ७३ ॥
अन्यदेशे न कर्तव्यम् अशुद्धत्वात्कदाचन ।
आलयं प्रविशेद्विद्वान् परिवेषमथोच्यते ॥ ७६ ॥
प्। २००)
मण्डपं कारयेत्तत्र प्रपां वाप्यथ कारयेत् ।
दक्षिणाभिमुखो वापि पूर्वाभिमुख एव वा ॥ ७७ ॥
प्रासादस्याग्रतो वापि दक्षिणे चोत्तरेऽथवा ।
महामर्यादौ मर्यादौ कुर्यान्नोद मण्डपम् ॥ ७८ ॥
कौतुकं विन्यसेत्तत्र निर्माल्यं च विसर्जयेत् ।
स्नानं कुर्यात्तु विप्रेन्द्रं गन्धपुष्पादिनाऽर्चयेत् ॥ ७९ ॥
देवस्य दक्षिणे भागे आग्नेये चैव देशिकः ।
उत्तरे नृपतिं विद्याद् द्वौ पार्श्वौ योषितो न्यसेत् ॥ ८० ॥
नर्तको मर्दको याम्याम् उत्तरे गायवंशकः ।
दक्षिणेन तु शैवानाम् उत्तरे समयान्स्मितान् ॥ ८१ ॥
देवस्य सन्निधौ चैव गणिकानृत्तसंयुतान् ।
तत्काले चैव विप्रेन्द्र पूर्वोक्तविधिना सह ॥ ८२ ॥
रक्षादीपं प्रकर्तव्यं देवदेवाय शूलिने ।
अर्चयेद्गन्धपुष्पाद्यैः दद्याद्वै धूपदीपकम् ॥ ८३ ॥
लवणं चैव पुष्पाद्यैः पुष्पमर्घ्यं तथैव च ।
पृथक् पात्रे विनिक्षिप्य गणिका धारयेत्क्रमात् ॥ ८४ ॥
रक्षादीपं शिवे दद्याद् बलिपीठे विसर्जयेत् ।
एवमेव प्रकारेण दिनं प्रति समाचरेत् ॥ ८५ ॥
इति वीरतन्त्रे अधिवासनविधिः सप्तचत्वारिंशः पटलः ॥ ४७ ॥