४६

यागस्य मण्डपं वक्ष्ये शृणुष्व कमलासन ! ।
प्रतिष्ठा चोत्सवे चैव दीक्षायां प्रोक्षणेऽपि च ॥ १ ॥

महाशान्त्यादिकार्येषु यागमण्टपमुच्यते ।
पूर्वमेव मया प्रोक्तं भूमिसङ्ग्रहणं द्विज ॥ २ ॥

प्रासादस्याग्रतश्चैव याम्ये वा वारुणेऽपि वा ।
इन्द्र ईशानयोर्मध्ये (मध्ये) चानलशक्रयोः ॥ ३ ॥

याम्याग्नेययोर्मध्ये सौम्य ईशानमध्यमे ।
कारयेन्मण्डपं तत्र लक्षणेन समन्वितम् ॥ ४ ॥

द्वादशं दशहस्तं वा नवहस्ताष्टहस्तकम् ।
सप्तषट्पञ्चहस्तं वा सप्त * * * चोच्यते ॥ ५ ॥

प्रागग्रं दशसूत्रं स्याद् उदगग्रं तथैव च ।
एकाशीति पदं कृत्वा प्रोक्षयेद्गन्धवारिणाम् ॥ ६ ॥

मध्ये नवपदं चैव वेदिस्तत्र प्रकल्पयेत् ।
वेदितारत्निचोत्सेधं दर्पणोदरवत्कृतम् ॥ ७ ॥

प्। १९०)

षोडशस्तम्भसंयुक्तं चतुर्द्वारसमन्वितम् ।
मध्यमे तु पदे चैव होमकुण्डं विधीयते ॥ ८ ॥

पूर्वे तु चतुरश्रं च दक्षिणे पश्चिमोत्तरे ।
उत्तरे चैव विप्रेन्द्र कुण्डं स्याच्चतुरश्रकम् ॥ ९ ॥

विदिक्षु वृत्तकुण्डं स्यात् त्रिमेखल समन्वितम् ।
सर्वेषां चतुरश्रं वा सर्वेषां वृत्तमेव वा ॥ १० ॥

यावत्पीठाकृतिं चैव कुण्डं स्या * * तु * * ।
ईशान इन्द्रयोर्मध्ये वृत्तकुण्डमिति स्मृतम् ॥ ११ ॥

नवाग्निर्वाऽथ पञ्चाग्नि रेकं निर्वाधि कारयेत् ।
त्रिमेखला समायुक्तमेकमेखलमेव वा ॥ १२ ॥

पुण्याहं वाचयेत्तत्र प्रोक्षयेत्पञ्चगव्यकैः ।
चतुस्तोरण संयुक्तं चतुर्द्वारेषु देशिकः ॥ १३ ॥

उत्तमं पञ्चहस्तोच्चं मध्यमं चतुर्हस्तकम् ।
त्रिहस्ततालसंयुक्तमधमं त्विति कथ्यते ॥ १४ ॥

उत्सेधार्धं च विस्तारमपक्रोशोर्ध्व समायुतम् ।
पलत्रय समायुक्तं शूलं तालसमं भवेत् ॥ १५ ॥

मात्राङ्गुलेन संयुक्तं मध्यमं पञ्च एव च ।
उत्तमं सप्तदर्भैश्च हस्तमात्र प्रलम्बितम् ॥ १६ ॥

तस्याग्रे चैव रज्जुं च कुर्याद्वै * * * * * ।
वितानोपरिसञ्च्छन्नं मुक्तास्रग्दाम संयुतम् ॥ १७ ॥

प्। १९१)

दिग्ध्वजं विन्यसेत्तत्र चतुस्तालप्रमाणतः ।
पूर्वायां श्यामवर्णं तु आग्नेय्यां रक्तवर्णकम् ॥ १८ ॥

याम्यायां कृष्णवर्णं तु मुक्ताभं नैर्-ऋते तथा ।
पश्चिमे पीतवर्णं तु वायव्यां नीलमेव च ॥ १९ ॥

सौम्यायां स्फटिकाभं च ऐशान्यां धूम्रमुच्यते ।
लोकपालस्य रूपं तु ध्वजानां मध्यमे न्यसेत् ॥ २० ॥

दर्भणं पूर्णकुम्भं च वृषभं युग्म चामरम् ।
श्रीवत्सं स्वस्तिकं शङ्खं दीपो देवाष्टमङ्गलम् ॥ २१ ॥

वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् ।
गदा त्रिशूलं चक्रं च पद्मं चेति दशायुधम् ॥ २२ ॥

शिल्पिना कारयेत्तत्र लक्षणेन समन्वितम् ।
हस्तमात्र प्रमाणेन कारयेदष्टमङ्गलम् ॥ २३ ॥

दशायुधानि तद्वच्च कारयेच्छिल्पिना ततः ।
क्षालयेत्तु मृदा चैव शुद्धतोयेन संयुतम् ॥ २४ ॥

पुण्याहं वाचयेत्तत्र प्रोक्षयेच्छिवमन्त्रतः ।
वेदिबाह्ये न्यसेच्छालि तत्समं समलङ्कृतम् ॥ २५ ॥

तस्योपरि न्यसेदस्त्रम् अष्टमङ्गलसंयुतम् ।
दर्भोपरि न्यसेच्चैव कूर्चेनैव पिधाय च ॥ २६ ॥

अस्त्रं प्रति न्यसेत्कुम्भान् स्वस्व नाम्ना समायुतान् ।
एवमेव न्यसेद्विद्वान् अष्टमे नवमेव च ॥ २७ ॥

प्। १९२)

गन्धपुष्पादिनाभ्यर्च्य प्रासादेन तु मन्त्रतः ।
वज्रादीनर्चयेत्तत्र स्वैः स्वैर्नाम्ना च मन्त्रतः ॥ २८ ॥

हविर्निवेदयेत्तत्र ताम्बूलं दापयेत्ततः ।
ततो होमं प्रकर्तव्यम् एकं वा पञ्चमेऽपि वा ॥ २९ ॥

प्रोक्षयेत्कुम्भतोयेन आयुधानष्टमङ्गलान् ।
आचार्यपूजनं कृत्वा पादाथीन्पूजयेत्ततः ॥ ३० ॥

इति वीरतन्त्रे मण्डपलक्षणं षट्चत्वारिंशः पटलः ॥ ४६ ॥