४५

प्। १८६)

इत ऊर्ध्वं प्रकर्तव्यं भेरीताडनमुत्तमम् ।
प्रातर्मध्याह्नसायाह्ने ध्वजमारोपयेत्ततः ॥ १ ॥

तद्रात्रौ ताडयेद्भेरीं लक्षणेन समन्वितम् ।
लक्षणं सम्प्रवक्ष्यामि शृणुष्व कमलासन ! ॥ २ ॥

आसनं चन्दनं वापि वकुलं च शिरीषकम् ।
व्याघ्रवृक्षेण वा कुर्याद्भेरीं वा पटहं तु वा ॥ ३ ॥

आयामस्तु त्रिहस्तं स्यादुत्तमं तु विधीयते ।
पञ्चतालं तु मध्यं स्यात् षडङ्गुल्यविहीनकम् ॥ ४ ॥

अधमं चैतदुद्दिष्टं त्रिविधं चोच्यते मया ।
आयामस्य समं नाहं मध्ये पटहमुच्यते ॥ ५ ॥

वक्त्रं वै द्वादशाङ्गुल्यं नवैर्वा सप्त एव वा ।
एवमेव क्रमेणैव कुर्यात्पटहमुत्तमम् ॥ ६ ॥

गोचर्मणा तु बन्धः स्यान्महाध्वनि समायुतम् ।
मर्दलैर्हाहलैश्चैव हंसध्वनिसमायुतम् ॥ ७ ॥

झल्लरी झर्झरीमोहैः करण्डिकाम समन्वितम् ।
अन्यैश्च सर्ववाद्यैश्च यथा लाभेन ताडयेत् ॥ ८ ॥

प्रासादस्याग्रतश्चैव मण्डपं कारयेत्ततः ।
मण्डपस्य तु मध्ये तु गोमयेनानुलेपयेत् ॥ ९ ॥

स्थण्डिलद्वितयं कृत्वा शालिना च तथैव च ।
अष्टद्रोणेन शालि स्यात् स्थण्डिलौ द्वौ तु कारयेत् ॥ १० ॥

प्। १८७)

पटहं विन्यसेत्तत्र नववस्त्र * * * * ।
तदर्धं तण्डुलैर्युक्तं प्रोक्षयेदम्भसा ततः ॥ ११ ॥

पद्ममात्रं समालिख्य तन्मध्ये दर्भैः परिस्तरेत् ।
पटहस्य तदाकारं स्थण्डिलं कारयेत्ततः ॥ १२ ॥

पटहं विन्यसेत्तत्र नववस्त्र समन्वितम् ।
ततोऽग्रे स्थापयेच्छलम् अस्त्रमन्त्रेण देशिकः ॥ १३ ॥

गन्धैः पुष्पैश्च धूपैश्च दीपैश्चरुं निवेदयेत् ।
एवं वै पूजयेच्छूक्तं पश्चाद्भेरीं समर्चयेत् ॥ १४ ॥

उत्तराभिमुखो भूत्वा अर्चयेद्गन्धपुष्पकैः ।
आपोहिष्ठेति मन्त्रेण प्रोक्षयित्वा कुशाम्भसा ॥ १५ ॥

पटहं विन्यसेत्तत्र हृदयेन तु पूजयेत् ।
दक्षिणे रुद्रमभ्यर्च्य वामे विष्णुरिति स्मृतम् ॥ १६ ॥

ब्रह्माणं पूजयेन्मध्ये एवमेव क्रमेण तु ।
वासुकी चर्मसूत्रे तु वलयौ रवि चन्द्रमाः ॥ १७ ॥

कौमातरः सप्तकीलं तु मुदरे तु व्यवस्थितः ।
कौणदण्डेन संयुक्तं पूजयेदस्त्रमन्त्रतः ॥ १८ ॥

वाद्यकं च समाहूय स्नानकर्म समाचरेत् ।
शुक्लवस्त्र परिधानं गन्धमाल्यं तु लेपनम् ॥ १९ ॥

नन्दिकेश्वर बाहुभ्यां नन्दिमन्त्र समन्वितम् ।
अर्चयित्वा यथा न्यायं गन्धपुष्पादिना ततः ॥ २० ॥

प्। १८८)

पटहस्यैव विप्रेन्द्र ! हविर्निवेदयेत्ततः ।
आचार्यं पूजयेत्तत्र वाद्यकं पूजयेत्ततः ॥ २१ ॥

वामदेवेन मन्त्रेण * * * * * * * * ।
ताडयेच्छिवमन्त्रेण आचार्यौ मन्त्रविग्रहः ॥ २२ ॥

वाद्यकस्ताडयेत्पश्चान् नन्दिमन्त्रेण संयुतम् ।
कुलोद्गतोऽपि दीनाश्च ताडयेत्तालमेव च ॥ २३ ॥

चच्चत्पुटं तु प्रथमे चाचत्पुटं द्वितीयके ।
इन्द्रस्य समतालं तु अग्नौ बध्वा वणं भवेत् ॥ २४ ॥

एतैस्तालैश्च संयुक्तं वाद्यकान्वादयेत्ततः ।
ततोग्रामबलिं दद्याल्लक्षणेन समन्वितम् ॥ २५ ॥

नानाध्वजसमायुक्तं नानाच्छत्रसमायुतम् ।
धूपदीपसमायुक्तं नानापिञ्छ समन्वितम् ॥ २६ ॥

शङ्खदुन्दुभिनिर्घोषैः गीतवाद्य समाकुलम् ।
त्रिशूलेन समायुक्तम् अन्नलिङ्ग समायुतम् ॥ २७ ॥

एवमेव प्रकारेण कुर्याद्ग्राम प्रदक्षिणम् ।
विमान प्रदक्षिणं कुर्याच्छिवभक्त समन्वितम् ॥ २८ ॥

ध्वजपीठे बलिं दद्यात् परिवार बलिं ददेत् ।
ब्रह्माद्यैशानपर्यन्तं ग्रामे चैव बलिं ददेत् ॥ २९ ॥

अश्राव्य तीर्थ दिवसमावाह्य सर्वदैवतान् ।
सर्वेषां तु गणानां तु भूतानां तु पिशाचकैः ॥ ३० ॥

प्। १८९)

तदा प्रभृति तीर्थान्त रात्रौ ग्रामबलिं ददेत् ।
ध्वजमूले तु चावाह्य बलिं तत्रैव निक्षिपेत् ॥ ३१ ॥

एवं कृते महाशान्ते राजराष्ट्रसुखावहम् ।
भेरीताडनमेवोक्तं यागस्य मण्डपं शृणु ॥ ३२ ॥

इति वीरतन्त्रे भेरीताडनविधिः पञ्चचत्वारिंशः पटलः ॥ ४५ ॥