४४

प्। १७१)

प्रणम्य शिरसा देवं पर्यपृच्छत्पितामहः ।
उत्सवस्य विधिः को वा तत्सर्वं ब्रूहि मे प्रभो ! ॥ १ ॥

उत्सवं यत्त्वया पृष्टं तव स्नेहाद्विशेषतः ।
तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! ॥ २ ॥

सवों दुःखं समाख्यातं सर्वसम्पत्तिवारणम् ।
उद्गतं तु सवों यस्मात् तस्मादुत्सवमुच्यते ॥ ३ ॥

दीक्षान्ते च प्रतिष्ठान्ते प्रोक्षणान्ते तथैव च ।
ज्वरमार्या प्रकर्तन्तु शूत्रूणां पीडनेऽपि वा ॥ ४ ॥

धनधान्यसमृद्धाय क्षामक्षयकराय च ।
सर्वेषामिष्टकाम्यार्थं सर्वव्याधिविनाशनम् ॥ ५ ॥

एषु कालेषु कुर्यात्तु उत्सवं विधिना युतम् ।
द्विविधमुत्सवं चैव तयोर्भेदं शृणुष्वथ ॥ ६ ॥

मार्गशीर्षकमासे तु आर्द्रान्तं स्याद् शिवोत्सवम् ।
पुष्यमासे तु पुष्यान्तं माघमासे मघान्तकम् ॥ ७ ॥

फाल्गुने चोत्तरान्तं स्याच्चैत्रे चित्रान्तमुच्यते ।
वैशाखे तु विशाखान्तं ज्येष्ठान्तं ज्येष्ठमासके ॥ ८ ॥

आषाढे चोत्तराषाढं श्रावणे श्रवणान्तकम् ।
पूर्वाषाढे तु मेवोक्तं पूर्वभद्रेति मासकम् ॥ ९ ॥

अश्वयुक्सवमासे तु अश्विन्यन्तं तु कारयेत् ।
कार्तिके कृत्तिकान्ता तु कारयेत्तु शिवोत्सवम् ॥ १० ॥

प्। १७२)

सर्वमासेषु कर्तव्यम् आर्द्रान्त च शिवोत्सवम् ।
राज्ञां जन्मदिनान्ते वा ग्रामनक्षत्रमेव वा ॥ ११ ॥

कर्तुश्च जन्मनक्षत्रे कुर्यादुत्सवमुच्यते ।
शैवं गौणं विभूतिं च भौवनं दैविकं तथा ॥ १२ ॥

पञ्चभेदेन कर्तव्यं शिवोत्सव विधिक्रमम् ।
एतेषां भेदकं वक्ष्ये शृणुष्व कमलासन ! ॥ १३ ॥

शैवभेदं समाख्यातमेकाहमुत्सवं ततः ।
त्रियहेन समायुक्तं गौणमित्यभिधीयते ॥ १४ ॥

पञ्चाहं भौतिकं प्रोक्तं सप्ताहं भौवनं स्मृतम् ।
एतेषां तु क्रमाणां तु वक्ष्यते विधिनाऽधुना ॥ १५ ॥

सायङ्काले समारभ्य तत्पूर्वं रात्रिसंयुतम् ।
प्रातःकाले तु तीर्थं स्यादेकाहे तु बलिद्वयम् ॥ १६ ॥

इदमन्यप्रकारेण एकाहमुत्सवं शृणु ।
सायङ्काले समारभ्य तद्रात्रौ चाधिवासयेत् ॥ १७ ॥

होमं कुर्यात्तु तद्रात्रौ तदादौ बलिमाहरेत् ।
बलिमेकं मया प्रोक्तम् एकाहे चोत्सवे तथा ॥ १८ ॥

अपरैश्चैव विप्रेन्द्र तीर्थं कुर्यात्तु देशिकः ।
एवमेव क्रमेणैव विविधं चोच्यते मया ॥ १९ ॥

त्रियहेषु च विप्रेन्द्र सायङ्काले तदारभेत् ।
प्रातःकाले तृतीये स्याद्बलिर्विप्र षडेव तु ॥ २० ॥

प्। १७३)

द्वितीये तु दिने चैव बलिद्वयं तु कारयेत् ।
तृतीये तु दिने चैव बलिरेको विधीयते ॥ २१ ॥

बल्यन्ते चैव विप्रेन्द्र चूर्णोत्सवं तु कारयेत् ।
चूर्णोत्सवान्ते तीर्थं स्याद्द्विविधं चोच्यते मया ॥ २२ ॥

पञ्चाङ्गं तु प्रवक्ष्यामि शृणुष्व कमलासन ! ।
सायङ्काले समारभ्य तत्पूर्वं होममाचरेत् ॥ २३ ॥

पञ्चाहे तु च विप्रेन्द्र बलिं तत्र न कारयेत् ।
षष्ठाहे तु च पूर्वाह्ने चूर्णोत्सवं तु कारयेत् ॥ २४ ॥

तीर्थं चैव प्रकर्तव्यम् इति चान्यच्छृणुष्वथ ।
सायङ्काले समारभ्य तद्रात्रौ चाधिवासयेत् ॥ २५ ॥

होमं कुर्यात्तु तद्रात्रौ तद्रात्रौ बलिमाहरेत् ।
द्वितीये तु दिने चैव बलिरेको विधीयते ॥ २६ ॥

बल्यन्ते चैव विप्रेन्द्र चूर्णोत्सवं तु कारयेत् ।
चूर्णात्सवान्ते तीर्थं स्याद् द्विविधं चोच्यते मया ॥ २७ ॥

पञ्चाहं तु प्रवक्ष्यामि शृणुष्व कमलासन ! ।
सायङ्काले समारभ्य तत्पूर्वं दिनमारभेत् ॥ २८ ॥

पञ्चाहे तु च विप्रेन्द्र ! बलिं तत्र न कारयेत् ।
षष्ठाहे तु च पूर्वाह्ने चूर्णोत्सवं तु कारयेत् ॥ २९ ॥

तीर्थं चैव प्रकर्तव्यम् इति चान्यच्छृणुष्वथ ।
सायङ्काले समारभ्य पञ्चाहं स्याद्दिने तथा ॥ ३० ॥

प्। १७४)

होमं कुर्यात्तु तद्रात्रौ बलिरेको विधीयते ।
द्वितीये च तृतीये च चतुर्थे च बलिद्वयम् ॥ ३१ ॥

पञ्चाहे बलिरेकः स्याच्छेषोत्सवं तु कारयेत् ।
कुर्याद्वै तीर्थकर्मं तु द्विविधं चोच्यते मया ॥ ३२ ॥

सप्ताहे चैव वक्ष्यामि शृणुष्व कमलासन ! ।
अष्टाहे चैव सायाह्ने अधिवासनमारभेत् ॥ ३३ ॥

होमं कुर्यात्तु तद्रात्रौ बलिं चैव पुनः पुनः ।
चतुर्दशबलिं दद्याच्चूर्णोत्सवं च कारयेत् ॥ ३४ ॥

तीर्थं कुर्याद्विशेषेण इदमन्यच्छृणुष्वथ ।
सप्ताहे सायम्मारभ्य अधिवास्य ततो बुधः ॥ ३५ ॥

होमं कुर्यात्तु तद्रात्रौ बलिमेकं ददेत्पुनः ।
द्वितीये दिवसे चैव (तृतीये च चतुर्थके) ॥ ३६ ॥

(पञ्चमे षष्ठे) विप्रेन्द्र बलिद्वयं समाचरेत् ।
सप्ताहे बलिरेवं स्याद् बल्यन्ते चूर्णमुच्यते ॥ ३७ ॥

ततस्तीर्थं समारभ्य * * * * * मुत्तमम् ।
सप्ताहे द्विविधं प्रोक्तं नवाहं च शृणुष्वथ ॥ ३८ ॥

तत्पूर्वरात्रमारभ्य तद्रात्रौ चाधिवासयेत् ।
होमं कुर्यात्तु तद्रात्रौ बलिं चैव तु दापयेत् ॥ ३९ ॥

तद्दिनादिद * * * तत्काले बलिरुच्यते ।
चूर्णोत्सवं ततः कुर्यात् तीर्थं कुर्यात्ततो बुधः ॥ ४० ॥

प्। १७५)

इदमन्यत्प्रवक्ष्यामि शृणुष्व कमलासन ! ।
नवाहे चैव सायाह्ने अधिवासनमारभेत् ॥ ४१ ॥

होमं कुर्यात्तु तद्रात्रौ बलिं चैव तु दापयेत् ।
द्वितीये दिवसे चैव तृतीये तु चतुर्थके ॥ ४२ ॥

पञ्चाहे चैव षष्ठाहे द्वितीयं बलिमाचरेत् ।
नवाहेऽपि च विप्रेन्द्र बलिना द्वितयं भवेत् ॥ ४३ ॥

चूर्णोत्सवं ततः कुर्यात् तीर्थकर्म समारभेत् ।
नवाहं द्विविधं चैव प्रोच्यते कमलासन ! ॥ ४४ ॥

एवमेव क्रमेणैव कुर्यात्पञ्चविधानि च ।
सूर्यवारं प्रवक्ष्यामि शृणुष्व कमलासन ! ॥ ४५ ॥

प्रातः काले समारभ्य द्विगुणं पूजयेच्छिवम् ।
पुण्याहं वाचयेत्तत्र हविर्निवेदयेत्ततः ॥ ४६ ॥

इन्द्रादीशानपर्यन्तं लोकपालान्बलिं ददेत् ।
नित्योत्सवस्य काले तु कुर्याद्ग्राम प्रदक्षिणम् ॥ ४७ ॥

रथे वा शिबिकायां वा शिरसा वाहयेत्ततः ।
प्रविशेदालयं तत्र पादुकार्चनमाचरेत् ॥ ४८ ॥

सूर्यवारमिदं प्रोक्तं शनिवारं शृणुष्वथ ।
लिङ्गे वा प्रतिमायां वा तैलाभ्यङ्गमिहोच्यते ॥ ४९ ॥

अभिषेकं तु कर्तव्यं हृदयेन तु मन्त्रतः ।
हविर्निवेदयेत्पश्चाल्लोकपालबलिं क्षिपेत् ॥ ५० ॥

प्। १७६)

शैवान्सम्पूजयेत्तत्र परिवेषक्रमं कुरु ।
ग्रामप्रदक्षिणं कुर्यात् सर्वातोद्य समन्वितम् ॥ ५१ ॥

मार्ताण्डीयं प्रवक्ष्यामि शृणुष्व कमलासन ।
सायङ्काले समारभ्य प्रातःकाले बलिं ददेत् ॥ ५२ ॥

तीर्थान्ते पूर्वरात्रौ तु लोकपालबलिं क्षिपेत् ।
मण्टपाद्दक्षिणे पार्श्वे स्थापयेत्कलशान्नव ॥ ५३ ॥

ततो होमं प्रकर्तव्यं लक्षणेन समन्वितम् ।
समिदाज्यचरुं चैव हुत्वा वै पञ्चविंशतिः ॥ ५४ ॥

अन्नलिङ्गसमायुक्तम् अस्त्रराजसमन्वितम् ।
बलिं दद्यात्तु विप्रेन्द्र सायङ्काले विशेषतः ॥ ५५ ॥

ततः प्रभाते प्रतिमां कुर्याद्ग्राम प्रदक्षिणम् ।
तीर्थं कुर्यात्ततो बिद्वान्प्रविशेदालयं प्रति ॥ ५६ ॥

एवमेव क्रमेणैव बुधवारे विशेषतः ।
मार्ताण्डीयमिदं प्रोक्तं * * रम्भं शृणु द्विज ! ॥ ५७ ॥

अङ्कुरार्पण पूर्वं च ध्वजारोहणपूर्वकम् ।
भेरीताडनपूर्वं च त्रिविधं चोच्यते मया ॥ ५८ ॥

अङ्कुरानर्पयेद्विद्वान् ध्वजमारोपयेत्ततः ।
भेरीं तु ताडयित्वा तु अङ्कुरार्पण पूर्वकम् ॥ ५९ ॥

ध्वजमारोपयेद्विद्वान् भेरी ताडनपूर्वकम् ।
एवमेव क्रमेणैव त्रिविधं चोच्यते मया ॥ ६० ॥

प्। १७७)

तद्दिनं चैव विप्रेन्द्र द्विगुणीकृतरोपयेत् ।
द्विगुणीकृत्य वा कुर्याद् ध्वजमारोपयेत्ततः ॥ ६१ ॥

उत्सवस्यादि रात्रौ तु ध्वजारोहणमुच्यते ।
भौवने दैविके कुर्याद् अन्येषु च विवर्जयेत् ॥ ६२ ॥

समुद्रस्नानमुत्पन्ने पूर्वयुक्तो विधीयते ।
यत्पक्षे यद्दिने वारे अस्तं याति दिवाकरः ॥ ६३ ॥

तद्दिने सङ्क्रमे भागं दिवा तीर्थं च निश्चयः ।
अन्येषां तिथि न स्पृष्टं तस्मात्पूर्वं विधीयते ॥ ६४ ॥

तद्दिनेषु च वा कुर्यात् तत्पूर्वे चापरेऽपि वा ।
इतरेषां च विप्रेन्द्र तन्नदीषु न कारयेत् ॥ ६५ ॥

नदीतटाकतीरेषु नक्षत्रे तीर्थमुच्यते ।
यत्पक्षे वारे अस्तं याति दिवाकरः ॥ ६६ ॥

तद्दिने सङ्क्रमे भागे दिवा तीर्थं च निश्चयः ।
शिवस्य च व्रतं कुर्यात् स्नपनं तदनन्तरम् ॥ ६७ ॥

एवमेव क्रमेणैव उत्सवं कारयेत्ततः ।
उत्सवारम्भमेवोक्तं वृषयागमतः शृणु ॥ ६८ ॥

वृषयागं प्रवक्ष्यामि शृणुष्व कमलासन ! ।
प्रासादस्याग्रतः कुर्यान् मण्टपं चतुरश्रकम् ॥ ६९ ॥

मण्टपस्य तु तन्मध्ये कुर्यात्तद्वृषयागकम् ।
दर्भमालाभिरावेष्ट्य पुष्पमाला वलम्बितम् ॥ ७० ॥

प्। १७८)

इन्द्रादीशानपर्यन्तम् अष्टदिक्षु ध्वजाष्टकम् ।
लोकपालाधिदैवत्यं स्वस्वरूपं तु लाञ्च्छयेत् ॥ ७१ ॥

विन्यसेत्तु ध्वजांस्तत्र चतुस्तोरणभूषितम् ।
वितानेनोर्ध्वमाच्छाद्य मुक्तादामैरलङ्कृतम् ॥ ७२ ॥

वृषदेवं समभ्यर्च्य गन्धपुष्पादिना ततः ।
मुद्गान्नं चैव दातव्यम् उपदंशैस्समन्वितम् ॥ ७३ ॥

तदग्रे स्थण्डिलं कृत्वा शालिभिर्विमलैस्ततः ।
अष्टद्रोणेन शालिं तु तदर्धं तण्डुलैरपि ॥ ७४ ॥

तदर्धं तु तिलान्न्यस्य पद्मं कृत्वा विशेषतः ।
तस्योपरि न्यसेत्तत्र कलशान्नवसङ्ख्यया ॥ ७५ ॥

मध्यमे स्थापयेदेकं ससूत्रान्सापिधानकान् ।
पूरयेद्गन्धतोयेन सुवर्णं तत्र निक्षिपेत् ॥ ७६ ॥

वृषबीजमनुस्मृत्य गन्धपुष्पादिनार्चयेत् ।
पूर्वादीशानपर्यन्तं विन्यसेदष्टकुम्भकान् ॥ ७७ ॥

पाद्यं पूर्वं न्यसेत्तत्र आग्नेय्यां पुष्पमुच्यते ।
आचमनं दक्षिणेन्यस्य शुद्धोदकं तु नैर्-ऋते ॥ ७८ ॥

अर्घ्यं पश्चिमतो न्यस्य बिल्वोदकं तु वायवे ।
उत्तरे पञ्चगव्यं तु ईशाने रत्नोदकं न्यसेत् ॥ ७९ ॥

गन्धादिनार्चयेत्तत्र दैवतान्विन्यसेत्ततः ।
वृषभं मध्यमे न्यस्य उक्षाणं पूर्वतो न्यसेत् ॥ ८० ॥

प्। १७९)

गोपतिं चाग्निदिग्भागे शृङ्गिणं चैव दक्षिणे ।
नैर्-ऋत्यां नन्दिनं चैव पश्चिमे तु पशोः पतिम् ॥ ८१ ॥

विषाणिं वायुदिग्भागे शङ्कुकर्णं तथोत्तरे ।
महोदकं तथैशान्यां विन्यसेत्कलशेषु च ॥ ८२ ॥

कलशात्पूर्वदिग्भागे शालिना स्थण्डिलं कुरु ।
अष्टपद्मं समालिख्य दर्भैश्चैव परिस्तरेत् ॥ ८३ ॥

ध्वजपटं विन्यसेत्तत्र लक्षणेन समन्वितम् ।
उत्तमं दशहस्तं तु मध्यमं नवहस्तकम् ॥ ८४ ॥

अधमं चाष्टहस्तं तु मध्यमं नवहस्तकम् ।
अर्धाधिकत्रितालं तु ध्वजदैर्घ्यमिहोच्यते ॥ ८५ ॥

षट्तालमुत्तमं प्रोक्तं पञ्चतालं तु मध्यमम् ।
अर्धाधिक त्रितालं तु कन्यसं त्विह चोच्यते ॥ ८६ ॥

पटविस्तारमेवं तु चतुर्भागैकमेव वा ।
ब्राह्मणस्य भवेच्छ्वेतं क्षत्रियस्य च रक्तकम् ॥ ८७ ॥

पीतं वैश्यमिह प्रोक्तं कृष्णवर्णं तु शूद्रकम् ।
विस्तारेण समं पुच्छं पुच्छार्धं शिखरं भवेत् ॥ ८८ ॥

मध्यमे वृषभं लाञ्छन् स्थितं वा शयितं तु वा ।
वृषभं श्वेतवर्णं तु रक्तवर्णं तु शृङ्गकौ ॥ ८९ ॥

खुराणां रक्तवर्णं तु पीतं लाङ्गूलमेव वा ।
नेत्रं श्वेतमयी चैव मध्यं रक्तमयी तथा ॥ ९० ॥

प्। १८०)

वृषभं पद्मपीठन्तु मणिमालाविभूषितम् ।
पार्श्वौ दीपद्वयौ न्यस्य चित्रमूर्ध्वे तु कारयेत् ॥ ९१ ॥

द्वौ पार्श्वौ चामराभ्यां तु लेखयेद्वृषभं ततः ।
पूर्वादीशानपर्यन्तं वृषमूर्तिं न्यसेत्ततः ॥ ९२ ॥

पूर्वेद्युरधिवासं स्याद् ध्वजदण्डेन संयुतम् ।
प्रोक्षयेदम्भसा चैव हृदयेन तु मन्त्रतः ॥ ९३ ॥

गन्धपुष्पादिना पूज्य वृषगायत्रिमन्त्रतः ।
पूर्वादीशानपर्यन्तं वृषमूर्तिं न्यसेत्ततः ॥ ९४ ॥

तदन्ते लोकपालांश्च पूजयेत्तु विशेषतः ।
तद्बाह्ये पूजयेत्तत्र लोकपालास्त्रमेव च ॥ ९५ ॥

तस्यैव पूर्वदिग्भागे शालिना स्थण्डिलं कुरु ।
पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् ॥ ९६ ॥

तदूर्ध्वे विन्यसेच्छूलं पूजयेत्तु विशेषतः ।
वामादीनां तु शक्तीनां शूलं मूले प्रतिष्ठितः ॥ ९७ ॥

कुमारं फलके न्यस्य कुम्भे तु वरुणं न्यसेत् ।
तटी चैवाग्निदैवत्यं सरस्वतीं चैव दण्डके ॥ ९८ ॥

पीठे तु पार्वती न्यस्य भूमिभागे वसुन्धराम् ।
गन्धपुष्पैश्च धूपैश्च षण्णवत्येन पूजयेत् ॥ ९९ ॥

पुण्याहं वाचयेत्तत्र ताम्बूलं दापयेत्ततः ।
ततो होमं प्रकुर्वीत स्थण्डिलं चतुरश्रकम् ॥ १०० ॥

प्। १८१)

शिवाग्निं जनयेत्तत्र अग्निमुखं च हूयते ।
समिदाज्यचरुं लाजान् सर्षपं चैव हूयते ॥ १०१ ॥

पञ्चब्रह्मेण संयुक्तम् ईशानादीनि हूयते ।
प्रत्येकं शतमर्धं वा तदर्धं वापि हूयते ॥ १०२ ॥

वृषाधिवासनं प्रोक्तं ध्वजारोहणकं शृणु ।
ध्वजारोहणमेवं तु वक्ष्यामि मुनिसत्तम ॥ १०३ ॥

श्वेतवर्णध्वजं चैव राजराष्ट्रविवर्धनम् ।
वर्णं वै रक्तवर्णं तु स्तम्भनं पीतवर्णकम् ॥ १०४ ॥

बिजयं कपिलाभं च कृष्णं चैवाभिचारकम् ।
धूम्रं व्याधिप्रदं चैव एवमेव क्रमेण तु ॥ १०५ ॥

यान्यान्कामयते कामांस्तांस्तान्वै साधयेद् ध्वजम् ।
वर्षार्धं श्यामवर्णं तु क्षीराभं सर्वशान्तिकम् ॥ १०६ ॥

शङ्खं स्फटिकमुक्ताभं रक्षार्थं शान्तिपुष्टिदम् ।
पूर्वाह्ने ब्राह्मणप्रीतिर मध्याह्ने राजवृद्धिदम् ॥ १०७ ॥

रात्रौ च वैश्य शूद्राणां वर्धनं क्रमशस्तथा ।
ध्वजस्थानमहं वक्ष्ये श्रूयतां कमलासन ! ॥ १०८ ॥

पीठगोपुरयोर्मध्ये वृषस्य पुरतोऽपि वा ।
पीठाग्रेवाऽथ कुर्यात्तु ध्वजस्थानं विधीयते ॥ १०९ ॥

क्रमुकं वेणुदण्डं वा चन्दनं वापि खादिरम् ।
चम्पको देवदारुं च स्तम्बको बिल्वकैरपि ॥ ११० ॥

प्। १८२)

अवक्रं निर्व्रणं चैव कृमिकोटरवर्जितम् ।
प्रासादस्य समं वापि प्रासादग्रीवमेव वा ॥ १११ ॥

वृषस्थलसमं वापि गोपुरोत्सेधमेव वा ।
मूलान्तं तु कुलान्तं वा दण्डस्योत्सेधमुच्यते ॥ ११२ ॥

हस्तसङ्ख्येन वा कुर्यात् त्रिंशद्धस्तमथापि वा ।
द्वादशं दशहस्तं वा ध्वजस्योत्सेधमुच्यते ॥ ११३ ॥

सप्तत्रिंशाङ्गुलं वापि चतुर्विंशतिरेव वा ।
द्वाविंशत्यङ्गुलं वाथ नाहस्तस्य विधीयते ॥ ११४ ॥

वेणुयष्टिं ततो ग्राह्य द्यवकृन्निपुणं ततः ।
एकपूर्वं विनाशार्थं द्विपूर्वेण भयङ्करम् ॥ ११५ ॥

त्रिपूर्वं व्याधिना पीड्यं चतुष्पर्व विनाशनम् ।
पञ्चपर्वद्वयं लोके षट्पर्वं श्रियमावहेत् ॥ ११६ ॥

सप्तपूर्वान्क्षयान्गाव अष्टपर्वसु वर्धते ।
नवपर्वं कुलक्षीणं दश वै सर्वकामदम् ॥ ११७ ॥

एकादशं पुत्रकामं द्वादशं पुष्टिकामदम् ।
इत ऊर्ध्वं न कर्तव्यं हस्तमानं ततः शृणु ॥ ११८ ॥

षट्तालं पञ्चतालं वा तस्याग्रे घटिकां न्यसेत् ।
आधारफलकादीनि याज्ञिकैर्वृक्षसम्भवैः ॥ ११९ ॥

हस्तमात्रान्तरं ज्ञेयं हस्तार्धं मात्रमेव वा ।
सुषिरद्वयसंयुक्तं क्रमुकं वेणुना सह ॥ १२० ॥

प्। १८३)

योजयेच्चैव विप्रेन्द्र शिल्पिना च तथैव च ।
पञ्चषट्सप्तमाङ्गुल्यं वेणुदण्डस्य नाहकम् ॥ १२१ ॥

रज्जुना बन्धयेत्तत्र दर्भेणा वेष्टयेत्ततः ।
कनिष्ठाङ्गुलीप्रमाणेन तन्तुना रज्जुरुच्यते ॥ १२२ ॥

अग्रे घटिकां मूलौ तद्द्विगुणं चैव कारयेत् ।
माणवकः शुचिर्भूत्वा प्रोक्षयेदम्भसा ततः ॥ १२३ ॥

नववस्त्रपरीधानः सोष्णीषः सोत्तरीयकः ।

तस्यान्ते चास्त्रराजानम् अन्नलिङ्गसमायुतम् ।
नानाध्वजसमायुक्तं नानापिञ्छसमायुतम् ॥ १२५ ॥

नानाजनसमाकीर्णं नानावाद्य समायुतम् ।
नानाच्छत्र समायुक्तं ब्रह्मघोष समन्वितम् ॥ १२६ ॥

मङ्गलाङ्कुरसंयुक्तं नृत्तगेय समन्वितम् ।
अग्रतः पृष्ठतो गत्वा आचार्यो यजमानकः ॥ १२७ ॥

शनैः प्रदक्षिणं गत्वा ध्वजस्थानं प्रवेशयेत् ।
अवटं खानयेत्तत्र हस्तद्वयप्रमाणतः ॥ १२८ ॥

तस्य मूले प्रकर्तव्यं वेदिलक्षण संयुतम् ।
षट्तालमध्येन विन्यस्य सुवर्णं कूर्ममेव च ॥ १२९ ॥

पुण्याहं वाचयेत्तत्र प्रोक्षयेच्छुद्धवारिणा ।
हृदयेन तु मन्त्रेण क्षालयेद् ध्वजदण्डकम् ॥ १३० ॥

प्। १८४)

दर्भमालाभिरावेष्ट्य पुष्पमाला समन्वितम् ।
वृषगायत्रीमन्त्रेण प्रोक्षयेत्कलशोदकैः ॥ १३१ ॥

उत्थाप्य ध्वजदण्डं तु व्योमव्यापि समुच्चरन् ।
वालुकेन हृदा चैव पूरयेदवटं ततः ॥ १३२ ॥

तस्य मूले प्रकर्तव्यं वेदिलक्षणसंयुतम् ।
षट्तालं पञ्चतालं वा चतुस्तालमथापि वा ॥ १३३ ॥

विस्तारं प्रोच्यते विप्र उत्सेधं तु तदर्धकम् ।
तदूर्ध्वे पद्मं सङ्कल्प्य अष्टपत्रं सुशोभनम् ॥ १३४ ॥

एकमेखलमेवस्यान् मेखलात्रयमेव वा ।
उत्सेधं तु त्रिधा भज्य एकैकं मेखलोच्छ्रयम् ॥ १३५ ॥

अधस्तान्मेखला चैव भूमिदेवीं च विन्यसेत् ।
श्रीदेवीं मध्यमे पूज्य तृतीये च सरस्वतीम् ॥ १३६ ॥

त्रिमेखलेषु विप्रेन्द्र शक्तयस्त्रीणि कल्पयेत् ।
एकमेखलया कुर्याद् भूमिदेवीं न्यसेत्ततः ॥ १३७ ॥

एवमेव प्रकारेण पीठं कुर्याद्विशेषतः ।
यागस्थाने तथा देवं स्नापयेत्कलशेन तु ॥ १३८ ॥

स्नाने वृषभदेवं तु गन्धपुष्पादिनार्चयेत् ।
वृषगायत्रिमन्त्रेण पश्चात्सूत्रे तु सूत्रयेत् ॥ १३९ ॥

उद्धृतं तु क्रमेणैव उद्धारे ध्वजमेव वा ।
रज्जु यन्त्रेण वा कुर्याद् ध्वजमारोपयेत्ततः ॥ १४० ॥

प्। १८५)

कुम्भोदरो वृषभश्चैव पाशहस्तो मदोत्कटः ।
शूलहस्तः पिनाकी च अष्टनाडी दण्डमुण्डियः ॥ १४१ ॥

एतानि चाष्टदिक्येव पूर्वादीशान्त विन्यसेत् ।
पूजयेद्गन्धपुष्पेण धूपदीपैः समन्वितम् ॥ १४२ ॥

स्थण्डिलं कारयेत्तत्र चतुर्द्रोणेन शालिना ।
पुण्याहं कारयेत्तत्र कलशान्नव विन्यसेत् ॥ १४३ ॥

मध्ये वृषभकुम्भं तु वृषमन्त्रेण विन्यसेत् ।
इन्द्रादीशानपर्यन्तं विन्यसेत्कलशांस्ततः ॥ १४४ ॥

सवस्त्रान्सापिधानांश्च लोकपालाधिदेवतान् ।
स्थापयित्वा यथान्यायं वृषगायत्रिमन्त्रतः ॥ १४५ ॥

निवेदयेत्तु मुद्गान्नं दध्युपदंश संयुतम् ।
तत्काले तु प्रजार्थीनां पिण्डान् (वै) भोजयेत्ततः ॥ १४६ ॥

कुक्कुटाण्डप्रमाणेन पिण्डं कुर्यात्तु देशिकः ।
वृषगायत्रिमन्त्रेण पिण्डं दद्यात्तु देशिकः ॥ १४७ ॥

वृषस्तम्भं ध्रुवं स्थाप्य त्रिः कृत्वा तु प्रदक्षिणम् ।

एवं कुर्यात्तु विप्रेन्द्र चातुर्वण्यं तु नारिणाम् ।
अन्त्यजातिस्तु सर्वेषां प्रतिलोमं च कारयेत् ॥ १४९ ॥

आचार्यं पूजयेत्पश्चात् वस्त्रहेमाङ्गुलीयकैः ।
ताम्बूलं दापयेत्तस्मै जनान्सर्वान्विशेषतः ॥ १५० ॥

इति वीरतन्त्रे ध्वजारोहण विधिश्चतुश्चत्वारिंशः पटलः ॥ ४४ ॥