प्रणम्य शिरसा देवं पृच्छतिस्म पितामहः ।
अङ्कुरार्पणकं किं वा तत्सर्वं ब्रूहि मे प्रभो ! ॥ १ ॥
ईश्वरः ॥
मङ्गलाङ्कुरकर्मं तु यत्त्वया परिचोदितम् ।
तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! ॥ २ ॥
प्रथमं ध्वजाङ्कुरं ज्ञेयं द्वितीयं चोत्सवाङ्कुरम् ।
उत्सवाङ्कुरमेवोक्तं तृतीयं तु विशेषतः ॥ ३ ॥
तीर्थाङ्कुरं चतुर्थं स्याच्चण्डाङ्कुरं तु पञ्चमम् ।
अथवात्र्यङ्कुरं विद्याद् ध्वजाङ्कुरं तु चोच्यते ॥ ४ ॥
तीर्थाङ्कुरसमायुक्तमङ्कुराङ्कुरमुच्यते ।
स्थापने प्रोक्षणे यागे उत्सवे स्नपनेऽपि च ॥ ५ ॥
प्। १६६)
अन्ये च मङ्गले कार्ये मङ्गलाङ्कुरमुच्यते ।
श्रीकरं श्रीनिवासं च श्रीप्रदं च त्रिधा भवेत् ॥ ६ ॥
पूर्वाग्रं तु चतुस्सूत्रम् उत्तराग्रं तथैव च ।
कृत्वा नवपदं तत्र दैवतांश्च शृणुष्वथ ॥ ७ ॥
पदे पूर्वे तु ऋग्वेदम् आग्नेय्यां तेज उच्यते ।
दक्षिणे तु यजुर्वेदम् एकारं चैव निर्-ऋते ॥ ८ ॥
पश्चिमे तु पदे चैव सामवेदं तथैव च ।
वायव्ये पवनश्चैव अथर्वं सोमके पदे ॥ ९ ॥
आपश्चैव तु ईशान्यां मध्ये वाम प्रतिष्ठितम् ।
मध्यमे तु पदे चैव सोमकुम्भं प्रतिष्ठितम् ॥ १० ॥
घटिकां दिक्षु विन्यस्य पालिकां च विदिक्षु च ।
एतच्छ्रीकरमित्युक्तं श्रीनिवासमतः शृणु ॥ ११ ॥
पूर्वाग्रं पञ्चसूत्रं स्याद् उत्तराग्रं तथैव च ।
षोडशान्पदमेवाहुः देवपादां शृणुष्वथ ॥ १२ ॥
ईशानो जयन्त आदित्यः अग्निश्च वितयो यमः ।
सुग्रीवो वरुणः शोष मुख्य सोमादितिस्तथा ॥ १३ ॥
ब्रह्मा चतुष्पदे चैव मध्यमे तु व्यवस्थितः ।
ईशानोग्निश्च सुग्रीवो मुख्यस्य तु पदानि च ॥ १४ ॥
पालिकां विन्यसेत्तत्र घटिकास्थानमुच्यते ।
जयन्तो वितथश्चैव वरुणस्सोम एव च ॥ १५ ॥
प्। १६७)
घटिकास्थानमेवोक्तं शरावस्थानकं शृणु ।
आदित्यश्च यमश्चैव शोषश्चैव दिति स्थितः ॥ १६ ॥
एतद्वै श्रीनिवासं तु श्रीप्रदं च शृणुष्वथ ॥ १७ ॥
षट्सूत्रं चैव पूर्वाग्रम् उत्तराग्रं तथैव च ।
पञ्चविंशत्पदं कृत्वा पूजयेत्क्रमशस्तथा ॥ १८ ॥
ईशो जयन्त आदित्यो भ्रमोऽग्निर्निर्-ऋतो यमः ।
स्वभृङ्गश्च सुग्रीव वरुणाः शोषमारुतौ ॥ १९ ॥
मुख्यस्सोमोदितिश्चैव बाह्यदेवाः प्रकीर्तिताः ।
आपवत्सार्य सावित्री विवस्वानिन्द्रमित्रका ॥ २० ॥
रुद्रेरो भूतरश्चान्तर मध्ये ब्राह्मणमुच्यते ।
ब्रह्मणश्च पदे चैव स्थापयेत्सोमकुम्भकम् ॥ २१ ॥
ईशानं च जयन्तं च अग्निं च वितयं तथा ।
पितृदौवारिकौ चैवं मरुतश्चैव मुख्यकः ॥ २२ ॥
पालिका विन्यसेत्तत्र शरावं च शृणुष्वथ ।
आदित्यश्च प्रथश्चैव यमश्चैव तु भृङ्गराट् ॥ २३ ॥
वरुणश्चैव शोषश्च सोमश्च अदितिस्तथा ।
शरावान्विन्यसेत्तत्र घटिकांश्च शृणुष्वथ ॥ २४ ॥
आपश्चैवा पवत्सादि देवाष्टौ स्थानमुच्यते ।
लक्षणं सम्प्रवक्ष्यामि शृणुष्व चतुरानन ! ॥ २५ ॥
प्। १६८)
सौवर्णं राजतं ताम्रं मृण्मयं वापि कारयेत् ।
तत्राङ्गुलेन कर्तव्यं पालिकादीनि चैव हि ॥ २६ ॥
पालिकामुखविस्तारं विंशत्यङ्गुलमुत्तमम् ।
षोडशाङ्गुलं मध्यं स्याद् अधमं च दशाङ्गुलम् ॥ २७ ॥
विस्तारेण समोत्सेधं तदर्धं पादविस्तरम् ।
परितोष्टौ च विप्रेन्द्र षड्भागैकमिति स्मृतम् ॥ २८ ॥
मध्यमे बलि संयुक्तं दर्पणोदरवत्कृतम् ।
घटस्योत्सेधमानं तु पालिकासममेव च ॥ २९ ॥
घटस्योदरविस्तारं द्वादशाङ्गुलमुच्यते ।
वक्त्रं चैव षडङ्गुल्यं पञ्चवक्त्र समन्वितम् ॥ ३० ॥
पालिकापादवत्कुर्याद् घटलक्षणमुच्यते ।
वक्त्रं चैव षडङ्गुल्यं पञ्चवक्त्र समन्वितम् ॥ ३१ ॥
अष्टाङ्गुलं तु विस्तारं शरावस्य मुखे भवेत् ।
तदर्धं पाद विस्तारं त्रिपादं वा समुच्यते ॥ ३२ ॥
भेदच्छेदं च कालं च सुषिरं च विवर्जयेत् ।
घटिका ब्रह्मदैवत्यं पालिका विष्णुरुच्यते ॥ ३३ ॥
शरावस्येश्वरं प्रोक्तम् इत्येते अधिदैवताः ।
चतुर्विंशति सङ्ख्या तु उत्तमं तु विनिर्दिशेत् ॥ ३४ ॥
पालिका षोडशं चैव मध्यमं तद्विनिर्दिशेत् ।
पालिकाष्टकसंयुक्तम् अधमं तदिहोच्यते ॥ ३५ ॥
प्। १६९)
उत्सवस्यादिरात्रात्तु बीजनिर्वापमुच्यते ।
नवमे सप्तमे वापि त्रिशूलेन समन्वितम् ॥ ३६ ॥
प्रतिमेन समायुक्तं चण्डेशेन समन्वितम् ।
तदन्ते पालिकादीनि धारयेच्छिवभक्तकान् ॥ ३७ ॥
प्राङ्मुखोदङ्मुखोवाथ दक्षिणो वा विशेषतः ।
सुशुद्धभूतलं प्राप्य प्रोक्षयेच्छुद्धवारिणा ॥ ३८ ॥
पुण्याहं वाचयित्वा तु अर्चयेद्धृदयेन तु ।
कुन्दालीं चैव सम्पूज्य हृदयेन तु मन्त्रतः ॥ ३९ ॥
हृदयेन तु मन्त्रेण खानयेद्देशिको भुवि ।
मृदं सङ्ग्राह्य वामेन वामेन मृदमर्चयेत् ॥ ४० ॥
सर्वातोद्यसमायुक्तं प्रविशेदालयं प्रति ।
प्रासादस्याग्रतो वापि ईशाने दक्षिणेऽथ वा ॥ ४१ ॥
उत्तरे वापि विप्रेन्द्र गोमयेनानुलेपयेत् ।
अष्टद्रोणेन शालिस्यात्स्थण्डिलं कारयेत्ततः ॥ ४२ ॥
पद्ममष्टदलं लिज्य प्रोक्षयेद्धृदयेन तु ।
मध्यमे सोमकुम्भं तु विन्यसेत्सोमबीजकैः ॥ ४३ ॥
स कूर्चं स हिरण्यं च सवस्त्रं वारिपूरितम् ।
गन्धपुष्पादिनाभ्यर्च्य नैवेद्यं दापयेत्ततः ॥ ४४ ॥
तद्बाह्ये पूर्वं विन्यस्य पालिकादीनि सर्वशः ।
दर्भेण सुषिरं न्यस्य मृदं तत्रैव पूरयेत् ॥ ४५ ॥
प्। १७०)
गोमयेन समायुक्तं पूजयेद्धृदयेन तु ।
पुण्याहं तत्र कुर्वीत ताम्बूलं दापयेत्ततः ॥ ४६ ॥
मुद्गमाषकुलस्थं च तिलनीवारमेव च ।
निष्पावं शिम्बसंयुक्तम् अपामार्गं च सर्षपम् ॥ ४७ ॥
श्यामगोधूमसंयुक्तं यववेणुं तथैव च ।
पयसा क्षालयेत्तत्र हृदयेन तु मन्त्रतः ॥ ४८ ॥
प्राङ्मुखोदुङ्मुखो वापि आचार्यो मन्त्रविग्रहः ।
वापयेच्छिवमन्त्रेण शिवभक्ताश्च वापयेत् ॥ ४९ ॥
रुद्रगणिका दासी च वापयेत्तु विशेषतः ।
सोमाधिदेवतान्कुम्भात्परिषिच्य ततो जलम् ॥ ५० ॥
पालिकादीनि सर्वांश्च वातातपविवर्जिते ।
सुगुप्तदेशे संस्थाप्य सोमकुम्भेन संयुतम् ॥ ५१ ॥
तद्दिनादीनि तीर्थान्तं सोमराजस्य देशिकः ।
हविर्निवेदयेत्तत्र ताम्बूलं दापयेत्ततः ॥ ५२ ॥
कृष्णसूत्रनिभं चेत्तु प्रासादेन शताहुतिः ।
होमयेच्चैव विप्रेन्द्र अपूपानि तथैव च ॥ ५३ ॥
एवमेव क्रमेणैव अङ्कुरार्पणमुच्यते ।
अङ्कुरार्पणहीने तु राजराष्ट्रस्य दोषकृत् ॥ ५४ ॥
तस्मात्सर्वप्रयत्नेन कुर्याद् (वै) मङ्गलाङ्कुरम् ।
एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् ॥ ५५ ॥
अङ्कुरार्पणमेवोक्तम् उत्सवस्य विधिं शृणु ॥ ५५ � ॥
इति वीरतन्त्रे अङ्कुरार्पणविधिस्त्रयश्चत्वारिंशः पटलः ॥ ४३ ॥